०१ उपहोमाः

सायणोक्त-विनियोगः

1अथोपहोमा आरभ्यन्ते ।
सतीष्वपि याज्यानुवाक्यासु बाहुल्यात् उपहोमाख्यं प्रश्नद्वयं वैश्वदेवं काण्डं, लिङ्गवन्तः ययालिङ्गं विनियोज्याः । तत्र ‘संस्थाप्य पौर्णमासीमिन्द्राय वैमृधाय’ इत्यस्य विधानात्तत्र द्वे संयाज्ये - जुष्टो दमूना इति त्रिष्टुभौ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे ।
इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ ।
श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे ।
इ॒मन्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् ।
विश्वा॑ अग्नेऽभि॒युजो॑ वि॒हत्य॑ ।
श॒त्रू॒य॒तामा भ॑रा॒ भोज॑नानि ।

सायण-टीका

जुष्टः प्रीतः ‘नित्यं मन्त्रे’ इत्याद्युदात्तत्वम् । दमूनाः दान्तमनाः दान्तेषु वा मनो यस्य । पृषोदरादिः । अतिथिः सततगमः ‘अत सातत्ये’ अतेरिथिन्प्रत्ययः । अतिथिवत्पूज्यो वा दुरोणे यज्ञगृहे दुःखेनावितव्ये औणादिके न प्रत्यये ओर्गुणः । हे अग्ने! इमं आस्माकीनं यज्ञं उपयाहि उपगच्छ विद्वान् सर्वार्थज्ञः । आगत्य च विश्वा अभियुजः अभियोक्तॄन् । कर्तरि संपदादिलक्षणः क्विप् । विहत्य विनिवार्य शत्रूयतां अस्मासु शत्रुत्वमिच्छताम् । ‘छन्दसि परेच्छायामपि’ इति क्यच् । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । भोजनानि भोज्यानि धनानि अस्मभ्यं आभर आहर । ‘हृग्रहोर्भश्छन्दसि’ डति भत्वम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय ।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व ।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑ सि ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय ।
तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सञ्जा॑स्प॒त्यँ सु॒यम॒मा कृ॑णुष्व ।
श॒त्रू॒य॒ताम॒भि ति॑ष्ठा॒ महाँ॑ सि ।

सायण-टीका

2अग्ने शर्धेति ॥ अग्ने! शर्ध उत्साहवान् भव । आमन्त्रितस्य अविद्यमानवत्त्वान्निधाताभावः । महते सौभगाय ‘सुभगान्मन्त्रे’ इत्यण् । उत्तरपदवृद्धिश्च नेष्यते । तव द्युम्नानि तेजांसि यशांसि उत्तमानि उत्कृष्टतमानि सन्तु । उत्तमशब्दः उञ्छादिरन्तोदात्तः । जास्पत्यं जायन्त इति जासः पुत्रादयः । जनेरसुनि जादेशः । तेषा पतित्वात् गत्युत्तरपदलक्षणो यत् । सुयमं सुष्ठु संयन्तुं शक्यं समाकृणुष्व अस्मासु सम्यक्प्रकाशय ‘धिन्विकृण्व्योर च’ इत्युप्रत्ययः । आतो लोपः । अस्मासु शत्रूयतां शत्रुत्वमिच्छतां त्वयि वा शत्रुमात्मानमिच्छतां महांसि तेजांसि अभितिष्ठ आक्रमस्व न्यग्भूतानि कुरु । क्वचिदाग्नेय्यौ याज्यानुवाक्ये। एवं सर्वत्र ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ यो नो॒ऽभितो॒ जनः॑ ।
वृको॒ वारो॒ जिघाँ॑सति ॥1॥
ताँस्त्वव्ँ वृ॑त्रहञ्जहि ।
वस्व॒स्मभ्य॒माभ॑र ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अग्ने॒ यो नो॒ऽभितो॒ जनः॑ ।
वृको॒ वारो॒ जिघाँ॑सति ॥1॥
ताँस्त्वव्ँ वृ॑त्रहञ्जहि ।
वस्व॒स्मभ्य॒माभ॑र ।

सायण-टीका

3अग्ने यो न इत्यनुष्टुभौ ॥ हे! अग्ने! यः शत्रुजनः वृको वृकसदृशः अरण्यश्वा यथोपद्रवकारी तथोपद्रवकारीत्यर्थः । अत एव वारः अस्मद्व्यवहारस्य निवारकस्सन् सर्वतोस्मान् जिघांसति हन्तुमिच्छति । हे वृत्रहन्! वैरिघातिन्! अग्ने! तान् वृकसदृशान् जहि मारय । अस्मभ्यं तु वसु धनं आभर संपादय ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अग्ने॒ यो नो॑ऽभि॒दास॑ति ।
स॒मा॒नो यश्च॒ निष्ट्यः॑ ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तः ।
मा तस्योच्छे॑षि॒ किञ्च॒न ।

सायण-टीका

4हे अग्रे! यः नः अस्मान् अभिदासति उपक्षयति समानजातीयः यश्च निष्ट्यः शिष्यश्चण्डालादिः । तस्य किंचन किंचिदपि मोच्छेषि । अग्नौ प्रक्षिप्तस्य इध्मस्य प्रक्षायतः दाहेन क्षीयमाणस्य दह्यमानस्य न किंचिदुच्छिष्यते तद्वत् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्राभि॒भूर॑सि ।
दे॒वो विज्ञा॑तवीर्यः ।
वृ॒त्र॒हा पु॑रु॒चेत॑नः ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वमि॑न्द्राभि॒भूर॑सि ।
दे॒वो विज्ञा॑तवीर्यः ।
वृ॒त्र॒हा पु॑रु॒चेत॑नः ।

सायण-टीका

5त्वमिन्द्रेति गायत्री ॥ अभिभूः सर्वस्याभिभविताऽसि । देवः देवनादिगुणयुक्तः । विज्ञातवीर्यः प्रसिद्धवीर्यः । अत एव अभिभूः अभिभविता शत्रूणामसि । वृत्रहा पापादीनां हन्ता । पुरु चेतनः महायज्ञः । बहुभिर्ज्ञातव्यो वा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॑न् ॥2॥
अपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ ।
यथा॒ तव॒ शर्म॒न्मदे॑म ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अप॒ प्राच॑ इन्द्र॒ विश्वाँ॑ अ॒मित्रा॑न् ॥2॥
अपापा॑चो अभिभूते नुदस्व ।
अपोदी॑चो॒ अप॑शूराध॒रा च॑ ऊ॒रौ ।
यथा॒ तव॒ शर्म॒न्मदे॑म ।

सायण-टीका

6अप प्राच इति त्रिष्टुप् ॥ ऊराविति चतुर्थपादादिः हे! इन्द्र! प्राच्यां दिशि स्थितान् विश्वान् अमित्रान् अपनुदस्व नाशय । अपापाचः प्रतीच्यां दिशि स्थितान् अपनुदस्व । हे अभिभूते! अभिभवनशील! हे! शूर! उदीचः उदीच्यां दिशि स्थितान् अपनुदस्व । अधराचः दक्षिणस्यां दिशि स्थितान् अपनुदस्व । गोळाभिप्रायं दक्षिणस्याधरत्वम् । यथा तव ऊरौ उरौ, वर्णव्यत्ययश्छान्दसः । विस्तीर्णे शर्मन् शर्मणि सुखे मदेम इष्टजनैस्सह माद्येम, तथा सर्वान् शत्रूनपनुदस्व ॥

विश्वास-प्रस्तुतिः ...{Loading}...

तमिन्द्रव्ँ॑वाजयामसि ।
म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

तमिन्द्रव्ँ॑वाजयामसि ।
म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ।

सायण-टीका

7तमिन्द्रमिति गायत्री ॥ तमिन्द्रं वाजयामसि । ‘वजि वक्रगतौ’ ‘इदन्तोमसि’ । महे महते वृत्राय । शतुर्वचनोऽयम् । ‘गत्यर्थकर्मणि’ इति चतुर्थी । महान्तं अस्मच्छत्रुं हन्तवे अस्य वृत्रस्य हननाय । स चेन्द्रो वृषा कामानां वर्षयितृस्वभावः । वृषभः अस्मदभिप्रेतस्य वर्षिता, वृषभवदसह्यो वा । भुवत् भवतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒जे रथ॑ङ्ग॒वेष॑णँ॒ हरि॑भ्याम् ।
उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा ।
इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ॥3॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

यु॒जे रथ॑ङ्ग॒वेष॑णँ॒ हरि॑भ्याम् ।
उप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः ।
विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा ।
इन्द्रो॑ वृ॒त्राण्य॑प्र॒तीज॑घ॒न्वान् ॥3॥

सायण-टीका

8युजे रथमिति त्रिष्टुप् ॥ युजे युङ्क्ते । ‘बहुलं छन्दसि’ इति शपो लुक् । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । गवेषणं गोरुदकस्येषणं प्राप्तिहेतुं ‘अवङ् स्फोटायनस्य’ इत्यवङ् । वृष्टिहेतुं रथं हरिभ्यां अश्वाभ्यां युक्तं इन्द्रः । कदेत्याह - ब्रह्माणि परिबृढानि हवींषि जुजुषाणं प्रियमाणं उपास्थुः उपतिष्ठन्ते । जुषेः लिटि कानच् । तदानीं रथं युङ्क्ते । अनन्तरं च वृत्राणि अमित्रादीनि अप्रति प्रतीकाररहितं जघन्वान् क्वसौ ‘अभ्यासाच्च’ इति कुत्वम् । ईदृशोऽयमिन्द्रः अस्य यजमानस्य क्रतोः रोदसी रोदस्योः द्यावापृथिव्योरपि स्थितान् अमित्रान् विबाधिष्ट विविधं बाधते । ‘बहुलं छन्दस्यमाङ्योगेऽपि, इत्यङभावः । महित्वा माहात्म्येन, भावप्रत्ययान्तात्तृतीयाया आकारः ॥

सायणोक्त-विनियोगः

9यस्याग्निहोत्रं विच्छिद्यते तस्य संयाज्ये - हव्यवाहमिति त्रिष्टुभौ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒व्य॒वाह॑मभिमाति॒षाह॑म् ।
र॒क्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निँ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ह॒व्य॒वाह॑मभिमाति॒षाह॑म् ।
र॒क्षो॒हण॒म्पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्त॒न्दीद्य॑त॒म्पुर॑न्धिम् ।
अ॒ग्निँ स्वि॑ष्ट॒कृत॒मा हु॑वेम ।

सायण-टीका

हव्यवाहं हविषां वोढारं अभिमातिषाहं पाप्मनामभिभवितारं रक्षोहणं रक्षसां हन्तारं पृतनासु संग्रामेषु जिष्णुं जयशीलं ज्योतिष्मन्तं दीप्तिमन्तं दीद्यतं निर्मलदीप्तिं पुरंधिं पुरुषु शरीरेषु धीयमानं उपास्यमानम्, पुरुप्रज्ञानं वा । पृषोदरादिः । ईदृशं स्विष्टकृतं अग्निं आहुवेम आह्वयाम । लिङ्याशिष्यङ् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था॑म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

स्वि॑ष्टमग्ने अ॒भि तत्पृ॑णाहि ।
विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुन्न॒ᳶ पन्था॑म्प्रदि॒शन्विभा॑हि ।
ज्योति॑ष्मद्धेह्य॒जर॑न्न॒ आयुः॑ ।

सायण-टीका

10स्विष्टमग्न इति ॥ हे! आग्ने! स्विष्टं सम्यगिष्टं तत् अभिपृणाहि आभिमुख्येन पूरय पालय वा । ‘सेर्ह्यपिच्च’ इत्यस्य ‘वा छन्दसि’ इति बाधितत्वात् ङित्त्वाभावः । हे! देव! विश्वाः पृतनाः संग्रामान् अभिष्य आभिमुख्येनान्तं गमय । स्यतेः लोटि हिलोपे ‘विभाषा’ इति निघाताभावः । अस्मभ्यं च उरुं विशिष्टं प्रसिद्धं पन्थां पन्थानं मार्गं प्रदिशन् ददत् विभाहि विशेषेण संदीप्यस्व । किं च ज्योतिष्मत् उज्ज्वलं लोकपूजितं अजरं अजय्यं आयुः अस्मज्जीवितं वा अस्मभ्यं धेहि देहि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वम्मर्ता॑स ईडते ॥4॥
मन्ये॑ त्वा जा॒तवे॑दसम् ।
स ह॒व्या व॑क्ष्यानु॒षक् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒वम्मर्ता॑स ईडते ॥4॥
मन्ये॑ त्वा जा॒तवे॑दसम् ।
स ह॒व्या व॑क्ष्यानु॒षक् ।

सायण-टीका

11त्वामग्ने इत्यनुष्टुप् ॥ ततः परं क्वचिदुपहोमाः । देवं दीप्यमानं हविष्मन्तः मर्तासः मनुष्याः ईडते स्तुवन्ति, तं त्वामहं जातवेदसं जातानां वेदितारं जातधनं वा मन्ये जानामि । स त्वमस्माकं हव्या हवींषि वक्षि । वहेर्लेटि शपो लुक् । आनुषक अनुक्रमेण ॥

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः ।
सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः ।
अ॒स्माक॑म्बोध्यवि॒ता त॒नूना॑म् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः ।
सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नः ।
अ॒स्माक॑म्बोध्यवि॒ता त॒नूना॑म् ।

सायण-टीका

12विश्वानि न इति ॥ हे! जातवेदः! नः अस्मदीयानि दुर्गहा दुष्परिहराणि विश्वानि दुरितानि पापानि अतिपर्षि अतीत्य पालय । तत्र दृष्टान्तः - यथा नावा सिन्धुं तीर्त्वा नाविकः प्रजाः पालयति । किंच अत्रिणा तुल्यमस्माकं मनसा गृणानः श्रद्धया कीर्त्यमानः स्तूयमानः । कर्मणि कर्तृप्रत्ययश्छान्दसः । यद्वा - मनसा गृणानः शब्दयन् साधु करोत्ययमिति अस्मद्यागं हृदयेन प्रशंसन् अस्माकं तनूनां शरीराणां पुत्रादिसंबन्धिनीनां अविता रक्षिता भव । अत्रिवत् बोधि बुध्यस्व । लोटि छान्दसः शपो लुक् । यद्वा - अत्र्यादिवत् अबोधि आद्रियते । छान्दसो लुक् । ‘दीपजन’ इत्यादिना कर्तरि चिण् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒षा गा अन्वे॑तु नः ।
पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजँ॑ सनोतु नः ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

पू॒षा गा अन्वे॑तु नः ।
पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजँ॑ सनोतु नः ।

सायण-टीका

13पूषा गा इति गायत्री ॥ अस्माकं गाः पूषा अन्वेतु रक्षकत्वेन पृष्ठतोऽनुगच्छतु । पूषैव अर्वतः अश्वानपि रक्षतु । वाजमन्नं धनं वा अस्मभ्यं सनोतु । ‘षणु दानं’ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॑ ॥5॥
सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः ।
अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॑ ॥5॥
सो अ॒स्माँ अभ॑यतमेन नेषत् ।
स्व॒स्ति॒दा अघृ॑णि॒स्सर्व॑वीरः ।
अप्र॑युच्छन्पु॒र ए॑तु॒ प्रजा॒नन् ।

सायण-टीका

14पूषेमा इति त्रिष्टुम् ॥ इमा आशा दिशः सर्वाः पूषा अनुवेद अनुक्रमेण जानाति । सोऽस्मान् ‘प्रकृत्याऽन्तः पादमव्यपरे’ इति प्रकृतिभावः । अभयतमेन धर्माविरुद्धमार्गेण भयरहितेन वा नेषत् नयतु उभयोरपि लोकयोः भयनिवृत्तिमात्रमेव न, अपिच स्वस्तिदाः अविनाशस्य कल्याणस्य दाता ‘आतो मन्’ इति विच् । अघृणिः रक्षणशीलः ‘अघृ धारणे’ औणादिको निप्रत्ययः । यद्वा - अधृणिः आघृणिः समन्ताद्वितायमानतेजाः । उपसर्गह्रासः । यद्वा - यत्सकाशे अन्यो घृणिमान्नास्ति । पूर्ववन्न ऌस्वरबाधः । सर्ववीरः सर्वे वीरा यस्य संबन्धिनः तादृशः । यद्वा - सर्वैर्वीरैस्सह अस्माक पुरः अग्रतः अनुगच्छतु । अप्रयुच्छन् अप्रमाद्यन् । ‘युच्छ प्रमादे’ । प्रजानन् प्रकर्षेण जानन् अस्मदभिप्रेतानि जानन् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने स॒प्रथा॑ असि ।
जुष्टो॒ होता॒ वरे॑ण्यः ।
त्वया॑ य॒ज्ञव्ँ वित॑न्वते ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वम॑ग्ने स॒प्रथा॑ असि ।
जुष्टो॒ होता॒ वरे॑ण्यः ।
त्वया॑ य॒ज्ञव्ँ वित॑न्वते ।

सायण-टीका

15त्वमग्न इति गायत्र्यश्चतस्रः ॥ हे ! अग्ने! त्वं सप्रथाः प्रथया सहितः विस्तीर्णोसि । जुष्टः प्रीतः । होता देवानामाह्वाता । वरेण्यः वरणीयः । त्वया यज्ञं वितन्वते विस्तारयन्ति यजमानाः । त्वदृते किंचिन्न वर्तते । तस्मादस्मदभिप्रेतं साधयति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नी रक्षाँ॑सि सेधति ।
शु॒क्रशो॑चि॒रम॑र्त्यः ।
शुचि॑ᳶ पाव॒क ईड्यः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अ॒ग्नी रक्षाँ॑सि सेधति ।
शु॒क्रशो॑चि॒रम॑र्त्यः ।
शुचि॑ᳶ पाव॒क ईड्यः॑ ।

सायण-टीका

16अग्नी रक्षांसि इति । अयं अग्निः रक्षांसि सेधति नाशयति शास्ति वा ‘षिधु शास्तौ’ । शुक्रशोचिः निर्मलदीप्तिः । अमर्त्यः अमरणशीलः । शुचिः नित्यशुद्धः पावकः सर्वस्य शोधयिता । ईड्यः स्तुत्यः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ रक्षा॑ णो॒ अँह॑सः ॥ 6॥
प्रति॑ ष्म देव॒ रीष॑तः ।
तपि॑ष्ठैर॒जरो॑ दह ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अग्ने॒ रक्षा॑ णो॒ अँह॑सः ॥ 6॥
प्रति॑ ष्म देव॒ रीष॑तः ।
तपि॑ष्ठैर॒जरो॑ दह ।

सायण-टीका

17अग्ने रक्षेति ॥ हे ! अग्ने ! अस्मान् रक्ष अंहसः पापात् । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् ! हे! देव! त्वत्प्रसादाद्वयं तस्यांहसः रीषतः, रिषेर्वर्णविकारश्छन्दसः । धात्वन्तरं वा | अस्मान् हिंसितुः तस्य वयमपि प्रतिष्म प्रतिकूला अभिभवितारो भवाम । अल्लोपे लेटि छान्दसं षत्वम् । तदर्थमपि तान् तपिष्ठैः तप्तृतमैः किरणैः दह । अजरः अविनाशस्त्वम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ हँसि॒ न्य॑त्रिण॑म् ।
दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

अग्ने॒ हँसि॒ न्य॑त्रिण॑म् ।
दीद्य॒न्मर्त्ये॒ष्वा ।
स्वे क्षये॑ शुचिव्रत ।

सायण-टीका

18अग्ने हंसीति । हे! अग्ने ! अत्रिणं रक्षः अदनानिमित्तो मदः अत्रिः तद्वत् रक्षः अत्रिणम् । पामादिलक्षणो नप्रत्ययः । एतत् निहंसि नियमेन नाशय । हन्तेः पञ्चमो लकारः । दीद्यन् दीप्यमान! शुचिव्रत शुद्धस्य कर्मणो निष्पादक! । स्वे क्षये स्वकीये यज्ञगृहे मर्त्येष्वा सर्वेषु मनुष्येष्वपि ॥

विश्वास-प्रस्तुतिः ...{Loading}...

आ वा॑त वाहि भेष॒जम् ।
वि वा॑त वाहि॒ यद्रपः॑ ।
त्वँ हि वि॒श्वभे॑षजः ।
दे॒वाना॑न्दू॒त ईय॑से ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

आ वा॑त वाहि भेष॒जम् ।
वि वा॑त वाहि॒ यद्रपः॑ ।
त्वँ हि वि॒श्वभे॑षजः ।
दे॒वाना॑न्दू॒त ईय॑से ।

सायण-टीका

19आ वातेति ॥ हे! वात! वायो! भेषजं यथा भवति तथा आवाहि अस्मान् प्रति सर्वतो वातं कुरु । हे! वात! यद्रपः पापमस्ति तत् विवाहि विश्लिष्य गच्छ । कस्मादेवं त्वमुच्यस इति चेत् - त्वं हि विश्वभेषजः विश्वं कर्म भेषजं यस्य तादृशोसि । एक एव देवानामपि दूत ईयसे । तस्मात्सर्वहितत्वात् उच्यसे ॥

विश्वास-प्रस्तुतिः ...{Loading}...

द्वावि॒मौ वातौ॑ वातः ॥7॥
आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्ष॑म्मे अ॒न्य आ॒वातु॑ ।
परा॒न्यो वा॑तु॒ यद्रपः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

द्वावि॒मौ वातौ॑ वातः ॥7॥
आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्ष॑म्मे अ॒न्य आ॒वातु॑ ।
परा॒न्यो वा॑तु॒ यद्रपः॑ ।

सायण-टीका

20द्वाविमाविति ॥ इदानीं कार्यभेदान्वितमध्यारोप्याह - द्वौ खल्विमौ वातौ वातः विश्वं व्याप्य वर्तेते । आसिन्धोः आसमुद्रात् आ च परावतः ततोपि दूरात् परागतं परावत् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वतिः । एतयोरन्य एकः ममदक्षं कुशलं आवातु आगच्छतु । अन्य एकः य यद्रपः पापं तत् परावातु परागमयतु । ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒दो वा॑त ते गृ॒हे ।
अ॒मृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॑ ।
ततो॑ नो धेहि भेष॒जम् ।
ततो॑ नो॒ मह॒ आव॑ह ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

यद॒दो वा॑त ते गृ॒हे ।
अ॒मृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॑ ।
ततो॑ नो धेहि भेष॒जम् ।
ततो॑ नो॒ मह॒ आव॑ह ।

सायण-टीका

20यदद इति पङ्क्तिः पञ्चपदा ॥ हे! वात! तव गृहे अमृतस्य निधिः यत् यस्मात् कारणात् अदः असौ निहितः लिङ्गव्यत्ययः । यद्वा - यददः कारणं तव गृहे अमृतस्य निधिः निहित इति । ततः कारणात् ततो वाति ततो वा निधेरादाय नोऽस्मभ्यं देहि जीवसे अस्मान् जीवयितुम् । किंच तत एव वा अस्माकं भेषजं अनिष्टशमनं धेहि अस्मान् स्थापय । किंच तत एव नोऽस्माकं महः महत्त्वं पूजां आवह आनय ॥

विश्वास-प्रस्तुतिः ...{Loading}...

वात॒ आवा॑तु भेष॒जम् ।
श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ॥8॥
प्र ण॒ आयूँ॑षि तारिषत् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

वात॒ आवा॑तु भेष॒जम् ।
श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒दे ॥8॥
प्र ण॒ आयूँ॑षि तारिषत् ।

सायण-टीका

22वात आवात्विति गायत्री ॥ - अयं वातो नोऽस्माकं भेषजमावातु आगमयनु । यथा भेषनं भवति तथा आगच्छतु । शम्भूः । रोगादिशान्तेः भावयिता । मयोभूः सुखानां भावयिता । अस्माकं हृदे हृदयाय हृदयतृप्त्यर्थं वात आवातु । किञ्च अस्माकं आयूंषि आयुर्विशेषान् सर्वानपि प्रतारिषत् प्रवर्तयतु । लेटि सिप् । छान्दसं दीर्घत्वम् । लुङि वा सिचि वृद्धिविध्यपवादः । अडागमः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन्मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यमू॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।

सायण-टीका

23त्वमग्ने अयाऽसीत्यनुष्टुप् ॥ हें! अग्रे! त्वं अया अयमेवासि । इदमः प्रथमैकवचनस्य ‘सुपां सुलुक्’ इति डादेशः । टिलोपे ‘अनुदात्तस्य च यत्रोदात्तलोपः’ इति उदात्तनिवृत्तिस्वरेण आकारस्य उदात्तत्वम् । अयमेवासि त्वम् । तव याथात्म्यं न जानीमः यं त्वां वयं प्रपश्यामः अयमेवासि । किं च अया अयमेव सन् मनसा हितः युक्तैर्धृतः । नान्यं जानीम इति । अपि च अयमेव सन् हव्यमूहिषे आस्माकीनं हविर्वह । छान्दसो लिङ् । किञ्च अयमेव त्वमस्माकं भेषजमनिष्टशमनं धेहि अस्मासु स्थापय । किमनेन रूपेण कर्तुं न शक्यत इति भावः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ष्टो अ॒ग्निराहु॑तः ।
स्वाहा॑कृतᳶ पिपर्तु नः ।
स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

इ॒ष्टो अ॒ग्निराहु॑तः ।
स्वाहा॑कृतᳶ पिपर्तु नः ।
स्व॒गा दे॒वेभ्य॑ इ॒दन्नमः॑ ।

सायण-टीका

24इष्टो अग्निरिति गायत्री ॥ इष्टः यागेनाराधितोऽयमग्निः आहुत्या चाराधितः नोऽस्मान् पिपर्तु पालयतु, अभिप्रेतैर्वा पूरयतु इदं नमः आस्माकीनं स्वगाकरोतु यथास्वं प्रापयतु ॥

विश्वास-प्रस्तुतिः ...{Loading}...

कामो॑ भू॒तस्य॒ भव्य॑स्य ।
स॒म्राडेको॒ विरा॑जति ॥9॥
स इ॒दम्प्रति॑ पप्रथे ।
ऋ॒तूनुत्सृ॑जते व॒शी ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

कामो॑ भू॒तस्य॒ भव्य॑स्य ।
स॒म्राडेको॒ विरा॑जति ॥9॥
स इ॒दम्प्रति॑ पप्रथे ।
ऋ॒तूनुत्सृ॑जते व॒शी ।

सायण-टीका

25कामो भूतस्येत्यनुष्टुप् ॥ कामो देवताविशेषः । भूतस्य अतीतस्य भव्यस्य भविष्यतश्च एक एव संराट् उत्पत्तिहेतुः एको विराजति कारणात्मना एकमेव वस्तु दीप्यते । अत इदं विश्वं भूतभव्यात्मकं भूतेन्द्रियशरीरादिभेदभिन्नं प्रतिपप्रथे स एव कामः प्रत्येकं प्रथयति । ऋतूंश्च कालावयवात् स एव वशी स्वतन्त्रः काम एवोत्सृजते उत्पादयति । ईश्वरस्य इच्छाशक्तिः कामः, यथा - ‘सोऽकामयत’ इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेत॑ᳶ प्रथ॒मय्ँयदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेत॑ᳶ प्रथ॒मय्ँयदासी॑त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ।

सायण-टीका

26कामस्तदिति त्रिष्टुभस्तिस्रः ॥ अग्रे मनसः पूर्वम् । प्रवृत्तिनिवृत्तिविशेषहेतुर्मनः । ततः पूर्वं काम इच्छाशक्तिमात्रं समवर्तत । ततः अधि अस्मादधि उपरि मनसोपि रेतः कारणं प्रथमं प्रधानं यदासीत् ‘तदसदेव सन्मनोकुरुत स्यामिति’ । सतः प्रपञ्चस्य भूतेन्द्रियात्मनः बन्धुं कारणं मनः असति प्रपञ्चरूपेण असति ब्रह्मणि निरविन्दन् निष्कृष्य अलभन्त । यद्वा - अग्रे सृष्ट्यादौ काम एव प्रथमं तस्मात्समवर्तत । पुनश्च कीदृशमित्याह - मनसो रेतः कार्यं यदासीद्भूतेन्द्रियादिकं तस्य सर्वस्य सतः स्थूलस्य प्रपञ्चस्य बन्धुं असति मूलकारणे निरविन्दन् । यथा ‘असतस्सद्ये ततक्षुः’ । इत्याहुः । मनः कामः इच्छेति पर्यायाः । कामः प्रथमं संकल्प्य आदौ समवर्तत । ततस्तस्य यद्रेत: कार्यभूतेन्द्रियादिकं तत्समवर्तत । तत्कथमित्याह - सतः प्रपञ्चस्य कारणं बन्धु असति निरविन्दन् कवयः । हृदि हृदये प्रतीष्य प्रतिलभ्य । संहितायां दीर्घत्वं छान्दसम् । यद्वा - प्रतीष्या बुद्ध्या संकल्पात्मिकया मनीषा मनीषया ज्ञानेन इन्द्रियात्मिकया बुद्ध्या निरविन्दन् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सँ॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥10॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वया॑ मन्यो स॒रथ॑मारु॒जन्तः॑ । हर्ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सँ॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥10॥

सायण-टीका

27त्वया मन्यो इति ॥ मन्युः देवताविशेषः .। हे! मन्यो! त्वया भीहेतुना सरथं महता रथेन सहितं आरुजन्तः भजन्तः । हर्षमाणासः हृष्यन्तः । व्यत्ययेनात्मनेपदम् । ‘आज्जसेरसून्’ । धृषता धर्षणशक्त्या इत्थंभूताः । हे! मरुत्वः! मरुत्वन्! तिग्मेषवः निशितायुधाः आयुधा आयुधानि संशिशानाः अग्निरूपाः तदावेशादग्निवज्ज्वलन्तः ईदृशा नरः मनुष्याः उपप्रयन्ति निगृह्य पार्श्वमुपगच्छन्ति । यद्वा - मन्युः दीप्तिः तद्वानिन्द्रो मन्युः । हे! मन्यो! इन्द्र! मरुत्वः मरुद्भिः तद्वान् सरथं समानं रथं आरुजन्तः आरूढवन्तः हर्षमाणासः हृष्टाः तिग्मेषवः आयुधानि संशिशानाः अग्निरूपाः ज्वलन्तः नरो नेतारः मरुतः त्वां उपगच्छन्ति । ‘नयतेर्डिच्च’ इति ऋप्रत्ययः, टिलोपश्च ॥

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः ।
म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः ।
म॒न्युव्ँ विश॑ ईडते देव॒यन्तीः॑ ।
पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः ।
म॒न्युर्होता॒ वरु॑णो वि॒श्ववे॑दाः ।
म॒न्युव्ँ विश॑ ईडते देव॒यन्तीः॑ ।
पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण ।

सायण-टीका

28मन्युर्भग इति ॥ मन्युरेव भगः धनहेतुः । मन्युरेव देवः दानादिगुणयुक्तः आस भवात । भूभावाभावश्छान्दसः । ‘उदात्तानुदात्तस्य स्वरितः’ इति संहितायां सकारः स्वर्यते । मन्युरेव होता वरुणश्च । विश्ववेदाः विश्वस्य वेदिता । मन्युमेव ईडते स्तुवन्ति । विशो मनुष्याः । देवयन्तीः देवयन्त्यः । देवान् कामयमानः । मन्यौ स्तुते सर्वदेवाः स्तुता भवन्तीति हे! मन्यो! अस्मान् पाहि तपसा श्रमेण । ‘अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेद्य आहिताग्निरश्रु कुर्यात्’ इति तस्य याज्यानुवाक्ये ॥

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने व्रत॒भृच्छुचिः॑ ।
दे॒वाँ आसा॑दया इ॒ह ।
अग्ने॑ ह॒व्याय॒ वोढ॑वे ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

त्वम॑ग्ने व्रत॒भृच्छुचिः॑ ।
दे॒वाँ आसा॑दया इ॒ह ।
अग्ने॑ ह॒व्याय॒ वोढ॑वे ।

सायण-टीका

29त्वमग्न इति गायत्रीत्रिष्टुभौ ॥ हे! अग्ने! व्रतभृत् व्रतानां कर्मणां भर्ता । शुचिः शुद्धः । देवान् दानादिगुणयुक्तान् इह अस्मिन् कर्मणि आसादय आवह । दीर्धत्वप्रकृतिभावौ सांहितिकौ छान्दसौ । हव्याय वोढवे, हविर्वोढुं तेभ्यः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

व्र॒तानुबिभ्र॑द्व्रत॒पा अदा॑भ्यः ।
यजा॑ नो दे॒वाँ अ॒जर॑स्सु॒वीरः॑ ।
दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने ।
गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥11॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

व्र॒तानुबिभ्र॑द्व्रत॒पा अदा॑भ्यः ।
यजा॑ नो दे॒वाँ अ॒जर॑स्सु॒वीरः॑ ।
दध॒द्रत्ना॑नि सुविदा॒नो अ॑ग्ने ।
गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥11॥

सायण-टीका

30व्रतान्विति ॥ नु क्षिप्रनाम । व्रता व्रतानि कर्माणि क्षिप्राणि बिभ्रत् । व्रतपाः व्रतानां च पालयिता । अदाभ्यः केनचिदप्यहिंस्यः । स त्वमस्मदर्थं देवान् यज । अजरः अविनाशः । सुवीरः शोभनवीरपुरुषः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । रत्नानि रमणीयानि अस्मासु दधत् सुविदानः सुष्ठु हितमस्माकं जानन् हे! अग्ने! जातवेदः! जातप्रज्ञ! अस्मान् गोपाय रक्ष । जीवसे जीवनार्थम् । ‘तुमर्थे सेसेन्’ इत्यसेप्रत्ययः ॥

इत्युपहोमभाष्ये प्रथमोऽनुवाकः ॥