मूलम्
ब्रह्मा॑त्म॒न्वद॑सृजत ।
तद॑कामयत ।
समा॒त्मना॑ पद्ये॒येति॑ ।
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ दश॒मँ हू॒तᳶ प्रत्य॑शृणोत् ।
स दश॑हूतोऽभवत् ।
दश॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तन्दश॑हूतँ॒ सन्त॑म् ।
दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥47॥
विश्वास-प्रस्तुतिः
ब्रह्मा॑त्म॒न्वद॑सृजत ।
तद॑कामयत॒ “समा॒त्मना॑ पद्ये॒ये"ति॑ ।
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
मूलम्
ब्रह्मा॑त्म॒न्वद॑सृजत ।
तद॑कामयत॒ “समा॒त्मना॑ पद्ये॒ये"ति॑ ।
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
भट्टभास्कर-टीका
1दशमे होतृमन्त्रैः काम्यप्रयोग उक्तः । अथैकादशे दशहोत्रादिमन्त्रनाम्नां प्रवृत्तिनिमित्तमुच्यते । तत्रादौ दशहोतृशब्दस्य प्रवृत्तिनिमित्तं दर्शयति - ब्रह्मात्मन्नित्यादिना ॥ यदेतज्जगत्कारणं परं ब्रह्म तदेतदादिसृष्टावात्मन्वज्जीवात्मोपेतं दशहोतृमन्त्राभिमानिदेवतानां शरीरमसृजत तत्सृष्ट्वा चानन्तरमनेन जीवात्मना सम्पद्येय संगतो भवेयमिति विचार्य न जीवात्मानमुद्दिश्य आत्मन्निति संबोध्य आमन्त्रितवान् । द्विरुक्तिर्बह्वर्था । बहुकृत्व आहूतवानित्यर्थः ।
सायण-टीका
दशमे होतृ-मन्त्रैः काम्य-प्रयोग उक्तः। अथैकादशे दश-होत्रादि-मन्त्र-नाम्नां प्रवृत्ति-निमित्तम् उच्यते। तत्राऽऽदौ दश-होतृ-शब्दस्य प्रवृत्ति-निमित्तं दर्शयति-
ब्रह्माऽऽत्मन्वद् असृजत।
तद् अकामयत।
समात्मना पद्येयेति।
आत्मन्न् आत्मन्न् इत्य् अमन्त्रयत।
तस्मै दशमं-हूतः प्रत्य् अशृणोत्।
स दश-हूतो ऽभवत्।
दश-हूतो ह वै नामैषः।
तं वा एतं दश-हूतं सन्तम्।
दश-होतेत्य् आचक्षते परोक्षेण।
परोक्ष-प्रिया इव हि देवाः।(१),
इति। यद् एतज् जगत्-कारणं परं ब्रह्म, तद् एतद् आदि-सृष्टाव् आत्मन्वज् जीवात्मोपेतं दश-होतृ-मन्त्राभिमानि-देवतानां शरीरम् असृजत। तत् सृष्ट्वा चानन्तरम् अनेन जीवात्मना संपद्येय, संगतो भवेयम् इति विचार्य, तं जीवात्मानम् उद्दिश्यात्मन्न् इति संबोध्याऽऽमन्त्रितवान्। द्विरुक्तिर् बह्वर्था, बहु-कृत्वाऽऽहूतवान् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
तस्मै॑ दश॒मँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स दश॑हूतोऽभवत् ।
मूलम्
तस्मै॑ दश॒मँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स दश॑हूतोऽभवत् ।
भट्टभास्कर-टीका
एवं ब्रह्मण्याह्वयति सति दशमे पर्याये समाहूतो जीवात्मा प्रत्यशृणोत् भो इति प्रत्युत्तरं दत्तवान् । तावता तस्य दशहोतेति नाम संपन्नम् ।
सायण-टीका
एवं ब्रह्मणि आह्वयति सति दशमे पर्याये समाहूतो जीवात्मा प्रत्य् अशृणोत्, “भो” इति प्रत्युत्तरं दत्तवान्। तावता तस्य दश-होतेति नाम संपन्नम्।
विश्वास-प्रस्तुतिः
दश॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तन्दश॑हूतँ॒ सन्त॒म् “दश॑हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥47॥
मूलम्
दश॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तन्दश॑हूतँ॒ सन्त॒म् “दश॑हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥47॥
भट्टभास्कर-टीका
सोऽयं वस्तुतो दशहूत एव ।
एवमेव वास्तवं नामविशेषमाच्छाद्य अपरेण वर्णान्तरव्यवहृतेन दशहोतेति नाम्ना व्यवहरन्ति । यस्माद्देवाः पूज्याः पित्राचार्यादयः स्वकीयं वास्तवं नाम परित्यज्य हे तात! हे आचार्य! इति परोक्षेणाह्वानं प्रियं पश्यन्ति तस्माद्युक्तः परोक्षनामव्यवहारः ॥
सायण-टीका
सो ऽयं वस्तुतो दश-हूत एव। एतम् एव वास्तवं नाम-विशेषम् आच्छाद्यापरेण वर्णान्तर-व्यवहृतेन दश-होतेति-नाम्ना व्यवहरन्ति। यस्माद् देवाः पूज्याः पित्राचार्यादयः स्वकीयं वास्तवं नाम परित्यज्य “हे तात”, “हे आचार्य” इति परोक्षेणाह्वानं कुर्वन्ति, तस्माद् युक्तः परोक्ष-नाम-व्यवहारः।
मूलम्
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मँ हू॒तᳶ प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तव्ँ वा ए॒तँ स॒प्तहू॑तँ॒ सन्त॑म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
विश्वास-प्रस्तुतिः
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ सप्त॒मँ हू॒तᳶ प्रत्य॑शृणोत्त् स स॒प्तहू॑तोऽभवत् ।
स॒प्तहू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ स॒प्तहू॑तँ॒ सन्त॒म् “स॒प्तहो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ सप्त॒मँ हू॒तᳶ प्रत्य॑शृणोत्त् स स॒प्तहू॑तोऽभवत् ।
स॒प्तहू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ स॒प्तहू॑तँ॒ सन्त॒म् “स॒प्तहो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ ष॒ष्ठँ हू॒तᳶ प्रत्य॑शृणोत् ।
स षड्ढू॑तोऽभवत् ॥48॥
षड्ढू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ षड्ढू॑तँ॒ सन्त॑म् ।
षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
विश्वास-प्रस्तुतिः
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ ष॒ष्ठँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स षड्ढू॑तोऽभवत् ॥48॥
षड्ढू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ षड्ढू॑तँ॒ सन्त॒म् “षड्ढो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ ष॒ष्ठँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स षड्ढू॑तोऽभवत् ॥48॥
षड्ढू॑तो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तँ षड्ढू॑तँ॒ सन्त॒म् “षड्ढो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत ।
तस्मै॑ पञ्च॒मँ हू॒तᳶ प्रत्य॑शृणोत् ।
स पञ्च॑हूतोऽभवत् ।
पञ्च॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तम्पञ्च॑हूतँ॒ सन्त॑म् ।
पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥49॥
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
विश्वास-प्रस्तुतिः
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ पञ्च॒मँ हू॒तᳶ प्रत्य॑शृणोत्त् स पञ्च॑हूतोऽभवत् ।
पञ्च॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तम्पञ्च॑हूतँ॒ सन्त॒म् “पञ्च॑हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ॥49॥
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ पञ्च॒मँ हू॒तᳶ प्रत्य॑शृणोत्त् स पञ्च॑हूतोऽभवत् ।
पञ्च॑हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तम्पञ्च॑हूतँ॒ सन्त॒म् “पञ्च॑हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण ॥49॥
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थँ हू॒तᳶ प्रत्य॑शृणोत् । स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तव्ँ वा ए॒तञ्चतु॑र्हूतँ॒ सन्त॑म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
विश्वास-प्रस्तुतिः
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ चतु॒र्थँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तञ्चतु॑र्हूतँ॒ सन्त॒म् “चतु॑र्हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
मूलम्
“आत्म॒न्नात्म॒न्नि"त्याम॑न्त्रयत ।
तस्मै॑ चतु॒र्थँ हू॒तᳶ प्रत्य॑शृणो॒त्त् स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः ।
तव्ँ वा ए॒तञ्चतु॑र्हूतँ॒ सन्त॒म् “चतु॑र्हो॒ते"त्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
भट्टभास्कर-टीका
2-5अथ सप्तहोत्रादिनामप्रवृत्तिं दर्शयति - आत्मन्नियादिना ॥ सप्तहोतृषढ्ढोतृपञ्चहोनृचतुर्होतृनामानिर्चनवाक्यानि दशहोतृवाक्यवद्य्व्याख्येयानि ॥
सायण-टीका
अथ सप्त-होत्रादि-नाम-प्रवृत्तिं दर्शयति-
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत।
तस्मै सप्तम-हूतः प्रत्य् अशृणोत्।
स सप्त-हूतो ऽभवत्।
सप्त-हूतो ह वै नामैषः।
तं वा एतं सप्त-हूतं सन्तम्।
सप्त-होतेत्य् आचक्षते परोक्षेण। [[P472]]
परोक्ष-प्रिया इव हि देवाः।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत।
तस्मै षष्ठं हूतः प्रत्य् अशृणोत्।
स षड्ढूतो ऽभवत्।(२)
षड्ढूतो ह वै नामैषः।
तं वा एतं षड्-हूतं सन्तम्।
षड्-ढोतेत्य् आचक्षते परोक्षेण।
परोक्ष-प्रिया इव हि देवाः।
आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत।
तस्मै पञ्चमं हूतः प्रत्य् अशृणोत्।
स पञ्च-हूतो ऽभवत्।
पञ्च-हूतो ह वै नामैषः।
तं वा एतं पञ्च-हूतं सन्तम्।
पञ्च-होतेत्य् आचक्षते परोक्षेण। (३)
परोक्ष-प्रिया इव हि देवाः।
आत्मन्न् आत्मन्न् इत्य् अमन्त्रयत।
तस्मै चतुर्थं हूतः प्रत्य् अशृणोत्।
स चतुर्-हूतो ऽभवत्।
चतुर्-हूतो ह वै नामैषः।
तं वा एतं चतुर्-हूतं सन्तम्।
चतुर्-होतेत्य् आचक्षते परोक्षेण।
परोक्ष-प्रिया इव हि देवाः,
इति।
सप्त-होतृ-षड्-ढोतृ-पञ्च-होतृ-चतुर्-होतृ-नाम-निर्वचन-वाक्यानि दश-होतृ-वाक्यवद् व्याख्येयानि॥
मूलम्
तम॑ब्रवीत् । त्वव्ँ वै मे॒ नेदि॑ष्ठँ हू॒तᳶ प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑नाँ॒श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा॑च्छुश्रू॒षुᳶ पु॒त्राणाँ॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वव्ँ वेद॑ ॥50॥
विश्वास-प्रस्तुतिः
तम॑ब्रवीत् -“त्वव्ँ वै मे॒ नेदि॑ष्ठँ हू॒तᳶ प्रत्य॑श्रौषी॒स्”, “त्वयै॑नानाख्या॒तार॒” इति॑ ।
मूलम्
तम॑ब्रवीत् -“त्वव्ँ वै मे॒ नेदि॑ष्ठँ हू॒तᳶ प्रत्य॑श्रौषी॒स्”, “त्वयै॑नानाख्या॒तार॒” इति॑ ।
भट्टभास्कर-टीका
6अथ चतुर्होतृमन्त्राभिमानिनं पुरुषं विशेषतः प्रशंसति - तमब्रवीदित्वादिना ॥ चतुर्होतृमन्त्राभिमानिनं देवं प्रजापतिरेवमब्रवीत् - त्वमेवैको मया समाहूतस्सन् मदीयं वाक्यं नेदिष्टमतिसमीपं यथा भवति तथा श्रुत्वा प्रत्युत्तरं दत्तवान् । चतुर्थमामन्त्रणं त्वया श्रुतं इतरे न तथा सहसा श्रुतवन्तः । तस्मात्त्वयैव सर्वानेतान् हि जना कथयिष्यन्ति ।
सायण-टीका
अथ चतुर्-होतृ-मन्त्राभिमानिनं पुरुषं विशेषतः प्रशंसति-
तम् अब्रवीत्।
त्वं वै मे नेदिष्ठं हूतः प्रत्य् अश्रौषीः।
त्वयैनान् आख्यातार इति।
तस्मान्नु हैनांश् चतुर्-होतार इत्याचक्षते।
तस्माच् छुश्रूषुः पुत्राणां हृद्यतमः।
नेदिष्ठो हृद्यतमः।
नेदिष्ठो ब्रह्मणो भवति।
य एवं वेद।(४)
इति॥ चतुर्-होतृ-मन्त्राभिमानिनं देवं प्रजापतिर् एवम् अब्रवीत्। त्वम् एवैको मया समाहूतः सन् मदीयं वाक्यं यन् नेदिष्ठम् अति-समीपं यथा भवति तथा श्रुत्वा प्रत्युत्तरं दत्तवान्। चतुर्थम् आमन्त्रणं त्वया श्रुतम्, इतरे न तथा सहसा श्रुतवन्तः। तस्मात् त्वयैव सर्वान् एताञ् जनाः कथयिष्यन्ति। “एते चतुर्-होतारः” इत्य् एवं त्वन्-नाम्नैव व्यवहारो भविष्यतीत्य् अर्थः।
विश्वास-प्रस्तुतिः
तस्मा॒न्नु है॑नाँ॒श्चतु॑र्होतार॒ इत्याच॑क्षते ।
मूलम्
तस्मा॒न्नु है॑नाँ॒श्चतु॑र्होतार॒ इत्याच॑क्षते ।
भट्टभास्कर-टीका
एवं चतुर्होतार इत्येवं त्वन्नाम्नैव व्यवहारो भविष्यतीत्यर्थः । यस्मादेवं प्रजापतिना वरो दत्तः तस्मादेतान् दशहोत्रादीन् सर्वानपि चतुर्होतार इत्येव वचनं वैदिका आचक्षते ।
सायण-टीका
यस्माद् एवं प्रजापतिना वरो दत्तस्, तस्माद् एतान् दश-होत्रादीन् सर्वान् अपि “चतुर्-होतारः” इत्य् एव वचनं वैदिका आचक्षते।
विश्वास-प्रस्तुतिः
तस्मा॑च्छुश्रू॒षुᳶ पु॒त्राणाँ॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ हृद्य॑तमः ।
मूलम्
तस्मा॑च्छुश्रू॒षुᳶ पु॒त्राणाँ॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ हृद्य॑तमः ।
भट्टभास्कर-टीका
यस्मादेवं शीघ्रं वाक्यं श्रुतवतश्चतुर्होतुः प्रजापतेर्वरलाभस्तस्माल्लोकेऽपि, पुत्राणां मध्ये यः पितृवाक्यमादरेण श्रोतुमिच्छति स एव पितुर्हृद्यतमोऽत्यन्तं प्रियः । योऽतिप्रियः स नेदिष्ठोऽतिसमीपवर्ती भवति ।
सायण-टीका
यस्माद् एवं शीघ्रं वाक्यं श्रुतवतश् चतुर्-होतुः प्रजापतेर् वर-लाभस्, तस्माल् लोके ऽपि पुत्राणां मध्ये यः पितुर् वाक्यम् आदरेण श्रोतुम् इच्छति स एव पितुर् हृद्यतमो ऽत्यन्तं प्रियः।
विश्वास-प्रस्तुतिः
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति॒ य ए॒वव्ँ वेद॑ ॥50॥
मूलम्
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति॒ य ए॒वव्ँ वेद॑ ॥50॥
भट्टभास्कर-टीका
पुमानेवं चतुर्होतृब्रह्मसमीपवर्तित्वं वेद स स्वयमपि ब्रह्मणोऽतिसमीपवर्ती भवति ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके एकादशोऽनुवाकः ॥
समाप्तश्चायं प्रपाठकः ॥
सायण-टीका
यो ऽतिप्रियः स नेदिष्ठो ऽति-समीप-वर्ती भवति। यः पुमान् एवं चतुर्-होतृ-ब्रह्म-समीप-वर्तित्वं वेद, स स्वयम् अपि ब्रह्मणो ऽति-समीप-वर्ती भवति॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठक एकादशो ऽनुवाकः ॥ ११ ॥