१० दशहोतृमन्त्राणां काम्यप्रयोगः

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒स्सोमँ॒ राजा॑नमसृजत ।

तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त ।

मूलम्

प्र॒जाप॑ति॒स्सोमँ॒ राजा॑नमसृजत ।

तन्त्रयो॒ वेदा॒ अन्व॑सृज्यन्त ।

भट्टभास्कर-टीका

1प्रजापतिस्सोममित्यादि ॥ सोमसृष्ट्यनन्तरं त्रयो वेदास्सृष्टाः ।

सायण-टीका

नवमे ऽनुवाके सर्व-होतृ-मन्त्र-समष्टि-देवस्य वायोर् उपासनम् उक्तम्। अथ दशमे होतृ-मन्त्राणां कश्चित् काम्य-प्रयोगो ऽभिधीयते। तं विधातुम् आदाव् उपाख्यानम् आह-

प्रजापतिः सोमं राजानम् असृजत।
तं त्रयो वेदा अन्व् असृज्यन्त।
तान् हस्ते ‘कुरुत।
अथ ह सीता सावित्री। सोमं राजानं चकमे।
श्रद्धाम् उ स चक्रमे।
सा ह पितरं प्रजापतिम् उपससार।
तां ह उवाच।
नमस् ते अस्तु भगवः।
उप त्वा ऽयानि।(१)
प्र त्वां पद्ये।
सोमं वै राजानं कामये।
श्रद्धाम् उ स कामयत इति।

[[P469]]

तस्या उ ह स्थागरम् अलंकारं कल्पयित्वा,
दश-होतारं पुरस्ताद् व्याख्याय,
चतुर्-होतारं दक्षिणतः,
पञ्च-होतारं पश्चात्,
षड्-ढोतारम् उत्तरतः,
सप्त-होतारम् उपरिष्टात्,
संभारैश् च पत्निभिश् च मुखे ऽलंकृत्य,(२)
आ अस्यार्थे वव्राज।
तां ह उदीक्ष्य उवाच,
“उप मावर्तस्वेति।”
तां ह उवाच,
“भोगं तु म आचक्ष्व।
एतन् म आचक्ष्व।
यत् ते पाणाविति।”
तस्यै उ ह त्रीन् वेदान् प्रददौ।
तस्माद् उ ह स्त्रियो भोगम् एव हारयन्ते,

इति।

प्रजापतिः सोमं सृष्ट्वा तम् अनु त्रीन् वेदान् असृजत।

विश्वास-प्रस्तुतिः

तान् हस्ते॑ऽकुरुत ।

मूलम्

तान् हस्ते॑ऽकुरुत ।

भट्टभास्कर-टीका

अथ सोमस्तान् वेदान् हस्तेऽकुरुत हस्तेऽगृह्णात् ।

सायण-टीका

स च सोमस् तान् वेदान् स्व-मुष्टि-मध्ये गोपायामास।

मूलम्

अथ॒ ह सीता॑ सावि॒त्री । सोमँ॒ राजा॑नञ्चकमे ।

विश्वास-प्रस्तुतिः

अथ॒ ह सीता॑ सावि॒त्री सोमँ॒ राजा॑नञ्चकमे ।

मूलम्

अथ॒ ह सीता॑ सावि॒त्री सोमँ॒ राजा॑नञ्चकमे ।

भट्टभास्कर-टीका

अथ एतं सोमं राजानं सीता नाम सवितुः स्रष्टुः प्रजापतेः दुहिता चकमे ।

सायण-टीका

तदानीं सवितुः प्रजापतेः पुत्री काचिन् नामतः सीता1 सावित्रीति, “सोमो मे भर्ता ऽस्त्व्” इत्य् अकामयत।

विश्वास-प्रस्तुतिः

श्र॒द्धामु॒ स च॑कमे ।

मूलम्

श्र॒द्धामु॒ स च॑कमे ।

भट्टभास्कर-टीका

स तु सोमः श्रद्धामेव प्रजापतिपुत्रीं चकमे ।

सायण-टीका

स तु सोमः श्रद्धाख्यां काचिद् अन्यां प्रजापतेर् दुहितरं कामितवान्, न त्व् एतां सीताम्।

विश्वास-प्रस्तुतिः

साऽऽह॑ पि॒तर॑म्प्र॒जाप॑ति॒मुप॑ससार ।

मूलम्

साऽऽह॑ पि॒तर॑म्प्र॒जाप॑ति॒मुप॑ससार ।

भट्टभास्कर-टीका

अथ सा सीता भर्तुः द्वेष्या पितरं प्रजापतिमुपससार उपाजगाम

सायण-टीका

सा तु सीता प्रजापति-समीपम् आगत्य

मूलम्

नम॑स्ते अस्तु भगवः । उप॑ त्वाऽयानि ॥43॥
प्र त्वा॑ पद्ये ।

विश्वास-प्रस्तुतिः

“नम॑स्ते अस्तु भगव उप॑ त्वाऽयानि॒ प्र त्वा॑ पद्ये ।

मूलम्

“नम॑स्ते अस्तु भगव उप॑ त्वाऽयानि॒ प्र त्वा॑ पद्ये ।

भट्टभास्कर-टीका

उवाच च पितरं - नमस्ते अस्तु भगवः, उपायानि त्वा त्वामेवोपयानि त्वत्पार्श्व एव मया वस्तव्यं मा गां पत्यन्तिकं, प्रपद्येऽहं त्वां शरणं भजामि ॥

सायण-टीका

नमस्कारं कृत्वा, “त्वत्-समीपे कार्यार्थं समागता ऽस्मि, त्वां भजे सर्वदा” इत्य् एवम् उवाच।

विश्वास-प्रस्तुतिः

सोमव्ँ॒ वै राजा॑नङ्कामये । श्र॒द्धामु॒ स का॑मयत॒” इति॑ ।

मूलम्

सोमव्ँ॒ वै राजा॑नङ्कामये । श्र॒द्धामु॒ स का॑मयत॒” इति॑ ।

भट्टभास्कर-टीका

2अथ किं तवागतमिति पित्रा पृष्टा सोवाच - सोमं राजानं कामयेऽहं स तु श्रद्धामेव कामयत इति ।

सायण-टीका

ततः प्रजापतिना किं कार्यम् इति पृष्टा सती सोम-विषयां कामनाम् उवाच।

मूलम्

तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ । चतु॑र्होतारन्दक्षिण॒तः । पञ्च॑होतारम्प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ ॥44॥
आऽस्यार्धव्ँव॑व्राज ।

विश्वास-प्रस्तुतिः

तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॒ चतु॑र्होतारन्दक्षिण॒तᳶ पञ्च॑होतारम्प॒श्चात् षड्ढो॑तारमुत्तर॒तस् स॒प्तहो॑तारमु॒परि॑ष्टात्त् स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॒ आऽस्यार्धव्ँ व॑व्राज ।

मूलम्

तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॒ चतु॑र्होतारन्दक्षिण॒तᳶ पञ्च॑होतारम्प॒श्चात् षड्ढो॑तारमुत्तर॒तस् स॒प्तहो॑तारमु॒परि॑ष्टात्त् स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॒ आऽस्यार्धव्ँ व॑व्राज ।

भट्टभास्कर-टीका

अथ प्रजापतिस्तस्यै तदर्थं भर्तृवशीकारार्थं स्थागरं स्थगरविकारं स्थगरो नाम गन्धद्रव्यविशेषः, तं पिष्ट्वा अलङ्कारं कल्पयित्वा तेन गन्धेन मण्डनं कृत्वा तस्य पूर्वादिदिक्षु दशहोत्रादीन् व्याख्याय, मण्डनेन मण्डयित्वेति कचित् ।

अथ संभारैः ‘अग्रिर्यजुर्भिः’ इत्याद्यैः पत्नीभिश्च ‘सेनेन्द्रस्य'14 इत्यादिभिः तां मुखे अलंकृत्य तस्या मुखं लेपयित्वा अस्य सोमस्य अर्धं अर्धांशं समीपं आवव्राज आगमयामास ।

सायण-टीका

ततः प्रजापतिस् तस्याः सीतायाः सोम-वशीकरणार्थं कंचित् प्रयोगं कृतवान्। स्थागरो नाम कश्चित् सुगन्ध-द्रव्य-विशेषस्, तं पिष्ट्वा तत्-संबन्धिनम् अलंकारं मण्डन-विशेषं कल्पयित्वा, तस्य पूर्वादि-दिक्षु दश-होत्रादि-मन्त्रान् पठित्वा “अग्निर् यजुर्भिः” इत्यादिभिः संभार-मन्त्रैः, “सेनेन्द्रस्य" इत्यादिभिर् देव-पत्नी-मन्त्रैश् चाभिमन्त्रितेन स्थागर-पिष्टेन तस्याः सीताया मुखे तिलकाद्य्-अलंकारं चकार। सा च सीता तस्य सोमस्य समीपे प्रत्याजगाम।

मूलम्

ताँ हो॒दीक्ष्यो॑वाच । उप॒ मा व॑र्त॒स्वेति॑ ।

विश्वास-प्रस्तुतिः

ताँ हो॒दीक्ष्यो॑वाच - “उप॒ मा व॑र्त॒स्वे"ति॑ ।

मूलम्

ताँ हो॒दीक्ष्यो॑वाच - “उप॒ मा व॑र्त॒स्वे"ति॑ ।

भट्टभास्कर-टीका

मुख्यत्वाद्गन्तव्यस्याध्वनोऽर्धे स्थितां सोम उदीक्ष्य दृष्ट्वा उवाच ।

उच्छ्रितमीक्षणमुदीक्षणं, वशीकरणप्रयोगसामर्थ्येन अयथापूर्वं सौत्सुक्यमीक्षित्वा तामुवाच - मामुपावर्तस्व किमर्धेऽध्वनि स्थीयते ।

सायण-टीका

स च सोमस् तां दृष्ट्वा परवशो, “मां प्रति समीपे समागच्छ” इत्य् उवाच।

मूलम्

तँ हो॑वाच । भोग॒न्तु म॒ आच॑क्ष्व । ए॒तन्म॒ आच॑क्ष्व । यत्ते॑ पा॒णाविति॑ ।

विश्वास-प्रस्तुतिः

तँ हो॑वाच - “भोग॒न्तु म॒ आच॑क्ष्व ; ए॒तन्म॒ आच॑क्ष्व॒ , यत्ते॑ पा॒णा"विति॑ ।

मूलम्

तँ हो॑वाच - “भोग॒न्तु म॒ आच॑क्ष्व ; ए॒तन्म॒ आच॑क्ष्व॒ , यत्ते॑ पा॒णा"विति॑ ।

भट्टभास्कर-टीका

अथ तच्छ्रुत्वा तमुवाच - भोगं मे आचक्ष्व यत्ते पाणौ स्थितमिति

सायण-टीका

सा च तदीयां प्रीतिं परीक्षितुम् एवम् उवाच, “अहम् आगमिष्यामि, त्वं तु भोगम् आचक्ष्व, सर्वदा भोगं करिष्यामीति प्रतिजानीहि। [[P470]]
किंच यत् ते पाणौ मुष्टि-मध्ये गोप्यं वस्तु वर्तते, एतन् मह्यम् अवञ्चनं कृत्वा कथय।”

विश्वास-प्रस्तुतिः

तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ ।

मूलम्

तस्या॑ उ॒ ह त्रीन् वेदा॒न्प्रद॑दौ ।

भट्टभास्कर-टीका

पृष्टस्सोमस्तस्यै त्रीन् वेदान् प्रददौ ।

सायण-टीका

ततः सोमो ऽपि प्रीत्यतिशयेन तस्यै सीतायै त्रीन् वेदान् प्रददौ, वेद-मन्त्र-लाञ्छितं किंचिद् गुटिका-द्रव्यं दत्तवान् इत्य् अर्थः।

विश्वास-प्रस्तुतिः

तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते ।

मूलम्

तस्मा॒दुह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते ।

भट्टभास्कर-टीका

यस्मादियं सीता प्रियं वस्तु ययाचे तस्माल्लोकेऽपि स्त्रियो भोगमुद्दिश्य प्रियं दायं षुरुषमाहारयन्त एव ॥

सायण-टीका

यस्माद् इयं सीता प्रियं वस्तु ययाचे तस्माल् लोके ऽपि स्त्रियो भोगम् उद्दिश्य प्रियं दायं पुरुषम् आहारयन्ते।

मूलम्

स यᳵ का॒मये॑त प्रि॒यस्स्या॒मिति॑ ॥45॥
यव्ँ वा का॒मये॑त प्रि॒यस्स्या॒दिति॑ । तस्मा॑ ए॒तँ स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा । दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॑ । चतु॑र्होतारन्दक्षिण॒तः । पञ्च॑होतारम्प॒श्चात् । षड्ढो॑तारमुत्तर॒तः । स॒प्तहो॑तारमु॒परि॑ष्टात् । स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑ । आस्यार्धव्व्ँर॑जेत् ।

विश्वास-प्रस्तुतिः

स यᳵ का॒मये॑त प्रि॒यस्स्या॒मिति॒ यव्ँ वा का॒मये॑त प्रि॒यस्स्या॒दिति॒ तस्मा॑ ए॒तँ स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॒ चतु॑र्होतारन्दक्षिण॒तᳶ पञ्च॑होतारम्प॒श्चात् षड्ढो॑तारमुत्तर॒तस् स॒प्तहो॑तारमु॒परि॑ष्टात्त् स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॒ आस्यार्धव्व्ँर॑जेत् ।

प्रि॒यो है॒व भ॑वति ॥46॥

मूलम्

स यᳵ का॒मये॑त प्रि॒यस्स्या॒मिति॒ यव्ँ वा का॒मये॑त प्रि॒यस्स्या॒दिति॒ तस्मा॑ ए॒तँ स्था॑ग॒रम॑लङ्का॒रङ्क॑ल्पयि॒त्वा दश॑होतारम्पु॒रस्ता॑द्व्या॒ख्याय॒ चतु॑र्होतारन्दक्षिण॒तᳶ पञ्च॑होतारम्प॒श्चात् षड्ढो॑तारमुत्तर॒तस् स॒प्तहो॑तारमु॒परि॑ष्टात्त् स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॒ आस्यार्धव्व्ँर॑जेत् ।

प्रि॒यो है॒व भ॑वति ॥46॥

भट्टभास्कर-टीका

1स य इत्यादि ॥ गतम् ॥ इति तैतिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके दशमोऽनुवाकः ॥

सायण-टीका

तदेवम् उपाख्यानेन प्रयोगं प्रशस्य तं प्रयोगं विधत्ते -

स यः कामयेत प्रियः स्याम् इति,(३)
यं वा कामयेत प्रियः स्याद् इति।
तस्मै एतत् स्थागरम् अलंकारं कल्पयित्वा,
दश-होतारं पुरस्ताद् व्याख्याय,
चतुर्-होतारं दक्षिणतः,
पञ्च-होतारं पश्चात्,
षड्-ढोतारम् उत्तरतः,
सप्त-होतारम् उपरिष्टात्,
संभारैश् च पत्निभिश् च मुखे ऽलंकृत्य,
आ अस्यार्धं व्रजेत्,
प्रियो हैव भवति।(४)

इति॥ अहम् एव तस्मै राज्ञे प्रियो भविष्यामीति वा, पुरुषो ऽयं राज्ञे प्रियो भवत्व् इति वा कामनायां सत्यां प्रीति-विषयस्य स्वस्य परस्य वा मुखे पूर्वोक्त-प्रकारेण स्थागर-पिष्ट-तिलकादिकं कृत्वा तस्य राज्ञः समीपे गच्छन्न् अयं तिलक-धारी तस्य राज्ञः प्रियो भवति॥

इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके दशमो ऽनुवाकः ॥ १० ॥


  1. क ‘ताऽऽसीत् । सा सो’ ↩︎