मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यो वा इ॒मव्ँ वि॒द्यात् ।
यतो॒ऽयम्पव॑ते ।
यद॑भि॒ पव॑ते ।
यद॑भिस॒म्पव॑ते ।
सर्व॒मायु॑रियात् ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत ।
प॒शु॒मान्त्स्या॑त् ।
वि॒न्देत॑ प्र॒जाम् ।
यो वा इ॒मव्ँ वेद॑ ॥34॥
यतो॒ऽयम्पव॑ते ।
यद॑भि॒पव॑ते ।
यद॑भिस॒म्पव॑ते ।
सर्व॒मायु॑रेति ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “यो वा इ॒मव्ँ वि॒द्याद् यतो॒ऽयम्पव॑ते॒ यद॑भि॒ पव॑ते॒, यद॑भिस॒म्पव॑ते॒ , सर्व॒मायु॑रियात् ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ - “यो वा इ॒मव्ँ वि॒द्याद् यतो॒ऽयम्पव॑ते॒ यद॑भि॒ पव॑ते॒, यद॑भिस॒म्पव॑ते॒ , सर्व॒मायु॑रियात् ।
भट्टभास्कर-टीका
1ब्रह्मवादिन इत्यादि ॥ वायुव्रतं नामेदं विधीयते । वायोः पञ्चहोतृहृदयत्वात्संगतिः । लिङ्गं च - ‘वायोरात्मानं कवयो निचिक्युः’ इति ।
ब्रह्मवादिनो वदन्ति - य इमं प्रसिद्धं पवमानं वायुं विद्यात् वेदितुमर्हति, यतश्च कारणादपादानाद्वा अयं पवते वाति तच्च यो विद्यात्, यच्चाभिपवते यदाश्रित्याभिलक्ष्य वा पवते तच्च यो विद्यात् यच्चाभिसंपवते आभिमुख्येनाश्रित्य सह पवते तच्च यो विद्यात्, स सर्वमायुरियात् पुरुषायुषं जीवितुमर्हति । सर्वत्रार्हार्थे लिङ् ।
सायण-टीका
अष्टमे सृष्टि-साधनत्वेन होतृ-मन्त्राः प्रशंसिताः। अथ नवमे वायु-रूपत्व-ज्ञानेन मन्त्राणां प्रशंसा क्रियते। तद् एतज्-ज्ञानं विधातुम् आदौ ब्रह्म-वादि-वाक्येन तस्मिन् होतृ-रूप-वायु-विज्ञाने श्रद्धाम् उत्पादयति-
ब्रह्म-वादिनो वदन्ति।
यो वा इमं विद्यात्।
यतो ऽयं पवते।
यद् अभिपवते।
यद् अभिसंपवते।
सर्वम् आयुर् इयात्।
न पुराऽऽयुषः प्रमीयेत।
पशुमान् स्यात्।
विन्देत प्रजाम्,
इति। होतृ-मन्त्रस्य सामर्थ्यम् एव वाय्व्-आकारेण परिणतं सद् लोके संचरति, तद् एतद् उपासकानां प्रसिद्धम्। अत एवान्यत्र श्रूयते - “वायोर् आत्मानं कवयो निचिक्युः” इति। सो ‘यं वायुर् यतः कारणाद् वाति, यद् अभिलक्ष्य वाति, तस्मिन्न् अभिलक्ष्ये वस्तुनि यत् सम्यग् वाति, तादृश-संचारोपेतम् इमं वायुं यः पुमान् विद्यात्, सो ऽयम् आयुर्-आदि-फल-चतुष्टयं प्राप्नुयात्। अयम् अर्थः - वायुर् हि किंचित्-प्रयोजनम् उद्दिश्य स्वनति, किंचिद् वस्तुषु संचरति, संचरंस् तेषु किंचिद् उपयोगं करोति। तत्-प्रयोजनं तद्-वस्तु-गतम् उपयोगं च यो विदित्वा ध्यायति, सो ‘यं सर्वम् आयुः प्राप्नोति।
विश्वास-प्रस्तुतिः
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत पशु॒मान्त्स्या॑द् वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्ँ वेद॒ यतो॒ऽयम्पव॑ते॒ ,यद॑भि॒पव॑ते॒ , यद॑भिस॒म्पव॑ते॒ ,सर्व॒मायु॑रेति ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते पशु॒मान्भ॑वति, वि॒न्दते॑ प्र॒जाम्” ।
मूलम्
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑येत पशु॒मान्त्स्या॑द् वि॒न्देत॑ प्र॒जाम् । यो वा इ॒मव्ँ वेद॒ यतो॒ऽयम्पव॑ते॒ ,यद॑भि॒पव॑ते॒ , यद॑भिस॒म्पव॑ते॒ ,सर्व॒मायु॑रेति ।
न पु॒राऽऽयु॑ष॒ᳶ प्रमी॑यते पशु॒मान्भ॑वति, वि॒न्दते॑ प्र॒जाम्” ।
भट्टभास्कर-टीका
आयुषो मध्ये न म्रियते, बहुपशुश्च स्यात् । लभेत च प्रजाम् । यस्मादेवं ब्रह्मवादिभिरुक्तम् ॥
सायण-टीका
अत एवापमृत्योर् अभावाद् आयुषः पुरा न म्रियते, प्रजा-पशु-संपत्तिश् च तस्य भवतीत्य् एवं ब्रह्म-वादिनो वायु-ध्यान-महिमानं परस्परं कथयन्ति।
तद् एवं ब्रह्म-वादि-वाक्यं विद्वांसं प्रमाणत्वेनोपन्यस्येदानीं श्रुतिः स्वयं विधत्ते-
यो वा इमं वेद।
यतो ऽयं पवते।
यद् अभिपवते।
यद् अभिसंपवते।
सर्वम् आयुर् एति।
न पुराऽऽयुषः प्रमीयते।
[[P463]]
पशुमान् भवति।
विन्दते प्रजाम्,
इति। ब्रह्म-वादि-वाक्यवद् विधि-वाक्यं व्याख्येयम्॥
विश्वास-प्रस्तुतिः
अ॒द्भ्यᳶ प॑वते ।
मूलम्
अ॒द्भ्यᳶ प॑वते ।
भट्टभास्कर-टीका
2तद्दर्शयति - अद्भ्य इत्यादि ॥ अपः कर्माणि । अप्कारणः पवते कर्मनिर्वृत्तिद्वारेण अद्भ्यः पवनात् ।
सायण-टीका
ध्यान-विदा ध्यातव्यं निरूपयति-
अद्भ्यः पवते।
अपो ऽभिपवते।
अपो ऽभिसंपवते,
इति। अद्भ्यो निमित्त-भूताभ्यो वाति। जल-व्यवहार-निर्वाहो वायु-संचारस्य प्रयोजनम् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
अ॒पो॑ऽभिप॑वते ।
अ॒पो॑ऽभिसम्प॑वते ॥35॥
मूलम्
अ॒पो॑ऽभिप॑वते ।
अ॒पो॑ऽभिसम्प॑वते ॥35॥
भट्टभास्कर-टीका
तथा अप आश्रित्य अभिलक्ष्य वा पवते, अप्सु प्रवृत्तेः अपां वा हेतुत्वात् । तथाऽद्भिस्सह पवते, तस्य लोकस्थितिहेतुत्वात् । अपामभावे सर्वमेतन्न स्यात् ।
सायण-टीका
तथापो ऽभिलक्ष्य संचरति। वायु-संचार-विषय-भूतं वस्तु जलम् इत्य् अर्थः। तथापो ऽभिपद्य सम्यक् पवते। यत्र निम्न-देशे गन्तव्यं तत्र तद् आगमयति। यत्र शोषणीयं तत्र तच् शोषयति। यदा वृष्टिर् अपेक्षिता तदा वर्षयति। सो ऽयं वायु-संचारस्योपयोगो, जल-व्यवहार-निर्वाहः प्रयोजनं, जलम् एव संचारस्य विषयो, निम्न-देशादि-प्रेरणम् उपयोग इत्य् एतत्-त्रयं वायौ ध्यातव्यम्।
विश्वास-प्रस्तुतिः
अ॒स्याᳶ प॑वते ।
मूलम्
अ॒स्याᳶ प॑वते ।
भट्टभास्कर-टीका
अस्या इति । हविर्निष्पत्त्यादेर्हेतुत्वात् पृथिव्याः । तदभावे वायोरभावात् ।
सायण-टीका
एवं पृथिव्य्-अग्न्य्-अन्तरिक्षादित्य-द्यु-दिग्-विषये ध्यातव्यं दर्शयति-
अस्याः पवते।
इमाम् अभिपवते।
इमाम् अभिसंपवते।
अग्नेः पवते।
अग्निम् अभिपवते।
अग्निम् अभिसंपवते।
अन्तरिक्षात् पवते।
अन्तरिक्षम् अभिपवते।
अन्तरिक्षम् अभिसंपवते।
आदित्यात् पवते।
आदित्यम् अभिपवते।
आदित्यम् अभिसंपवते।
द्योः पवते।
दिवम् अभिपवते।
दिवम् अभिसंपवते।
दिग्भ्यः पवते।
दिशो ऽभिपवते।
दिशो ऽभिसंपवते,
इति। जल-पर्यायवद् एते पर्याया व्याख्येयाः।
विश्वास-प्रस्तुतिः
इ॒माम॒भिप॑वते । इ॒माम॒भिसम्प॑वते ।
मूलम्
इ॒माम॒भिप॑वते । इ॒माम॒भिसम्प॑वते ।
भट्टभास्कर-टीका
पृथिवीमाश्रित्य पवते, पृथिव्या सह स्थितिहेतुर्भवति ।
विश्वास-प्रस्तुतिः
अ॒ग्नेᳶ प॑वते ।
मूलम्
अ॒ग्नेᳶ प॑वते ।
भट्टभास्कर-टीका
अग्नेरिति यागनिर्वृत्तिद्वारेणाग्नौ स्थित्वा पवते ।
विश्वास-प्रस्तुतिः
अ॒ग्निम॒भिप॑वते । अ॒ग्निम॒भिसम्प॑वते ।
मूलम्
अ॒ग्निम॒भिप॑वते । अ॒ग्निम॒भिसम्प॑वते ।
भट्टभास्कर-टीका
अग्निना सह पवते ।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भिप॑वते । अ॒न्तरि॑क्षम॒भिसम्प॑वते ।
मूलम्
अ॒न्तरि॑क्षात्पवते । अ॒न्तरि॑क्षम॒भिप॑वते । अ॒न्तरि॑क्षम॒भिसम्प॑वते ।
भट्टभास्कर-टीका
अन्तरिक्षादिति सुषिराभावे कर्मलोपात् अन्तरिक्षे पवते अन्तरिक्षेण सह विश्वं धारयति ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यात्प॑वते ॥36॥
मूलम्
आ॒दि॒त्यात्प॑वते ॥36॥
भट्टभास्कर-टीका
आदित्यादिति । वृष्ट्यादिद्वारेण आदित्ये तिष्ठति ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्यम॒भिप॑वते । आ॒दि॒त्यम॒भिसम्प॑वते ।
मूलम्
आ॒दि॒त्यम॒भिप॑वते । आ॒दि॒त्यम॒भिसम्प॑वते ।
विश्वास-प्रस्तुतिः
आदित्येन सह विश्वं गच्छति ।
मूलम्
आदित्येन सह विश्वं गच्छति ।
विश्वास-प्रस्तुतिः
द्योᳶ प॑वते ।
मूलम्
द्योᳶ प॑वते ।
भट्टभास्कर-टीका
द्योरिति । वृष्ट्यादिहेतुत्वाद्दिवि तिष्ठति ।
विश्वास-प्रस्तुतिः
दिव॑म॒भिप॑वते । दिव॑म॒भिसम्प॑वते ।
मूलम्
दिव॑म॒भिप॑वते । दिव॑म॒भिसम्प॑वते ।
भट्टभास्कर-टीका
द्युलोकेन संगत्य विश्वं धारयति ।
विश्वास-प्रस्तुतिः
दि॒ग्भ्यᳶ प॑वते । दिशो॒ऽभिप॑वते । दिशो॒ऽभिसम्प॑वते ।
मूलम्
दि॒ग्भ्यᳶ प॑वते । दिशो॒ऽभिप॑वते । दिशो॒ऽभिसम्प॑वते ।
भट्टभास्कर-टीका
दिग्भ्य इति । पुरोवातादिहेतुत्वात् दिक्षु वातस्सञ्चरति दिग्विशेषैस्सङ्गत्य ऋतुधर्मान् प्रवर्तयति ॥
मूलम्
स यत्पु॒रस्ता॒द्वाति॑ । प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥ 37॥
विश्वास-प्रस्तुतिः
स यत्पु॒रस्ता॒द्वाति॑ प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥
मूलम्
स यत्पु॒रस्ता॒द्वाति॑ प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता॑द्वाति ॥
भट्टभास्कर-टीका
3स यदित्यादि ॥ स वायुः यदा पुरस्तात् पूर्वस्या दिशौ वाति तदाऽसौ प्राण एव भूत्वा प्रजानां प्राणतुल्यः पूर्वस्या आगच्छति ।
सायण-टीका
अथ प्राच्य्-आदि-भेदेन प्राणादि-नामानि वायौ ध्यातव्यानि। तत्र प्राण-नाम-ध्यानं विधत्ते-
स यत् पुरस्ताद् वाति। [[P464]]
प्राण एव भूत्वा पुरस्ताद् वाति।
तस्मात् पुरस्ताद् वान्तम्।
सर्वाः प्रजाः प्रतिनन्दन्ति।
प्राणो हि प्रियः प्रजानाम्।
प्राण इव प्रियः प्रजानां भवति।
य एवं वेद।
स वा एष प्राण एव,
इति। स वायुर् यदा पूर्वस्यां दिशि संचरति तदा प्राण-रूपो भूत्वा संचरति।
मूलम्
तस्मा॑त्पु॒रस्ता॒द्वान्त॑म् । सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।
विश्वास-प्रस्तुतिः
तस्मा॑त्पु॒रस्ता॒द्वान्त॒म् सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।
मूलम्
तस्मा॑त्पु॒रस्ता॒द्वान्त॒म् सर्वा॑ प्र॒जाᳶ प्रति॑नन्दन्ति ।
भट्टभास्कर-टीका
तस्मात् पूर्वस्या दिश आगच्छन्तं वायुं सर्वाः प्रजाः प्रतिनन्दन्ति,
सायण-टीका
यस्मात् पूर्वस्यां दिशि संचरन् वायुः प्राणत्वेन प्रजानां प्रियस् तस्मात् पूर्वस्यां दिशि संचरन्तं वायुं प्रति सर्वाः प्रजा हृष्यन्ति।
विश्वास-प्रस्तुतिः
प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् ।
मूलम्
प्रा॒णो हि प्रि॒यᳶ प्र॒जाना॑म् ।
भट्टभास्कर-टीका
प्रतिमुखं प्रत्येकं वा तिष्ठन्ति प्राणो नाम प्रजानां प्रियो भवति । पुरोवातश्च प्राण इत्युक्तम् ।
सायण-टीका
वायौ समागते सति शरीर-स्वेदः शुष्यति, वृष्टिर् भविष्यतीत्य् एवं प्रजानां संतोषः।
विश्वास-प्रस्तुतिः
प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति ।
मूलम्
प्रा॒ण इ॑व प्रि॒यᳶ प्र॒जाना॑म्भवति ।
मूलम्
य ए॒वव्ँ वेद॑ । स वा ए॒ष प्रा॒ण ए॒व ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ स वा ए॒ष प्रा॒ण ए॒व ।
मूलम्
य ए॒वव्ँ वेद॒ स वा ए॒ष प्रा॒ण ए॒व ।
भट्टभास्कर-टीका
अथैवं वेदिता प्राण इव प्रजानां प्रियो भवति । किमुच्यते प्राण इव प्रिय इति? ननु स एष एवं पवमानमहिमेवेदी प्राण एव सर्वप्रजानाम् । विदुषा हि सर्वं संधार्यते ॥
सायण-टीका
य एवं वायोः प्राण-रूपत्वं वेद, स प्रजानां प्राणवत्-प्रियो भवति। जन्मान्तरे च स एष प्राण-देवता-रूप एव भवति।
मूलम्
अथ॒ यद्द॑क्षिण॒तो वाति॑ । मा॒त॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।
विश्वास-प्रस्तुतिः
अथ॒ यद्द॑क्षिण॒तो वाति॑ मात॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।
तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात्त् सर्वा॒ दिश॒ आवा॑ति ।
सर्वा॒ दिशोऽनु॒विवा॑ति ।
सर्वा॒ दिशोऽनु॒सव्ँ वा॒तीति॑ ।
मूलम्
अथ॒ यद्द॑क्षिण॒तो वाति॑ मात॒रिश्वै॒व भू॒त्वा द॑क्षिण॒तो वा॑ति ।
तस्मा॑द्दक्षिण॒तो वान्तव्ँ॑वि॒द्यात्त् सर्वा॒ दिश॒ आवा॑ति ।
सर्वा॒ दिशोऽनु॒विवा॑ति ।
सर्वा॒ दिशोऽनु॒सव्ँ वा॒तीति॑ ।
भट्टभास्कर-टीका
4अथ यदित्यादि ॥ मातरि सर्वस्य परिच्छेदके आकाशे सर्वत्र श्वयति वर्धते, सर्वस्य वा श्वासयिता, मातृवद्वा सर्वस्याश्वासयिता मातरिश्वा ।
सायण-टीका
मातरिश्व-नाम-ध्यानं विधत्ते-
अथ यद् दक्षिणतो वाति।
मातरिश्वैव भूत्वा दक्षिणतो वाति।
तस्माद् दक्षिणतो वान्तं विद्यात्।
सर्वा दिश आ वाति।[^5]
सर्वा दिशो ऽनुविवाति।
सर्वा दिशो ऽनुसंवातीति।
स वा एष मातरिश्वैव,
इति। यदा वायुर् दक्षिणस्यां दिशि संचरति तदा मातरिश्वेति तस्य नाम ध्यातव्यम्।
विश्वास-प्रस्तुतिः
स वा ए॒ष मा॑त॒रिश्वै॒व ।
मूलम्
स वा ए॒ष मा॑त॒रिश्वै॒व ।
भट्टभास्कर-टीका
एतादृश एव हि भूत्वा दक्षिणतो गच्छति, सर्वाप्यायकत्वात् । स खल्वेवं वेदिता स्वयं मातारश्चैव । एवं विदुषा हि सर्वमाप्यते ॥
सायण-टीका
मातर्य् अन्तरिक्षे श्वयति वर्धते, मातृवन् नयतीति वा मातरिश्वा, सर्वेषाम् आप्यायन-कारीत्य् अर्थः। यस्माद् अयम् एवंविधो मातरिश्व-नामकस् तस्माद् दक्षिणस्यां दिशि संचरन्तं वायुम् एनं विद्यात्। मातरिश्व-नामको ऽयं वायुः सर्वा अपि दिश आभिमुख्येन गच्छति। सर्वा अपि दिशो ऽनुकूलः सन् विशेषेण संचरति, तथा सर्वा दिशो ऽनुप्राप्य सम्यक् संचरति। यत्र यादृशो वायुर् अपेक्षितस् तत्र तादृश एव संचरतीत्य् अर्थः। एवं वेदिता मातरिश्वैव भवति।
मूलम्
अथ॒ यत्प॒श्चाद्वाति॑ । पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।
विश्वास-प्रस्तुतिः
अथ॒ यत्प॒श्चाद्वाति॒ पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।
मूलम्
अथ॒ यत्प॒श्चाद्वाति॒ पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति ।
भट्टभास्कर-टीका
5पवमानः शोधकः पश्चाद्वातो भवति, शुद्धिहेतुत्वात्तस्य ।
सायण-टीका
अथ पवमान-नाम-ध्यानं विधत्ते-
अथ यत् पश्चाद् वाति।
पवमान एव भूत्वा पश्चाद् वाति।
घृतम् अस्मै आहरन्ति। [[P465]]
पूतम् उपहरन्ति।
घृतम् अश्नाति।
य एवं वेद।
स वा एष पवमान एव,
इति। यदा स वायुः पश्चिमायां दिशि संचरति तदा पवमान इति तस्य नाम, शोधक इत्य् अर्थः।
विश्वास-प्रस्तुतिः
पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति ।
मूलम्
पू॒तम॑स्मा॒ आह॑रन्ति । पू॒तमुप॑हरन्ति ।
भट्टभास्कर-टीका
अथ एवं वेदित्रेऽस्मै पूतं शुद्धमेव सर्वमाहरन्ति ददति, पूतमेवैतत्सकाशं प्रापयन्ति ।
सायण-टीका
यः पुमान् एवंविधं वायुं ध्यायति तस्मै विदुषे पूतं दोष-रहितं धनादिकम् आहरन्ति। तथा पूतं शुद्धम् अन्नम् उपहरन्ति समीपे समर्पयन्ति।
विश्वास-प्रस्तुतिः
पू॒तम॑श्ञाति ।
मूलम्
पू॒तम॑श्ञाति ।
सायण-टीका
स्वयम् अपि तत् पूतम् एवाश्नाति।
मूलम्
य ए॒वव्ँ वेद॑ । स वा ए॒ष पव॑मान ए॒व ॥39॥
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ स वा ए॒ष पव॑मान ए॒व ॥39॥
मूलम्
य ए॒वव्ँ वेद॒ स वा ए॒ष पव॑मान ए॒व ॥39॥
भट्टभास्कर-टीका
पूतं एव स्वयं चाश्नाति भुङ्क्ते । किं बहुना, स एष वेदिता पवमान एव स्वयम् ॥
सायण-टीका
तद् एतद् ऐहिक-फलम्। आमुष्मिकं तु पवमान-प्राप्ति-रूपम्।
मूलम्
यदु॑त्तर॒तो वाति॑ । स॒वि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।
विश्वास-प्रस्तुतिः
अथ॒ यदु॑त्तर॒तो वाति॑ सवि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।
मूलम्
अथ॒ यदु॑त्तर॒तो वाति॑ सवि॒तैव भू॒त्त्वोत्त॑र॒तो वा॑ति ।
भट्टभास्कर-टीका
6अथ यदित्यादि ॥ सविता देवः सर्वस्यानुज्ञाता, स एव भूत्वोत्तरतो वाति ।
सायण-टीका
सवितृ-नाम-ध्यानं विधत्ते-
अथ यद् उत्तरतो वाति।
सवितैव भूत्वोत्तरतो वाति।
सवितेव स्वानां भवति।
य एवं वेद।
स वा एष सवितैव,
इति। यदा स वायुर् उत्तरस्यां दिशि संचरति तदा सवितेति तस्य नाम, सर्वस्य प्रेरक इत्य् अर्थः।
विश्वास-प्रस्तुतिः
स॒वि॒तेव॒ स्वाना॑म्भवति ।
मूलम्
स॒वि॒तेव॒ स्वाना॑म्भवति ।
मूलम्
य ए॒वव्ँ वेद॑ । स वा ए॒ष स॑वि॒तैव ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ स वा ए॒ष स॑वि॒तैव ।
मूलम्
य ए॒वव्ँ वेद॒ स वा ए॒ष स॑वि॒तैव ।
भट्टभास्कर-टीका
अथ एवं वेदिता स्वानां ज्ञातीनामपि सवितृतुल्यो भवति । किमुच्यते सवितेवेत्यादि ननु स एव स्वयं सवितैव ॥
सायण-टीका
एवं वेदिता स्वकीयानां सर्वेषाम् इह प्रेरको भवति। परत्रायं सवितैव भवति।
मूलम्
ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति । य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मानः॑ । ताँस्तेऽप॑घ्नन्ति ।
विश्वास-प्रस्तुतिः
ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
मूलम्
ते य ए॑नम्पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ पु॒रस्ता॑त्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
भट्टभास्कर-टीका
7ते च एवमित्यादि ॥ ते खलु य एते पुरस्तादायन्तं पूर्वस्या दिश आगच्छन्तं विद्वांसं प्राणादिरूपेण प्राच्यादिदिक्षु निर्धारितमेनमुपवदन्ति निन्दन्ति ।
सायण-टीका
एवं वायु-ध्यानं कुर्वतां ध्यानाङ्गत्वेन निन्दानुग्रहं विधित्सुः प्रथमं तावत् साधने कांचिद् उपपत्तिं दर्शयति-
ते य एनं पुरस्ताद् आयन्तम् उपवदन्ति।
य एवास्य पुरस्तात् पाप्मानः।
तांस् ते ऽपघ्नन्ति।
पुरस्ताद् इतरान् पाप्मनः सचन्ते। इति।
पूर्वस्यां दिश्य् आगच्छन्तम् एनं वायु-ध्यायिनं ते लोक-प्रसिद्धा निन्दका “दाम्भिको ऽयम्” इत्याद्यैर् दुर्वाक्यैर् निन्दन्ति।
विश्वास-प्रस्तुतिः
पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते ।
मूलम्
पु॒रस्ता॒दित॑रान्पा॒प्मन॑स्सचन्ते ।
भट्टभास्कर-टीका
निन्दितृदर्शनेऽपि न निन्दितः स इति दर्शयति - ते उपवदितारोऽस्य पुरस्तात्पाप्मानः तद्दिगवस्थितान् उपवदितारः स्वयं गृह्णन्तीति । एवं विद्वत्संबन्धेन साऽपि दिक् विपाप्मा भवतीति ॥
सायण-टीका
तदानीम् अस्य ध्यातुः पूर्वस्यां दिशि ये केचित् संभाविताः पाप्मानस् तान् सर्वांस् ते निन्दका अपघ्नन्ति। अस्य ध्यातुस् तया निन्दया पाप-जयो भवति। निन्दकास् तु त एतन्-निन्दा-जन्यान् इतरान् पाप्मनः प्राप्नुवन्ति। [[P466]]
मूलम्
अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति ॥40॥
य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति ।
य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति ।
य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मानः॑ ।
ताँस्तेऽप॑घ्नन्ति ॥41॥
विश्वास-प्रस्तुतिः
अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ प॒श्चात्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
मूलम्
अथ॒ य ए॑नन्दक्षिण॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ दक्षिण॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
द॒क्षि॒ण॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नम्प॒श्चादा॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्य॑ प॒श्चात्पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
प॒श्चादित॑रान्पा॒प्मन॑स्सचन्ते ।
अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒वद॑न्ति॒ य ए॒वास्यो॑त्तर॒तᳶ पा॒प्मान॒स् ताँस्तेऽप॑घ्नन्ति ।
उ॒त्त॒र॒त इत॑रान्पा॒प्मन॑स्सचन्ते ।
भट्टभास्कर-टीका
8-10अथ य एनं दक्षिणत इत्यादि ॥ समानम् ॥
सायण-टीका
पूर्वस्यां दिश्य् उक्तं ध्यातुः पाप-क्षयं निन्दकस्य पाप-संबन्धं च दिग्-अन्तरेष्व् अपि क्रमेण दर्शयति-
अथ य एनं दक्षिणत आयन्तम् उपवदन्ति।
य एवास्य दक्षिणतः पाप्मानः।
तांस् ते ऽपघ्नन्ति।
दक्षिणत इतरान् पाप्मनः सचन्ते।
अथ य एनं पश्चाद् आयन्तम् उपवदन्ति।
य एवास्य पश्चात् पाप्मानः।
तांस् ते ऽपघ्नन्ति।
पश्चाद् इतरान् पाप्मनः सचन्ते।
अथ य एनम् उत्तरत आयन्तम् उपवदन्ति।
य एवास्योत्तरतः पाप्मानः।
तांस् ते ऽपघ्नन्ति।
उत्तरत इतरान् पाप्मनः सचन्ते,
इति। प्रथम-पर्यायवद् इतर-पर्याय-त्रयं व्याख्येयम्।
विश्वास-प्रस्तुतिः
तस्मा॑दे॒वव्ँ वि॒द्वान् ।
वीव॑ नृत्येत् ।
प्रेव॑ चलेत् ।
मूलम्
तस्मा॑दे॒वव्ँ वि॒द्वान् ।
वीव॑ नृत्येत् ।
प्रेव॑ चलेत् ।
भट्टभास्कर-टीका
11तस्मादिति ॥ यस्मादेवमुपवदितारः पाप्मनोऽपध्नन्ति । तस्मादुपवदनमेवंफलमिति विद्वान् वीव तृप्येत् विरूपमिव नृत्येत् गात्राणि विनामयेत्, प्रेव चलेत् प्रकृष्टमिव चलेत् प्रमाणातीतमिव पदविन्यासं कुर्यात् ।
सायण-टीका
तद् एवं निन्दाया अनुग्राहकत्वेन सहन-योग्यत्वं प्रतिपाद्य निन्दितेन ध्यात्रानुष्ठेयं विधत्ते-
तस्माद् एवं विद्वान्।
वीव नृत्येद् इव।
प्र चलेत्।
व्यस्येवाक्ष्यौ भाषेत।
मण्टयेद् इव।
क्राथयेद् इव।
शृङ्गायेद् इव,
इति। यस्माद् अन्यैः स्वस्मिन् प्रयुक्ता निन्दा निन्दकानाम् एव प्रत्यवायोत्पत्ति-हेतुस् तस्माद् एवं विद्वान् उपासको निन्दां श्रुत्वा विशेषेण नृत्येद् इव। यथा लोके कांचित् प्रिय-करीं पुत्र-जन्मादि-वार्तां श्रुत्वा हृष्यन्तः स्व-मनोगतं हर्षं द्योतयितुं बाह्यैर् मुख-विकासादिभिर् नृत्यन्तीव दृश्यन्ते, एवम् अयम् अपि स्वमुखं विकासयेद् इत्य् अर्थः। तथा प्रहृष्टम् इव चरेत्। यथा लोके नृत्यन्तः प्रमोदन्तः पद-विन्यासादिकं कुर्वन्ति, तद्वद् अयम् अपि पद्भ्यां तम् अभिनयेत्।
विश्वास-प्रस्तुतिः
व्यस्ये॑वा॒क्ष्यौ भा॑षेत ।
मूलम्
व्यस्ये॑वा॒क्ष्यौ भा॑षेत ।
भट्टभास्कर-टीका
व्यस्येवाक्ष्यौ भाषेत व्यस्य विक्षिप्येव अक्ष्यौ अक्षिणी चक्षुषी भाषेत अतिमात्रविष्फारिताक्षो वक्तव्यानि प्रतिपद्येत ‘ई च द्विवचने’ इतीकारः ।
सायण-टीका
तथाक्ष्यौ चक्षुषी व्यस्येव विकास्येव दर्प-विकसिते कृत्वा समीचीनानि प्रिय-वचनानि निन्दकेन सह भाषेत।
विश्वास-प्रस्तुतिः
म॒ण्टये॑दिव ।
मूलम्
म॒ण्टये॑दिव ।
भट्टभास्कर-टीका
मण्टयेदिव उन्मत्त इव अव्यवस्थितं चेष्टेत । ‘मटि उन्मादे’ ।
सायण-टीका
एवं [[P467]] मोक्ष-शास्त्रेषु स्मर्यते –
“तुल्य-निन्दा-स्तुतिर् मौनी संतुष्टो येन केनचित्” इति।
किंच मण्टयेद् इव, उन्माद्येद् इव। मटि उन्माद इति धातुः। अत एव जाबालोपनिषदि श्रूयते -
“अव्यक्त-लिङ्गा अव्याक्ताचारा अनुन्मत्ता उन्मत्तवद् आचरन्ति”
इति।
विश्वास-प्रस्तुतिः
क्रा॒थये॑दिव ।
मूलम्
क्रा॒थये॑दिव ।
भट्टभास्कर-टीका
क्राथयेदिव उन्मादातिशयेन क्राथयन् सर्वान् जन्तून् हिनस्ति । ‘क्रथ हिंसायाम्’ चुरादिः ।
सायण-टीका
उन्माद-नटनम् एव स्पष्टीक्रियते -
क्राथयेद् इव। क्रथ हिंसायाम् इति धातुः। क्वचित् कान्तां ताडयितुम् इव गच्छेत्।
विश्वास-प्रस्तुतिः
शृ॒ङ्गा॒येते॑व ।
मूलम्
शृ॒ङ्गा॒येते॑व ।
भट्टभास्कर-टीका
अथोन्माथन्निव चरेत् । शृङ्गायेतेव शृङ्गायितं नाम उक्षक्रीडितं, यत्र शृङ्गाभ्यां मृदमुद्धृत्य पृष्ठे विक्षिपति तामेव क्रीडामाचरेत् ।
सायण-टीका
शृङ्गायेतेव। महा-वृषभः शृङ्गाभ्यां मृदम् उत्क्षिप्योद्धृत्य स्वपृष्ठे विक्षिप्य क्रीडति। तद् इदं क्रीडनं शृङ्गायितम्। तथायं क्रीडेत्। तस्य चोन्माद-नटनस्य जनैः सङ्गाभावः प्रयोजनम्। अत एव स्मर्यते-
तथा चरति वै योगी सतां धर्मम् अदूषयन्।
जना यथा न मन्येरन् न गच्छेयुर् नैव संगतिम्॥ इति।
विश्वास-प्रस्तुतिः
उ॒त मोप॑वदेयुः ।
मूलम्
उ॒त मोप॑वदेयुः ।
भट्टभास्कर-टीका
किमर्थमिति चेत् - उत मोपवदेयुः अपिनाम किंचिन्मां निन्दयेयुरिति ।
सायण-टीका
निन्दां सहमानस्याभिप्रायः स्पष्टीक्रियते -
उत मोपवदेयुः।
उत मे पाप्मानम् अपहन्युर् इति, इति।
किम् एते मां निन्देयुः?
विश्वास-प्रस्तुतिः
उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ ।
मूलम्
उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑ ।
भट्टभास्कर-टीका
तदपि किमर्थमिति चेत् - उत मे पाप्मानमपहन्युरिति । अपिनाम मम पाप्मानमेते नाशयेयुरिति॥
सायण-टीका
किं वा मे पाप्मानं विनाशयेयुर् इति? अस्याश् च वाचो भङ्ग्या ऽयम् अर्थः। नैते निन्दन्ति, किं तु पाप्मानम् एव विनाशयन्ति।
विश्वास-प्रस्तुतिः
स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् ।
मूलम्
स यान्दिशँ॑ स॒निमे॒ष्यन्त्स्यात् ।
भट्टभास्कर-टीका
12स यामियादि ॥ स विद्वान् यां दिशं सनिं भिक्षणं एष्यन् स्यात् यां दिशं भिक्षितुमेष्यन् स्यात् सननीयं भक्तं सनिं ‘वन षण संभक्तौ’ औणादिकं इप्रत्ययः । गत्यर्थत्वात् द्विकर्मकत्वम् । सन्येषणं वा ।
सायण-टीका
अथास्य भिक्षाटन-प्रकारं दर्शयति-
स यां दिशं सनिमेष्यन्त्स्यात्।
यदा तां दिशं वातो वा यात्।
अथ प्रवेयात्।
प्र वा धावयेत्।
सातम् एव रदितं व्यूढं गन्धम् अभिप्रच्यवते।
आस्य तं जनपदं पूर्वी कीर्तिर् गच्छति,
इति।
स वायूपासको यो दिशम् अभिप्रेत्य, सनिमेष्यन् भैक्ष्यं प्राश्नामीत्य् एवं-बुद्धिः स्यात्। दान-वाची सनि-शब्दो ऽत्र स्वत्व-त्याग-पूर्वकं परैर् देयं भैक्ष्यम् उपलक्षयति।
मूलम्
य॒दा तान्दिशव्ँ॒वातो॑ वा॒यात् । अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।
विश्वास-प्रस्तुतिः
य॒दा तान्दिशव्ँ॒वातो॑ वा॒याद् अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।
मूलम्
य॒दा तान्दिशव्ँ॒वातो॑ वा॒याद् अथ॒ प्रवे॒यात् । प्र वा॑ धावयेत् ।
भट्टभास्कर-टीका
तां दिशमाश्रित्य यदा वातो वायात् यतो दिशो वात आगच्छेत् अथ अनन्तरं तां दिशं प्रवेयात् प्रेयाद्वा स्वयं प्रधावयेत् प्रेषयेद्वा शिष्यादिकम् । केचिदाहुः - तां दिशं प्रतिगच्छेद्वा धावेच्चेति । स्वार्थिको णिच् यथेष्टं गच्छेदिति । यथा गच्छन् स्यात्तादृग्गुणकमेव भैक्षमभिप्रच्यवते यत्रैवंगुणकमुत्पत्स्यते तत्रैव गच्छेत् ।
सायण-टीका
यस्यां दिशि “भैक्ष्यं लप्स्यत” इत्य् एवं-बुद्धिर् योगी, तां दिशम् अनुकूलो वायुर् यदा वायात् तदा प्रवेयात्, प्रकम्पेत्, तस्यां दिशि गन्तुं प्रचलेद् इत्य् अर्थः। स्वयं सहसा गन्तुम् अशक्तश् चेच् छिष्यं वा प्रकर्षेण धावयेत्। तदानीं सातादि-विशेषण-विशिष्टम् एव भैक्ष्यम् अभिलक्ष्यायम् प्रच्यवते प्रकर्षेण गच्छति।
विश्वास-प्रस्तुतिः
सा॒तमे॒व र॑दि॒तव्ँ व्यू॑ढङ्ग॒न्धम॒भिप्रच्य॑वते ।
मूलम्
सा॒तमे॒व र॑दि॒तव्ँ व्यू॑ढङ्ग॒न्धम॒भिप्रच्य॑वते ।
भट्टभास्कर-टीका
सातं स्वयं लब्धं न तु पूर्वं लिप्सितं प्रागनावेदितम् । सनोतेर्निष्ठायां ‘जनसनखनाम्’ इत्यात्वम् । रदितं विलेखितं कृतमर्यादं परिमितमित्यर्थः । ‘रद विलेखने’ । व्यूढं विभक्तं साधारणपात्रात् पृथगुद्धृतम् । गन्धं प्रकाशितं इदमद हति ख्यापितं, गन्धं सिद्ध्यन्तमिति केचिन् ।
सायण-टीका
सातं स्वयं लब्धं प्राग् अवेदितम् इत्य् अर्थः। रदितम् इति, रद विलेखन इति धातुः। रदितं विलेखितं, कृत-मर्यादम् इत्य् अर्थः। व्यूढं विभक्तं, साधारं पात्रे पृथक्-पृथग्-उद्धृतम् इत्य् अर्थः। गन्धं, यादृशं [[P468]] तादृश-गन्धोपेतम्।
विश्वास-प्रस्तुतिः
आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति ।
मूलम्
आऽस्य॒ तञ्ज॑नप॒दम्पूर्वा॑ की॒र्तिर्ग॑च्छति ।
भट्टभास्कर-टीका
एवमिदं व्रतमाचरति । अस्य कीर्तिः पूर्वा प्रथमैव तं जनपदं जनाधिवासं आगच्छति । अस्य कीर्तिस्तत्र प्रथमं प्रथते, अयमेव सर्वजनचित्तस्थो भवति । वेदितुरेव वा इदं फलम् ।
सायण-टीका
एवंविधैर् नियमैर् उपेतस्य योगिनः कीर्तिस् तस्मात् पूर्वैव जनपदम् आगच्छति। ईदृशो महात्माभिज्ञः समायातीत्य् एवं सर्वे जनपद-वासिनो भक्तिं कुर्वन्तीत्य् अर्थः॥
मूलम्
दान॑कामा अस्मै प्र॒जा भ॑वन्ति । य ए॒वव्ँ वेद॑ ॥42॥
विश्वास-प्रस्तुतिः
दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ य ए॒वव्ँ वेद॑ ॥42॥
मूलम्
दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ य ए॒वव्ँ वेद॑ ॥42॥
भट्टभास्कर-टीका
अथैवं वेदित्रे दानकामास्सर्वाः प्रजा भवन्ति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके नवमोऽनुवाकः ॥
सायण-टीका
भिक्षाटन-वृत्तान्त-ज्ञानं प्रशंसति -
दान-कामा अस्मै प्रजा भवन्ति।
य एवं वेद। (९)
इति॥ इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके नवमो ऽनुवाकः ॥ ९ ॥