विश्वास-प्रस्तुतिः
प्रजा᳓पतिर् अकामयत प्र᳓ जायेये᳓ति । स᳓ त᳓पो ऽतप्यत । सो᳓ ऽन्त᳓र्वान् अभवत् ।
मूलम्
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑ऽतप्यत । सो॑ऽन्तर्वा॑नभवत् ।
भट्टभास्कर-टीका
1प्रजापतिरकामयतेत्यादि ॥ तप इति दशहोतुर्जपहोमादिकमकरोत् । अन्तर्वान् गर्भवान् ।
सायण-टीका
सप्तमे ऽनुवाके एक-होतृकाग्निहोत्रे सर्व-यज्ञ-क्रतु-होतृ-फलान्तर्भाव-द्वारेण सर्वर्त्विक्ष्वनुगत एक-होता प्रशंसितः। अथाष्टमे होतृ-मन्त्र-सामर्थ्यं प्रशस्यते। तत्र तावद् आसुर-सृष्टिं दर्शयति-
प्रजापतिर् अकामयत प्रजायेयेति।
स तपो ऽतप्यत।
सो ऽन्तर्वानभवत्।
स हरितः श्यावो ऽभवत्।
तस्मात् स्त्र्यन्तर्वत्नी।
हरिणी सती श्यावा भवति।
स विजायमानो गर्भेणाताम्यत्।
स तान्तः कृष्णः श्यावो ऽभवत्।
तस्यासुर् एवाजीवत्।
तेनासुनासुरान् असृजत।
तद् असुराणाम् असुरत्वम्।
य एवम् असुराणाम् असुरत्वं वेद।
असुमान् एव भवति।
नैनम् असुर् जहाति,
इति। प्रजाम् उत्पादयितुं कामयमानः प्रजापतिर् होतृ-मन्त्रानुष्ठान-रूपं तपः कृत्वा स्वोदरे गर्भं धृत्वा
विश्वास-प्रस्तुतिः
स᳓ ह᳓रितश् श्यावो᳙ ऽभवत् ।
मूलम्
स हरि॑तश्श्या॒वो॑ऽभवत् ।
भट्टभास्कर-टीका
हरितश्श्यावश्च श्वेतसंसर्गवर्णः नीलपाण्डुः, हरितसुवर्ण इति केचित् । ‘अन्तर्वत्पतिवतोः’ निपातान्मतुप् ।
सायण-टीका
हरित-श्यावो नील-श्वेत-मिश्र-वर्णो ऽभवत्।
विश्वास-प्रस्तुतिः
त᳓स्मात् स्त्र्य्-अ᳙न्त᳓र्वत्नी
ह᳓रिणी सती᳓ श्यावा᳓+++(=श्वेता)+++ भवति ।
मूलम्
तस्मा॒त्स्त्र्य॑न्तर्व॑त्नी । हरि॑णी स॒ती श्या॒वा भ॑वति ।
भट्टभास्कर-टीका
हरिणी ‘वर्णादनुदात्तात्’ इति ङीप् ।
सायण-टीका
अत एव लोके गर्भिणी स्त्री तादृग्-वर्णा दृश्यते।
विश्वास-प्रस्तुतिः
स᳓ विजा᳓यमानो ग᳓र्भेणाताम्यत् ।
मूलम्
स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत् ।
भट्टभास्कर-टीका
अथ प्रजापतिः विजायमानः प्रसुवानः प्रसवकाले तेन गर्भेण अताम्यत् क्लेशी बभूव,
सायण-टीका
स प्रजापतिर् विजायमानो गर्भ-स्थित-जन्तु-विशेषेण प्रसव-काले ताम्यद् ग्लानिं प्राप्नोत्।
विश्वास-प्रस्तुतिः
स᳓ तान्तᳵ᳓ कृष्ण᳓श् श्यावो᳙ऽभवत् ।
मूलम्
स ता॒न्तᳵ कृ॒ष्णश्श्या॒वो॑ऽभवत् ।
भट्टभास्कर-टीका
तान्तश्च कृष्णः श्यावः, कृष्णश्च श्वेतः वर्णेन अभवत् ।
सायण-टीका
तदा ग्लानि-वशात् कृष्ण-श्वेत-मिश्र-रूपो ऽभवत्।
विश्वास-प्रस्तुतिः
त᳓स्मात् तान्तᳵ᳓ कृष्ण᳓श् श्यावो᳓ भवति ।
मूलम्
तस्मा॑त्ता॒न्तᳵ कृ॒ष्णश्श्या॒वो भ॑वति ।
भट्टभास्कर-टीका
तस्मादध्वगमनादिना तान्तोऽन्यः कोऽपि कृष्णः श्यावसंसर्गरूपो भवति ।
सायण-टीका
[[P460]] अत एव लोके मार्ग-श्रम-रोग-श्रमादिना तादृग्-वर्णो भवति।
विश्वास-प्रस्तुतिः
त᳓स्या᳓सुर् एवा᳓जीवत् ॥31॥
मूलम्
तस्यासु॑रे॒वाजी॑वत् ॥31॥
भट्टभास्कर-टीका
तस्य तान्तस्य प्रजापतेः असुः प्राण एवत्राजीवत् ।
सायण-टीका
तस्य तादृशस्य ग्लानिं प्राप्तस्य प्रजापतेर् असुर् एवाजीवत् श्वास-मात्रं स्व-व्यापार-क्षमम् अभूत्। न तु हस्त-पादादयः स्व-व्यापार-क्षमाः।
विश्वास-प्रस्तुतिः
ते᳓ना᳓सुना᳓ऽसुरान् असृजत ।
त᳓द् अ᳓सुराणाम् असुरत्व᳓म् ।
मूलम्
तेनासु॒नाऽसु॑रानसृजत ।
तदसु॑राणामसुर॒त्वम् ।
भट्टभास्कर-टीका
तेनासुना असुरानसृजत । तेन असुना सृष्टत्वात् असुमन्तः प्राणवन्तोऽसुरा अभूवन् ।
सायण-टीका
तदानीं तेनासुना प्राण-वायुना बलाधिकान् असुरान् असृजत। बल-हेतुर् असुः प्राण-वायुर् एषाम् अस्तीति व्युपत्त्या तेषाम् असुर-नाम संपन्नम्।
विश्वास-प्रस्तुतिः
य᳓ एव᳓म् अ᳓सुराणाम् असुरत्वव्ँ᳓ वे᳓द
अ᳓सुमान् एव᳓ भवति ।
नै᳓नम् अ᳓सुर् जहाति ।
मूलम्
य ए॒वमसु॑राणामसुर॒त्वव्ँ वेद॑ । असु॑माने॒व भ॑वति । नैन॒मसु॑र्जहाति ।
भट्टभास्कर-टीका
य एवमित्यादि । गतम् ॥
सायण-टीका
एतस्य वेदिता बल-कारिणा प्राणेन युक्तो भवति। स च प्राण एनं वेदितारम् अपमृत्युना न परित्यजति।
विश्वास-प्रस्तुतिः
सो᳓ऽसुरान्त् सृष्ट्वा᳓
पिते᳓वामन्यत ।
मूलम्
सोऽसु॑रान्त्सृ॒ष्ट्वा पि॒तेवा॑मन्यत ।
भट्टभास्कर-टीका
2अथ असुरसृष्ट्यनन्तरं पितरम् असञ्जातपितृत्वमात्मानममन्यत ।
सायण-टीका
अथ पितृ-सृष्टिं दर्शयति-
सो ऽसुरान् सृष्ट्वा पितेवामन्यत।
तद् अनु पितॄन् असृजत।
तत् पितॄणां पितृत्वम्।
य एवं पितॄणां पितृत्वं वेद।
पितेव स्वानां भवति।
यन्त्य् अस्य पितरो हवम्। इति।
स प्रजापतिर् असुरान् सृष्ट्वा पितृत्वाभिमानम् अकरोत्। यथा नव्यं गृहादिकं निर्माय गृहस्य पिताहम् इति न मन्यते। पुत्रान् उत्पाद्य तथा मन्यते। एवम् अयं प्रजापतिर् अपि गिरि-नद्याद्य्-अचेतनं सृष्ट्वा पितृत्वं न मन्यते। चेतनान् असुरान् सृष्ट्वा पितृत्वं मन्यते।
विश्वास-प्रस्तुतिः
त᳓द् अ᳓नु पितॄ᳓न् असृजत ।
मूलम्
तदनु॑ पि॒तॄन॑सृजत ।
भट्टभास्कर-टीका
तत्रान्तरे पितरमात्मानमनुमन्यमानः पितॄनसृजत ।
सायण-टीका
अतः पितृत्व-वासना-वासितं तन् मनो ऽनु सृष्टाव् अपि पितृ-लोक-स्वामिनः पितॄन् असृजत।
विश्वास-प्रस्तुतिः
त᳓त् पितृणा᳓म् पितृत्व᳓म् ।
मूलम्
तत्पि॑तृ॒णाम्पि॑तृ॒त्वम् ।
भट्टभास्कर-टीका
पितृभावमनुसन्दधता सृष्टत्वात् पितरः ।
सायण-टीका
पितृत्वाभिमानेन सृष्टत्वात् पितृ-नाम संपन्नम्।
विश्वास-प्रस्तुतिः
य᳓ एव᳓म् पितृणा᳓म् पितृत्वव्ँ᳓ वे᳓द
पिते᳓वैव᳓ स्वा᳓नाम् भवति ॥ 32॥
मूलम्
य ए॒वम्पि॑तृ॒णाम्पि॑तृ॒त्वव्ँ वेद॑ ।
पि॒तेवै॒व स्वाना॑म्भवति ॥ 32॥
भट्टभास्कर-टीका
एवं वेदिता स्वानां ज्ञातीनां पितेव भवति । ‘अज्ञातिधनाख्यायाम्’ इति वचनात् सर्वनामत्वाभावः ।
सायण-टीका
एवं वेदिता स्वकीयानां सर्वेषां पितेव मान्यो भवति।
विश्वास-प्रस्तुतिः
य᳓न्त्य् अस्य पित᳓रो ह᳓वम् ।
मूलम्
यन्त्य॑स्य पि॒तरो॒ हव॑म् ।
भट्टभास्कर-टीका
किंच अस्य हवं आह्वानं पितरो यन्ति आह्वानस्थानं गच्छन्ति, पितृत्वेन श्रद्धेयवचनत्वात् ॥
सायण-टीका
अपि चास्य वेदितुः स्वयं मृताः पितरः सर्वे हवं यन्त्य् आह्वानं प्राप्नुवन्ति। एतेन श्राद्धादाव् आहूताः सन्तः फल-दानेनानुगृह्णन्तीत्य् अर्थः।
विश्वास-प्रस्तुतिः
स᳓ पितॄ᳓न्त् सृष्ट्वा᳓ऽमनस्यत् ।
मूलम्
स पि॒तॄन्त्सृ॒ष्ट्वाऽऽम॑नस्यत् ।
भट्टभास्कर-टीका
3अथ पितॄन् सृष्ट्वा अस्मिन्नवसरे अमनस्यत् मन आत्मन ऐच्छत् । मनस्वी बभूवेति वा । किमिदानीं सृजेयमिति मनसि कृतवान् ।
सायण-टीका
अथ मनुष्य-सृष्टिं दर्शयति-
स पितॄन् सृष्ट्वामनस्यत्।
तद् अनु मनुष्यान् असृजत।
तन् मनुष्याणां मनुष्यत्वम्।
य एवं मनुष्याणां मनुष्यत्वं वेद।
मनस्वी एव भवति।
नैनं मनुर् जहाति,
इति।
[[P461]] स प्रजापतिः पितृ-सृष्टेर् ऊर्ध्वं किम् इदानीम् अन्यत् सृजामीत्य् एवम् अमनस्यत् सृष्टि-विषयं मनो ऽकरोत्।
विश्वास-प्रस्तुतिः
त᳓द् अ᳓नु मनुष्या᳙न् असृजत ।
त᳓न् मनुष्या᳙णाम् मनुष्यत्व᳓म् ।
मूलम्
तदनु॑ मनु॒ष्या॑नसृजत ।
तन्म॑नु॒ष्या॑णाम्मनुष्य॒त्वम् ।
भट्टभास्कर-टीका
तस्मात् तदानीं जाता मनुष्याः मन्यमानस्यापत्यत्वात् मनुष्याः । ‘मनोर्जातौ’ इति यत्, षुक्च ।
सायण-टीका
तन् मनो ऽनुसृत्य मनुष्यान् असृजत। यस्मान् मनो ऽनुसारेणोत्पन्नास् तस्मात् तन् मनुष्य-नाम संपन्नम्।
विश्वास-प्रस्तुतिः
य᳓ एव᳓म् मनुष्या᳙णाम् मनुष्यत्वव्ँ᳓ वे᳓द
मनस्व्य् ए᳙व᳓ भवति ।
मूलम्
य ए॒वम्म॑नु॒ष्या॑णाम्मनुष्य॒त्वव्ँ वेद॑ । म॒न॒स्व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
य एवमित्यादि । गतम् ।
सायण-टीका
य एवं वेदिता मनस्वी सर्व-कार्येषु स्थिर-चित्तो भवति। मनुर् मनन-शक्तिः कदाचिद् अप्य् एनं न जहाति।
विश्वास-प्रस्तुतिः
नै᳓नम् म᳓नुर् जहाति,
त᳓स्मै मनुष्या᳙न्त् ससृजाना᳓य ।
मूलम्
नैन॒म्मनु॑र्जहाति । तस्मै॑ मनु॒ष्या॑न्त्ससृजा॒नाय॑ ।
भट्टभास्कर-टीका
मनुः मनुत्वं मन्तृत्वमेनं न जहाति ॥
सायण-टीका
अथ देव-सृष्टिं दर्शयति-
तस्मै मनुष्यान् ससृजानाय।
दिवा देवत्राभवत्।
तद् अनु देवान् असृजत।
तद् देवानां देवत्वम्।
य एवं देवानां देवत्वं वेद।
दिवा हैवास्य देवत्रा भवति,
इति।
यो मनुष्यान् ससृजानः सृष्टवान् प्रजापतिस्
विश्वास-प्रस्तुतिः
दि᳓वा देवत्रा᳓ऽभवत् ।
मूलम्
दिवा॑ देव॒त्राऽभ॑वत् ।
भट्टभास्कर-टीका
4-5अथ तस्मै मनुष्यान् सृष्टवते दिवा दिवसस्तादात्विकः देवत्रा देवनादिकत्वे अभवत् मनुष्यवत्तया दीप्तिमानभवत् ।
सायण-टीका
तस्मै प्रजापतये दिवा देवत्राभवत्। दिवसो द्योतन-शीलो ऽभवत्।
विश्वास-प्रस्तुतिः
त᳓द् अ᳓नु देवा᳓न् असृजत ।
त᳓द् देवा᳓नान् देवत्व᳓म् ।
मूलम्
तदनु॑ दे॒वान॑सृजत ।
तद्दे॒वाना॑न्देव॒त्वम् ।
भट्टभास्कर-टीका
तत्रान्तरे देवानसृजत । तस्माद्दीप्तिमद्देहसम्बन्धाद्देवाः ।
सायण-टीका
सृष्टैर् मनुष्यैर् लौकिक-वैदिक-व्यवहारे सर्वस्मिन् क्रियमाणे सति दिवसः सर्वो ऽपि व्यवहारैर् द्योत्यते, तद् एतद् देवनम् अनुसृत्य देवान् असृजत। देवनानुसारेणोत्पन्नत्वाद् देवानां देवत्वं संपन्नम्।
विश्वास-प्रस्तुतिः
य᳓ एव᳓न् देवा᳓नान् देवत्वव्ँ᳓ वे᳓द
दि᳓वा हैवा᳓स्य देवत्रा᳓ भवति ।
मूलम्
य ए॒वन्दे॒वाना॑न्देव॒त्वव्ँ वेद॑ । दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति ।
भट्टभास्कर-टीका
एवं वेदितुः सर्वो दिवसो देवत्रैव भवति देवन एव भवति । ‘देवमनुष्य’ इत्यादिना त्राप्रत्ययः ।
सायण-टीका
एवं वेदितुः सर्वो ऽपि दिवसः सर्वैर् व्यवहारैः प्रकाशितो भवति।
विश्वास-प्रस्तुतिः
ता᳓नि वा᳓ एता᳓नि चत्वा᳓र्य् अ᳓म्भाँसि
देवा᳓ मनुष्याᳶ᳙ पित᳓र् ओ᳓ऽसुराः ।
मूलम्
य ए॒वव्ँ वेद॑ ॥33॥
दे॒वा म॑नु॒ष्या॑ᳶ पि॒तरोऽसु॑राः ।
भट्टभास्कर-टीका
तानीत्यादि । अम्भांसि अदनस्थानानि ‘अदेर्नुम्भश्च, इत्यसुन् । भोगस्थानानीत्यर्थः ।
सायण-टीका
उक्तां सृष्टिं निगमयति-
तानि वा एतानि चत्वार्य् अम्भांसि।
देवा मनुष्याः पितरो ऽसुराः,
इति।
यानि चत्वारि देवादि-स्थानानि तानि सर्वाण्य् अम्भांसि जल-सदृशानि। यथा तडाग-नद्यादि-जलं स्नान-पानाद्य्-उपयुक्तम्, एवम् एतानि भोगोपयुक्तानीत्य् अर्थः॥
विश्वास-प्रस्तुतिः
ते᳓षु स᳓र्वेष्व् अ᳓म्भो न᳓भ इव भवति
य᳓ एवव्ँ᳓ वे᳓द ॥33॥
मूलम्
तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति । य ए॒वव्ँ वेद॑ ॥33॥
भट्टभास्कर-टीका
एवं वेदिता तेषु सर्वेष्वपि तत्तदम्भस्सदृशो विख्यातो भवति, व्याप्तिमांश्च भवति, नभ इव ॥ ईति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके अष्टमोऽनुवाकः ॥
सायण-टीका
एतद्-वेदनं प्रशंसति-
तेषु सर्वेष्व् अम्भो नभ इव भवति।
य एवं वेद,
इति॥ [[P462]] सर्वेषु देवादि-स्थानेष्व् अम्भः-शब्दोपलक्षितो भोग आकाशवद् व्याप्तः संपूर्णो भवतीत्य् अर्थः॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके ऽष्टमो ऽनुवाकः ॥ ८ ॥