विश्वास-प्रस्तुतिः
प्रजा᳓पतिᳶ पु᳓रुषम् असृजत ।
मूलम्
प्र॒जाप॑ति॒ᳶ पुरु॑षमसृजत ।
भट्टभास्कर-टीका
1प्रजापतिः पुरुषमित्यादि ॥ प्रजापतिः परमात्मा पुरुषं हिरण्यगर्भमसृजत ।
सायण-टीका
षष्ठे होतृ-प्रशंसा-प्रसङ्गेन ऋतूनाम् ऋत्विग्-विशेषं व्यवस्थाप्याग्निहोत्रस्य तन्-मध्ये प्राशस्त्यं दर्शितम्। अथ तस्मिन्न् अग्निहोत्रे सर्व-क्रतु-सद्भाव-संपादनेन तद् अग्निहोत्रं सप्तमे प्रशंसति। तत्राऽऽदौ होतृ-मन्त्राणां प्रजापतेः शरीर-रक्षकत्वं दर्शयति-
प्रजापतिः पुरुषम् असृजत।
सो ऽग्निर् अब्रवीत्।
ममायम् अन्नम् अस्त्व् इति।
सो ऽबिभेत्।
सर्वं वै माऽयं प्रधक्ष्यतीति ।
स एतांश्चतुर्होतॄनात्मस्मरणानपश्यत् ।
तान् अजुहोत् ।
तैर् वै स आत्मानम् अस्पृणोत्,
इति। प्रजापतिः पूर्वम् अशरीरः सन् पूर्वानुवाकोक्त-क्रमेण कुसिंधादि-लोमान्तैः सर्वैश् चैकं पुरुषाकारं देहम् असृजत।
विश्वास-प्रस्तुतिः
सो᳓ऽग्नि᳓रब्रवीन् - “म᳓माय᳓म् अ᳓न्नम् अस्त्व्” इ᳓ति ।
मूलम्
सो॑ऽग्निर॑ब्रवीत् । ममा॒यमन्न॑म॒स्त्विति॑ ।
भट्टभास्कर-टीका
अथाग्निः अनन्तरसृष्टोऽब्रवीत् - मम अन्नं अदनीयं अयमस्तु पुरुष इति, तद्व्यतिरिक्तस्याभावात् ।
सायण-टीका
तदानीम् अग्निर् तं देहं दृष्ट्वा सो ऽयं पुरुषो ममान्नम् अस्त्व् इत्य् अब्रवीत् ।
विश्वास-प्रस्तुतिः
सो᳓ ऽबिभेत् -
“स᳓र्वव्ँ वै᳓ मा ऽय᳓म् प्र᳓ धक्ष्यती᳓“ति ।
मूलम्
सो॑ऽबिभेत् । सर्वव्ँ॒ वै मा॒ऽयम्प्र ध॑क्ष्य॒तीति॑ ।
भट्टभास्कर-टीका
अथ पुरुषस्तच्छ्रुत्वा अबिभेत् मां सर्वमप्ययं प्रधक्ष्यतीति । अत्त्वेव मां काममित्यनुमन्यमानः सर्वदाहात् बिभेति स्म ।
सायण-टीका
ततः स प्रजापतिः पुरुषाकारं माम् एव सर्वम् अप्य् अयम् अग्निर् धक्ष्यतीति भयम् आपन्नो
विश्वास-प्रस्तुतिः
स᳓ एताँ᳓श् च᳓तुर्होतॄन् आत्मस्प᳓रणान् अपश्यत् ।
मूलम्
स ए॒ताँश्चतु॑र्होतॄनात्म॒स्पर॑णानपश्यत् ।
भट्टभास्कर-टीका
अथ स पुरुष एतान् चतुर्होतॄन् दशहोत्रादीन् आत्मस्परणान् आत्मनो रक्षणभूतान् अपश्यत् ।
विश्वास-प्रस्तुतिः
ता᳓न् अजुहोत् ।
तै᳓र् वै᳓ स᳓ आत्मा᳓नम् अस्पृणोत् ।
मूलम्
तान॑जुहोत् ।
तैर्वै स आ॒त्मान॑मस्पृणोत् ।
भट्टभास्कर-टीका
अथ तद्धोमेन आत्मानमस्पृणोत् अरक्षत्, ‘स्पृ प्रीतौ’ अत्र रक्षणे । यद्वा - तैरात्मानमप्रीणयत् अरक्षदित्युक्तं भवति ॥
सायण-टीका
होतृ-मन्त्रान् आत्म-स्परणान् स्व-शरीर-रक्षकत्वेन प्रीति-हेतून् अपश्यत्। तान् हुत्वा तैः स्व-देहं प्रीतम् अकरोद् अरक्षद् इत्य् अर्थः।
विश्वास-प्रस्तुतिः
य᳓द् अग्निहोत्र᳓ञ् जुहो᳓ति -
ए᳓कहोतारम् एव᳓ त᳓द् यज्ञक्रतु᳓म् आप्नोत्य् अग्निहोत्र᳓म् ॥27॥
मूलम्
यद॑ग्निहो॒त्रञ्जु॒होति॑ । एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोत्यग्निहो॒त्रम् ॥27॥
भट्टभास्कर-टीका
2-7तस्मादग्निहोत्रहोमेन एकहोतारमग्निहोत्रं यज्ञक्रतुमाप्नोति । एकहोतृता सर्वचतुर्होत्रादिसमुच्चयत्वात् । हेतॄणां वा भागरूपम् । तादृशो यज्ञक्रतुराहृतो भवत्यग्निहोत्रहोमेन । केचिदाहुः - ‘ब्राह्मण एकहोता’ इत्ययं सर्वहोतृसमुदायात्मा एकहोता, तदेवाविरासीदग्निहोत्रम् । स एव सर्वो यज्ञकतुः, स एवाप्तौ भवत्यग्निहोत्रहोमेनेति । एवमग्निहोत्रस्तुतिस्सर्वोऽनुवाकः ।
सायण-टीका
होतृ-मन्त्रेषु च दश-होतुः प्रथम-भावित्वात् तस्याग्निहोत्र-प्रक्रम-रूपत्वाद् अग्निहोत्र-होमेनैव सर्व-रक्षां विवक्षुर् आदौ कुसिंध-रक्षां दर्शयति-
यद् अग्निहोत्रं जुहोति।
एक-होतारम् एव तद् यज्ञ-क्रतुम् आप्नोत्य् अग्निहोत्रम् (१)।
कुसिंधं चाऽऽत्मनः स्पृणोति। आदित्यस्य च सायुज्यं गच्छति,
इति।
[[P457]]
यदा पुरुषो ऽग्निहोत्रं जुहोति तदा पूर्वोक्त-रीत्या तस्यैक-होतृकत्वाद् एक-होतृकं यज्ञ-क्रतुं प्राप्नोति।
विश्वास-प्रस्तुतिः
कु᳓सिन्धञ् चात्म᳓नस् स्पृणो᳓ति ।
मूलम्
कुसि॑न्धञ्चा॒त्मन॑स्स्पृ॒णोति॑ ।
भट्टभास्कर-टीका
प्रजापतिरिवात्मनः कुसिन्धं स्पृणोति, तस्याग्निहोत्रसंपादितत्वात् प्रजापतेः । कुसिन्धो व्याख्यातः ।
विश्वास-प्रस्तुतिः
आदित्य᳓स्य च सा᳙युज्यङ् गच्छति ।
मूलम्
आ॒दि॒त्यस्य॑ च॒ सा॑युज्यङ्गच्छति ।
भट्टभास्कर-टीका
आदित्यस्य पुरुषसमष्टिरूपस्य च सायुज्यं गच्छति ।
सायण-टीका
तत्-फल-भूतम् आदित्यस्य च सायुज्यं गच्छत्य् आत्मनः कुसिंधं च स्पृणोति रक्षतीत्य् अर्थः।
विश्वास-प्रस्तुतिः
चतु᳓र् उ᳓न्नयति ।
मूलम्
च॒तुरुन्न॑यति ।
भट्टभास्कर-टीका
अथाग्निहोत्रे चतुरुन्नयनाच्चतुर्होत्रात्मकदर्शपूर्णमासलाभः ।
सायण-टीका
अथाग्निहोत्र एव चतुर्-होतृ-फलं दर्शयति-
चतुर् उन्नयति।
चतुर्-होतारम् एव तद्यज्ञ-क्रतुम् आप्नोति दर्श-पूर्णमासौ।
चत्वारि चाऽऽत्मनो ऽङ्गानि स्पृणोति।
आदित्यस्य च सायुज्यं गच्छति,
इति। यद् एतद् अग्निहोत्रे चतुर्-वारं स्रुक्-पूरणं तेन चतुः-संख्या-साम्याच् चतुर्-होतृक-दर्शपूर्णमास-क्रतुं प्राप्य
विश्वास-प्रस्तुतिः
च᳓तुर्-होतारम् एव᳓
त᳓द् यज्ञक्रतु᳓म् आप्नोति दर्शपूर्णमासौ᳓ ।
चत्वा᳓रि चात्म᳓नो᳓ऽङ्गानि स्पृणो᳓ति ।
मूलम्
चतु॑र्होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति दर्शपूर्णमा॒सौ ।
च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑ ।
भट्टभास्कर-टीका
चत्वारि चाङ्गानि हस्तौ पादो च स्पृणोति ।
सायण-टीका
हस्त-पादाङ्ग-चतुष्टय-रक्षा-पूर्वम्
विश्वास-प्रस्तुतिः
आदित्य᳓स्य च सा᳓युज्यङ् गच्छति ।
मूलम्
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
भट्टभास्कर-टीका
आदित्यस्य सायुज्यं गच्छति । एवं सर्वत्र द्रष्टव्यम् ।
सायण-टीका
आदित्य-सायुज्य-प्राप्तिश् च संपद्यते।
विश्वास-प्रस्तुतिः
चतु᳓र् उ᳓न्नयति ।
समि᳓त् पञ्चमी᳓ ।
प᳓ञ्चहोतारम् एव᳓ त᳓द् यज्ञक्रतु᳓म् आप्नोति चातुर्मास्या᳓नि ।
मूलम्
च॒तुरुन्न॑यति ।
स॒मित्प॑ञ्च॒मी ।
पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति चातुर्मा॒स्यानि॑ ।
भट्टभास्कर-टीका
अथ चतुरुन्नयनात् समिधा च पञ्चम्या पञ्चहोत्रात्मकचातुर्मास्यलाभः ।
सायण-टीका
अथ पञ्च-होतृ-फलं दर्शयति-
चतुर् उन्नयति।
समित् पञ्चमी।
पञ्च-होतारम् एव तद् यज्ञ-क्रतुम् आप्नोति चातुर्मास्यानि।
लोमं च्छविं मांसम् अस्थि मज्जानम् (२)।
तानि चाऽऽत्मनः स्पृणोति।
आदित्यस्य च सायुज्यं गच्छति,
इति।
विश्वास-प्रस्तुतिः
लो᳓म छवी᳓म् माँस᳓म् अ᳓स्थि मज्जा᳓नम् ॥28॥
ता᳓नि चात्म᳓नस् स्पृणो᳓ति ।
आदित्य᳓स्य च सा᳓युज्यङ् गच्छति ।
मूलम्
लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ॥28॥
तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ ।
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
भट्टभास्कर-टीका
लोमादिपञ्चकं चात्मनः स्पृणोति ।
सायण-टीका
अग्निहोत्रे यच् चतुर्-वारं स्रुक्-पूरणं या चाऽऽहुत्याधार-भूता समित् तद्-उभय-निष्ठया पञ्चत्व-संख्यया पञ्च-होतृक-चातुर्मास्य-फल-प्राप्तिर् लोमादि-पञ्चावयव-प्राप्तिर् आदित्य-सायुज्यं च।
विश्वास-प्रस्तुतिः
चतु᳓रु᳓न्नयति
द्वि᳓र् जुहोति ,
ष᳓ड्ढोतारम् एव᳓ त᳓द् यज्ञक्रतु᳓म् आप्नोति पशुबन्ध᳓म् ,
स्त᳓नाव् आण्डौ᳓ शिश्ञ᳓म् अ᳓वाञ्चम् प्राण᳓म् ।
ता᳓नि चात्म᳓नस् स्पृणो᳓ति । आदित्य᳓स्य च सा᳓युज्यङ् गच्छति ।
मूलम्
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति पशुब॒न्धम् ।
स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।
तानि॑ चा॒त्मन॑स्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
सायण-टीका
अथ षड्-ढोतृ-फलं दर्शयति-
चतुर् उन्नयति।
द्विर् जुहोति।
षड्-ढोतारम् एव तद् यज्ञ-क्रतुम् आप्नोति पशु-बन्धम्।
स्तनावाण्डौ शिश्नम् अवञ्चं प्राणम्। [[P458]]
तानि चाऽऽत्मनः स्पृणोति।
आदित्यस्य च सायुज्यं गच्छति,
इति। उन्नयन-होम-गत-षट्-संख्यया षड्-ढोतृ-फलम् आदित्यस्य सायुज्यं च।
विश्वास-प्रस्तुतिः
चतु᳓र् उ᳓न्नयति।
द्वि᳓र् जुहोति।
समि᳓त् सप्तमी᳓ ।
सप्त᳓होतारम् एव᳓ त᳓द् यज्ञक्रतु᳓म् आप्नोति सौम्य᳓म् अध्वर᳓म् । सप्त᳓ चात्म᳓नश् शीर्षण्या᳙न् प्राणा᳓न्त् स्पृणो᳓ति । आदित्य᳓स्य च सा᳓युज्यङ् गच्छति ।
मूलम्
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ॥29॥
स॒मित्स॑प्त॒मी ।
स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सौ॒म्यम॑ध्व॒रम् । स॒प्त चा॒त्मन॑श्शीर्ष॒ण्या॑न्प्रा॒णान्त्स्पृ॒णोति॑ । आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ।
भट्टभास्कर-टीका
अथ चतुरुन्नयनात् द्विश्च होमात् सप्तम्या च समिधा सप्तहोत्रात्मकसौम्याध्वरलाभः । सप्त शीर्षण्यान् प्राणान् स्पृणोति ।
सायण-टीका
अथ सप्त-होतृ-फलं दर्शयति-
चतुर् उन्नयति।
द्विर् जुहोति ( ३ )।
समित् सप्तमी।
सप्त-होतारम् एव तद् यज्ञ-क्रतुम् आप्नोति सौम्यम् अध्वरम्।
सप्त चाऽऽत्मनः शीर्षण्यान् प्राणान् स्पृणोति।
आदित्यस्य च सायुज्यं गच्छति,
इति।
उन्नयन-होम-समित्-त्रया सप्त-संख्यया सप्त-होत्रादि-फलम्।
विश्वास-प्रस्तुतिः
चतु᳓र् उ᳓न्नयति ,
द्वि᳓र् जुहो᳓ति +++(←चादिलोपे विभाषा)+++,
द्वि᳓र् नि᳓मार्ष्टि ,
द्विᳶ᳓ प्रा᳓श्ञाति ।
द᳓शहोतारम् एव᳓ त᳓द् यज्ञक्रतु᳓म् आप्नोति सव्ँवत्सर᳓म् ।
मूलम्
च॒तुरुन्न॑यति ।
द्विर्जु॒होति॑ ।
द्विर्निमा॑र्ष्टि ।
द्विᳶ प्राश्ञा॑ति ।
दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा॑प्नोति सव्ँवत्स॒रम् ।
भट्टभास्कर-टीका
अथ चतुरुन्नयनात् द्विश्च होमात् द्विर्मार्जनात् द्विश्च प्राशनात् दशहोत्रात्मकसंवत्सरलाभः । संवत्सरो गवामयनम् ।
सायण-टीका
अथ दश-होतृ-फलं दर्शयति-
चतुर् उन्नयति।
द्विर् जुहोति।
द्विर् निर्मार्ष्टि।
द्विः प्राश्नाति।
दश-होतारम् एव तद् यज्ञ-क्रतुम् आप्नोति संवत्सरम्।
सर्वे चाऽऽत्मानम् अपरिवर्गं स्पृणोति।
आदित्यस्य च सायुज्यं गच्छति ( ४ ),
इति।
यद् एतच् चतुर्-वारं स्रुक्-पूरणं यच् चाऽऽहुति-द्वयं यद् अपि बर्हिषि भूमौ च द्विर् लेप-निमार्जनं यद् अप्य् आहुति-द्वय-शेषयोर् द्विः प्राशनं तद्-गतया दश-संख्यया तत्-साध्य-संवत्सर-सत्रम्-आप्त्या
विश्वास-प्रस्तुतिः
स᳓र्वञ् चात्मा᳓नम् अ᳓परिवर्गँ स्पृणो᳓ति ।
मूलम्
सर्व॑ञ्चा॒त्मान॒मप॑रिवर्गँ स्पृ॒णोति॑ ।
भट्टभास्कर-टीका
सर्व चात्मानमपरिवर्गं किंचिदप्यपरिवृज्य स्पृणोति ।
विश्वास-प्रस्तुतिः
आदित्य᳓स्य च सा᳓युज्यङ् गच्छति ॥30॥
मूलम्
आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यङ्गच्छति ॥30॥
भट्टभास्कर-टीका
आदित्यस्य च सायुज्यं गच्छति ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके सप्तमोऽनुवाकः ॥
सायण-टीका
तद्-अन्तर्गत-कृत्स्न-क्रतु-प्राप्तिर् आदित्य-सायुज्यं च।
[[P459]] तद् एवं पूर्वानुवाके “एक-होत्रे बलिं हरन्ति” इत्य् एक-होतृकाग्निहोत्र-शंसनं यत् संक्षेपेणोक्तं तद् इहाग्निहोत्रे सर्व-होतृक-सर्व-क्रतु-संपादनेन प्रपञ्चितम्॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके सप्तमो ऽनुवाकः ॥ ७ ॥