०६ होतृप्रशंसाप्रसङ्गेन क्रतूनाम् ऋत्विग्विशेषव्यवस्थापनं, अग्निहोत्रस्य प्राशस्त्यं च

विश्वास-प्रस्तुतिः

प्रजा᳓पतिᳶ प्रजा᳓स् सृष्ट्वा᳓ व्य᳙स्रँसत ।

मूलम्

प्र॒जाप॑तिᳶ प्र॒जास्सृ॒ष्ट्वा व्य॑स्रँसत ।

भट्टभास्कर-टीका

1-2प्रजासृष्ट्यनन्तरं प्रजापतिर्व्यस्रंसत विशीर्णशरीरोऽभवत् ।

सायण-टीका

पञ्चमेऽनुवाके प्रश्नोत्तर-रूपो ब्रह्म-विषयः संवाद उक्तः । षष्ठे होतृ-मन्त्र-प्रशंसार्थम् अग्निहोत्रादि-कर्मभिः प्रजापति-शरीर-निष्पादनम् अभिदधानः कर्म-विशेषेष्व् ऋत्विग्-विशेष-निर्णयो ऽभिधीयते । तत्राऽऽदौ तावद् अग्निहोत्रस्यैकम् ऋत्विजं दर्शयति-

प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत ।
स हृदयं भूतो ऽशयत् ।
आत्मन् हा३ इत्य् अह्वयत् ।
आपः प्रत्यशृण्वन् ।
ता अग्निहोत्रेणैव यज्ञ-क्रतुनोपपर्यावर्तन्त ।
ताः कुसिंधम् उपौहन् ।
तस्माद् अग्निहोत्रस्य यज्ञ-क्रतोः ।
एक ऋत्विक्,

इति ।

विश्वास-प्रस्तुतिः

स᳓ हृ᳓दयम् भूतो᳙ऽशयत् ।

मूलम्

स हृद॑यम्भू॒तो॑ऽशयत् ।

भट्टभास्कर-टीका

स हृदयमात्रं भूत्वा अशयत् अशरीरोऽशेत । व्यत्ययेन परस्मैपदम् । विकरणव्यत्ययेन शप् ।

सायण-टीका

प्रजापतिर् महता प्रयासेन प्रजाः सृष्ट्वा तेन प्रयासेन विस्रस्त-हस्त-पादादि-सर्वावयवो हृदय-मात्रावशेषः सन् व्यवहर्तुम् अशक्तः क्वचिच् छयितो ऽभूत् ।

विश्वास-प्रस्तुतिः

“आ᳓त्मन् हा᳓३” इ᳓त्य् अ᳓ह्वयत् ।

मूलम्

“आत्म॒न् हा३” इत्यह्व॑यत् ।

भट्टभास्कर-टीका

अथ शयित एव हे आत्मन्निति शरीरात्मानमह्वयत् आहूतवान् । ‘है हे प्रयोगे हैहयोः’ इति दूराद्धूते प्लुतः । ‘एचोप्रगृह्यस्य’ इति आकाराच्छान्दसं संहितायां पररूपत्वम् ।

सायण-टीका

तदानीं, “हे आत्मन्” इत्य् एवं स्वकीयं शरीरम् आहूतवान् । हे-शब्दे यो ऽयम् एकारस् तस्य प्लुत आकार इकार-शिरस्क आदेशो भवति । दूराद् आह्वानार्थः प्लुतः । आत्म-शब्दः शरीर-वाची ।

विश्वास-प्रस्तुतिः

आ᳓पᳶ प्र᳓त्यशृण्वन् ।

मूलम्

आप॒ᳶ प्रत्य॑शृण्वन् ।

भट्टभास्कर-टीका

अथ सकृदाह्वान एव आपः प्रत्यशृण्वन् शरीरमाह्वयन्तं प्रजापतिं प्रतीत्याह्वानमशृण्वन् ।

सायण-टीका

तद् एतच् छरीराह्वानम् अब्-देवता श्रुत्वाग्निहोत्रेण सह प्रजापति-समीपे समागत्य

विश्वास-प्रस्तुतिः

ता᳓ अग्निहोत्रे᳓णैव᳓ यज्ञ-क्रतु᳓नो᳓प पर्या᳓वर्तन्त ।

मूलम्

ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

भट्टभास्कर-टीका

अथास्मै शरीरं प्रदातुं अग्निहोत्रेण यज्ञक्रतुतुल्येन समाहूता आपः उपपर्यावर्तन्त अस्य समीपे आगच्छन् । यज्ञक्रतवो यूपवन्तः ।

विश्वास-प्रस्तुतिः

ताᳵ᳓ कु᳓सिन्धम्+++(=कलेवरम्)+++ उ᳓पौहन् ।

मूलम्

ताᳵ कुसि॑न्ध॒मुपौ॑हन् ।

भट्टभास्कर-टीका

अथापः कुसिंन्धं कबन्धं कळेबरं कण्ठात्पूर्वं उपौहन् उपायन् प्रजापतये निष्पादितवत्यः । कुशिमात्मकोशं दधातीति कृशिन्धः । पृषोदरादिः ।

सायण-टीका

कुसिंधं शिरो-व्यतिरिक्तं देहम् उपायन् । कुत्सितम् आत्म-शोकं दधातीति कुसिंधः ।

विश्वास-प्रस्तुतिः

त᳓स्माद् अग्निहोत्र᳓स्य यज्ञक्रतोः᳓
ए᳓क ऋत्वि᳓क् ।

मूलम्

तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः । एक॑ ऋ॒त्विक् ।

भट्टभास्कर-टीका

यस्मात्सकृदाह्वाने आपः प्रतिश्रुत्य अग्निहोत्रेण सहागताः, तस्मादग्निहोत्रस्य एक एवर्त्विक् अध्वर्युः ।

सायण-टीका

यद्यपि यूपवन्तो यज्ञ-क्रतवस् तथाप्य् अग्निहोत्रस्य तद्-रूपत्वम् उपचरितम् । यस्मात् सकृद् आह्वानेनाद्भिः सहाग्निहोत्रम् आगतं तस्माद् अग्निहोत्रस्याध्वर्युर् एक ऋत्विक् ।

विश्वास-प्रस्तुतिः

चतुष्कृ᳓त्वो᳓ऽह्वयद्
अग्नि᳓र् वायु᳓र् आदित्य᳓श् चन्द्र᳓माः ॥23॥

मूलम्

च॒तु॒ष्कृत्वोऽह्व॑यत् । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः॑ ॥23

भट्टभास्कर-टीका

अथ प्रजापतिः आत्मन् हा इति चतुष्कृत्वोऽह्वयत् ।

सायण-टीका

अथ दर्श-पूर्णमासयोर् ब्रह्मा होताध्वर्युर् अग्नीद् इति चतुर ऋत्विज इति दर्शयति-

चतुष्कृत्वो ऽह्वयत् ।
अग्निर् वायुर् आदित्यश् चन्द्रः । ते प्रत्यशृण्वन् ।
ते दर्श-पूर्णमासाभ्याम् एव यज्ञ-क्रतुनोपपर्यावर्तन्त ।
त उपौहरंश् चत्वार्य् अङ्गानि ।
तस्माद् दर्श-पूर्णमासयोर् यज्ञ-क्रतोः ।
चत्वार ऋत्विजः,

इति ।

विश्वास-प्रस्तुतिः

ते᳓ प्र᳓त्यशृण्वन् ।

मूलम्

ते प्रत्य॑शृण्वन् ।

भट्टभास्कर-टीका

अथाग्न्यादयः तत्प्रत्यशृण्वन् ।

विश्वास-प्रस्तुतिः

ते᳓ दर्शपूर्णमासा᳓भ्याम् एव᳓ यज्ञक्रतु᳓नो᳓प पर्या᳓वर्तन्त ।

मूलम्

ते द॑र्शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।

भट्टभास्कर-टीका

तेऽग्न्यादयो दर्शपूर्णमासाभ्यां यज्ञक्रतुतुल्याभ्यां उपपर्यावर्तन्त ।

सायण-टीका

अग्न्यादयो देवा दर्श-पूर्णमासाभ्यां सहागत्य

[[P454]]

विश्वास-प्रस्तुतिः

त᳓ उ᳓पौहँश् चत्वा᳓र्य् अ᳓ङ्गानि ।

मूलम्

त उपौ॑हँश्च॒त्वार्यङ्गा॑नि ।

भट्टभास्कर-टीका

ते चत्वार्यङ्गानि हस्तौ पादौ चोपौहन् ।

सायण-टीका

द्वौ हस्तौ, द्वौ पादाव् इत्य् एवं चत्वार्य् अङ्गान्य् आनीतवन्तः ।

विश्वास-प्रस्तुतिः

त᳓स्माद् दर्शपूर्णमास᳓योर् यज्ञक्रतो᳓श् चत्वा᳓र ऋत्वि᳓जः ।

मूलम्

तस्मा॑द्दर्शपूर्णमा॒सयो॑र्यज्ञक्र॒तोः । च॒त्वार॑ ऋ॒त्विजः॑ ।

भट्टभास्कर-टीका

तस्मादित्यादि । चतुराह्वाने दर्शपूर्णमासाभ्यां सहागमनात् तयोश्चत्वार ऋत्विजः अध्वर्युहोतृब्रह्माग्नीध्रा हति ॥

सायण-टीका

ततो दर्श-पूर्णमासयोश् चत्वार ऋत्विजः संपन्नाः ।

विश्वास-प्रस्तुतिः

पञ्चकृ᳓त्वो᳓ऽह्वयत् ।
पश᳓वᳶ प्र᳓त्यशृण्वन् ।
ते᳓ चातुर्मास्यै᳓र् एव᳓ यज्ञक्रतु᳓नो᳓प पर्या᳓वर्तन्त ।
त᳓ उ᳓पौहल्ँ लो᳓म छवी᳓म् माँस᳓म् अ᳓स्थि मज्जा᳓नम् ।

मूलम्

प॒ञ्च॒कृत्वोऽह्व॑यत् ।
प॒शव॒ᳶ प्रत्य॑शृण्वन् ।
ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त ।
त उपौ॑हल्ँ॒लोम॑ छ॒वीम्माँ॒समस्थि॑ म॒ज्जान॑म् ।

भट्टभास्कर-टीका

3-6एवं पञ्चकृत्व इत्यादि व्याख्येयम् ॥ सर्वत्र यागरूपस्याभिन्नत्वात् यज्ञक्रतोरित्येकवचनम् । यथा - ‘वसवो देवता रुद्रा देवता’ इति । लोमादीनि पञ्च । छवो त्वक् । ‘कृदिकारादक्तिनः’ इति ङीष् ।

सायण-टीका

अथ चातुर्मास्यानां प्रतिप्रस्थात्रा सह पूर्वोक्तांश् चतुर ऋत्विजो दर्शयति-

पञ्च-कृत्वो ऽह्वयत् ।
पशवः प्रत्यशृण्वन् ।
ते चातुर्मास्यैर् एव यज्ञ-क्रतुनोपपर्यावर्तन्त ।
त उपौहँल्लोम छवीं मांसम् अस्थि मज्जानम् ।
तस्माच् चातुर्मास्यानां यज्ञ-क्रतोः ।
पञ्चर्त्विजः,

इति ।

यथा प्रथमे पर्याये शरीरस्य सकृद् आह्वानं, यथा च द्वितीये पर्याये चतुर् आह्वानम् । तथा तृतीये पर्याये पञ्च-वारम् आह्वानम् । तद् एतत् पश्व्-अभिमानिनो देवाः श्रुत्वा चातुर्मास्यैः सहागत्य लोमादीन्य् आनीतवन्तः । छविस् त्वक् । यद्यपि प्रथम-पर्याय एव कबन्धम् आनीतवन्तस् तथापि तत्र कण्ठस्याधस्तन ऊरुभ्याम् ऊर्ध्व-वर्ति-मध्य-भाग एव विवक्षितः । अतो द्वितीय-पर्याये हस्त-पादानयनम् । तत्रोभयत्राकार-मात्रं संपन्नं न तु लोमादि-परिपूर्तिः । सा चास्मिन् पर्याय एव कृता ।

विश्वास-प्रस्तुतिः

त᳓स्माच् चातुर्मास्या᳓नाय्ँ यज्ञक्रतोᳶ᳓
प᳓ञ्च र्त्वि᳓जः ।

मूलम्

तस्मा॑च्चातुर्मा॒स्यानाय्ँ॑ यज्ञक्र॒तोः ॥ 24 ॥
पञ्च॒र्त्विजः॑ ।

भट्टभास्कर-टीका

पञ्चर्त्विज इति । प्रतिप्रस्थातृपञ्चमाः । स्तनौ द्वौ आण्डौ वृषणौ द्वौ शिश्नं अवाक्प्राणमपानं च षडुपौहन् ।

सायण-टीका

यस्मात् पञ्च-वारम् आह्वानं यस्माच् च लोमादि-पञ्चक-संपत्तिस् तस्मात् तत्-साधन-भूतानां चातुर्मास्यानाम् ऋत्विजः पञ्च-संख्याकाः ।

विश्वास-प्रस्तुतिः

षट्-कृ᳓त्वो᳓ऽह्वयत् ।
ऋत᳓वᳶ प्र᳓त्य्-अशृण्वन् ।
ते᳓ पशुबन्धे᳓नैव᳓ यज्ञक्रतु᳓नो᳓प-पर्या᳓वर्तन्त ।
त᳓ उ᳓पौहन्त्, स्त᳓नाव् आण्डौ᳓ शिश्ञ᳓म् अ᳓वाञ्चम् प्राण᳓म् ।

मूलम्

ष॒ट्कृत्वोऽह्व॑यत् ।
ऋ॒तव॒ᳶ प्रत्य॑शृण्वन् ।
ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ।
त उपौ॑ह॒न्त्स्तना॑वा॒ण्डौ शि॒श्ञमवा॑ञ्चम्प्रा॒णम् ।

विश्वास-प्रस्तुतिः

त᳓स्मात् पशुबन्ध᳓स्य यज्ञक्रतो᳓श्
ष᳓ड् ऋत्वि᳓जः ।

मूलम्

तस्मा॑त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः । षडृ॒त्विजः॑ ।

भट्टभास्कर-टीका

षडृत्विज इति मैत्रावरुणषष्ठाः ।

सायण-टीका

अथ निरूढ-पशुबन्धादौ मैत्रावरुणेन सहितान् पूर्वोक्तान् पञ्चर्त्विजो दर्शयति-

षट्-कृत्वो ऽह्वयत् ।
ऋतवः प्रत्यशृण्वन् ।
ते पशुबन्धेनैव यज्ञ-क्रतुनोपपर्यावर्तन्त ।
त उपौहंस्तनावाण्डौ शिश्नमवाञ्चं प्राणम् ।
तस्मात् पशुबन्धस्य यज्ञ-क्रतोः ।
षड् ऋत्विजः,

इति । षड्-वारम् आह्वानात् स्तनादीनाम् अपि षट्त्वात् तत्-साधन-भूते पशुबन्धे षड् ऋत्विजः संपन्नाः ।

विश्वास-प्रस्तुतिः

सप्त-कृ᳓त्वो᳓ऽह्वयत् ।
हो᳓त्राᳶ प्र᳓त्य्-अशृण्वन् ।
ता᳓स् सौम्ये᳓नैवा᳓ध्वरे᳓ण यज्ञक्रतु᳓नो᳓प-पर्या᳓वर्तन्त ॥25॥

मूलम्

स॒प्त॒कृत्वोऽह्व॑यत् ।
होत्रा॒ᳶ प्रत्य॑शृण्वन् ।
तास्सौ॒म्येनै॒वाध्व॒रेण॑ यज्ञक्र॒तुनोप॑प॒र्याव॑र्तन्त ॥25॥

भट्टभास्कर-टीका

होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टा अच्छावाक आग्रीध्र इति सप्त ।

सायण-टीका

अथ सोम-यागे होता मैत्रावरुणो ब्राह्मणाच्छंसी नेष्टा पोताऽऽग्नीध्रो ऽच्छावाकश् चेति सप्त होत्रकान् दर्शयति-

सप्त-कृत्वो ऽह्वयत् ।
होत्राः प्रत्यशृण्वन् ।
ताः सौम्येनैवाध्वरेण यज्ञ-क्रतुनोपपर्यावर्तन्त ।
ता उपौहन्त्सप्तशीर्षण्यन् प्राणा॒न् ।
तस्मात् सौम्यस्याध्वरस्य यज्ञ-क्रतोः ।
सप्त-होतारः प्राचीर् वषट्कुर्वन्ति,

इति ।

[[P455]]

विश्वास-प्रस्तुतिः

ता᳓ उ᳓पौहन्त् सप्त᳓ शीर्षण्या᳙न् प्राणा᳓न् ।

मूलम्

ता उपौ॑हन्त्स॒प्त शी॑र्ष॒ण्या॑न्प्रा॒णान् ।

भट्टभास्कर-टीका

सप्तशीर्षण्यानिति । द्वे चक्षुषी द्वे श्रोत्रे द्वे नासिके एकमास्यमिति ।

विश्वास-प्रस्तुतिः

त᳓स्मात् सौम्य᳓स्याध्वर᳓स्य यज्ञक्रतो᳓स्
सप्त᳓ हो᳓त्राᳶ प्रा᳓चीर् व᳓षट् कुर्वन्ति ।

मूलम्

तस्मा॑त्सौ॒म्यस्या॑ध्व॒रस्य॑ यज्ञक्र॒तोः । स॒प्त होत्रा॒ᳶ प्राची॒र्वष॑ट्कुर्वन्ति ।

भट्टभास्कर-टीका

प्राचीः प्राच्या वषट् कुर्वन्ति प्राङ्मुखा यजन्ति ॥

सायण-टीका

सप्त-वारम् आह्वानाच् छिरो-निष्ठ-सप्त-च्छिद्र-वर्ति-प्राणानयनात् तत्-साधने सोमाध्वरे सप्त-होतारः संपन्नाः । तावत् प्राङ्-मुखत्वेनावस्थिता याज्यान्ते वौषट्-शब्दान् पठन्ति ।

विश्वास-प्रस्तुतिः

दशकृ᳓त्वो᳓ ऽह्वयत् ।
त᳓पᳶ प्र᳓त्यशृणोत् ।
त᳓त् क᳓र्मणैव᳓ सव्ँवत्सरे᳓ण
स᳓र्वैर् यज्ञक्रतु᳓भिर् उ᳓प पर्या᳓वर्तत ।

मूलम्

द॒श॒कृत्वोऽह्व॑यत् ।
तप॒ᳶ प्रत्य॑शृणोत् ।
तत्कर्म॑णै॒व सव्ँ॑वत्स॒रेण॒ सर्वै॑र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत ।

भट्टभास्कर-टीका

7-8तत्कर्मणैवेत्यादि ॥ कर्मात्मकेन संवत्सरेण गवामयनेन सर्वैश्चान्यैः प्रकृतिविकृतिरूपैः यज्ञक्रतुभिस्सह तप उपपर्यावर्तत ।

सायण-टीका

अथ संवत्सर-सत्रे गवाम्-अयने सर्वर्त्विग्-अन्तर्भावं दर्शयति-

दश-कृत्वो ऽह्वयत् ।
तपः प्रत्यशृणोत् ।
तत् कर्मणैव संवत्सरेण सर्वैर् यज्ञ-क्रतुभिर् उपपर्यावर्तत ।
तत् सर्वम् आत्मानम् अपरि-वर्गम् उपौहत् ।
तस्मात् संवत्सरे सर्वे यज्ञ-क्रतवो ऽवरुध्यन्ते,

इति ।

दश-वारम् आह्वानं तपोऽभिमानी देवः श्रुत्वा संवत्सर-सत्र-रूपेण सह कर्मणा तद्-अवयव-भूतैश् च सर्वैर् यज्ञ-क्रतुभिः सहागत्य

विश्वास-प्रस्तुतिः

त᳓त् स᳓र्वम् आत्मा᳓नम् अ᳓परिवर्गम् उ᳓पौहत् ।

मूलम्

तत्सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत् ।

भट्टभास्कर-टीका

तत्प्रजापतेस्सर्वमात्मानं शरीरं अपरिवर्गं किञ्चिदङ्गमपरिवृज्य पुष्कलसर्वाङ्गमुपौहत् ।

सायण-टीका

प्रजापतेर् आत्मानं, देहं, सर्वम् अप्य् अपरि-वर्गम् आनयत् । यथा किंचिद् अपि वर्जितं न भवति ।

विश्वास-प्रस्तुतिः

त᳓स्मात् सव्ँवत्सरे᳓ स᳓र्वे यज्ञक्रत᳓वो᳓ऽवरुध्यन्ते ।

मूलम्

तस्मा॑त्सव्ँवत्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुध्यन्ते ।

भट्टभास्कर-टीका

तस्मात्संवत्सरे क्रतौ अन्ये सर्वेऽपि यज्ञक्रतवोऽवरुध्यन्ते प्रकृतिविकृतिरूपेण सर्वे तत्रान्तर्भवन्ति ।

सायण-टीका

तस्मात् संपूर्ति-साधनं संवत्सर-सत्रम् । तत्राग्निष्टोमोक्थ्यादयः सर्वे ऽपि क्रतवो ऽन्तर्भवन्ति ।

विश्वास-प्रस्तुतिः

त᳓स्माद् द᳓शहोता च᳓तुर्होता प᳓ञ्चहोता ष᳓ड्ढोता सप्त᳓होता
ए᳓कहोत्रे बलिँ᳓ हरन्ति ।

मूलम्

तस्मा॒द्दश॑होता॒ चतु॑र्होता ।
पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता ।
एक॑होत्रे ब॒लिँ ह॑रन्ति ।

भट्टभास्कर-टीका

तस्मादित्यादि । यस्मादेवमग्निहोत्रेण एकहोत्रा प्रथमं कुसिन्धे उपानीते पश्चाद्दर्शपूर्णमासादिभिरङ्गैरुपकृतं, तस्माद्दशहोत्रादयः पञ्चापि आत्मविशेषा एकहोत्रे परस्मै आत्मने बलिं हरन्ति उपकुर्वन्ति ।

सायण-टीका

अथैकेनाध्वर्युणा निष्पाद्यम् अग्निहोत्रं प्रथम-भावित्वेन प्रशंसति-

तस्माद् दश-होता चतुर्-होता ।
पञ्च-होता षड्-ढोता सप्त-होता ।
एक-होत्रे बलिं हरन्ति ।
हरन्त्य् अस्मै प्रजा बलिम् ।
ऐनम् अप्रतिख्यातं गच्छति ।
य एवं वेद,

इति ॥ [[P456]] यस्माद् एवम् अग्निहोत्रेणैक-होत्रा प्रथमं कुसिंध उपानीते सति पश्चाद् दर्श-पूर्णमासादिभिर् अङ्गेषूपकृतं, तस्माद् दश-होत्रादयः पञ्चाप्य् आत्म-विशेषा एक-होत्रे परमात्मने बलिं हरन्ति, पूजां कुर्वन्ति ।

विश्वास-प्रस्तुतिः

हर॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐ᳓नम् अ᳓प्रतिख्यातङ् गच्छति
य᳓ एवव्ँ᳓ वे᳓द ॥ 26 ॥

मूलम्

हर॑न्त्यस्मै प्र॒जा ब॒लिम् ।
ऐन॒मप्र॑तिख्यातङ्गच्छति ।
य ए॒वव्ँ वेद॑ ॥ 26 ॥

भट्टभास्कर-टीका

एवं वेदित्रे सर्वाः प्रजाः बलिं हरन्ति प्रतिख्यातरहितं चैश्वर्यमेनमागच्छति ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः ॥