०५ प्रश्नोत्तररूपो ब्रह्मविषयसंवादः

विश्वास-प्रस्तुतिः

ब्रह्मवादि᳓नो वदन्ति -
“य᳓द् द᳓शहोतारस् सत्र᳓म् आ᳓सत,
के᳓न ते᳓ गृह᳓पतिना ऽऽर्ध्नुवन्न् ,
के᳓न प्रजा᳓ असृजन्ते᳓“ति ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यद्दश॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॑ प्र॒जा अ॑सृज॒न्तेति॑ ।

भट्टभास्कर-टीका

1-5ब्रह्मवादिन इत्यादि ॥ अविवाक्येऽह्नि इतरे पृच्छन्ति । गृहपतिः प्रतिवचनं ब्रूते । दशहोतारस्सत्रमासत । तदानीं केन गृहपतिना आर्ध्नुवन् वृद्धिं प्राप्नुवन् कर्मफलमलभन्त? केन च गृहपतिना प्रजा असृजन्त? फलविशेषप्रश्नः । दशहोतुरसाधारणफलत्वात् ।

सायण-टीका

चतुर्थे प्रतिग्रह-मन्त्र-महिम-ज्ञानं विहितम् । द्वादशाह-गतस्य दश-रात्रस्य दशमेऽहन्य् अध्वर्यु-प्रभृतयः प्रष्टारो गृहपतिः प्रतिवक्ता, तेषां प्रश्नोत्तरे पञ्चमानुवाकेऽभिधीयेते । अत्र प्रश्नोत्तर-रूपं संवादं विधत्ते -

ब्रह्मवादिनो वदन्ति…

इति । वक्ष्यमाण-प्रश्नोत्तर-रूपं वेद-वाक्यं ब्रह्म, तद्-वेदन-शीला ब्रह्म-वादिनस् ते परस्परं वदन्ति, संवादं कुर्युर् इत्य् अर्थः । अत एव सूत्र-कारः – “ब्रह्म-वाद्यं वदन्त [[P449]] इति विज्ञायते” इति शाखान्तर-वचनम् उदाजहार । उदाहृत्य चैवम् उक्तम् – “गृहपतिम् एव ऋत्विजः पर्युपविश्य पृच्छेयुः” इति ।

तत्राध्वर्यु-गृहपत्योः प्रश्नोत्तरे वाक्ये दर्शयति-

यद् दश-होतारः सत्रम् आसत ।
केन ते गृहपतिनाऽऽर्ध्नुवन् ।
केन प्रजा असृजन्त ।
प्रजापतिना वै ते गृहपतिनाऽऽर्ध्नुवन् ।
तेन प्रजा असृजन्त,

इति । यदा दश-होतृ-मन्त्राभिमानिनो देवाः सत्रम् अन्वतिष्ठंस् तदानीं केन गृहपतिना सत्र-रूपां समृद्धिं प्राप्नुवन् । प्राप्य च केन गृहपतिना प्रजाः सृष्टवन्तः । सत्रार्थं दीक्षितेषु मध्ये मुख्यो गृहपतिः । इतरे ऽध्वर्यु-प्रभृतय ऋत्विजः । तत्राध्वर्यु-प्रश्नस्य गृहपतेर् उत्तरम् एवं दत्तम् ।

मूलम्

प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् ।
तेन॑ प्र॒जा अ॑सृजन्त ।

विश्वास-प्रस्तुतिः

प्रजा᳓पतिना वै᳓ ते᳓ गृह᳓पतिना ऽऽर्ध्नुवन्न्
ते᳓न प्रजा᳓ असृजन्त ।

मूलम्

प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुव॒न्न् तेन॑ प्र॒जा अ॑सृजन्त ।

सायण-टीका

प्रजापतिर् एव दश-होतॄणां सत्रे गृहपतिर् आसीत्, तेन प्रजापतिना फल-समृद्धिः प्रजोत्पत्तिश् च सम्पादिता ।

विश्वास-प्रस्तुतिः

य᳓च् च᳓तुर्होतारस् सत्र᳓म् आ᳓सत
“के᳓न ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न् ,
के᳓नौ᳓षधीर् असृजन्ते᳓“ति ।

सो᳓मेन वै᳓ ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न्
ते᳓नौ᳓षधीर् असृजन्त ।

मूलम्

यच्चतु॑र्होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनौष॑धीरसृज॒न्तेति॑ । सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥17॥
तेनौष॑धीरसृजन्त ।

सायण-टीका

होतुः प्रश्नं तस्योत्तरं च दर्शयति-

यच् चतुर्-होतारः सत्रम् आसत ।
केन ते गृहपतिनाऽऽर्ध्नुवन् ।
केनौषधीर् असृजन्त इति ।
सोमेन वै ते गृहपतिनाऽऽर्ध्नुवन् । तेनौषधीर् असृजन्त,

इति ।

पूर्ववद् व्याख्येयम् ।

विश्वास-प्रस्तुतिः

य᳓त् प᳓ञ्चहोतारस् सत्र᳓म् आ᳓सत -
“के᳓न ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न्,
के᳓नैभ्यो᳓ लोके᳓भ्यो᳓ऽसुरान् प्रा᳓णुदन्त , के᳓नैषाम् पशू᳓न् अवृञ्जते᳓“ति ।

अग्नि᳓ना वै᳓ ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न् ,
ते᳓नैभ्यो᳓ लोके᳓भ्यो᳓ऽसुरान् प्रा᳓णुदन्त,
ते᳓नैषाम् पशू᳓न् अवृञ्जत ।

मूलम्

यत्पञ्च॑होतारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । केनै॑षाम्प॒शून॑वृञ्ज॒तेति॑ । अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त । तेनै॑षाम्प॒शून॑वृञ्जत ।

सायण-टीका

ब्रह्मणः प्रश्नं तस्योत्तरं च दर्शयति-

यत् पञ्च-होतारः सत्रम् आसत ।
केन ते गृहपतिनाऽऽर्ध्नुवन् ।
केनैभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त ।
केनैषां पशून् अवृञ्जत इति ।
अग्निना वै ते गृहपतिनाऽऽर्ध्नुवन् ।
तेनैभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त ।
तेनैषां पशून् अवृञ्जत,

इति । एषाम् असुराणां पशून् विनाशितवन्तः । अन्यत् पूर्ववद् व्याख्येयम् ।

[[P450]]

विश्वास-प्रस्तुतिः

य᳓त् ष᳓ड्ढोतारस् सत्र᳓म् आ᳓सत ,
“के᳓न ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न् ,
के᳓न र्तू᳓न् अकल्पयन्ते᳓“ति ।

धात्रा᳓ वै᳓ ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न्
ते᳓न र्तू᳓न् अकल्पयन्त ।

मूलम्

यत्षड्ढो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन्न् ॥18॥
केन॒र्तून॑कल्पय॒न्तेति॑ । धा॒त्रा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒र्तून॑कल्पयन्त ।

सायण-टीका

अथ होतृकाणां प्रश्नोत्तरे दर्शयति-

यत् षड्-ढोतारः सत्रम् आसत ।
केन ते गृहपतिनाऽऽर्ध्नुवन् ।
केनर्तून् अकल्पयन्त इति ।
धात्रा वै ते गृहपतिनाऽऽर्ध्नुवन् ।
तेनर्तून् अकल्पयन्त

इति । पूर्ववद् व्याख्येयम् ।

विश्वास-प्रस्तुतिः

य᳓त् सप्त᳓होतारस् सत्र᳓म् आ᳓सत ,
“के᳓न ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न् ,
के᳓न सु᳓वर् आयन्न् ,
के᳓नेमाल्ँ᳓ लोका᳓न्त् स᳓मतन्वन्न्” इ᳓ति ।

अर्यम्णा᳓ वै᳓ ते᳓ गृह᳓पतिनाऽऽर्ध्नुवन्न् ,
ते᳓न सु᳓वर् आयन्न् ,
ते᳓नेमाल्ँ᳓ लोका᳓न्त् स᳓मतन्वन्न् इ᳓ति ॥19॥

मूलम्

यत्स॒प्तहो॑तारस्स॒त्रमास॑त । केन॒ ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । केन॒ सुव॑रायन् । केने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ । अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽर्ध्नुवन् । तेन॒ सुव॑रायन् । तेने॒माल्ँ लो॒कान्त्सम॑तन्व॒न्निति॑ ॥19॥

भट्टभास्कर-टीका

एवमितरैः पृष्टे गृहपतिः प्रतिब्रूते - प्रजापतिनेत्यादि । गतम् । गृहपतिः प्रधानयजमानः । दशहोतृप्रधानाद्दशहोतारः । एवं चतुर्होतार इत्यादि ॥

सायण-टीका

अथोद्गातुः प्रश्नं तस्योत्तरं च दर्शयति-

यत् सप्त-होतारः सत्रम् आसत ।
केन ते गृहपतिनाऽऽर्ध्नुवन् ।
केन सुवर् आयन् ।
केनेमान् लोकान्त्समतन्वन्न् इति ।
अर्यम्णा वै ते गृहपतिनाऽऽर्ध्नुवन् ।
तेन सुवर् आयन् ।
तेनेमान् लोकान् समतन्वन्न् इति,

इति । सुवर् आयन्, स्वर्गं प्राप्ताः । समतन्वन्, संततान् अविच्छिन्नान् कृतवन्तः ।

विश्वास-प्रस्तुतिः

एते᳓ वै᳓ देवा᳓ गृह᳓पतयस्
ता᳓न् य᳓ एवव्ँ᳓ विद्वा᳓न् अ᳓प्य् अन्य᳓स्य गार्हपते᳓ दी᳓क्षते
अवान्तर᳓म् एव᳓ सत्रि᳓णाम् ऋध्नोति ।

मूलम्

ए॒ते वै दे॒वा गृ॒हप॑तयः । तान् य ए॒वव्ँ वि॒द्वान् । अप्य॒न्यस्य॑ गार्हप॒ते दीक्ष॑ते । अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृध्नोति ।

भट्टभास्कर-टीका

6एते वा इत्यादि ॥ एते प्रजापत्यादयो देवानां मध्ये गृहपतयः । एवं तान् गृहपतीन् विद्वान् योऽन्यस्यापि गार्हपते गृहपतिसंबन्धिनि कर्मणि दीक्षते सोप्यवान्तरं पृथक्पृथगेव सत्रिणां सर्वेषां ऋध्नोति ऋद्धिं माप्नोति । किं पुनरात्मनो गार्हपते यो दीक्षते ॥

सायण-टीका

उक्तेषु प्रश्नोत्तरेषु निर्णीतानां गृहपतीनां वेदनं प्रशंसति-

एते वै देवा गृहपतयः ।
तान् य एवं विद्वान् ।
अप्य् अन्यस्य गार्हपत्ये दीक्षते ।
अवान्तरम् एव सत्रिणाम् ऋध्नोति,

इति । प्रजापतिः सोमो ऽग्निर् धाता ऽर्यमा चेत्य् एते देवाः पूर्वोक्त-प्रश्नोत्तरेषु निर्णीता गृहपतयः । यः पुमांस् तान् गृहपतीन् विदित्वा ध्यायेत्, सो ऽन्यस्यापि गार्हपत्ये कर्मणि यदि दीक्षते, तदानीम् अवान्तरम् एव पृथग् एव सत्रिणां फलं प्राप्नोति । अयम् अर्थः – दीक्षितेषु सत्रिषु स्वयं गृहपतिर् न भवति । किं त्व् अध्वर्यु-प्रभृतिषु कश्चिद्, गृहपतिस् त्व् अन्य एव । 1तस्यैवान्यस्य गृहपतित्वोपपत्तेः । तस्य यत् फलं तद् एव तस्मै भवति । किं च तस्यैव सर्व ऋत्विजो गृहपतित्वोपपत्तिकर्मण्य् अनुकूला भवन्ति । तथा च तस्य मुख्यत्वाभावे ‘पि प्रजापत्यादि-गृहपति-वेदन-सामर्थ्येन सर्वेषां सत्रिणां यावत् फलं तावत् स्वयं पृथग् एव प्राप्नोति ।

विश्वास-प्रस्तुतिः

यो᳓ वा᳓ अर्यम᳓णव्ँ वे᳓द
दा᳓नकामा अस्मै प्रजा᳓ भवन्ति ।

मूलम्

यो वा अ॑र्य॒मणव्ँ॒वेद॑ । दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।

भट्टभास्कर-टीका

7यो वा इत्यादिर्यज्ञस्तुतिः यष्टुस्स्तुतिर्वा, अर्यणो वा स्तुतिः ॥ अरीन् यमयति निगृह्णातीत्यर्यमा, यष्टा दाता च । तं यो वेद अस्मै प्रजा दानकामा भवन्ति । अस्य वा प्रजा यष्ट्र्यो दात्र्यश्च भवन्ति । ‘शीलिकामि’ इत्यादिना णप्रत्ययान्तत्वेन ङीबभावः ।

सायण-टीका

[[P451]]

पूर्वोक्तस्य पञ्चमस्य गृहपतेर् अर्यमाख्यस्य वेदनं पुनर् विशेषेण प्रशंसति-

यो वा अर्यमणं वेद ।
दान-कामा अस्मै प्रजा भवन्ति ।
यज्ञो वा अर्यमा ।
आर्य-वसतिर् इति वै तम् आहुर् ये प्रशंसन्ति,

इति । यो ऽयम् अर्यमा देवेषु गृहपतित्वेनोक्तः सो ऽयं यज्ञ-निष्पादकत्वाद् यज्ञ एव । एवं तम् अर्यमणं यो वेद, अस्य वेदितुः पुत्राद्याः प्रजा दान-कामा भवन्ति । स्व-कर्तृकं दानं कामयन्ते, दातारो भवन्तीत्य् अर्थः ।

विश्वास-प्रस्तुतिः

यज्ञो᳓ वा᳓ अर्यमा᳓ ।

मूलम्

य॒ज्ञो वा अ॑र्य॒मा ।

भट्टभास्कर-टीका

यज्ञवत्पूज्यः खल्वर्यमा ।

विश्वास-प्रस्तुतिः

“आ᳓र्यावसति᳓र्”+++(←स्वरः??)+++ इ᳓ति वै᳓ त᳓म् आहुर् य᳓म् प्रशँ᳓सन्ति ।

मूलम्

“आर्या॑वस॒ति"रिति॒ वै तमा॑हु॒र्यम्प्र॒शँस॑न्ति ।

भट्टभास्कर-टीका

इदानमिर्यम्णः पूज्यत्वे हेतुमाह - यं हि प्रशंसन्ति तम् आर्यावसतिम् आहुः । आर्याणां साधूनां दातॄणां वा आवासमाहुः । वनस्पत्यादित्वादाद्युदात्तत्वम् । आर्यावसतिरित्येव प्रशंसनीय इत्याहुः । स चार्याणां साधूनां देवमनुष्याणामावासो दाता यष्टा च । तस्मात्स एवार्यमा आर्याणां निर्भीकत्वादेर्दाता । अर्यमेति पृषोदरादिः ।

सायण-टीका

आर्याः, पूज्या गुर्वादयस्, तेषाम् आवसतिः, साकल्येन निवास-हेतुर् इत्य् अनेनैव शब्देन लोके व्यवहरन्ति, यं प्रशंसितुम् इच्छन्ति । अयम् अर्थः – दान-शीलं राजानम् अमात्यं वा यदा प्रशंसन्ति तदानीम् अयं राजा आर्याणां, साधूनां, विदुषां, यष्टॄणां वा, गुरूणां च स्वकीय-गृह-निवास-हेतुर् इति प्रशंसन्ति । तस्माद् आर्य-वसति-शब्दो निरतिशय-प्रशंसा-वाची । अर्यमा-शब्दस्यार्यावसति-शब्द[ः] पर्यायः । आर्याः पूज्यन्ते मन्यन्त इति वा व्युत्पत्तेः ।

विश्वास-प्रस्तुतिः

आ᳓र्यावसति᳓र्भवति
य᳓ एवव्ँ᳓ वे᳓द ॥20॥

मूलम्

आर्या॑वस॒तिर्भ॑वति । य ए॒वव्ँ वेद॑ ॥20॥

भट्टभास्कर-टीका

एवं यथोक्तप्रकारं अर्यम्णो वेदिता आर्यावसतिर्भवति, यष्टा दाता च भवति ॥

सायण-टीका

प्रकारान्तरेण तम् अर्यमणं पुनः प्रशंसति-

आर्य-वसतिर् भवति ।
य एवं वेद,

इति । ईदृशम् अर्यमाणं सर्वेषाम् आर्याणां निवास-हेतुं यो वेद, सो ‘प्य् आर्याणां निवास-भूमिर् भवति ।

विश्वास-प्रस्तुतिः

य᳓द् वा᳓ इद᳓ङ् कि᳓ञ्च
त᳓त् स᳓र्वञ् च᳓तुर्होतारः ।
च᳓तुर्होतृभ्यो᳓ ऽधि यज्ञो᳓ नि᳓र्मितः ।
स᳓ य᳓ एवव्ँ᳓ विद्वा᳓न् विव᳓देत ,
“अह᳓म् एव᳓ भू᳓यो वेद ,
य᳓श्च᳓तुर्होतॄन् वे᳓दे᳓“ति ।

मूलम्

यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॒ञ्चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । स य ए॒वव्ँ वि॒द्वान् वि॒वदे॑त । अ॒हमे॒व भूयो॑ वेद । यश्चतु॑र्होतॄ॒न् वेदेति॑ ।

भट्टभास्कर-टीका

8यद्वा इत्यादि ॥ इदं विश्वं दृश्यमानं श्रूयमाणं च चतुर्होतारः दशहोत्रादयः चत्रुर्होतृभवत्वात् ताच्छब्द्यम् । किं बहुना, यज्ञोपि सर्वश्चतुर्होतृभ्यो निर्मितः । एवं चतुर्होतृमाहात्म्यमुक्तप्रकारं विद्वान् यो नाम कश्चिल्लोके अन्येन विवदेत । कथम्? अहमेव भूयो वेद बहुतरं जानामि नेतरः मनुष्यो मत्तुल्यो बहुज्ञो नास्त्येव कश्चित्, योऽहं चतुर्होतॄन्त् वेद याथात्म्येन जानामीति ॥

सायण-टीका

अथ चतुर्होतृ-मन्त्र-वेदनं प्रशंसति-

यद् वा इदं किंच ।
तत् सर्वं चतुर्-होतारः ।
चतुर्-होतृभ्यो ‘धि यज्ञो निर्मितः ।
स य एवं विद्वान् विवदेत ।
अहम् एव भूयो वेद ।
यश् चतुर्-होतॄन् वेदेति ।
स वै भूयो वेद ।
यश् चतुर्-होतॄन् वेद,

इति । यद् इदं किंचित् प्रजापति-सृष्टं जगद् दृश्यते तत् सर्वं होतृ-मन्त्राणां स्वरूप-भूतम् । तन्-मन्त्र-बलाद् एव तत्-सृष्टेः पूर्व-प्रपाठके बहुधा प्रपञ्चितत्वात् । किं च चतुर्होतृ-मन्त्रेभ्य ऊर्ध्वं सर्वो ऽपि यज्ञो निर्मितः । तत्-तद्-यज्ञारम्भे होतृ-मन्त्र-होमस्य पूर्वं [[P452]] विहितत्वात् । एवं सति यो विद्वान् विवदेत, यः को ऽपि होतृ-मन्त्र-माहात्म्यं विद्वान् इतरैः सह विवादं कुर्यात् । कीदृशो विवाद इति तद् उच्यते – यो ऽहं होतृ-मन्त्रान् वेद सो ऽहम् एव सर्वेषां मध्ये भूयो वेदितेति । तस्मिन् विवादे तस्यैव होतृ-मन्त्राभिज्ञस्य जय इत्य् उत्तर-वाक्ये प्रसिद्ध-वाचिना हि-शब्देन स्पष्टीकरोति ।

विश्वास-प्रस्तुतिः

स᳓ ह्य् ए᳙व᳓ भू᳓यो वे᳓द
य᳓श् च᳓तुर्होतॄन् वे᳓द ।

मूलम्

स ह्ये॑व भूयो॒ वेद॑ । यश्चतु॑र्होतॄ॒न् वेद॑ ।

भट्टभास्कर-टीका

9अस्मिन् विवादे वयं निर्णायं ब्रूम इत्याह - स ह्येवेत्यादि ॥ यदुक्तमहमेव भूयो वेदेति, सत्यमेव । स ह्येव भूयो वेद यश्चतुर्होतॄन् वेदेति, नेतरः । नात्र विवादः दीयतां हस्ते परशुरिति भावः ॥

सायण-टीका

होतृ-मन्त्र-रहस्यं यो वेत्ति स एव भूयो वेदेत्य् अतिप्रसिद्धम् इत्य् अर्थः ।

मूलम्

यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

विश्वास-प्रस्तुतिः

यो᳓ वै᳓ च᳓तुर्होतृणाँ हो᳓तॄन् वे᳓द
स᳓र्वासु प्रजा᳓स्व् अ᳓न्नम् अत्ति ॥21॥

मूलम्

यो वै चतु॑र्होतृणाँ॒ होतॄ॒न् वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति ॥21॥

भट्टभास्कर-टीका

10यो वा इत्यादि ॥ यश्चतुर्होतृणां दशहोत्रादीनां होतॄन् वेद सर्वासु प्रजासु मध्ये अन्नमत्ति भोक्ता भवति, सर्वप्रजा विषये भुङ्क्ते ।

सायण-टीका

अथ होतृ-मन्त्राभिमानि-देव-विषयं वेदनं प्रशंसति-

यो वै चतुर्-होतॄणां होतॄन् वेद ।
सर्वासु प्रजास्व् अन्नम् अत्ति ।
सर्वा दिशो ऽभिजयति ।
प्रजापतिर् वै दश-होतॄणां होता ।
सोमश् चतुर्-होतॄणां होता ।
अग्निः पञ्च-होतॄणां होता ।
धाता षड्-ढोतॄणां होता ।
अर्यमा सप्त-होतॄणां होता ।
एते वै चतुर्-होतॄणां होतारः ।
तान् य एवं वेद ।
सर्वासु प्रजास्व् अन्नम् अत्ति ।
सर्वा दिशो ऽभिजयति,

इति ।

होतृ-मन्त्रैर् होमादिकं निष्पाद्य फल-साधकाः प्रजापत्यादयो मन्त्राणां होतारः । तान् यो वेद सो ऽयं सर्वासु प्रजासु यद् अन्नं तत् सर्वम् अनुभवति । सर्वाः प्रजा अस्मै प्रशस्तम् अन्नं समर्पयन्तीत्य् अर्थः ।

विश्वास-प्रस्तुतिः

स᳓र्वा दि᳓शो ऽभि᳓जयति ।

मूलम्

सर्वा॒ दिशो॒ऽभिज॑यति ।

भट्टभास्कर-टीका

सर्वाश्च दिशोऽभिजयति ।

सायण-टीका

किं च सर्व-दिग्-वर्तिन्यः प्रजा अस्य वश्या भवन्ति ।

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् वै᳓ द᳓शहोतृणाँ हो᳓ता ।
सो᳓मश् च᳓तुर्होतृणाँ हो᳓ता ।
अग्निᳶ᳓ प᳓ञ्चहोतृणाँ हो᳓ता ।
धाता᳓ ष᳓ड्ढोतृणाँ हो᳓ता ।
अर्यमा᳓ सप्त᳓होतृणाँ हो᳓ता ।
एते᳓ वै᳓ च᳓तुर्होतृणाँ हो᳓तारः ।

मूलम्

प्र॒जाप॑ति॒र्वै दश॑होतृणा॒ꣳ॒ होता॑ ।
सोम॒श्चतु॑र्होतृणाँ॒ होता॑ ।
अ॒ग्निᳶ पञ्च॑होतृणाँ॒ होता॑ ।
धा॒ता षड्ढो॑तृणाँ॒ होता॑ ।
अ॒र्य॒मा स॒प्तहो॑तृणाँ॒ होता॑ ।
ए॒ते वै चतु॑र्होतृणाँ॒ होता॑रः ।

भट्टभास्कर-टीका

प्रजापत्यादयश्चतुहोतृणां होतारः होतृस्थानीयाः, एषां यज्ञत्वात् । प्रजापत्यादयो होतारः, कर्तृत्वसामान्यात् ।

सायण-टीका

“प्रजापतिर् वै दश-होतॄणाम्” इत्य् आदौ होतृ-मन्त्रस्यावयव-भेदात् प्रयोग-भेदाद् वा बहुवचन-निर्देशः ।

मूलम्

तान् य ए॒वव्ँ वेद॑ । सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

विश्वास-प्रस्तुतिः

ता᳓न् य᳓ एवव्ँ᳓ वे᳓द
स᳓र्वासु प्रजा᳓स्व् अ᳓न्नमत्ति । स᳓र्वा दि᳓शो ऽभि᳓जयति ॥22॥

मूलम्

तान् य ए॒वव्ँ वेद॒ सर्वा॑सु प्र॒जास्वन्न॑मत्ति । सर्वा॒ दिशो॒ऽभिज॑यति ॥22॥

भट्टभास्कर-टीका

एवं वेदिताऽपि सर्वासु प्रजास्वन्नमत्ति, अभिजयति च सर्वा दिशः ॥ इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥

सायण-टीका

“तान् य एवं वेद” इत्यादि-पुनरुक्तिर् उपसंहारार्था ॥

इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके पञ्चमो ऽनुवाकः ॥ ५ ॥


  1. ख. तस्मा अन्य ↩︎