विश्वास-प्रस्तुतिः
त᳓स्य वा᳓ अग्ने᳓र् हि᳓रण्यम् प्रतिजग्रहु᳓षः
अर्ध᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ।
मूलम्
तस्य॒ वा अ॒ग्नेर्हिर॑ण्यम्प्रतिजग्र॒हुषः॑ । अ॒र्धमि॑न्द्रि॒यस्यापा॑क्रामत् ।
भट्टभास्कर-टीका
1तस्य वा इत्यादि ॥ प्रतिग्रहशेषोऽयम् । उक्तमग्न्यादयः प्रत्यगृह्णन्निति । तत्र तस्याग्नेर्हिरण्यं प्रति जग्रहुषः प्रतिगृहीतवतः । संप्रसारणाभावश्छान्दसः । इन्द्रियस्य वीर्यस्य अर्धं आत्मनोऽपा क्रामत् ।
सायण-टीका
तृतीये केशवपनाङ्गं पुष्टि-वेदनम् उक्तम् । अथ प्रतिग्रह-मन्त्रेषु तत्तन्-मन्त्र-विज्ञानं चतुर्थे ऽभिधीयते । तत्र हिरण्य-प्रतिग्रह-मन्त्रस्य महिमा-वेदनम् अन्वय-व्यतिरेकाभ्यां विधत्ते-
तस्य वाग्नेर् हिरण्यं प्रतिजग्रहुषः ।
अर्धम् इन्द्रियस्यापाक्रामत् ।
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै सोऽर्धम् इन्द्रियस्यात्मन्न् उपाधत्त ।
अर्धम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् हिरण्यं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
अर्धम् अस्येन्द्रियस्यापक्रामति, इति ।
पुरा कदाचिद् अग्निर् मन्त्रम् अन्तरेण हिरण्यं प्रतिगृहीतवान् । तस्याग्नेः शरीर-वर्ति यद् इन्द्रियं वीर्यं तस्यार्धम् अग्नेः सकाशाद् अपगतम् ।
विश्वास-प्रस्तुतिः
त᳓देते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
मूलम्
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
भट्टभास्कर-टीका
अथाग्निः तद्धिरण्यमेतेन प्रतिग्रहमन्त्रेण प्रत्यगृह्णात् । लिङ्गं च ‘अग्नये हिरण्यम्’ इति ।
सायण-टीका
तदानीं स्वकीयं बल-क्षयं दृष्ट्वा तत्-परिहाराय - “राजा त्वा वरुणो नयतु देवि दक्षिणे ऽग्नये हिरण्यम्” इत्य् एतेनैव मन्त्रेण प्रत्यगृह्णात् । तत्राग्निना पठ्यमाने मन्त्रे यो ऽयं चतुर्थ्यन्तो ऽग्नि-शब्दस् तस्य कल्पान्तर-गतो ऽग्निर् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
ते᳓न वै᳓ सो᳙ऽर्ध᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्त ।
मूलम्
तेन॒ वै सो॑ऽर्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
भट्टभास्कर-टीका
तेन तादृशेन प्रतिग्रहेण इन्द्रियस्यार्धमपक्रान्तं भूय आत्मन्युपाधत्ताग्निः ।
सायण-टीका
तद्-व्यवधानेन प्रतिग्रहे सति तेनैव मन्त्रेण पूर्वम् अपगतं स्वकीय-वीर्यस्यार्धं स्वस्मिन्न् एव पुनः समाधत्त ।
विश्वास-प्रस्तुतिः
अर्ध᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् हि᳓रण्यम् प्रतिगृह्णा᳓ति ।
मूलम्
अ॒र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वान् हिर॑ण्यम्प्रतिगृ॒ह्णाति॑ ।
भट्टभास्कर-टीका
अथ य एवं विद्वान् हिरण्यं प्रतिगृह्णाति स इन्द्रियस्यापक्रान्तस्याप्यर्धं पुनरात्मन्युपाधते ।
विश्वास-प्रस्तुतिः
अ᳓थ यो᳓ऽविद्वान् प्रतिगृह्णा᳓त्य्
अर्ध᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । अ॒र्धम॑स्येन्द्रि॒यस्याप॑क्रामति ।
भट्टभास्कर-टीका
अथाविद्बांश्चेत्तस्य इन्द्रियस्यार्धमपक्रामत्येव । तस्मादेवं विदुषा प्रतिग्राह्यमिति विधीयते ॥
सायण-टीका
यः पुमान् एवं मन्त्र-महिमानं विद्वान् प्रतिगृह्णाति तस्येन्द्रिय-भागो नातिक्रामति । किं तु स्वस्मिन्न् एव समाहितो भवति । अविदुषस् तु स भागः स्वस्माद् अपगच्छति ।
विश्वास-प्रस्तुतिः
त᳓स्य वै᳓ सो᳓मस्य वा᳓सᳶ प्रतिजग्रहु᳓षस्
तृ᳓तीयम् इन्द्रिय᳓स्या᳓पाक्रामत् ॥11॥
त᳓देते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
ते᳓न वै᳓ स᳓ तृ᳓तीयम् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्त ।
तृ᳓तीयम् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् वा᳓सᳶ प्रतिगृह्णा᳓ति ।
अ᳓थ यो᳓ऽविद्वान् प्रतिगृह्णा᳓ति
तृ᳓तीयम् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
तस्य॒ वै सोम॑स्य॒ वास॑ᳶ प्रतिजग्र॒हुषः॑ । तृती॑यमिन्द्रि॒यस्यापा॑क्रामत् ॥11॥
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वान् वास॑ᳶ प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । तृती॑यमस्येन्द्रि॒यस्याप॑क्रामति ।
विश्वास-प्रस्तुतिः
त᳓स्य वै᳓ रुद्र᳓स्य गा᳓म्प्रतिजग्रहु᳓षश्
चतुर्थ᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ।
ता᳓म् एते᳓नैव᳓ प्र᳓त्यगृह्णात् । ते᳓न वै᳓ स᳓ चतुर्थ᳓म् इन्द्रिय᳓स्यात्म᳓न्नुपा᳓धत्त ॥12॥
चतुर्थ᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् गा᳓म् प्रतिगृह्णा᳓ति ।
अ᳓थ यो᳓ऽविद्वान्प्रतिगृह्णा᳓ति
चतुर्थ᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
तस्य॒ वै रु॒द्रस्य॒ गाम्प्र॑तिजग्र॒हुष॑श्
चतु॒र्थमि॑न्द्रि॒यस्यापा॑क्रामत् ।
तामे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ॥12॥
च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वान्गाम्प्र॑तिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑क्रामति ।
विश्वास-प्रस्तुतिः
त᳓स्य वै᳓ व᳓रुणस्या᳓श्वम् प्रतिजग्रहु᳓षᳶ
पञ्चम᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ।
त᳓मेते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
ते᳓न वै᳓ स᳓ पञ्चम᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्त ।
पञ्चम᳓म् इन्द्रिय᳓स्यात्म᳓न्नुपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् अ᳓श्वम् प्रतिगृह्णा᳓ति ॥13॥
अ᳓थ यो᳓ऽविद्वान् प्रतिगृह्णा᳓ति
पञ्चम᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
तस्य॒ वै वरु॑ण॒स्याश्व॑म्प्रतिजग्र॒हुष॑ᳶ
पञ्च॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ।
तमे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वानश्व॑म्प्रतिगृ॒ह्णाति॑ ॥13॥
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
विश्वास-प्रस्तुतिः
त᳓स्य वै᳓ प्रजा᳓पतेᳶ पु᳓रुषम् प्रतिजग्रहु᳓षश्
षष्ठ᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ।
त᳓म् एते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
ते᳓न वै᳓ स᳓ षष्ठ᳓म् इन्द्रिय᳓स्यात्म᳓न्नुपा᳓धत्त ।
षष्ठ᳓म् इन्द्रिय᳓स्यात्म᳓न्नुपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् पु᳓रुषम् प्रतिगृह्णा᳓ति ।
अ᳓थ यो᳓ ऽविद्वान् प्रतिगृह्णा᳓ति
षष्ठ᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ॥14॥
मूलम्
तस्य॒ वै प्र॒जाप॑ते॒ᳶ पुरु॑षम्प्रतिजग्र॒हुषः॑ । ष॒ष्ठमि॑न्द्रि॒यस्यापा॑क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वान्पुरु॑षम्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति ॥14॥
मूलम्
तस्य॒ वै मनो॒स्तल्प॑म्प्रतिजग्र॒हुषः॑ । स॒प्त॒ममि॑न्द्रि॒यस्यापा॑क्रामत् । तमे॒तेनै॒व प्रत्य॑गृह्णात् । तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त । स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते । य ए॒वव्ँ वि॒द्वाँस्तल्प॑म्प्रतिगृ॒ह्णाति॑ । अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ । स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
विश्वास-प्रस्तुतिः
त᳓स्य वै᳓ म᳓नोस् त᳓ल्पम् प्रतिजग्रहु᳓षस्
सप्तम᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ।
त᳓म् एते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
ते᳓न वै᳓ स᳓ सप्तम᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्त ।
सप्तम᳓मिन्द्रिय᳓स्यात्म᳓न्नुपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वाँ᳓स् त᳓ल्पम् प्रतिगृह्णा᳓ति ।
अ᳓थ यो᳓ऽविद्वान् प्रतिगृह्णा᳓ति
सप्तम᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
तस्य॒ वै मनो॒स्तल्प॑म्प्रतिजग्र॒हुष॑स् सप्त॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ।
तमे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते॒ य ए॒वव्ँ वि॒द्वाँस्तल्प॑म्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ सप्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
विश्वास-प्रस्तुतिः
त᳓स्य वा᳓ उत्तान᳓स्याङ्गीरस᳓स्य +अ᳓प्राणत् प्रतिजग्रहु᳓ष
अष्टम᳓म् इन्द्रिय᳓स्या᳓पाक्रामत् ॥15 ॥
त᳓द् एते᳓नैव᳓ प्र᳓त्यगृह्णात् ।
ते᳓न वै᳓ सो᳙ ऽष्टम᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्त ।
अष्टम᳓म् इन्द्रिय᳓स्यात्म᳓न्न् उपा᳓धत्ते
य᳓ एवव्ँ᳓ विद्वा᳓न् अ᳓प्राणत् प्रतिगृह्णा᳓ति ।
अ᳓थ यो᳓ ऽविद्वान् प्रतिगृह्णा᳓त्य्
अष्टम᳓म् अस्येन्द्रिय᳓स्या᳓पक्रामति ।
मूलम्
तस्य॒ वा उ॑त्ता॒नस्या॑ङ्गीर॒सस्याप्रा॑णत्प्रतिजग्र॒हुषः॑ ।
अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा॑क्रामत् ॥15 ॥
तदे॒तेनै॒व प्रत्य॑गृह्णात् ।
तेन॒ वै सो॑ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त ।
अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते ।
य ए॒वव्ँ वि॒द्वानप्रा॑णत्प्रतिगृ॒ह्णाति॑ ।
अथ॒ योऽवि॑द्वान्प्रतिगृ॒ह्णाति॑ ।
अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑क्रामति ।
भट्टभास्कर-टीका
2-7एवं सोमरुद्रवरुणप्रजापतिमनूत्तानेषु वेदितव्यम् । तृतीयादयोंऽशाः । ‘पूरणाद्भागे’ इति तृतीयशब्दादन् प्रत्ययः ॥
सायण-टीका
[[P446]] हिरण्य-मन्त्रवद् वस्त्र-गवाश्व-पुरुष-तल्प-शकट-प्रतिग्रह-मन्त्राणां षण्णां वेदनम् अन्वय-व्यतिरेकाभ्यां विधत्ते-
तस्य वै सोमस्य वासं प्रतिजग्रहुषः ।
तृतीयम् इन्द्रियस्यापाक्रामत् ।
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै स तृतीयम् इन्द्रियस्यात्मन्न् उपाधत्त ।
तृतीयम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् वासं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
तृतीयम् अस्येन्द्रियस्यापक्रामति ।
तस्य वै रुद्रस्य गां प्रतिजग्रहुषः ।
चतुर्थम् इन्द्रियस्यापाक्रामत् ।
ताम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स चतुर्थम् इन्द्रियस्यात्मन्न् उपाधत्त ।
चतुर्थम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् गां प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
चतुर्थम् अस्येन्द्रियस्यापक्रामति ।
तस्य वै वरुणस्याश्वं प्रतिजग्रहुषः ।
पञ्चमम् इन्द्रियस्यापाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स पञ्चमम् इन्द्रियस्यात्मन्न् उपाधत्त ।
पञ्चमम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् अश्वं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
पञ्चमम् अस्येन्द्रियस्यापक्रामति ।
तस्य वै प्रजापतेः पुरुषं प्रतिजग्रहुषः । [[P447]]
षष्ठम् इन्द्रियस्यापाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स षष्ठम् इन्द्रियस्यात्मन्न् उपाधत्त ।
षष्ठम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् पुरुषं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
षष्ठम् अस्येन्द्रियस्यापक्रामति ।
तस्य वै मनोस् तल्पं प्रतिजग्रहुषः ।
सप्तमम् इन्द्रियस्यापाक्रामत् ।
तम् एतेनैव प्रत्यगृह्णात् ।
तेन वै स सप्तमम् इन्द्रियस्यात्मन्न् उपाधत्त ।
सप्तमम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान्स् तल्पं प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
सप्तमम् अस्येन्द्रियस्यापक्रामति ।
तस्य वा उत्तानस्याङ्गीरसस्याप्राणत् प्रतिजग्रहुषः ।
अष्टमम् इन्द्रियस्यापाक्रामत् ।
तद् एतेनैव प्रत्यगृह्णात् ।
तेन वै सो ऽष्टमम् इन्द्रियस्यात्मन्न् उपाधत्त ।
अष्टमम् इन्द्रियस्यात्मन्न् उपाधत्ते ।
य एवं विद्वान् अप्राणत् प्रतिगृह्णाति ।
अथ यो ऽविद्वान् प्रतिगृह्णाति ।
अष्टमम् अस्येन्द्रियस्यापक्रामति, इति ।
अत्र तृतीय-चतुर्थादि-शब्दा वीर्य-भाग-पराः । अप्राणत्, प्राण-वायु-रहितम् अचेतनं शकटम् । उत्तानायाङ्गिरसायान्येति तत्-तत्-पर्यायेषु प्रथम-पर्यायवद् व्याख्येयम् ।
विश्वास-प्रस्तुतिः
य᳓द् वा᳓ इद᳓ङ् कि᳓ञ्च
त᳓त् स᳓र्वम् उत्तान᳓ एवा᳓ङ्गीरसᳶ᳓ प्र᳓त्यगृह्णात् ।
त᳓द् एनम् प्र᳓तिगृहीतन् ना᳓हिनत् ।
य᳓त् कि᳓ञ्च प्रतिगृह्णीया᳓त्
त᳓त् स᳓र्वम् “उत्तान᳓स् त्वाङ्गीरसᳶ᳓ प्र᳓तिगृह्णात्व्” इ᳓त्य् एव᳓ प्र᳓तिगृह्णीयात् ।
इयव्ँ᳓ वा᳓ उत्तान᳓ आङ्गीरस᳓
अन᳓यैवै᳓नत् प्र᳓तिगृह्णाति ।
नै᳓नँ हिनस्ति ॥16॥
मूलम्
यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् । तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति । नैनँ॑ हिनस्ति ॥16॥
भट्टभास्कर-टीका
8यद्वा इदं किञ्चेत्यादि ॥ व्याख्यातम् । अवयवस्तुत्यर्थं पुनर्वचनम् ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥
सायण-टीका
यद् उक्तं द्वितीयानुवाकेनाम्नात-मन्त्राणाम् उत्तान-मन्त्रेण प्रतिग्रह इति तद् अप्य् अत्र मन्त्र-महिम-वेदन-प्रसङ्गेन तदीय-वेदन-विधानार्थं पुनः पठति-
यद् वा इदं किंच ।
तत् सर्वम् उत्तान एवाङ्गीरसः प्रत्यगृह्णात् ।
तद् एनं प्रतिगृहीतं नाहिनत् ।
यत् किंच प्रतिगृह्णीयात् ।
तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् ।
इयं वा उत्तान आङ्गीरसः ।
अनयैवैनत् प्रतिगृह्णाति ।
नैनं हिनस्ति ।
इति ।
पूर्ववव्याख्येयम् । एवं मत्रमहिमाऽप्यनुसंधेय इति तात्पर्यार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीय-ब्राह्मणभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥