विश्वास-प्रस्तुतिः
यो᳓ वा᳓ अ᳓विद्वान् निवर्त᳓यते
वि᳓शीर्षा स᳓पाप्मा ऽमु᳓ष्मिल्ँ लोके᳓ भवति ।
अ᳓थ यो᳓ विद्वा᳓न् निवर्त᳓यते
स᳓शीर्षा वि᳓पाप्माऽमु᳓ष्मिल्ँ लोके᳓ भवति ।
देव᳓ता वै᳓ सप्त᳓ पु᳓ष्टिकामा न्य᳙वर्तयन्त ।
अग्नि᳓श् च पृथिवी᳓ च वायु᳓श् चान्त᳓रिक्षञ्च ,
आदित्य᳓श् च द्यौ᳓श् च चन्द्र᳓माः ।
मूलम्
यो वा अवि॑द्वान्निव॒र्तय॑ते । विशी॑र्षा॒ सपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते । सशी॑र्षा॒ विपा॑प्मा॒ऽमुष्मिल्ँ॑ लो॒के भ॑वति । दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त । अ॒ग्निश्च॑ पृथि॒वी च॑ । वा॒युश्चा॒न्तरि॑क्षञ्च । आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः॑ ।
भट्टभास्कर-टीका
1यो वा इत्यादि ॥ वक्ष्यमाणानग्न्यादिपुष्टिप्रकारान् अविद्वान् यो निवर्तयते केशान् । सामर्थ्याच्चातुर्मास्यशेषोऽयमिति केचित् । चतुर्होतृप्रकरणात् तद्विषयमेव निवर्तनादिकमित्यन्ये । विशीर्षेत्यादि गतम् ।
सायण-टीका
द्वितीये नैमित्तिको होतृ-मन्त्र-होम उक्तः । तृतीये केश-निवर्तन-विषये कंचिद्ध्यानविशेषं दर्शयति । एतच् च होतृ-मन्त्र-प्रयुक्तेषु कर्मसु चातुर्मास्यादि-कर्मसु च यत्र यत्र केशनिकृन्तनम् अस्ति तत्र सर्वत्राङ्गत्वेनैतद् वेदनं द्रष्टव्यम् । तद् इदं वेदनम् अन्वय-व्यतिरेकाभ्यां विधत्ते-
यो वा अविद्वान् निवर्तयते । विशीर्षा स पाप्माऽमुष्मिल्ँ लोके भवति । अथ यो विद्वान् निवर्तयते [[P444]] सशीर्षा विपाप्मा ऽमुष्मिल्ँ लोके भवति,
इति । वक्ष्यमाण-प्रकारेणाग्न्यादयो देवाः केश-निवर्तनेन यां पुष्टिं संपादितवन्तस् तत्-पुष्टि-साधनम् इह निवर्तनम् इत्य् अविदित्वा यः केश-निवर्तनं प्राप्नोति स स्वर्ग-लोके शिरो-रहितः पापी भवति । तद्-वेदन-पूर्वके तु निवर्तने शिरः-सहितः पाप-रहितो भवति । तस्माद् वेदनं संपादयेत् ।
विश्वास-प्रस्तुतिः
अग्नि᳓र् न्य᳙वर्तयत।
स᳓ साहस्र᳓म् अपुष्यत् ॥9॥
मूलम्
अ॒ग्निर्न्य॑वर्तयत । स सा॑ह॒स्रम॑पुष्यत् ॥9॥
भट्टभास्कर-टीका
अग्न्यादयस्सप्त देवताः पुष्टिकामाः पूर्वं न्यवर्तयन्त ।
सायण-टीका
ता एता अग्न्यादिभिः संपादिताः पुष्टीः क्रमेण दर्शयति-
देवता वै सप्त पुष्टि-कामा न्यवर्तयन्त ।
अग्निश् च पृथिवी च ।
वायुश् चान्तरिक्षं च ।
आदित्यश् च द्यौश् च चन्द्रमाः ।
[[अग्नयेवर्तयत|अग्निर् न्यवर्तयत]] ।
स सहस्रम् अपुष्यत्।
पृथिवी न्यवर्तयत ।
सौषधीभिर् वनस्पतिभिर् अपुष्यत् ।
वायुर् न्यवर्तयत ।
स मरीचीभिर् अपुष्यत् ।
अन्तरिक्षं न्यवर्तयत ।
तद् वयोभिर् अपुष्यत् ।
आदित्यो न्यवर्तयत ।
स रश्मिभिर् अपुष्यत् ।
द्यौर् न्यवर्तयत ।
सा नक्षत्रैर् अपुष्यत् ।
चन्द्रमा न्यवर्तयत ।
सोऽहोरात्रैर्-अर्ध-मासैर्-मासैर्-ऋतुभिः संवत्सरेणापुष्यत् ।
तान् पोषान् पुष्यति ।
यैस् ते ऽपुष्यन् ।
य एवं विद्वान् नि च वर्तयते परि च,
इति ॥
न्यवर्तयत, स्वकीयान् केशान् न्यवर्तयत ।
विश्वास-प्रस्तुतिः
पृथिवी᳓ न्य᳙वर्तयत।
सौ᳓षधीभिर् व᳓नस्प᳓तिभिर् अपुष्यत् ।
मूलम्
पृ॒थि॒वी न्य॑वर्तयत । सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत् ।
भट्टभास्कर-टीका
साहस्रं सहस्रपरिमाणं बहुप्रकारपुष्टिकम् ।
सायण-टीका
स साहस्रं, सहस्र-संख्योपेतं धनम् अपुष्यत्, [[P445]] पुष्टम् अकरोत् । पृथिव्यादय ओषध्यादिभिर् जगत्-पुष्टिं संपादितवन्तः ।
विश्वास-प्रस्तुतिः
वायु᳓र् न्य᳙वर्तयत,
स᳓ म᳓रीचीभिर् अपुष्यत् ।
मूलम्
अ॒न्तरि॑क्ष॒न्न्य॑वर्तयत । तद्वयो॑भिरपुष्यत् ।
भट्टभास्कर-टीका
अपुष्यत् पुष्टोऽभवत् । मरीचयो रश्मयः ।
सायण-टीका
मरीचि-शब्देन अग्नय उपलक्ष्यन्ते । वायुना ह्य् अग्नयः प्रज्वाल्यन्ते ।
विश्वास-प्रस्तुतिः
अन्त᳓रिक्षन्न्य᳙वर्तयत।
त᳓द् व᳓योभिर् अपुष्यत् ।
आदित्यो᳓ न्य᳙वर्तयत,
स᳓ रश्मि᳓भिर् अपुष्यत् ।
द्यौ᳓र् न्य᳙वर्तयत,
सा᳓ न᳓क्षत्रैर् अपुष्यत् ।
चन्द्र᳓मा न्य᳙वर्तयत।
सो᳙ऽहोरात्रै᳓र् अर्धमासै᳓र् मा᳓सैर् ऋतु᳓भिस् सव्ँवत्सरे᳓णापुष्यत् ।
मूलम्
आ॒दि॒त्यो न्य॑वर्तयत । स र॒श्मिभि॑रपुष्यत् । द्यौर्न्य॑वर्तयत । सा नक्ष॑त्रैरपुष्यत् । च॒न्द्रमा॒ न्य॑वर्तयत । सौ॑ऽहोरा॒त्रैर॑र्धमा॒सैर्मासै॑र्ऋ॒तुभि॑स्सव्ँवत्स॒रेणा॑पुष्यत् ।
भट्टभास्कर-टीका
वयांसि पक्षिणः ।
सायण-टीका
वयोभिः पक्षिभिः ।
विश्वास-प्रस्तुतिः
ता᳓न्पो᳓षान् पुष्यति । याँ᳓स् ते᳓ऽपुष्यन् ।
मूलम्
तान्पोषा॑न्पुष्यति । याँस्तेऽपु॑ष्यन् ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ विद्वा᳓न् नि᳓ च वर्त᳓यते प᳓रि च ॥10॥
मूलम्
य ए॒वव्ँ वि॒द्वान्नि च॑ व॒र्तय॑ते॒ परि॑ च ॥10॥
भट्टभास्कर-टीका
एवं विद्वान् यो निवर्तयते परिवर्तयते च स तान् पोषान् पुष्यति, यानग्न्यादयोऽपुष्यन् । सामान्यपुष्टेर्विशेषपुष्टिः कर्म ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्तपाठके तृतीयोऽनुवाकः ॥
सायण-टीका
यः पुमान् अग्न्यादि-देवताभिः संपादितां सृष्टिं तत्-साधनत्वं च निवर्तनस्य विद्वान् निवर्तयते परिवर्तयते वा केशानां कर्तनं, स पुमान् अग्न्यादिभिर् ये पोषाः संपादितास् तान् पोषान् सर्वान् प्रामोति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥