विश्वास-प्रस्तुतिः
द᳓क्षिणाम् प्रतिग्रहीष्य᳓न्त् सप्त᳓दश कृ᳓त्वो᳓ ऽपान्यात् ।
मूलम्
दक्षि॑णाम्प्रतिग्रही॒ष्यन्त्स॒प्तद॑श॒कृत्वोऽपा॑न्यात् ।
भट्टभास्कर-टीका
1दक्षिणां प्रतिग्रहीप्यन्नित्यादि ॥ दक्षिणाप्रतिग्रहकाले सप्तदशकृत्वोऽपान्यात् अधोवायुमाकर्षेत् । सप्तदशप्राणायामान् कुर्यादिति केचित् ।
सायण-टीका
प्रथमानुवाके चतुर्होतृ-शब्देन सर्व-होतृ-मन्त्र-व्यवहार उपपादितः । द्वितीये होतृ-मन्त्रेण नैमित्तिका अभिधीयन्ते । तत्राऽऽदौ तावद् दक्षिणा-प्रतिग्रहे कंचिद् विशेषं विधत्ते-
दक्षिणां प्रतिग्रहीष्यन् सप्तदश-कृत्वो ऽपान्यात् ।
आत्मानम् एव समिन्धे ।
तेजसे वीर्याय ।
अथो प्रजापतिर् एवैनां भूत्वा प्रतिगृह्णाति ।
आत्मनोऽनार्त्यै, इति ।
[[P440]] अपान्याद् वायोर् अन्तराकर्षण-रूपं निश्वासं कुर्यात् ।
विश्वास-प्रस्तुतिः
आत्मा᳓नम् एव᳓ स᳓मिन्धे
ते᳓जसे वीर्या᳙य ।
मूलम्
आ॒त्मान॑मे॒व समि॑न्धे । तेज॑से वी॒र्या॑य ।
भट्टभास्कर-टीका
आत्मानं समिद्धं करोति । अस्माल्लिङ्गात् असौ समिद्धः प्रतिग्रहीतुमर्हतीति गम्यते तेजसे वीर्याय च भवत्यपान्यप्रतिग्रहणम् ।
सायण-टीका
तेन शरीर-मध्ये स्थितो भवति । तेजः प्रतिग्रह-योग्यता, वीर्यं प्रतिग्रह-प्रयुक्त-दोष-निवारण-सामर्थ्यम् । तद् उभयम् अनेन निश्वासेन मध्ये तिष्ठति ।
विश्वास-प्रस्तुतिः
अ᳓थो प्रजा᳓पतिर् एवै᳓नाम् भूत्वा᳓ प्र᳓तिगृह्णात्य् आत्म᳓नो᳓ऽनार्त्यै ।
मूलम्
अथो॑ प्र॒जाप॑तिरे॒वैना॑म्भू॒त्वा प्रति॑गृह्णाति । आ॒त्मनोऽना॑र्त्यै ।
भट्टभास्कर-टीका
अपिच प्रजापतिरेव भूत्वा एनां दक्षिणां प्रतिगृह्णाति । सप्तदशसङ्ख्यान्वयात् सप्तदशः प्रजापतिरिति । तच्चात्मनोऽनार्त्यै भवति अविनाशाय संपद्यते, स्वयमप्रतिग्राहकत्वात् ॥
सायण-टीका
अपि च प्रजापतेः सप्तदशाक्षरात्मकत्वात् संख्या-साम्येन तद्-रूप एव भूत्वा दक्षिणां प्रतिगृह्णाति, ततस् त्व् आत्मन आर्तिः प्रत्यवाय-रूपो न भवति ।
विश्वास-प्रस्तुतिः
य᳓द्य् एनम् आ᳓र्त्विज्याद् वृतँ᳓ स᳓न्तन् निर्ह᳓रेरन्न्
आ᳓ग्नीध्रे जुहुयाद् द᳓शहोतारम्
चतुर्-गृहीते᳓ना᳓ज्येन
पुर᳓स्तात् प्रत्य᳓ङ् ति᳓ष्ठन्न् प्रतिलोमव्ँ᳓ विग्रा᳓हम् ॥4॥
मूलम्
यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तँ सन्त॑न्नि॒र्हरे॑रन् । आग्नी॑ध्रे जुहुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । पु॒रस्ता॑त्प्र॒त्यङ्तिष्ठ॑न् । प्र॒ति॒लो॒मव्ँ वि॒ग्राह॑म् ॥4॥
भट्टभास्कर-टीका
2यद्येनमित्यादि ॥ आर्त्विज्याद्वृतमन्ये यद्यपनयेयुः अथ स निर्ह्रियमाणः आग्नीध्रे दशहोतारं जुहुयात् चतुर्गृहीतेनाज्येन एकीकृतेन पुरस्तात् प्रत्यङ्मुखस्तिष्ठन् प्रतिलोमं ‘सामाध्वर्युः’ इत्यारभ्य ‘चितिः स्रुक्'5 इत्येवमन्तम् । विग्राहं विच्छिद्यविच्छिद्य प्रत्यवयवं जुहुयात् ।
सायण-टीका
अथ होतृ-मन्त्रेण नैमित्तिकं विधत्ते-
यद्य् एनम् आर्त्विज्याद् व्रतः सन्तं निर्हरेरेन् ।
आग्नीध्रे जुहुयाद् दश-होतारम् ।
चतुर्गृहीतेनाज्येन ।
पुरस्तात् प्रत्यङ् तिष्ठन् ।
प्रतिलोमं वि-ग्राहम् ।
प्राणान् एवास्योपदासयति, इति ।
आर्त्विज्यार्थं वृतं कंचिद् एकं पुरुषम् इतरे यदि द्वेषेणार्त्विज्यान् निराकृतवन्तस् तदानीं निराकृतः पुरुषो होमं जुहुयात् । तदा होतृ-मन्त्रस्य “सामाध्वर्युर्” इत्य् एतद् यद् अन्तिमं वाक्यं तद् आरभ्य “चित्तिः स्रुग्” इत्यादि-वाक्ये समाप्तिः प्रतिलोमम् । तत्रापि प्रति-वाक्यं विगृह्य पृथक्-पृथग् आहुतीर् जुहुयात् ।
विश्वास-प्रस्तुतिः
प्राणा᳓न् एवा᳓स्यो᳓प दासयति ।
मूलम्
प्रा॒णाने॒वास्योप॑ दासयति ।
भट्टभास्कर-टीका
अस्यात्मानं आर्त्विज्यान्निर्हरतः प्राणानुपदासयति ।
सायण-टीका
एतस्य यो निराकर्ता तस्य प्राणान् उपक्षपयति ।
विश्वास-प्रस्तुतिः
य᳓द्य् एनम् पु᳓नर् उपशि᳓क्षेयुः - आ᳓ग्नीध्र एव᳓ जुहुयाद् द᳓शहोतारम् चतुर्-र्गृहीते᳓ना᳓ज्येन
पश्चा᳓त् प्रा᳓ङ् आ᳓सीन
अनुलोम᳓म् अ᳓विग्राहम् ।
मूलम्
यद्ये॑न॒म्पुन॑रुप॒शिक्षे॑युः । आग्नी॑ध्र ए॒व जु॑हुया॒द्दश॑होतारम् । च॒तु॒र्गृ॒ही॒तेनाज्ये॑न । प॒श्चात्प्राङासी॑नः । अ॒नु॒लो॒ममवि॑ग्राहम् ।
भट्टभास्कर-टीका
अथ यद्येनं ते निर्हर्तारः पुनरुपशिक्षेयुः समीपे प्रत्यानयेयुः अग्नीघ्र एव जुहुयात् दशहोतारं चतुर्गृहीतेनैवाज्येन पश्चात्प्राङ्मुख आसीन अनुलोमं ‘चित्तिः स्रुक्'5 इत्यादि ‘सामाध्वर्युः'5 इत्येवमन्तं अविग्राहं अविच्छिद्याविच्छिद्य सर्वान्ते जुहोति ।
सायण-टीका
अथ प्रकारान्तरेण नैमित्तिक-होमं विधत्ते-
यद्य् एनं पुनर् उपशिर्क्षेयुः ।
आग्नीध्र एव जुहुयाद् दश-होतारम् ।
चतुर्गृहीतेनाज्येन ।
पश्चात् प्राङ् आसीनः ।
अनुलोमम् अवि-ग्राहम् ।
प्राणान् एवास्मै कल्पयति, इति ।
यदि तदीय-होमाद् भीताः सन्त एनं निराकृतं पुरुषं पुनर् अपि स्वीकुर्युस् तदानीं विरोधि-निग्रहार्थम् अनुष्ठितात् पूर्व-होमाद् विपर्ययेणानुग्रहार्थं होमं कुर्यात् । तत्र “चित्तिः स्रुग्” आदिर् अनुलोम-पाठः । आहुतिश् चैकैव । न तु विगृह्य होमः ।
विश्वास-प्रस्तुतिः
प्राणा᳓न् एवा᳓स्मै कल्पयति ।
मूलम्
प्रा॒णाने॒वास्मै॑ कल्पयति ।
भट्टभास्कर-टीका
प्राणानस्मै कल्पयति स्थापयति । ‘अच् प्रत्यन्ववपूर्वात्’ इत्यच् समासान्तः । ग्रहेराभीक्ष्ण्ये णमुल् ॥
सायण-टीका
तेन तस्य निराकर्तुः प्राणान् कल्पयति, स्वस्थान् करोति ।
विश्वास-प्रस्तुतिः
प्रा᳓यश्चित्ती वा᳓ग् घो᳓ते᳓त्य् ऋतुमुख᳓ ऋतुमुखे जुहोति ।
मूलम्
प्राय॑श्चित्ती॒ वाग्घोतेत्यृ॑तुमु॒खऋ॑तुमुखे जुहोति ।
भट्टभास्कर-टीका
3प्रायश्चित्तीत्यादि ॥ प्रायश्चित्तवान् । प्रायश्चित्तादिनिः, स्वरस्सतिशिष्टत्वात्स्यात् । तस्मात् प्रायश्चित्ती । प्रायश्चित्त्यां कर्तव्यायां कर्मभ्रेषोपशमनार्थे ज्ञाने कर्तव्ये जुहोति । ‘सुपां सुलुक्’ इति सप्तम्याः पूर्वसवर्ण इकारः । वाग्घोतेत्यृतुमुखे ऋतुमुखे जुहोति सा प्रायश्चित्तिर्भवति । कुत्र? यत्र कर्मभ्रेषो भवति, यत्र चान्यदनिर्दिष्टं प्रायश्चित्तं तत्रापि विकल्प इति केचित् । तत्र सर्वत्राविशेषात् केचिदाहुः - ‘वग्घोता, ब्राह्मण एक होता’ इति द्वावनुवाकौ जुहोति । लिङ्गं च ‘सर्वं च मे भूयात्'6 इति ।
सायण-टीका
अथान्यं प्रयोगं विधत्ते-
प्रायश्चित्ती वाग्-घोतेत्य् ऋतु-मुख ऋतु-मुखे जुहोति ।
ऋतून् एवास्मै कल्पयति ।
कल्पन्ते ऽस्मा ऋतवः ।
क्लृप्ता अस्मा ऋतव आयन्ति,
[[P441]] इति । प्रायश्चित्तं कर्तव्यम् इत्य् एवं बुद्धिमान् प्रायश्चित्ती स पुमान् वाग्-घोतेत्य् अनुवाकेन तस्मिन्न् ऋतु-प्रक्रमे जुहुयात् । यदा विहितानुष्ठानं स्व-मनसि शङ्कितं भवति प्रतिपदोक्तं च प्रायश्चित्तं न दृश्यते तदानीं शङ्कित-दोष-परिहाराय समनन्तर-भाविन ऋतोर् उपक्रम-दिने तेनानुवाकेन जुहुयात् । स चानुवाक आरण्यक-काण्डे एवम् आम्नातः –
“वाग् घोता । दीक्षा पत्नी । वातो ऽध्वर्युः । आपो ऽभिगरः । मनो हविः । तपसि जुहोमि । भूर् भुवः सुवः । ब्रह्म स्वयंभु । ब्रह्मणे स्वयंभुवे स्वाहा”
इति । तत्र वागादि-देवतानां होत्रादि-रूपत्वम् अनुसंधेयम् । होत्रा शस्त्रेषु शस्यमानेषु “ओथामो दैवा” इत्यादिभिर् वाक्यैर् अध्वर्योर् यः प्रतिगरः स चाब्-देवता-रूपः । शंसन-काले होताध्वर्युम् आभिमुख्येनाह्वयति – “शोसावोम्” इति । शस्त्रं पठामि, मदीय-शस्त्र-पाठ-काले प्रतिगराय त्वं सावधानो भव । य एते भूरादयस् त्रयो लोकास् तेषाम् आदिकारणं यत् स्वयंभु ब्रह्म तस्मै जुहुधीति स्वकीया वाग् आह ।
विश्वास-प्रस्तुतिः
ऋतू᳓न् एवा᳓स्मै कल्पयति ।
मूलम्
ऋ॒तूने॒वास्मै॑ कल्पयति ।
भट्टभास्कर-टीका
अस्मा एतदर्थं ऋतून् कल्पयति यथायथं प्रवर्तयति भ्रेषोपशमनात् ।
सायण-टीका
अनेन मन्त्रेण होमे सति शङ्कित-प्रायश्चित्त-परिहारेण सर्वान् ऋतून् अस्मै होम-कर्त्रे तत् स्वयंभु ब्रह्म फल-प्रदान् करोति ।
विश्वास-प्रस्तुतिः
क᳓ल्पन्ते ऽस्मा ऋत᳓वः ॥5॥
मूलम्
कल्प॑न्तेऽस्मा ऋ॒तवः॑ ॥5॥
भट्टभास्कर-टीका
त एते ऋतवश्च अस्मै कल्पन्ते संपद्यन्ते ।
सायण-टीका
त ऋतव एतद्-अर्थं फल-प्रदान-समर्था भवन्ति ।
विश्वास-प्रस्तुतिः
कॢप्ता᳓ अस्मा ऋत᳓व आ᳓यन्ति ।
मूलम्
कॢ॒प्ता अ॑स्मा ऋ॒तव॒ आय॑न्ति ।
भट्टभास्कर-टीका
कॢप्ताश्चर्तव एतदर्थमायन्ति अस्यैवोपकुर्वन्ति आनुगुण्यं भजन्ते ॥
सायण-टीका
समर्थाः सन्तोऽस्य समीपम् आगच्छन्ति । तत्र सूत्र-कारस् तु “कल्पन्ते ऽस्मै” इत्यादि-फलम् अवलोक्य काम्य-प्रयोगत्वेनोदाजहार –
“अथैष ऋतु-मुखी यः षड्-ढोता वाग्-घोतेति तस्य वदत्य् ऋतु-मुखे ऋतु-मुखे जुहुयाद् इति स सार्व-कामः”
इति ।
विश्वास-प्रस्तुतिः
ष᳓ड्-ढोता वै᳓ भूत्वा᳓
प्रजा᳓पतिर् इदँ᳓ स᳓र्वम् असृजत ।
स᳓ म᳓नो ऽसृजत ।
मूलम्
षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दँ सर्व॑मसृजत । स मनो॑ऽसृजत ।
भट्टभास्कर-टीका
4षढ्ढोतेत्यादि ॥ तत्कथमित्याह - स तादृशः प्रजापतिः प्रथमं षढ्ढोतृहोमादिना मनोऽसृजत ।
सायण-टीका
अथ “वाग्-घोता” इति मन्त्रं प्रशंसति-
षड्-ढोता वै भूत्वा प्रजापतिर् इदं सर्वम् असृजत ।
स मनोऽसृजत ।
मनसो ऽधि गायत्रीम् असृजत ।
तद् गायत्रीं यश आर्च्छत् ।
ताम् आलभत ।
गायत्रिया अधि छन्दांस्य् असृजत ।
छन्दोभ्यो ऽधि साम ।
तत् साम यश आर्च्छत् ।
तद् आलभत ।
साम्नो ऽधि यजूंष्य् असृजत ।
यजुर्भ्यो ऽधि विष्णुम् ।
तद् विष्णुं यश आर्च्छत् ।
तम् आलभत ।
विष्णोर् अध्योषधीर् असृजत ।
ओषधीभ्यो ऽधि सोमम् ।
तत् सोमं यश आर्च्छत् ।
तम् आलभत ।
सोमाद् अधि पशून् असृजत ।
पशुभ्यो ऽधीन्द्रम् ।
तद् इन्द्रं यश आर्च्छत् ।
तद् एनं नातिप्राच्यवत ।
इन्द्र इव यशस्वी भवति ।
य एवं वेद ।
नैनं यशो ऽतिप्रच्यवते, इति ।
“वाग्-होता” इति मन्त्रे होतृ-पत्न्यादीनां सप्तदश-वर्णानां विद्यमानत्वाद् अयं षड्-ढोता प्रजापतिस् तन्-मन्त्रानुष्ठानेन तपो भूत्वा सर्वम् इदम् असृजत ।
विश्वास-प्रस्तुतिः
म᳓नसो᳓ऽधि गायत्री᳓म् असृजत ।
मूलम्
मन॒सोऽधि॑ गाय॒त्रीम॑सृजत ।
भट्टभास्कर-टीका
अथ मनसा गायत्रीमसृजत ।
सायण-टीका
आदौ तावत् सर्व-संकल्प-क्षमं मनः सृष्ट्वा तेन मनसा संकल्प्य तद्-ऊर्ध्वं गायत्री-देवताम् असृजत ।
विश्वास-प्रस्तुतिः
त᳓द् गायत्रीय्ँ᳓ य᳓श आर्च्छत् ।
मूलम्
तद्गा॑य॒त्रीय्ँ यश॑ आर्च्छत् ।
भट्टभास्कर-टीका
अथ तदात्मीयं यशः सर्वं गायत्रीमार्छत् प्रापत् ।
सायण-टीका
तदानीं प्रजापति-संबन्धि यद् यशः सामर्थ्यं तद् गायत्रीं प्राप्नोत् ।
विश्वास-प्रस्तुतिः
ता᳓म् आ᳓ऽलभत ।
मूलम्
तामाऽल॑भत ।
भट्टभास्कर-टीका
अथ प्रजापतिस्तामेव गायत्रीं पशुत्वेनालभत ।
सायण-टीका
ततः प्रजापतिस् तां गायत्रीं पशुवद् आलभ्य
विश्वास-प्रस्तुतिः
गायत्रिया᳓ अ᳓धि छ᳓न्दाँस्य् असृजत ।
मूलम्
गा॒य॒त्रि॒या अधि॒ छन्दाँ॑स्यसृजत ।
भट्टभास्कर-टीका
अथ गायत्र्या छन्दांस्यसृजत उष्णिगादीन्युदपादयत् ।
सायण-टीका
गायत्र्या अधिकान्य् उष्णिगादीनि छन्दांस्य् असृजत ।
विश्वास-प्रस्तुतिः
छ᳓न्दोभ्यो᳓ ऽधि सा᳓म +++(असृजत)+++।
मूलम्
छन्दो॒भ्योऽधि॒ साम॑ +++(असृजत)+++।
भट्टभास्कर-टीका
अथ तेभ्यश्छन्दोभ्यः सामासृजत ।
सायण-टीका
तेभ्यश् छन्दोभ्यो ऽत्यधिकं सप्त-स्वरोपेतं साम असृजत ।
विश्वास-प्रस्तुतिः
त᳓त् सा᳓म य᳓श आर्च्छत् ।
मूलम्
तत्साम॒ यश॑ आर्च्छत् ।
भट्टभास्कर-टीका
अथात्मीयं यशः तत्साम प्रापत् ।
सायण-टीका
ततः साम-देवता यशः प्राप्नोत् ।
विश्वास-प्रस्तुतिः
त᳓द् आ᳓लभत ॥6॥
मूलम्
तदाल॑भत ॥6॥
भट्टभास्कर-टीका
अथ तदेवालभत ।
सायण-टीका
अथ प्रजापतिस् तद् अपि साम पशुत्वेनालभत । एवम् उत्तरत्र योज्यम् ।
विश्वास-प्रस्तुतिः
सा᳓म्नो᳓ऽधि य᳓जूँष्य् असृजत ।
मूलम्
साम्नोऽधि॒ यजूँ॑ष्यसृजत ।
भट्टभास्कर-टीका
साम्नोऽधि यजूंष्यसृजत ।
विश्वास-प्रस्तुतिः
य᳓जुर्भ्यो᳓ ऽधि वि᳓ष्णुम् +++(असृजत)+++।
मूलम्
यजु॒र्भ्योऽधि॒ विष्णु॑म् +++(असृजत)+++।
भट्टभास्कर-टीका
यजुर्भ्योधि विष्णुमसृजत ।
विश्वास-प्रस्तुतिः
त᳓द् वि᳓ष्णुय्ँ य᳓श आर्च्छत् ।
मूलम्
तद्विष्णुय्ँ॒यश॑ आर्च्छत् ।
भट्टभास्कर-टीका
तद्विष्णुं यश आर्छत् ।
विश्वास-प्रस्तुतिः
त᳓म् आ᳓ऽलभत ।
मूलम्
तमाऽल॑भत ।
भट्टभास्कर-टीका
तमालभत ।
विश्वास-प्रस्तुतिः
वि᳓ष्णोर् अ᳓ध्यो᳓षधीर् असृजत ।
मूलम्
विष्णो॒रध्योष॑धीरसृजत ।
भट्टभास्कर-टीका
विष्णोरोषधीरसृजत ।
विश्वास-प्रस्तुतिः
ओ᳓षधीभ्यो᳓ऽधि सो᳓मम् +++(असृजत)+++।
मूलम्
ओष॑धी॒भ्योऽधि॒ सोम॑म् +++(असृजत)+++।
भट्टभास्कर-टीका
ओषधीभ्यस्सोममसृजत ।
विश्वास-प्रस्तुतिः
त᳓त् सो᳓मय्ँ य᳓श आर्च्छत् । त᳓म् आ᳓ऽलभत । सो᳓माद् अ᳓धि पशू᳓न् असृजत । पशु᳓भ्यो᳓ ऽधी᳓न्द्रम् ॥7॥
मूलम्
तत्सोमय्ँ॒यश॑ आर्च्छत् । तमाऽल॑भत । सोमा॒दधि॑ प॒शून॑सृजत । प॒शुभ्योऽधीन्द्र॑म् ॥7॥
भट्टभास्कर-टीका
अथ सोमात् पशूनसृजत । पशुभ्य इन्द्रम् ।
विश्वास-प्रस्तुतिः
त᳓द् इ᳓न्द्रय्ँ य᳓श आर्च्छत् ।
मूलम्
तदिन्द्रय्ँ॒यश॑ आर्च्छत् ।
भट्टभास्कर-टीका
अथेन्द्रं यशः प्रापत् ।
विश्वास-प्रस्तुतिः
त᳓द् एनन् ना᳓ति प्रा᳓च्यवत ।
मूलम्
तदे॑न॒न्नाति॒ प्राच्य॑वत ।
भट्टभास्कर-टीका
तत्तु इन्द्रमतीत्य अन्यत्र न प्राच्यवत यशः ।
विश्वास-प्रस्तुतिः
इ᳓न्द्र इव यशस्वी᳓ भवति ।
मूलम्
इन्द्र॑ इव यश॒स्वी भ॑वति ।
भट्टभास्कर-टीका
इन्द्र एव परमो यशस्वी बभूव ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ वे᳓द ।
मूलम्
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
एवं वेदिता च इन्द्र इव यशस्वी भवति ।
सायण-टीका
य एवं मन्त्र-वृत्तान्तं वेद सो ऽपीन्द्रवद् यशस्वी भवति ।
विश्वास-प्रस्तुतिः
नै᳓नय्ँ य᳓शो᳓ ऽतिप्र᳓च्यवते ।
मूलम्
नैनय्ँ॒यशोऽति॒प्रच्य॑वते ।
भट्टभास्कर-टीका
एनमतीत्यान्यत्र यशः न प्रच्यवते ॥
सायण-टीका
तद् यशस् तं पुरुषं कदाचिद् अप्य् अतिक्रम्य नान्यत्र गच्छति । तत् प्रजापतेर् यशो ऽन्तत इन्द्रं प्राप्य तम् अतिक्रम्य नान्यत्र क्वापि गतम् । तद् एवं षड्-ढोतृ-मन्त्र-सामर्थ्याद् इन्द्राधिपत्य-पर्यन्ता सृष्टिर् आसीत् । ततो ऽयम् अत्यन्त-प्रशस्तः ।
विश्वास-प्रस्तुतिः
य᳓द्वा᳓ इद᳓ङ्कि᳓ञ्च
त᳓त् स᳓र्वम् उत्तान᳓ एवा᳓ङ्गीरसᳶ᳓ प्र᳓त्यगृह्णात् ।
त᳓द् एनम् प्र᳓तिगृहीतन् ना᳓हिनत् ।
य᳓त् कि᳓ञ्च प्रतिगृह्णीया᳓त्
त᳓त् स᳓र्वम्
“उत्तान᳓स् त्वा ऽऽङ्गीरसᳶ᳓ प्र᳓तिगृह्णात्व्” इ᳓त्य् एव᳓ प्र᳓तिगृह्णीयात् ।
मूलम्
यद्वा इ॒दङ्किञ्च॑ । तत्सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सᳶ प्रत्य॑गृह्णात् । तदे॑न॒म्प्रति॑गृहीत॒न्नाहि॑नत् । यत्किञ्च॑ प्रतिगृह्णी॒यात् । तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् ।
भट्टभास्कर-टीका
5यद्वा इदमित्यादि ॥ यत्किञ्चिदिदं गवादि, तत्सर्वमुत्तानो नामाङ्गिरसः पुत्रः प्रत्यगृह्णात् ।
सायण-टीका
प्रतिग्रह-मन्त्रानुवाके “सोमाय वासः, रुद्राय गाम्” इत्यादिना यानि द्रव्याण्य् आम्नातानि तद्-व्यतिरिक्त-द्रव्य-विषये प्रतिग्रह-मन्त्रं विधत्ते-
यद्वा इदं किंच ।
तत् सर्वम् उत्तान एवाऽऽङ्गीरसः प्रत्यगृह्णात् ।
तद् एनं प्रतिगृहीतं नाहिनत् ।
यत् किंच प्रतिगृह्णीयात् ।
तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् ।
इयं वा उत्तान आङ्गीरसः ।
अनयैवैनत् प्रतिगृह्णाति ।
नैनं हिनस्ति,
इति ।
[[P443]]
विश्वास-प्रस्तुतिः
इयव्ँ᳓ वा᳓ उत्तान᳓ आङ्गीरसः᳓।
अन᳓यैवै᳓नत् प्र᳓तिगृह्णाति ।
मूलम्
इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः । अ॒नयै॒वैन॒त्प्रति॑गृह्णाति ।
विश्वास-प्रस्तुतिः
य᳓त्कि᳓ञ्च प्रतिगृह्णीया᳓त् त᳓त्स᳓र्वमुत्तान᳓स्त्वाङ्गीरसᳶ᳓ प्र᳓तिगृह्णात्वि᳓त्येव᳓ प्र᳓तिगृह्णीयात् । नै᳓नँ हिनस्ति ।
मूलम्
यत्किञ्च॑ प्रतिगृह्णी॒यात् । तत्सर्व॑मुत्ता॒नस्त्वा॑ङ्गीर॒सᳶ प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात् । नैनꣳ॑ हिनस्ति ।
भट्टभास्कर-टीका
यदित्यादि । गतम् । सर्वमिति । प्रतिपदोक्तप्रतिग्रहीतृदेवानामपि इयं पृथिव्येवोत्तान आङ्गीरसः बर्हिषेति ।
सायण-टीका
लोके प्रतिग्रह-योग्यं यत् किंचिद् द्रव्यं तत् सर्वम् अङ्गिरसः पुत्र उत्तानाख्य एव पुरा कदाचित् प्रत्यगृह्णात् । तत्र प्रतिगृहीतं द्रव्यं प्रतिग्रहीतारम् उत्तानम् एनं नैव हिंसेत् ।
अतो ऽन्यो ऽपि सर्वम् “उत्तान” इति मन्त्रेणैव प्रतिगृह्णीयात् । यथा भूमिः सर्वं-सहा तथाऽयम् उत्तानः सर्व-प्रतिग्रह-सहिष्णुः । ततो भूमि-रूपत्वाद् भूम्या सर्वं प्रतिगृहीतं न तु पुरुषेणेत्य् एनं पुरुषं प्रतिग्रह-दोषो न हिनस्ति ।
विश्वास-प्रस्तुतिः
बर्हि᳓षा प्र᳓तीयाद् गाव्ँ᳓ वा᳓ ऽश्वव्ँ वा ।
मूलम्
ब॒र्हिषा॒ प्रती॑या॒द्गाव्ँ वाऽश्वव्ँ॑वा ।
भट्टभास्कर-टीका
गां वाऽश्वं वा प्रतिग्रहीष्यन् बर्हिषा प्रतीयात् प्रतिमुखं गच्छेन् ।
सायण-टीका
अथ गवाश्व-प्रतिग्रहे विशेषं विधत्ते-
बर्हिषा प्रतीयाद्गां वाऽश्वं वा ।
एतद् वै पशूनां प्रियं धाम ।
प्रियेणैवैनं धाम्ना प्रत्येति ।
इति ॥
विश्वास-प्रस्तुतिः
एत᳓द् वै᳓ पशूना᳓म् प्रिय᳓न्धा᳓म । प्रिये᳓णैवै᳓नन् धा᳓म्ना प्र᳓त्येति ॥8॥
मूलम्
ए॒तद्वै प॑शू॒नाम्प्रि॒यन्धाम॑ । प्रि॒येणै॒वैन॒न्धाम्ना॒ प्रत्ये॑ति ॥8॥
भट्टभास्कर-टीका
एतद्वा इत्यादि । गतम् । प्रियेण धाम्ना प्रत्येति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥
सायण-टीका
गाम् अश्वं वा प्रतिग्रहीष्यन् पुरुषस् तृण-मुष्टिना युक्तः संमुखं गच्छेत् । तृणस्य पशु-प्रिय-वस्तुत्वात् पशु-प्रियेणैव वस्तुना सह संमुखो भवति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे तृतीय-प्रपाठके द्वितीयो ‘नुवाकः ॥ २ ॥