विश्वास-प्रस्तुतिः
प्रजा᳓पतिर् अकामयत
“बहो᳓र् भू᳓यान्त् स्याम्” इ᳓ति ।
स᳓ एत᳓न् द᳓शहोतारम् अपश्यत् ।
त᳓म् प्रा᳓युङ्क्त ।
त᳓स्य प्र᳓युक्ति बहो᳓र् भू᳓यान् अभवत् ।
मूलम्
प्र॒जाप॑तिरकामयत “ब॒होर्भूया॑न्त्स्या॒"मिति॑ ।
स ए॒तन्दश॑होतारमपश्यत् ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्ति ब॒होर्भूया॑नभवत् ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ यल्लोके बहु ततोपि बहुतरः स्यामिति । प्रायुङ्क्तेति जपहोमादिषु प्रयोगः । प्रयुक्तीति ‘सुपां सुलुक्’ इति तृतीयाया लुक् ।
सायण-टीका
दशमे ऽनुवाक इन्द्रस्याधिपत्यं प्रपञ्चितम् । तम् एवं होतृ-मन्त्र-सृष्टि-प्रसक्तानुप्रसक्तं प्रसङ्गं परित्यज्यैकादशे प्रकृतानां होतृ-मन्त्राणाम् एव पुरुषार्थाः केचित् प्रयोगा अभिधीयन्ते । तत्रादौ दश-होतृ-मन्त्रस्य प्रयोगं विधत्ते—
प्रजापतिर् अकामयत बहोर् भूयान् त्स्याम् इति । स एतं दश-होतारम् अपश्यत् । तं प्रायुङ्क्त । तस्य प्रयुक्त्या बहोर् भूयान् अभवत् । यः कामयेत बहोर् भूयान् स्याम् इति । स दश-होतारं प्रयुञ्जीत । बहोर् एव भूयान् भवति,
इति । [[P432]] लोके विद्यैश्वर्यादि-संपन्नः पुरुषो बहुर् इत्य् उच्यते । ततो ऽपि भूयस्त्वं कामयमानः प्रजापतिः “चित्तिः स्रुक्” इत्यादि-मन्त्रेण जप-होम-रूपं प्रयोगं कृत्वा तया प्रयुक्त्या भूयान् अभवत् ।
विश्वास-प्रस्तुतिः
यᳵ᳓ काम᳓येत बहो᳓र् भू᳓यान्त् स्याम् इ᳓ति
स᳓ द᳓शहोतारम्प्र᳓युञ्जीत ।
बहो᳓र् एव᳓ भू᳓यान् भवति ।
मूलम्
यᳵ का॒मये॑त ब॒होर्भूया॑न्त्स्या॒मिति॑ । स दश॑होतार॒म्प्रयु॑ञ्जीत । ब॒होरे॒व भूया॑न्भवति ।
भट्टभास्कर-टीका
य इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
सो᳓ऽकामयत वीरो᳓ म आ᳓जायेते᳓ति ।
स᳓ द᳓श-होतुश् च᳓तुर्-होतारन् नि᳓रमिमीत ।
त᳓म् प्रा᳓युङ्क्त ॥ 68 ॥
त᳓स्य प्र᳓युक्ती᳓न्द्रो ऽजायत ।
मूलम्
सो॑ऽकामयत वी॒रो म॒ आजा॑ये॒तेति॑ ।
स दश॑होतु॒श्चतु॑र्होतार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ॥ 68 ॥
तस्य॒ प्रयु॒क्तीन्द्रो॑ऽजायत ।
विश्वास-प्रस्तुतिः
यᳵ᳓ काम᳓येत - वीरो᳓ म आ᳓जायेते᳓ति
स᳓ च᳓तुर्-होतारम् प्र᳓युञ्जीत ,
आ᳓ऽस्य वीरो᳓ जायते ।
मूलम्
यᳵ का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्होतार॒म्प्रयु॑ञ्जीत । आऽस्य॑ वी॒रो जा॑यते ।
भट्टभास्कर-टीका
2 वीरः पुत्रः विक्रान्तो वा अध्ययनशौर्यादिना । स दश होतुरिति । दशहोतुरपादानाच्चतुर्होतारं निर्मितवान् ॥
सायण-टीका
अथ “पृथिवी होता” इति मन्त्रस्य प्रयोगं विधत्ते—
सो ऽकामयत वीरो म आ जायेतेति । स दश-होतुश् चतुर्-होतारं निर् अममीत । तं प्रायुङ्क्त (१) । तस्य प्रयुक्त्येन्द्रो ऽजायत । यः कामयेत वीरो म आ जायेतेति । स चतुर्-होतारं प्रयुञ्जीत । आ ऽस्य वीरो जायत
इति । वीरो वैदिक-लौकिक-कर्मसु शूरः पुत्रः । दश-होतुः “चित्तिः स्रुक्” इत्यादि-मन्त्राच् चतुर्-होतारं “पृथिवी होता” इति मन्त्रं प्रायुङ्क्त । मन्त्र-प्रयोगेणेत्य् अर्थः ।
विश्वास-प्रस्तुतिः
सो᳓ऽकामयत - पशुमा᳓न्त् स्याम् इ᳓ति । स᳓ च᳓तुर्-होतुᳶ प᳓ञ्चहोतारन् नि᳓रमिमीत । त᳓म् प्रा᳓युङ्क्त । त᳓स्य प्र᳓युक्ति पशुमा᳓न् अभवत् ।
मूलम्
सो॑ऽकामयत पशु॒मान्त्स्या॒मिति॑ । स चतु॑र्होतु॒ᳶ पञ्च॑होतार॒न्निर॑मिमीत । तम्प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् ।
विश्वास-प्रस्तुतिः
यᳵ᳓ काम᳓येत पशुमा᳓न्त्स्याम् इ᳓ति
स᳓ प᳓ञ्चहोतारम् प्र᳓युञ्जीत ॥ 69 ॥
पशुमा᳓न् एव᳓ भवति ।
मूलम्
यᳵ का॒मये॑त पशु॒मान्त्स्या॒मिति॑ । स पञ्च॑होतार॒म्प्रयु॑ञ्जीत ॥ 69 ॥
भट्टभास्कर-टीका
3 पशुमान् बहुपशुः । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ॥
सायण-टीका
अथ “अग्निर् होता” इति मन्त्रस्य प्रयोगं विधत्ते—
सो ऽकामयत पशुमान् स्याम् इति । स चतुर्-होतुः पञ्च-होतारं निर् अममीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्या पशुमान् अभवत् । यः कामयेत पशुमान् स्याम् इति । स पञ्च-होतारं प्रयुञ्जीत (२) । पशुमान् एव भवति,
इति । एकस्य मन्त्रस्यानुष्ठानान् मन्त्रान्तरं सृष्ट्वा तद्-अनुष्ठानेन पश्वादि-फल-प्राप्तौ प्रजापतेर् इच्छैव नियामिका ।
विश्वास-प्रस्तुतिः
सो᳓ऽकामयत “र्त᳓वो मे कल्पेरन्न्” इ᳓ति ।
स᳓ प᳓ञ्चहोतुष् ष᳓ड्ढोतारन् नि᳓रमिमीत ।
त᳓म् प्रा᳓युङ्क्त ।
त᳓स्य प्र᳓युक्त्य् ऋत᳓वोऽस्मा अकल्पन्त ।
मूलम्
सो॑ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ ।
स पञ्च॑होतु॒ष्षड्ढो॑तार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्त्यृ॒तवो॑ऽस्मा अकल्पन्त ।
विश्वास-प्रस्तुतिः
यᳵ᳓ काम᳓येत र्त᳓वो मे कल्पेरन्न् इ᳓ति
स᳓ ष᳓ड्ढोतारम् प्र᳓युञ्जीत ।
क᳓ल्पन्ते ऽस्मा ऋत᳓वः ।
मूलम्
यᳵ का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ । स षड्ढो॑तार॒म्प्रयु॑ञ्जीत ।
भट्टभास्कर-टीका
4 कल्पेरन्निति ॥ यथायथं संपद्यन्तामिति ॥
सायण-टीका
“सूर्यं ते चक्षुः” इति मन्त्रस्य प्रयोगं विधत्ते—
सो ऽकामयतर्तवो मे कल्पेरन्न् इति । स पञ्च-होतुः षड्-ढोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्यृतवो ऽस्मा अकल्पन्त । यः कामयेतर्तवो मे कल्पेरन्न् इति । स षड्-ढोतारं प्रयुञ्जीत । कल्पन्ते ऽस्मा ऋतवः
इति । कल्पेरन् स्व-स्वोचित-फल-प्रदा भूयासुर् इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
सो᳓ऽकामयत सोमप᳓स् सोमयाजी᳓ स्याम् ।
आ᳓ मे सोमप᳓स् सोमयाजी᳓ जायेते᳓ति ॥ 70 ॥
स᳓ ष᳓ड्ढोतुस् सप्त᳓होतारन् नि᳓रमिमीत ।
त᳓म् प्रा᳓युङ्क्त ।
त᳓स्य प्र᳓युक्ति सोमप᳓स् सोमयाज्य् अ᳙भवत् ।
आ᳓ऽस्य सोमप᳓स् सोमयाज्य् अ᳙जायत ।
मूलम्
सो॑ऽकामयत सोम॒पस्सो॑मया॒जी स्या॑म् ।
आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ ॥ 70 ॥
स षड्ढो॑तुस्स॒प्तहो॑तार॒न्निर॑मिमीत ।
तम्प्रायु॑ङ्क्त ।
तस्य॒ प्रयु॑क्ति सोम॒पस्सो॑मया॒ज्य॑भवत् ।
आऽस्य॑ सोम॒पस्सो॑मया॒ज्य॑जायत ।
विश्वास-प्रस्तुतिः
यᳵ᳓ काम᳓येत सोमप᳓स् सोमयाजी᳓ स्याम्,
आ᳓ मे सोमप᳓स् सोमयाजी᳓ जायेते᳓ति
स᳓ सप्त᳓होतारम् प्र᳓युञ्जीत ।
सोमप᳓ एव᳓ सोमयाजी᳓ भवति।
आ᳓ऽस्य सोमप᳓स् सोमयाजी᳓ जायते ।
मूलम्
यᳵ का॒मये॑त सोम॒पस्सो॑मया॒जी स्या॑म् । आ मे॑ सोम॒पस्सो॑मया॒जी जा॑ये॒तेति॑ । स स॒प्तहो॑तार॒म्प्रयु॑ञ्जीत । सो॒म॒प ए॒व सो॑मया॒जी भ॑वति । आऽस्य॑ सोम॒पस्सो॑मया॒जी जा॑यते ।
भट्टभास्कर-टीका
5 सोमपः सोमस्य पाता ऋत्विग्भूत्वा सोमस्य पाता, स ह्यदुष्टार्जन इति तद्भावः प्रार्थ्यते । यद्वा - विदुषोऽधिकारादृत्विक्त्वं प्रार्थयते सोमपश्च सोमयाजी च स्यामिति । यद्वा - सोमप इति षष्ठी । सोमपः पितुः पुत्रः सोमयाजी च स्यामिति । मम च कुले सर्वः सोमपः पुत्र ऋत्विग्वा सोमायजी च स्यादिति । सोमपानयजनसाध्याविकलयागफलाशासनाभिप्रायमुपादानमुभयोः ॥
सायण-टीका
अथ “महा-हविर् होता” इत्य् अस्य मन्त्रस्य प्रयोगं विधत्ते—
सो ऽकामयत सोम-पः सोम-याजी स्याम् । आ मे सोम-पः सोम-याजी जायेत (३) । स षड्-ढोतुः सप्त-होतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्या सोम-पः सोम-याज्य् अभवत् । आ ऽस्य सोम-पः सोम-याज्य् अजायत । यः कामयेत सोम-पः सोम-याजी स्याम् । आ मे सोम-पः सोम-याजी जायेतेति । स सप्त-होतारं प्रयुञ्जीत । सोम-प एव सोम-याजी भवति । आ ऽस्य सोम-पः सोम-याजी जायत,
इति । [[P433]] परकीय-यज्ञे स्वयम् ऋत्विक्त्वेन सोमस्य पाता सोम-पः । स्वयं यागस्य कर्ता सोम-याजी । स्वयं तादृश उभय-विधो भूयासम् । स्व-पुत्रो ऽप्य् उभय-विधो भूयाद् इत्य् अत्र कामना-भेदः ।
विश्वास-प्रस्तुतिः
स᳓ वा᳓ एष᳓ पशुᳶ᳓ पञ्चधा᳓ प्र᳓तितिष्ठति ॥ 71 ॥
पद्भि᳓र् मु᳓खेन ।
मूलम्
स वा ए॒ष प॒शुᳶ प॑ञ्च॒धा प्रति॑तिष्ठति ॥ 71 ॥
प॒द्भिर्मुखे॑न ।
भट्टभास्कर-टीका
6 स वा एष इत्यादि ॥ स एष पशुः पञ्चधा पञ्चप्रकारैः प्रतितिष्ठति । धारयति पद्भिश्चतुर्भिः मुखेन च पञ्चमेन चतुष्पात्स्थितिमात्मनः करोति । द्विपात् द्विपादहस्तमुखेन स्थितिं करोति ।
सायण-टीका
अथ मन्त्र-पञ्चकस्य कामधेनु-रूपत्व-विवक्षया पशुत्वं संपाद्य प्रशंसति—
स वा एष पशुः पञ्चधा प्रतितिष्ठति (४) ।
[[P434]] यथा लौकिकः पशुश् चतुर्भिः पादैर् एकेन मुखेन च प्रतिष्ठितो भवति तथा ऽयं पञ्च-मन्त्र-संघः पशु-रूपः । तत्र चत्वारो मन्त्राश् चत्वारः पादाः, पञ्चमो मन्त्रो मुखम् । सो ऽयं पशुः पञ्चभिः प्रकारैः फल-प्रदो लोके प्रतिष्ठितः ।
विश्वास-प्रस्तुतिः
ते᳓ देवाᳶ᳓ पशू᳓न् वित्वा᳓
सुवर्गल्ँ᳓ लोक᳓म् आयन् ।
मूलम्
ते दे॒वाᳶ प॒शून् वि॒त्वा । सु॒व॒र्गल्ँ लो॒कमा॑यन् ।
भट्टभास्कर-टीका
तस्मात्पञ्चत्वान्वयात् पञ्चभिर्होतृभिः पशून् लब्ध्वा स्वर्गं गताः ।
सायण-टीका
अथ कामधेनु-रूपान् पशून् स्वर्ग-प्राप्ति-हेतुतया प्रशंसति—
ते देवाः पशून् वित्त्वा । सुवर्गं लोकम् आयन्,
इति ।
विश्वास-प्रस्तुतिः
ते᳓ ऽमु᳓ष्मिल्ँ लोके᳓ व्यक्षुध्यन् ।
ते᳓ ऽब्रुवन्न् -
“अमु᳓तᳶ प्रदा᳓नव्ँ+++(←स्वरो युक्तः)+++ वा᳓ उ᳓पजिजीविमे᳓“ति ।
ते᳓ सप्त᳓होतारय्ँ यज्ञ᳓व्ँ विधा᳓य
अया᳓स्यम् आङ्गीरस᳓म् प्रा᳓हिण्वन्न् ,-
“एते᳓नामु᳓त्र कल्पये᳓“ति ।
त᳓स्य वा᳓ इय᳓ङ् कॢ᳓प्तिर्
य᳓द् इद᳓ङ्कि᳓ञ्च ।
य᳓ एवव्ँ᳓ वे᳓द क᳓ल्पतेऽस्मै ।
स᳓ वा᳓ अय᳓म् मनुष्ये᳙षु यज्ञ᳓स् सप्त᳓होता ।
अमु᳓त्र सद्भ्यो᳓ देवे᳓भ्यो हव्यव्ँ᳓ वहति ।
य᳓ एवव्ँ᳓ वे᳓दोपै᳙नय्ँ यज्ञो᳓ नमति ।
मूलम्
ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑क्षुध्यन् ।
ते॑ऽब्रुवन् ।
अ॒मुत॑ᳶप्रदानव्ँ॒वा उप॑जिजीवि॒मेति॑ ।
ते स॒प्तहो॑तारय्ँ य॒ज्ञव्ँ वि॒धाया॒यास्य॑म् ।
आ॒ङ्गी॒र॒सम्प्राहि॑ण्वन् ।
ए॒तेना॒मुत्र॑ कल्प॒येति॑ ।
तस्य॒ वा इ॒यङ्कॢप्तिः॑ ॥72 ॥
यदि॒दङ्किञ्च॑ ।
य ए॒वव्ँ वेद॑ ।
कल्प॑तेऽस्मै ।
स वा अ॒यम्म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता ।
अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
य ए॒वव्ँ वेद॑ ।
उपै॑नय्ँ य॒ज्ञो न॑मति ।
भट्टभास्कर-टीका
तेऽमुष्मिन्नित्यादि । व्याख्यातम् ॥
सायण-टीका
अथ सप्त-होतृ-मन्त्रं स्वर्ग-वास-प्रदत्वेन विशेषतः प्रशंसति—
ते ऽमुष्मिंल् लोके व्यक्षुध्यन् । ते ऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविषामेति । ते सप्त-होतारं यज्ञं विधायायास्यम् । आङ्गिरसं प्राहिण्वन् । एतेनामुत्र कल्पयेति । तस्य वा इयं कॢप्तिः (५) । यद् इदं किंच । य एवं वेद । कल्पते ऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्त-होता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उपैनं यज्ञो नमति,
इति । तद् एतद्-वाक्यं सप्तमानुवाके व्याख्यातम् ।
विश्वास-प्रस्तुतिः
यो᳓ वै᳓ च᳓तुर्होतृणान् निदा᳓नव्ँ+++(=कारणम्)+++ वे᳓द
निदा᳓नवान् भवति ।
अग्निहोत्रव्ँ᳓ वै᳓ द᳓शहोतुर् निदा᳓नम् ।
दर्शपूर्णमासौ᳓ च᳓तुर्होतुः +++(निदानम्)+++।
चातुर्मास्या᳓नि प᳓ञ्चहोतुः +++(निदानम्)+++।
पशुबन्ध᳓ष् ष᳓ड्ढोतुः +++(निदानम्)+++।
सौम्यो᳙ ऽध्वर᳓स् सप्त᳓होतुः +++(निदानम्)+++।
एत᳓द् वै᳓ च᳓तुर्होतृणान् निदा᳓नम्।
य᳓ एवव्ँ᳓ वे᳓द
निदा᳓नवान् भवति ॥
मूलम्
यो वै चतु॑र्होतृणान्नि॒दानव्ँ॒वेद॑ । नि॒दान॑वान्भवति । अ॒ग्नि॒हो॒त्रव्ँ वै दश॑होतुर्नि॒दान॑म् । द॒र्श॒पू॒र्ण॒मा॒सौ चतु॑र्होतुः । चा॒तु॒र्मा॒स्यानि॒ पञ्च॑होतुः । प॒शु॒ब॒न्धष्षड्ढो॑तुः । सौ॒म्यो॑ऽध्व॒रस्स॒प्तहो॑तुः । ए॒तद्वै चतु॑र्होतृणान्नि॒दान॑म् । य ए॒वव्ँ वेद॑ । नि॒दान॑वान्भवति ॥ 73 ॥
भट्टभास्कर-टीका
7 यो वा इत्यादि ॥ निदानं कारणं, नियतं दीयते प्रयुज्यते यस्मिन् तन्निदानम् । अग्निहोत्रादीनि दशहोत्रादीनां निदानानि, तत्र हि ते नियतं प्रयुज्यन्ते । एवं वेदिता निदानवान् भवति सर्वाभिमतोत्पत्तिनिमित्तवान् भवति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके एकादशोऽनुवाकः ॥ समाप्तश्चायं प्रपाठकः ॥
सायण-टीका
होतृ-मन्त्राणाम् अग्निहोत्रादिषु यः प्रयोगो विवक्षितस् तद्-वेदनं प्रशंसति—
यो वै चतुर्-होतॄणां निदानं वेद । निदानवान् भवति । अग्निहोत्रं वै दश-होतुर् निदानम् । दर्श-पूर्णमासौ चतुर्-होतुः । चातुर्मास्यानि पञ्च-होतुः । पशु-बन्धः षड्-ढोतुः । सौम्ये ऽध्वरः सप्त-होतुः । एतद् वै चतुर्-होतॄणां निदानम् । [[P435]] य एवं वेद । निदानवान् भवति (६),
इति ॥ नितरां दीयते प्रयुज्यते ऽस्मिन्न् इति निदानं, तन्-मन्त्र-प्रयोग-स्थानम् । तत्र सूत्र-कारेण विशदी-कृतम्—
“अग्निहोत्रम् आरभ्यमाणो दश-होतारं मनसा ऽनुद्रुत्याहवनीये हुत्वा सायम् अग्निहोत्रं जुहोति । दर्श-पूर्णमासाव् आरप्स्यमाणश् चतुर्-होतारं मनसा ऽनुद्रुत्य”
इत्यादिना । तद् एतद् अग्निहोत्रादि-रूपं होतॄणां निदानं यो वेद निदानवान् भवति, उपजीवन-स्थानवान् भवति ।
अथास्य प्रपाठकस्यानुवाकार्थसंग्रहः—
दश-होतुर् द्वितीयाध्याये पुरुषार्थत्वम् ईरितम् ।
चतुर्-होत्रादि-मन्त्राणाम् ऋत्व्-अर्थत्वं द्वितीयके ॥ १ ॥
तृतीये शुक्र-पक्षश् चतुर्थे होतृ-मन्त्रतः ।
लोक-सृष्टिः पञ्चमे तु ब्राह्मणं स्यात् प्रतिग्रहे ॥ २ ॥
दशमे ऽहनि होतॄणां प्रयोगः षष्ठ ईरितः ।
सप्त-होतोत्तरे शस्तो यज्ञः सोमाङ्गता ऽष्टमे ॥ ३ ॥
नवमे स्याज् जगत्-सृष्टिर् दशमे त्व् इन्द्र-राजता ।
अन्ते पुमर्थो होतॄणां प्रयोगश् च समीरितः ॥ ४ ॥
[[P436]]
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश् चतुरो देयाद् विद्या-तीर्थ-महेश्वरः ॥ ५ ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके एकादशो ऽनुवाकः ॥ ११ ॥
इति श्रीमद्-वीर-बुक्कण-साम्राज्य-धुरंधर-श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठकः समाप्तः ॥ २ ॥