विश्वास-प्रस्तुतिः
देवा᳓ वै᳓ च᳓तुर्होतृभिर् यज्ञ᳓म् अतन्वत ।
मूलम्
दे॒वा वै चतु॑र्होतृभिर्य॒ज्ञम॑तन्वत ।
भट्टभास्कर-टीका
1 देवा वा इत्यादि ॥ चतुर्होतृभिर्दशहोत्रादिभिः पञ्चभिः उपकरणभूतैः यज्ञमतन्वत देवाः ।
सायण-टीका
सप्तमे सप्तहोतृ-मन्त्र-साध्य-यज्ञ-प्रशंसा कृता । अष्टमे होतृ-मन्त्राणां सोमयागाङ्गत्वम् अभिधीयते । तत्राऽऽदौ सामान्येन यज्ञ-संबन्धं विधत्ते -
देवा वै चतुर्होतृभिर् यज्ञम् अतन्वत ।
ते वि पाप्मना भ्रातृव्येणाजयन्त ।
अभि सुवर्ग-लोकम् अजयन् ।
य एवं विद्वांश् चतुर्होतृभिर् यज्ञं तनुते ।
वि पाप्मना भ्रातृव्येण जयते ।
अभि सुवर्गं लोकं जयति,
इति । चतुर्होतृ-शब्द एकवचनान्तः पृथिवी होतेत्य् अमुम् एव मन्त्रं ब्रूते । बहुवचनान्तस् तु सर्वान् अपि होतृ-मन्त्रान् ।
विश्वास-प्रस्तुतिः
ते᳓ वि᳓ पाप्म᳓ना भ्रा᳓तृव्येणा᳓जयन्त ।
मूलम्
ते वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाज॑यन्त ।
भट्टभास्कर-टीका
अथ पाप्मना भ्रातृव्येण व्यजयन्त व्यावृत्तं जयं प्राप्तवन्तः । पाप्मना वियुक्ता अभवन्नित्यर्थः ।
सायण-टीका
तैर् मन्त्रैर् यज्ञं तन्वानास् ते देवाः पाप-रूपेण भ्रातृव्येण वियुक्ता इह लोके जयं प्राप्य स्वर्गम् अपि जितवन्तः । तथान्योऽपि लोक-द्वयं जयति ।
विश्वास-प्रस्तुतिः
अभि᳓ सुवर्गल्ँ᳓ लोक᳓म् अजयन् ।
मूलम्
अ॒भि सु॑व॒र्गल्ँ लो॒कम॑जयन् ।
भट्टभास्कर-टीका
स्वर्गं लोकं चाभ्यजयन् ।
मूलम्
य ए॒वव्ँ वि॒द्वाँ श्चतु॑र्होतृभिर्य॒ज्ञन्त॑नु॒ते । वि पा॒प्मना॒ भ्रातृ॑व्येण जयते ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ विद्वाँ᳓श्
च᳓तुर्होतृभिर् यज्ञ᳓न् तनुते᳓
वि᳓ पाप्म᳓ना भ्रा᳓तृव्येण जयते ।
अभि᳓ सुवर्गल्ँ᳓ लोक᳓ञ् जयति ।
मूलम्
य ए॒वव्ँ वि॒द्वाँ श्चतु॑र्होतृभिर्य॒ज्ञन्त॑नु॒ते वि पा॒प्मना॒ भ्रातृ॑व्येण जयते ।
अ॒भि सु॑व॒र्गल्ँ लो॒कञ्ज॑यति ।
भट्टभास्कर-टीका
एवमित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
ष᳓ड्-ढोत्रा प्रायणी᳓यम् आ᳓ सादयति ।
मूलम्
षड्ढो॑त्रा प्राय॒णीय॒मा सा॑दयति ।
भट्टभास्कर-टीका
2 षड्ढोत्रेति ॥ प्रायणीयं हविरासादयति ।
सायण-टीका
प्रति-मन्त्रं विशेषेण यज्ञ-संबन्धं विधत्ते-
षड्-ढोत्रा प्रायणीयम् आसादयति ।
अमुष्मै वै लोकाय षड्-ढोता ।
घ्नन्ति खलु वा एतत् सोमम् ।
यद् अभिषुण्वन्ति ( १ ) ।
ऋजुधैवैनम् अमुं लोकं गमयति ।
चतुर्-होत्राऽऽतिथ्यम् ।
यशो वै चतुर्-होता ।
यश एवाऽऽत्मन्धत्ते ।
पञ्च-होत्रा पशुम् उपसादयति ।
सुवर्ग्यो वै पञ्च-होता ।
यजमानः पशुः ।
यजमानम् एव सुवर्गे लोकं गमयति ।
ग्रहान् गृहीत्वा सप्त-होतारं जुहोति ।
इन्द्रियं वै सप्त-होता ( २ ) ।
इन्द्रियम् एवाऽऽत्मन्धत्ते,
इति । प्रायणीयायाम् इष्टौ यद् धविस् तत्- “सूर्यं ते चक्षुः” इति मन्त्रेण वेद्याम् आसादयेत् ।
विश्वास-प्रस्तुतिः
अमु᳓ष्मै वै᳓ लोका᳓य ष᳓ड्-ढोता ।
मूलम्
अ॒मुष्मै॒ वै लो॒काय॒ षड्ढो॑ता ।
भट्टभास्कर-टीका
अमुष्मै लोकाय अस्य द्युलोकस्य प्राप्तये । षड्ढोतैव पर्याप्तो भवति ॥
सायण-टीका
अयं षड्-ढोतृ-मन्त्रः स्वर्गार्थं प्रवृत्तः । तत् कथम् इति तद् उच्यते ।
मूलम्
घ्नन्ति॒ खलु॒ वा ए॒तत्सोम॑म् । यद॑भिषु॒ण्वन्ति॑ ॥ 42 ॥
विश्वास-प्रस्तुतिः
घ्न᳓न्ति ख᳓लु वा᳓ एत᳓त् सो᳓मम्
य᳓द् अभिषुण्व᳓न्ति ॥
मूलम्
घ्नन्ति॒ खलु॒ वा ए॒तत्सोम॒म् यद॑भिषु॒ण्वन्ति॑ ॥
भट्टभास्कर-टीका
अभिषवो नामायं सोमस्य वधः । तस्माद्धिंसानिमित्ताधर्मापनोदनेन ऋजुधा पावनेन मार्गेण एनं यजमानं अमुं लोकं गमयितुं षड्ढोतैव पर्याप्तो भवतीति ।
विश्वास-प्रस्तुतिः
ऋजुधै᳓वै᳓नम् अमुल्ँ᳓ लोक᳓ङ् गमयति ।
मूलम्
ऋ॒जु॒धैवैन॑म॒मुल्ँ लो॒कङ्ग॑मयति ।
भट्टभास्कर-टीका
ऋजु धारयतीत्यृजुधा, विचि तृतीयैकवचने आतो लोपे उदत्तनिवृतिस्वरेण विभक्तेरुदात्तत्वम् । यद्वा - सोमो हतत्वात् न स्वर्गस्य गमयिता, तस्मात् षड्ढोतैव अविलम्बनेन मार्गेण स्वर्गं गमयति ।
तस्मात् षड्ढोत्रा प्रायणीयं स्वर्गगमनारम्भप्रयोजनं हविरासादयति । अनुप्रवचनादित्वाच्छः । यद्वा - स्वर्गं प्राप्तुमारम्यतेऽनेनेति प्रायणीयं, करणे अनीयर् प्रत्ययः ॥
सायण-टीका
सोमाभिषव-रूपं हननं यत्-कृतं तत्-प्रत्यवायं परिहृत्य ऋजुधैव नरक-लोक-रूपं वक्र-मार्गं परित्यज्यैनं यजमानम् ऋजुनैव मार्गेण प्रापयति ।
विश्वास-प्रस्तुतिः
च᳓तुर्-होत्रा ऽऽतिथ्य᳓म् +++(आसादयति)+++।
मूलम्
चतु॑र्होत्राऽऽति॒थ्यम् +++(आसादयति)+++।
भट्टभास्कर-टीका
3 चतुर्होत्रेति ॥ आसादयतीत्येव ।
सायण-टीका
आतिथ्येष्टौ यद्धविस् तत्- “पृथिवी होता” इत्य् अनेन चतुर्होतृ-मन्त्रेण वेद्याम् आसादयेत् ।
मूलम्
यशो॒ वै चतु॑र्होता ।
यश॑ ए॒वात्मन्ध॑त्ते ।
विश्वास-प्रस्तुतिः
य᳓शो वै᳓ च᳓तुर्होता।
य᳓श एवा᳓त्म᳓न् धत्ते ।
मूलम्
यशो॒ वै चतु॑र्होता॒ यश॑ ए॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
यशो वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । अतिथिपूजया यशस्वी भवति ।
सायण-टीका
तस्य मन्त्रस्य यशो-हेतुत्वात् स्वात्मनि यशः सम्पादयति ।
मूलम्
विश्वास-प्रस्तुतिः
प᳓ञ्चहोत्रा पशु᳓म् उ᳓पसादयति
सुवर्ग्यो᳙ वै᳓ प᳓ञ्चहोता ।
य᳓जमानᳶ पशुः᳓ ।
य᳓जमानम् एव᳓ सुवर्गल्ँ᳓ लोक᳓ङ् गमयति ।
ग्र᳓हान् गृहीत्वा᳓ सप्त᳓होतारञ् जुहोति ।
मूलम्
पञ्च॑होत्रा प॒शुमुप॑सादयति । सु॒व॒र्ग्यो॑ वै पञ्च॑होता ।
यज॑मानᳶ प॒शुः ।
यज॑मानमे॒व सु॑व॒र्गल्ँ लो॒कङ्ग॑मयति ।
ग्रहा॑न्गृही॒त्वा स॒प्तहो॑तारञ्जुहोति ।
भट्टभास्कर-टीका
यजमान एव स्वयं पशुः प्रधानत्वाच्च ॥
सायण-टीका
अग्नीषोमीय-पशोर् यद् धविस् तत् – “ अग्निर् होता " इत्य् अनेन पञ्चहोतृ-मन्त्रेण वेद्याम् उपसादयेत् । तस्य मन्त्रस्य स्वर्ग-साधनत्वात् पशोश् च यजमान-निष्क्रयणार्थत्वाद् यजमानं स्वर्गं प्रापयति । ऐन्द्रवायवादि-ग्रह-ग्रहणाद् ऊर्ध्वं “ महाहविर् होता " इत्य् अनेन सप्तहोतृ-मन्त्रेण जुहुयात् ।
विश्वास-प्रस्तुतिः
इन्द्रियव्ँ᳓ वै᳓ सप्त᳓होता।
इन्द्रिय᳓म् एवा᳓त्म᳓न्धत्ते ।
मूलम्
इ॒न्द्रि॒यव्ँ वै स॒प्तहो॑ता ॥ 43 ॥
इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
4 इन्द्रियं वा इति ॥ ग्रहणेन क्षीणं वीर्यं पुनरात्मनि स्थापयति ॥
सायण-टीका
तस्येन्द्रियसाधनत्वाद् इन्द्रियं स्वस्मिन्सम्पादयति ।
विश्वास-प्रस्तुतिः
यो᳓ वै᳓ च᳓तुर्होतॄन्
अनुसवन᳓न् तर्प᳓यति -
तृ᳓प्यति प्रज᳓या पशु᳓भिः ।
उ᳓पैनँ सोमपीथो᳓ नमति ।
बहिष्-पवमाने᳓ द᳓शहोतारव्ँ व्या᳓चक्षीत ।
मा᳓ध्यन्-दिने प᳓वमाने च᳓तुर्-होतारम् +++(व्या᳓चक्षीत )+++।
आ᳓र्भवे प᳓वमाने प᳓ञ्च-होतारम् +++(व्या᳓चक्षीत )+++।
पितृ-यज्ञे᳓ ष᳓ड्-ढोतारम् +++(व्या᳓चक्षीत )+++।
यज्ञायज्ञि᳓यस्य स्तोत्रे᳓ सप्त᳓-होतारम् +++(व्या᳓चक्षीत )+++।
अनुसवन᳓म् एवै᳓नाँस् तर्पयति।
तृ᳓प्यति प्रज᳓या पशु᳓भिः ।
उ᳓पैनँ सोमपीथो᳓ नमति ।
मूलम्
यो वै चतु॑र्होतॄननुसव॒नन्त॒र्पय॑ति ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
उपै॑नँ सोमपी॒थो न॑मति ।
ब॒हि॒ष्प॒व॒मा॒ने दश॑होतारव्ँ॒ व् याच॑क्षीत ।
माध्य॑न्दिने॒ पव॑माने॒ चतु॑र्होतारम् ।
आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् ।
पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् ।
य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् ।
अ॒नु॒स॒व॒नमे॒वैनाँ॑ स्तर्पयति ॥ 44 ॥
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
उपै॑नँ सोमपी॒थो न॑मति ।
भट्टभास्कर-टीका
5 यो वा इत्यादि ॥ अनुसवनं सवने सवने, यथार्थेऽव्ययीभावः । पितृयज्ञे पुरोडाशशकलावसाने ॥
सायण-टीका
सवनेषु होतृ-मन्त्र-प्रयोगं विधत्ते-
यो वै चतुर्होतॄन् अनुसवनं तर्पयति ।
तृप्यति प्रजया पशुभिः ।
उपैनं सोमपीथो नमति ।
बहिष्-पवमाने दश-होतारं व्याचक्षीत ।
माध्यंदिने पवमाने चतुर्-होतारम् ।
आभवे पवमाने पञ्च-होतारम् ।
पितृ-यज्ञे षड्-ढोतारम् ।
यज्ञायज्ञियस्य स्तोत्रे सप्त-होतारम् ।
अनुसवनम् एवैनास् तर्पयति ।
तृप्यति प्रजया पशुभिः ।
उपैनं सोमपीथो नमति,
इति । चतुर्होतृ-मन्त्राभिमानिनां देवानां तत्-तन्-मन्त्र-प्रयोगेण तृप्तिर् भवति । तथा यजमानोऽपि प्रजया पशुभिस् तृप्त उत्तर-क्रतु-गतं सोम-पानं प्राप्नोति । तस्माद् बहिष्-पवमानादि-काले होतृ-मन्त्रान् स-ग्रहान् यजमानः पठेत् । एतच् च सूत्र-कारेण स्पष्टम् उक्तम् — “सन्नेषु नाराशंसेषु चमसिनः स्वं स्वं चमसम् अनून्यन्ते (?) त्रींस्-त्रीन् पुरोडाश-शकलान् उपवपन्त एतत् ते ततासौ ये च त्वाम् अन्व् इत्य् एतैः प्रति-मन्त्रं नमो वः पितरो रसायेति नमस्काराञ् जपन्ति षड्-ढोतारम् यजमानो व्याचष्टे" इति । सोऽयं सूत्रोक्तः प्रयोगो ऽत्र पितृ-यज्ञ-शब्देन व्यवहृतः । अनुसवनम् इत्यादिर् उपसंहारार्था पुनरुक्तिः ।
विश्वास-प्रस्तुतिः
देवा᳓ वै᳓ च᳓तुर्होतृभिस् सत्त्र᳓म् आस᳓त᳓र्द्धिपरिमितय्ँ य᳓शस्-कामाः ।
ते᳓ऽब्रुवन्न् -
“य᳓न् नᳶ प्रथमय्ँ᳓ य᳓श ऋच्छा᳓त्
स᳓र्वेषान् नस् त᳓त् सहा᳓सद्” इ᳓ति ।
मूलम्
दे॒वा वै चतु॑र्होतृभिस्स॒त्त्रमा॑सत । ऋद्धि॑परिमितय्ँ॒यश॑स्कामाः । ते॑ऽब्रुवन् । यन्न॑ᳶ प्रथ॒मय्ँयश॑ ऋ॒च्छात् । सर्वे॑षान्न॒स्तत्स॒हास॒दिति॑ ।
भट्टभास्कर-टीका
6 देवा वा इत्यादि ॥ ऋद्धिपरिमितं ऋद्ध्या फलेन फरिच्छिन्नं यावत्फलोदयं कर्तव्यं ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । समयं च कृतवन्तः - अस्माकं मध्ये प्रथमं यं देवं यशः प्राप्नोति तत्तदीयं यशः सर्वेषामस्माकं सहासत् साधारणमस्त्विति । अस्तेर्लेटि अढागमः ।
सायण-टीका
यज्ञाङ्गत्वेन विहितान् होतृ-मन्त्रान् प्रशंसति-
देवा वै चतुर्-होतृभिः सत्रम् आसत ।
ऋद्धि-परिमितं यशस्-कामाः ।
ते ऽब्रुवन् ।
यन् नः प्रथमं यश ऋच्छात् ।
सर्वेषां नस् तत् सहाऽऽसद् इति ।
सोमश् चतुर्-होत्रा ।
अग्निः पञ्च-होत्रा ।
धाता षड्-ढोत्रा ।
इन्द्रः सप्त-होत्रा ।
प्रजापतिर् दश-होत्रा ।
तेषां सोमं राजानं यश आर्च्छत्,
इति । [[P417]] सोमाग्न्यादयो देवा धनादि-समृद्ध्या युक्तं यशः कामयमानाः सत्रम् अनुष्ठातुं प्रारब्धवन्तः । तदानीम् एवं परस्परं भाषां कृतवन्तो ऽस्माकं मध्ये यं पुरुषम् आदौ धन-समृद्धि-युक्तं यशः प्राप्नुयात् तस्य पुरुषस्य तद् यशः सर्वेषाम् अस्माकं साधारणम् अस्त्व् इति ।
विश्वास-प्रस्तुतिः
सो᳓मश् च᳓तुर्-होत्रा ।
अग्निᳶ᳓ प᳓ञ्चहोत्रा ।
धाता᳓ ष᳓ड्-ढोत्रा ॥ 45 ॥
इ᳓न्द्रस् सप्त᳓होत्रा ।
प्रजा᳓पतिर् द᳓शहोत्रा ।
ते᳓षाँ सो᳓मँ रा᳓जानय्ँ य᳓श आर्च्छत् ।
मूलम्
सोम॒श्चतु॑र्होत्रा ।
अ॒ग्निᳶ पञ्च॑होत्रा ।
धा॒ता षड्ढो॑त्रा ॥ 45 ॥
इन्द्र॑स्स॒प्तहो॑त्रा ।
प्र॒जाप॑ति॒र्दश॑होत्रा ।
तेषाँ॒ सोमँ॒ राजा॑नय्ँ॒यश॑ आर्च्छत् ।
भट्टभास्कर-टीका
कः केन होत्रा आस्त इत्याह - सोम इत्यादि । गतम् ॥
सायण-टीका
ततः सोमादयो यथा-यथं सत्रे होतृ-मन्त्रान् अनुष्ठितवन्तस् तदा तेषां मध्ये सोममेवाऽऽदौ यशः प्राप्नोत् ।
विश्वास-प्रस्तुतिः
त᳓न् न्य᳙कामयत ।
मूलम्
तन्न्य॑कामयत ।
भट्टभास्कर-टीका
7 तन्न्यकामयत इत्यादि ॥ स सोमः तत् यशः न्यकामयत न्यग्भावेनातिलोभेन देवेभ्यो दातुमनिच्छन् ममैवेदमस्त्वित्यकामयत ।
सायण-टीका
अथ प्रसङ्गाद् यज्ञाङ्ग-भूतान् प्रैष-निविद्-आप्री-ग्रहान् अत्र प्रशंसति -
तत् कामयत ।
तेनापाक्रामत् ।
तेन प्रलायमचरत् ।
तं देवाः प्रैषैः प्रैषम् ऐच्छन् ।
तत् प्रैषाणां प्रैषत्वम् ।
निविद्भिर् न्यवेदयन् ।
तन् निविदां निवित्त्वम् ।
आप्रीभिर् आप्नुवन् ।
तत् आप्रीणाम् आप्रित्वम् ।
तम् अघ्नन् ।
तस्य यशो व्यगृह्णत ।
ते ग्रहा अभवन् ।
तत् ग्रहाणां ग्रहत्वम् ।
यस्य एवं विदुषो ग्रहा गृह्यन्ते ।
तस्य त्व् एव गृहीताः,
इति ।
विश्वास-प्रस्तुतिः
ते᳓ना᳓पाक्रामत् । ते᳓न प्रला᳓यम् अचरत् ।
मूलम्
तेनापा॑क्रामत् । तेन॑ प्र॒लाय॑मचरत् ।
भट्टभास्कर-टीका
अथ तथा कामयमानः तेन यशसा सहापाक्रामत् देवसकाशात्पलायत । अपक्रम्य तेन यशसा सह प्रलायं प्रलीय अदृश्यो भूत्वा अचरत् । लीयतेर्णमुल् ।
सायण-टीका
तद्-धन-समृद्धियुक्तं यशो ममैव भूयाद् इति सोमो नितरां कामयित्वा तेन धनेन सहापक्रम्य पुनस् तेन युक्तः सन् प्रकर्षेण लीनो भूत्वा यथा देवा न जानन्ति तथैव व्यचरत् ।
विश्वास-प्रस्तुतिः
त᳓न् देवाᳶ᳓ प्रैषैᳶ᳓ प्रै᳓षम् ऐच्छन्।
त᳓त् प्रैषा᳓णाम् प्रैषत्व᳓म् ।
मूलम्
तन्दे॒वाᳶ प्रै॒षैᳶ प्रैष॑मैच्छन् ।
तत्प्रै॒षाणा॑म्प्रैष॒त्वम् ।
भट्टभास्कर-टीका
अथ देवाः प्रैषैः तं प्रैषं प्रेषितुं प्राप्तुमैच्छन् ‘होता यक्षत्’ इत्याद्याः प्रैषाः, प्रेषणसाधनत्वात्प्रैषाः ।
सायण-टीका
ततो देवाः “होता यक्षत्” इत्य्-आदिभिर् ्प्रैष-मन्त्रैर् प्रैषं प्रकृष्टं सोमस्यान्वेषणम् ऐच्छन् । ततः प्रेष्यत एभिर् इति व्युत्पत्त्या मन्त्राणां प्रैष-नाम सम्पन्नम् ।
विश्वास-प्रस्तुतिः
निवि᳓द्भिर् न्य᳙वेदयन्।
त᳓न् निवि᳓दान् निवित्त्व᳓म् ॥
मूलम्
नि॒विद्भि॒र्न्य॑वेदयन् ।
तन्नि॒विदा॑न्निवि॒त्त्वम् ॥ 46 ॥
भट्टभास्कर-टीका
निविद्भिः ‘अग्ने महां असि ’ इत्यादिभिः न्यवेदयन् अग्नये निवेदितवन्तः । तस्मान्निवेदनहेतुत्वान्निविदः ।
सायण-टीका
ततः “अग्रे महानसि” इत्य्-आदिभिर् निविन्-मन्त्रैर् इमं वृत्तान्तं तत्र तत्र नितराम् आवेदयन् । निवेद्यत एभिर् इति व्युत्पत्त्या मन्त्राणां निविन्-नाम संपन्नम् । [[P418]]
मूलम्
आ॒प्रीभि॑राप्नुवन् ।
तदा॒प्रीणा॑माप्रि॒त्वम् ।
विश्वास-प्रस्तुतिः
आप्री᳓भिर् आप्नुवन्।
त᳓द् आप्री᳓णाम् आप्रित्व᳓म् ।
मूलम्
आ॒प्रीभि॑राप्नुव॒न्न् तदा॒प्रीणा॑माप्रि॒त्वम् ।
भट्टभास्कर-टीका
अत आप्रीभिः ‘समिद्धो अद्य’ । इत्यादिभिस्तमाप्नुवन् । तस्मादाप्तिहेतुत्वादाप्रीत्वम् । आप्नोतेरौणादिकः किप्रत्ययः ।
सायण-टीका
“समिद्धो अद्य मनुषो दुरोणे” इत्य् आप्री-मन्त्रैस् तं सोमम् आप्नुवन् । आप्यत एभिर् इति व्युत्पत्त्या मन्त्राणाम् आप्री-नाम संपन्नम् ।
विश्वास-प्रस्तुतिः
त᳓म् अघ्नन् ।
त᳓स्य य᳓शो व्य᳙गृह्णत ।
मूलम्
तम॑घ्नन् ।
तस्य॒ यशो॒ व्य॑गृह्णत ।
भट्टभास्कर-टीका
अथ तं सोमं प्राप्य अघ्नन् हत्वा च तदीयं यशः व्यगृह्णत पृथक्पृथग्गृहीतवन्तः ।
सायण-टीका
ततः सोमं हत्वा तस्याधीनं यशो-हेतुं धनं प्रत्येकं विभज्य गृहीतवन्तः ।
मूलम्
ते ग्रहा॑ अभवन् ।
तद्ग्रहा॑णाङ्ग्रह॒त्वम् ।
विश्वास-प्रस्तुतिः
ते᳓ ग्र᳓हा अभवन्।
त᳓द् ग्र᳓हाणाङ् ग्रहत्व᳓म् ।
मूलम्
ते ग्रहा॑ अभव॒न्न् तद्ग्रहा॑णाङ्ग्रह॒त्वम् ।
भट्टभास्कर-टीका
तद्देवानां प्रत्येकं स्वभूता ग्रहा अभवन् तस्मात् गृहीतत्वाद्ग्रहाः ।
सायण-टीका
ते च भागा ऐन्द्रवायवादिग्रहा अभवन् । तस्माद् गृह्यन्त इति व्युत्पत्त्या ग्रह-नाम सम्पन्नम् ।
विश्वास-प्रस्तुतिः
य᳓स्यैवव्ँ᳓ विदु᳓षो ग्र᳓हा गृह्य᳓न्ते
त᳓स्य त्व् ए᳙व᳓ गृहीताः᳓ ।
मूलम्
यस्यै॒वव्ँ वि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते॑ । तस्य॒ त्वे॑व गृ॑ही॒ताः ।
भट्टभास्कर-टीका
एवं विदुष एव ग्रहाः गृहीता भवन्ति अविदुषस्तु गृहीता अपि अगृहीता एव ॥
सायण-टीका
य एतं वृत्तान्तं जानाति तस्यैव यागे ग्रहा मुख्यत्वेन गृहीता भवन्ति । इतरस्य तु यागे गृहीता अप्य् अधिक-फलत्वाभावाद् अगृहीता एव ।
मूलम्
ते॑ऽब्रुवन् ।
यो वै न॒श्श्रेष्ठोऽभू॑त् ॥ 47 ॥
तम॑वधिष्म ।
पुन॑रि॒मँ सु॑वामहा॒ इति॑ ।
विश्वास-प्रस्तुतिः
ते᳓ऽब्रुवन्न् -
“यो᳓ वै᳓ नश् श्रे᳓ष्ठो᳓ऽभूत् ,
त᳓म् अवधिष्म,
पु᳓नर् इमँ᳓ सुवामहा” इ᳓ति ।
मूलम्
ते॑ऽब्रुव॒न्न् - “यो वै न॒श्श्रेष्ठोऽभू॒त् ,तम॑वधिष्म॒, पुन॑रि॒मँ सु॑वामहा॒” इति॑ ।
भट्टभास्कर-टीका
8 तेऽब्रुवन्नित्यादि ॥ अस्माकं श्रेष्ठमिमं हतवन्तो वयं, तस्मादिमं पुनरपि सुवामहै उत्पादयामः ।
सायण-टीका
अथ ग्रह-प्रसङ्गाच्छन्दःसामोक्थानि प्रशंसति—
ते ऽब्रुवन् । यो वै नः श्रेष्ठो ऽभूत् । तम् अवधिष्म । पुनर् इमं सुवामहा इति । तं छन्दोभिर् असुवन्त । तच् छन्दसां छन्दस्त्वम् । साम्ना समानयन् । तत् साम्नः सामत्वम् । उक्थैर् उदस्थापयन् । तद् उक्थानाम् उक्थत्वम् । य एवं वेद । प्रत्येव तिष्ठति । सर्वम् आयुर् एति,
इति । ते देवाः परस्परम् इदं विचारितवन्तो
यः सोमो ऽस्माकं मध्ये श्रेष्ठो ऽभूत् तं वयम् अवधिष्म । तद् एतन् महद् अनुचितम् । तस्मात् पुनर् इमं सोमम् उत्पादयाम,
इति।
विश्वास-प्रस्तुतिः
त᳓ञ् छ᳓न्दोभिर् असुवन्त ।
मूलम्
तञ्छन्दो॑भिरसुवन्त ।
भट्टभास्कर-टीका
अथ तं छन्दोभिरुत्पादितवन्तः ।
सायण-टीका
विचार्य गायत्र्यादि-छन्दांस्य् अनुष्ठाय तत्-सामर्थ्यात् सोमम् उदपादयन् ।
विश्वास-प्रस्तुतिः
त᳓च् छ᳓न्दसाञ् छन्दस्त्व᳓म् ।
मूलम्
तच्छन्द॑साञ्छन्द॒स्त्वम् ।
भट्टभास्कर-टीका
तस्मात् छन्दोहेतुत्वात् छन्दांसि ।
सायण-टीका
उत्पादन-विषया छन्दस्य् इच्छा सिध्यन्त्य् एभिर् इति व्युत्पत्त्या छन्दो-नाम संपन्नम् ।
विश्वास-प्रस्तुतिः
सा᳓म्ना स᳓मा᳓नयन्।
त᳓त् सा᳓म्नस् सामत्व᳓म् ।
मूलम्
साम्ना॒ समान॑यन् । तत्साम्न॑स्साम॒त्वम् ।
भट्टभास्कर-टीका
सामनहेतुत्वात्सामानि । ‘साम सान्त्वने’ ।
सायण-टीका
ततः साम-गान-सामर्थ्येन तं सोमं समानयन् । समानीयते ऽनेनेति व्युत्पत्त्या साम-नाम संपन्नम् ।
विश्वास-प्रस्तुतिः
उक्थै᳓र् उ᳓दस्थापयन्।
त᳓द् उक्था᳓नाम् उक्थत्व᳓म् ।
मूलम्
उ॒क्थैरुद॑स्थापयन् । तदु॒क्थाना॑मुक्थ॒त्वम् ।
भट्टभास्कर-टीका
उत्थानहेतुत्वादुक्थत्वम् । उत्पूर्वात्तिष्ठतेस्सुपि ‘स्थः’ इति के उपसर्गान्त्यविकारश्छान्दसः ।
सायण-टीका
उक्थ-नामक-शस्त्र-सामर्थ्येन तं सोमं भूमाव् उपविष्टम् उत्थापितवन्तः । उत्थाप्यते सोमो ऽनेनेति व्युत्पत्त्योक्थ-नाम संपन्नम् ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ वे᳓द
प्र᳓त्येव᳓ तिष्ठति ।
स᳓र्वम् आ᳓युर् एति ।
मूलम्
य ए॒वव्ँ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥ 48 ॥
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
य एवमित्यादि गतम् ॥
सायण-टीका
य एवं सोम-वृत्तान्तं वेद स भूमौ प्रतिष्ठितो भूत्वा सम्पूर्णम् आयुः प्राप्नोति ।
विश्वास-प्रस्तुतिः
सो᳓मो वै᳓ य᳓शः ।
मूलम्
सोमो॒ वै यशः॑ ।
भट्टभास्कर-टीका
9 सोमो वा इत्यादि ॥ स्वयं सोम एव यशः, बहुमानहेतुत्वात् ।
सायण-टीका
अथ सोमयागप्रशंसामसङ्गात्पुरुषार्थं सोमयागसमीपगमनं विधत्ते—
सोमो वै यशः । य एवं विद्वान् सोमम् आगच्छति । यश एवैनम् ऋच्छति । तस्माद् आहुः । यश् चैवं वेद यश् च न । ताव् उभौ सोमम् आगच्छतः । सोमो हि यशः । तं त्वा व यश ऋच्छतीत्या॑हुः । यः सोमे सोमं प्राहेति । तस्मात् सोमे सोमः प्रोच्यः । यश॑ ए॒वैन॑म् ऋच्छति,
इति ॥
[[P419]]
यः सोम-यागः स एव यशो-हेतुत्वाद् यशः ।
मूलम्
य ए॒वव्ँ वि॒द्वान्त्सोम॑मा॒गच्छ॑ति । यश॑ ए॒वैन॑मृच्छति ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ विद्वा᳓न्त् सो᳓मम् आग᳓च्छति
य᳓श एवै᳓नम् ऋच्छति ।
मूलम्
य ए॒वव्ँ वि॒द्वान्त्सोम॑मा॒गच्छ॑ति॒ यश॑ ए॒वैन॑मृच्छति ।
भट्टभास्कर-टीका
तस्मात् य एवं विद्वान् सोम एव यश इति जानन् सोममागच्छति भजते । यश एव स्वयमेनमृच्छति भजते ।
सायण-टीका
तस्मात् सोमस्य यशो-हेतुत्वं यो विद्वान् स सोम-याग-स्थानं प्रत्यागच्छेत् । 1तत्-तद्-अनुष्ठान-प्रकारोपन्यासेन तम् एनं यश ऋच्छति प्राप्नोति ।
मूलम्
तस्मा॑दाहुः । यश्चै॒वव्ँ वेद॒ यश्च॒ न । तावु॒भौ सोम॒माग॑च्छतः ।
विश्वास-प्रस्तुतिः
त᳓स्माद् आहुर्
“य᳓श् चैवव्ँ᳓ वे᳓द,
य᳓श्च न᳓
ता᳓वुभौ᳓ सो᳓मम् आ᳓गच्छतः ।
मूलम्
तस्मा॑दाहु॒र् “यश्चै॒वव्ँ वेद॒ यश्च॒ न तावु॒भौ सोम॒माग॑च्छतः ।
भट्टभास्कर-टीका
यस्मादेवं तस्मात् यश्चैवं सोमयशसोस्तादात्म्यं वेद, यश्च न वेद तावुभावपि सोममागच्छतः सोमं भजते ।
सोमो हि यशः,यशश्चैतौ प्रार्थयमानौ भवतः । तस्मादेतौ सोममागच्छतः ।
सायण-टीका
यस्माद् एवं तस्माद् अभिज्ञो ऽयं महात्मेत्य् एवं सर्वे जना आहुः । किं च यश् च न वेद ताव् उभौ सोम-याग-स्थानम् आगच्छतः।
विश्वास-प्रस्तुतिः
सो᳓मो हि᳓ य᳓शः ।
मूलम्
सोमो॒ हि यशः॑ ।
विश्वास-प्रस्तुतिः
त᳓न् “त्वा᳓ ऽव᳓ य᳓श ऋच्छती᳓“त्य् आहुर्
“य᳓स् सो᳓मे सो᳓मम् प्रा᳓हे᳓“ति ।
मूलम्
तन्त्वाऽव यश॑ ऋच्छ॒तीत्या॑हुः । यस्सोमे॒ सोम॒म्प्राहेति॑ ।
भट्टभास्कर-टीका
अस्ति त्वत्र विशेषः - यद्यपि सर्वः सोममागच्छति, तथाऽपि तमेव यशः ऋच्छति गच्छतीत्याहुः । कं यः सोमकर्मणि निर्वर्त्यमाने तं सोमं सप्तहोतारं प्राह सदसि व्याचष्टे, अस्य महत्त्वं प्रवक्तुं शक्नोति तमेव यश ऋच्छतीत्याहुः ।
सायण-टीका
सोम-यागस्य यशो-हेतुत्वात् । अस्ति त्व् अनयोर् मध्ये एकस्य विशेषः । न हि सोमे सोम-यागे सोमं सोम-प्रयोगं विशेषाविज्ञाय स्वकीय-वाक्-पाण्डित्य-प्रकटनाय वा यः प्राह तम् अभिज्ञास् त्वा व त्वाम् एव यश ऋच्छति प्राप्नोतीत्य् आहुः ।
विश्वास-प्रस्तुतिः
त᳓स्मात् सो᳓मे सो᳓मᳶ प्रो᳓च्यः ।
मूलम्
तस्मा॒त्सोमे॒ सोम॒ᳶ प्रोच्यः॑ ।
भट्टभास्कर-टीका
तस्मात्सोमे सोमः प्रोच्यः प्रवक्तव्यः ।
सायण-टीका
यस्माद् एवं तस्माद् अभिज्ञः सोमे सोम-यागे सोमः सोम-प्रयोगः प्रोच्यः प्रकर्षेण वाच्यः ।
विश्वास-प्रस्तुतिः
य᳓श एवै᳓नम् ऋच्छति ॥ 49 ॥
मूलम्
यश॑ ए॒वैन॑मृच्छति ॥ 49 ॥
भट्टभास्कर-टीका
यशः एनं प्रवक्तारमृच्छस्येव ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके अष्टमोऽनुवाकः ॥
सायण-टीका
यश एनम् अभिज्ञम् ऋच्छत्य् एव प्राप्नोत्येव ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके ऽष्टमो ऽनुवाकः ॥ ८ ॥
-
क. ख. तत्र तद । ↩︎