विश्वास-प्रस्तुतिः
प्रजा᳓पतिᳶ प्रजा᳓ असृजत ।
ता᳓स् सृष्टा᳓स् स᳓मश्लिष्यन् ।
मूलम्
प्र॒जाप॑तिᳶ प्र॒जा अ॑सृजत ।
तास्सृ॒ष्टास्सम॑श्लिष्यन् ।
भट्टभास्कर-टीका
1 प्रजापतिः प्रजा असृजतेत्यादि ॥ प्रजापतिना सृष्टास्सर्वाः प्रजा: समश्लिष्यन् संश्लिष्टा एकीभूता एकरूपेण नाम्ना चाविलक्षणा अभवन् ।
सायण-टीका
षष्ठे द्वादशाह-दशमे-अहनि होतृ-मन्त्रा विहिताः । सप्तमे काम्य-फल-साधनत्वम् अभिप्रेत्य सप्त-होतृ-मन्त्रं प्रशंसितुम् उपाख्यानम् आह-
प्रजापतिः प्रजा असृजत ।
ताः सृष्टाः समश्लिष्यन् ।
ता रूपेणानुप्राविशत् ।
तस्माद् आहुः, “रूपं वै प्रजापतिरिति ।”
ता नाम्नाऽनुप्राविशत् ।
तस्माद् आहुः, “नाम वै प्रजापतिरिति ।”
तस्माद् अपि अमित्रौ सङ्गत्य नाम्ना चेद् ध्वयेते (१), मित्रम् एव भवतः इति ।
प्रजापतिना याः प्रजाः सृष्टाः ताः सर्वाः संश्लिष्टा अभवन् । रूप-विशेषस्य नाम-विशेषस्य च असृष्टत्वात् एक-विधैव भूत्वा देवोऽयं मनुष्योऽयं पशुरयम् इत्येवं विशेष-व्यवहार-योग्या नाभूवन् ।
विश्वास-प्रस्तुतिः
ता᳓ रूपे᳓णा᳓नु प्रा᳓विशत् ।
मूलम्
ता रू॒पेणानु॒प्रावि॑शत् ।
भट्टभास्कर-टीका
अथ प्रजापतिस्ताः प्रजा रूपेणानुप्राविशत् ।
सायण-टीका
तदा प्रजापतिर्विचार्य स्वयमेव रूपविशेषाकारेण नामविशेषाकारेण तासु प्रजासु प्रविष्टः ।
विश्वास-प्रस्तुतिः
त᳓स्माद् आहुः -
“रूपव्ँ᳓ वै᳓ प्रजा᳓पतिर्” इ᳓ति ।
मूलम्
तस्मा॑दाहुः । रू॒पव्ँ वै प्र॒जाप॑ति॒रिति॑ ।
भट्टभास्कर-टीका
गवादीनां यद्यद्विलक्षणं रूपं तेन तेन रूपेण विभक्तात्मा स्वयमेव तासु प्राविशत् तस्माद्रूपं प्रजापतिरित्याहुः ।
सायण-टीका
अत एव शास्त्रज्ञा नामरूपयोः सर्ववस्तुव्याप्तिं दृष्ट्वा प्रजापत्यात्मकत्वं तयोराहुः ।
विश्वास-प्रस्तुतिः
ता᳓ ना᳓म्ना᳓ऽनु प्रा᳓विशत् । त᳓स्माद् आहुर्- “ना᳓म वै᳓ प्रजा᳓पतिर्” इ᳓ति ।
मूलम्
ता नाम्नाऽनु॒ प्रावि॑शत् । तस्मा॑दाहुः । नाम॒ वै प्र॒जाप॑ति॒रिति॑ ।
भट्टभास्कर-टीका
तथा नाम्ना चानुप्राविशत् गौरश्वः खण्डो मुण्ड इत्यादिलक्षणेन नाम्ना विभक्तात्मा स्वयमेव तास्वनु प्रविश्य अतिष्ठत् ।
विश्वास-प्रस्तुतिः
त᳓स्माद् अ᳓प्य् आमित्रौ᳓ सङ्ग᳓त्य
ना᳓म्ना चे᳓द् ध्व᳓येते
मित्र᳓म् एव᳓ भवतः ।
मूलम्
तस्मा॒दप्या॑मि॒त्रौ स॒ङ्गत्य॑ ।
नाम्ना॒ चेद्ध्वये॑ते ॥ 38 ॥
मि॒त्रमे॒व भ॑वतः ।
भट्टभास्कर-टीका
तस्मात्पूर्वममित्रावपि अमित्रावेवामित्रौ, स्वार्थिकोण्, अन्तोदात्तत्वं चोपदिश्यते । तौ द्वौ संगत्य परस्परस्य नाम्ना चेदाह्वयेते परस्परं मित्रमेव भवतः, नाम्नः प्रजापतित्वात्तस्य च सर्वमित्रत्वात् । अपिशब्दात् कश्चिदाकारः प्रश्लिष्यते । तदा आकार आख्यातेनान्वीयते । तस्य परेण एकादेशस्वरेणोदात्तत्वं अप्राप्तं व्यत्ययेन भवति ॥
सायण-टीका
यस्मात् नाम प्रजापतिरेव, तस्मात् पूर्वम् अमित्रौ अपि द्वौ पुरुषौ कदाचित् मार्गे ग्रामान्तरे वा संगत्य, “भो देवदत्त, भो यज्ञदत्त” इति एवं तत्-तत्-नाम्ना परस्परम् आह्वयेते चेत्, तदानीम् एव मित्रौ भवतः । प्रजापतेः सर्व-मित्रत्वेन तद्-आत्मकस्य नाम्नो मित्रत्व-संपादकत्वं युक्तम् । अत एव लौकिकाः “साप्तपदीनं सख्यम्” इति आहुः ।
विश्वास-प्रस्तुतिः
प्रजा᳓पतिर् देवासुरा᳓न् असृजत ।
स᳓ इ᳓न्द्रम् अ᳓पि ना᳓सृजत ।
मूलम्
प्र॒जाप॑तिर्देवासु॒रान॑सृजत ।
स इन्द्र॒मपि॒ नासृ॑जत ।
मूलम्
तन्दे॒वा अ॑ब्रुवन् । इन्द्र॑न्नो जन॒येति॑ ।
विश्वास-प्रस्तुतिः
त᳓न् देवा᳓ अब्रुवन्न्
“इ᳓न्द्रन् नो जनये᳓“ति ।
स᳓ आत्म᳓न्न् इ᳓न्द्रम् अपश्यत् ।
त᳓म् असृजत ।
त᳓न् त्रिष्टु᳓ग् वीर्य᳙म् भूत्वा᳓ऽनु प्रा᳓विशत् ।
त᳓स्य व᳓ज्रᳶ पञ्चदशो᳓ ह᳓स्त आ᳓पद्यत ।
मूलम्
तन्दे॒वा अ॑ब्रुव॒न्न् “इन्द्र॑न्नो जन॒ये"ति॑ ।
स आ॒त्मन्निन्द्र॑मपश्यत् ।
तम॑सृजत ।
तन्त्रि॒ष्टुग्वी॒र्य॑म्भू॒त्वाऽनु॒ प्रावि॑शत् ।
तस्य॒ वज्र॑ᳶ पञ्चद॒शो हस्त॒ आप॑द्यत ।
भट्टभास्कर-टीका
2 तस्येत्यादि ॥ पञ्चदशः स्तोमः पञ्चदशावयवो वज्रो भूत्वा तस्येन्द्रस्य हस्ते आपद्यत आगच्छन् ।
सायण-टीका
नाम-रूप-सृष्टिम् उक्त्वा विशेषाकारेणेन्द्रसृष्टिम् आह-
प्रजापतिर् देवासुरान् असृजत । स इन्द्रम् अपि नासृजत । तं देवा अब्रुवन् । इन्द्रं नो जनयेति । स आत्मनीन्द्रम् अपश्यत् । तम् असृजत । तं त्रिष्टुग्-वीर्यं भूत्वाऽनुप्राविशत् । तस्य वज्रः पञ्चदशो हस्त आपद्यत । तेनोदय्याऽसुरान् अभ्यभवत् ( २ ),
इति ।
यदा देवान् असुरांश्च असृजत तदा प्रजापतिर्-देव-स्वामिनम् इन्द्रम् अपि-शब्दाद् असुर-स्वामिनं च नासृजत । ततो देवैः प्रार्थितः स्वात्मन्येवावस्थितम् इन्द्रं दृष्ट्वा तं बहिरसृजत । तं च सृष्टम् इन्द्रं त्रिष्टुब्देवता वीर्य-रूपा भूत्वा प्राविशत् । तस्य वीर्यवत इन्द्रस्य हस्ते पञ्चदशभिर्-धाराभिर्-युक्तः कश्चिद् वज्रः प्रादुरभूत् ।
विश्वास-प्रस्तुतिः
ते᳓नोद᳓य्या᳓सुरान् अभ्य᳙भवत् ॥ 39 ॥
मूलम्
तेनो॒दय्यासु॑रान॒भ्य॑भवत् ॥ 39 ॥
भट्टभास्कर-टीका
तेनोदय्य उत्पत्य असुरानभ्यभवत् अभिभूतवान् ।
सायण-टीका
तेन वज्रेण युक्तं हस्तम् उद्यम्यासुरान् अभिभूतवान् ।
मूलम्
य ए॒वव्ँ वेद॑ । अ॒भि भ्रातृ॑व्यान्भवति ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ वे᳓द
अभि᳓ भ्रा᳓तृव्यान् भवति ।
मूलम्
य ए॒वव्ँ वेदा॒भि भ्रातृ॑व्यान्भवति ।
भट्टभास्कर-टीका
य एवमित्यादि । गतम् ॥
सायण-टीका
एतद्वेदनं प्रशंसति-
य एवं वेदं । अभि भ्रातृ॑व्यान्भवति,
इति ।
मूलम्
ते दे॒वा असु॑रैर्वि॒जित्य॑ । सु॒व॒र्गल्ँ लो॒कमा॑यन् ।
विश्वास-प्रस्तुतिः
ते᳓ देवा᳓ अ᳓सुरैर् विजि᳓त्य सुवर्गल्ँ᳓ लोक᳓म् आयन् ।
मूलम्
ते दे॒वा असु॑रैर्वि॒जित्य॑ सुव॒र्गल्ँ लो॒कमा॑यन् ।
भट्टभास्कर-टीका
3 असुरैर्विजित्येति ॥ असुरव्यावृत्त्या जयं लब्ध्वा स्वर्गं गताः ।
सायण-टीका
अथ सप्त-होतृ-मन्त्रं प्रशंसति -
ते देवा असुरैर् विजित्य सुवर्गं लोकम् आयन् ।
तेऽमुष्मिन् लोके व्यक्षुध्यन् ।
तेऽब्रुवन्, “अमुतः प्रदानं वा उपजिजीविमेति” इति ।
ते सप्त-होतारं यज्ञं विधाय आयास्यम् आङ्गीरसं प्राहिण्वन्, “एतेन अमुत्र कल्पय” इति ( ३ ) ।
तस्य वा इयं कॢप्तिः, यद् इदं किंच ।
य एवं वेद, कल्पतेऽस्मै ।
स वा अयं मनुष्येषु यज्ञः सप्त-होता अमुत्र सद्-भ्यो देवेभ्यो हव्यं वहति ।
य एवं वेद, उपैनं यज्ञो नमति, इति ।
विश्वास-प्रस्तुतिः
ते᳓ऽमु᳓ष्मिल्ँ लोके᳓ व्य᳙क्षुध्यन् ।
मूलम्
ते॑ऽमुष्मिल्ँ॑ लो॒के व्य॑क्षुध्यन् ।
भट्टभास्कर-टीका
तेऽमुष्मिन् परस्मिन् लोके व्यक्षुध्यन् विशेषेण क्षुधिता आसन् ।
विश्वास-प्रस्तुतिः
ते᳓ऽब्रुवन् -
“अमु᳓तᳶ प्रदा᳓नव्ँ+++(←स्वरो युक्तः)+++ वा᳓ उ᳓पजिजीविमे᳓“ति ।
मूलम्
ते॑ऽब्रुवन् । अ॒मुत॑ᳶ प्रदानव्ँ॒वा उप॑जिजीवि॒मेति॑ ।
भट्टभास्कर-टीका
अथ देवा अब्रुवन् - अमुतः प्रदानं अमुना मनुष्यलोकेन यत्प्रदीयते तद्वयमुपजीवामः ।
सायण-टीका
ते देवाः इन्द्र-साहाय्य-वशाद् असुरैः सह युद्धे विजित्य स्वर्गं प्राप्य तत्र विशेषेण क्षुधिताः सन्तः परस्परम् इदम् अब्रुवन्- अयं स्वर्गो भोग्य-वस्तु-सम्पादन-स्थानं न भवति । तस्य कर्म-भूमित्वाभावात् । कस्माद् अमुतः प्रदानं मनुष्य-लोके प्रदीयमानं हविर् उपजीव्य तिष्ठाम इति । अमुतः शब्दः परोक्ष-वाचित्वाद् भूम्य्-अपेक्षया परोक्षं स्वर्गं ब्रूते, तथा स्वर्गापेक्षया परोक्षं भू-लोकम् अपि ब्रूते । अत्र तु स्वर्ग-वासिभिः प्रयुज्यमानत्वाद् भूलोक-वाची ।
विश्वास-प्रस्तुतिः
ते᳓ सप्त᳓होतारय्ँ यज्ञ᳓व्ँ विधा᳓य
अया᳓स्यम् आङ्गीरस᳓म् प्रा᳓हिण्वन्न् ,
“एते᳓नामु᳓त्र कल्पये᳓“ति ॥ 40 ॥
मूलम्
ते स॒प्तहो॑तारय्ँ य॒ज्ञव्ँ वि॒धाया॒यास्य॑म् । आ॒ङ्गी॒र॒सम्प्राहि॑ण्वन् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ ॥ 40 ॥
भट्टभास्कर-टीका
तस्मादित्थं कुर्म इति मत्वा सप्तहोतारं यज्ञं विधायायास्यं नाम ऋषिं अङ्गिरसोपत्यं प्राहिण्वन् मनुष्यलोके प्रेषितवन्तः । एतेन यज्ञेनामुत्र मनुष्यलोके कल्पय यागसाधनं निर्वर्तय, येन वयं यागद्वारेण क्षुधमपहन्म हति । ननु ‘तस्मादितः प्रदानं देवा उपजीवन्ति’ इत्युक्तं, तत्कथमुच्यते अमुतः प्रदानं वयमुपनीवाम इति? तत्रस्थानां देवानामयं व्यवहारः । तत्रस्था हि मनुष्यलोकममुमाहुः, यत्रस्थास्तम् । दूरस्थासंनिहितवाचित्वाददश्शब्दस्य । उपजिजीविमेति छान्दसो लिट् । अमुतःप्रदानमिति सार्वविभक्तिकस्तसिल् । कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा अव्ययपर्वूपदप्रकृतिस्वरत्वम् ॥
सायण-टीका
ते देवाः इत्थं विचार्य सप्त-होतृ-मन्त्र-साध्यं कञ्चिद्-यागं निर्माय अङ्गिरो-गोत्रोत्पन्नम् अयास्य-नामकम् ऋषिं मनुष्य-लोके प्रेषितवन्तः । भो, अयास्यनेन सप्त-होतृ-यज्ञेनामुत्र मनुष्य-लोकेऽनुष्ठानं निष्पादयेति ।
विश्वास-प्रस्तुतिः
त᳓स्य वा᳓ इय᳓ङ्कॢ᳓प्तिर्
य᳓द् इद᳓ङ् कि᳓ञ्च ।
मूलम्
तस्य॒ वा इ॒यङ्कॢप्तिः॑ । यदि॒दङ्किञ्च॑ ।
य ए॒वव्ँ वेद॑ । कल्प॑तेऽस्मै ।
भट्टभास्कर-टीका
4 तस्य वा इत्यादि ॥ यदिदं मनुष्यलोके यत्किंचिद्दृश्यते पशुमृगधान्यादि तत्सर्वं तस्यायास्यस्यैवेयं कॢप्तिः कल्पना । लिङ्गं च - ‘अयास्य उद्गाता’ इति ।
सायण-टीका
ततो यद् इदं किंचिद् अनुष्ठानं लोके दृश्यते सेयं सर्वाऽपि तस्यैवायास्य-नामकस्य महर्षेः कॢप्तिः प्रवर्तना ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ वे᳓द क᳓ल्पते ऽस्मै ।
मूलम्
य ए॒वव्ँ वेद॒ कल्प॑तेऽस्मै ।
भट्टभास्कर-टीका
य एवं वेद अस्मै कल्पते अभीष्टभावाय भवत्वयं लोकः, अयं वा सप्तहोता ॥
सायण-टीका
य एवं मुनेः कॢप्तिं वेद । तदर्थम् अनुष्ठानं सम्यक् प्रवर्तते ।
विश्वास-प्रस्तुतिः
स᳓ वा᳓ अय᳓म् मनुष्ये᳙षु यज्ञ᳓स् सप्त᳓होता
अमु᳓त्र सद्भ्यो᳓ देवे᳓भ्यो हव्यव्ँ᳓ वहति ।
मूलम्
स वा अ॒यम्म॑नु॒ष्ये॑षु य॒ज्ञस्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हति ।
भट्टभास्कर-टीका
5 स वा इत्यादि ॥ मनुष्पलोकेऽवतीर्णः सप्तहोता अमुत्र विद्यमानेभ्यो देवेभ्यः हव्यं वहति, यागनिर्वृत्तिहेतुत्वात् ।
सायण-टीका
सप्त-होतृ-यज्ञो मनुष्येषु प्रवृत्तः सन् अमुत्र सद्भ्यः स्वर्ग-निवासिभ्यो देवेभ्यो हव्यं प्रापयति ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ वे᳓द उ᳓पैनय्ँ यज्ञो᳓ नमति ।
मूलम्
य ए॒वव्ँ वेद॑ । उपै॑नय्ँ य॒ज्ञो न॑मति ।
भट्टभास्कर-टीका
एवं वेदितारं यज्ञ उपनमति उपसंप्रानोति, फलाव्यभिचारात् ॥
सायण-टीका
य एवं सप्त-होतृ-यज्ञ-महिमानं वेद तमेतं वेदितारं स यज्ञः प्राप्नोति । यज्ञानुष्ठान-समर्थो भवतीत्यर्थः ।
विश्वास-प्रस्तुतिः
सो᳓ऽमन्यत ।
“अभि᳓ वा᳓ इमे᳙ ऽस्माल् लोका᳓द्
अमुल्ँ᳓ लोक᳓ङ् कमिष्यन्त+++(य्)+++” इ᳓ति ।
मूलम्
सो॑ऽमन्यत । “अ॒भि वा इ॒मे॑ऽस्माल्लो॒काद॒मुल्ँ लो॒कङ्क॑मिष्यन्त॒” इति॑ ।
भट्टभास्कर-टीका
6 सोमन्यतेत्यादि ॥ एवमित्थमिमं मनुष्यलोकं कॢप्तवानायास्योऽमन्यत - यया मया कृतं, इत्थमिमे सर्वे मनुष्या अनुत्पाद्यैव पुत्रान् अस्मान्मनुष्यलोकात् अमुं लोकं गन्तुमभिकमिष्यन्ते । ततश्च मानुषस्तनुः उच्छिद्यत इति ।
सायण-टीका
सप्त-होतृ-मन्त्रे “वाचस्पते हृद्-विधे नामन्” इति योऽयं ग्रह-भागस्तं प्रशंसति-
सोऽमन्यत ।
अभि वा इमेऽस्माल् लोकाद् अमुं लोकं कमिष्यन्त इति ।
स वाचस्पते हृद् इति व्याहरत् ।
तस्मात् पुत्रो हृदयम् ।
तस्माद् अस्माल् लोकाद् अमुं लोकं नाभिकामयन्ते ।
पुत्रो हि हृदयम्,
इति ॥
मनुष्य-लोके यज्ञ-प्रवर्तकः सः अयास्यो मुनिर्-मनसि एवम् अचिन्तयत्- इमे सर्वे मनुष्याः अस्माद् भू-लोकाद् अमुं स्वर्ग-लोकम् अभिकमिष्यन्तः, “स्वर्गो मे भूयाद्” इत्येवं कामयमाना यज्ञान् अनुष्ठास्यन्ति, न तु पुत्रान् उत्पादयिष्यन्ति ।
विश्वास-प्रस्तुतिः
स᳓ “वा᳓चस्पते हृ᳓द्” इ᳓ति व्या᳓हरत् ।
त᳓स्मात् पुत्त्रो᳓ हृ᳓दयम् ।
मूलम्
स वाच॑स्पते॒ “हृदि"ति॒ व्याह॑रत् ।
तस्मा॑त्पु॒त्त्रो हृद॑यम् ।
भट्टभास्कर-टीका
‘हृत्'16 इति ग्रहप्रतीकं व्याहरत् ‘मा दैव्यस्तन्तुश्छेदि मा मनुष्यः'16 इत्यादि च । तस्मात्ततःप्रभृति पुत्र एव पितुर्हृदयमभूत् । पुत्रा एवोत्पाद्याः, न त्वरितेनापुत्रेणैव स्वर्गार्थं यष्टव्यमिति ।
सायण-टीका
ततः संतति-विच्छेदे सति स्वर्ग-वासिनां देवानां भागो ऽपि विच्छिद्येतेति विचार्य तत्-परिहाराय “वाचस्पते हृद्विधे” इत्य् आदि-ग्रहभागम् उच्चारितवान् । तत्र मनो-वाचिना हृच्-छब्देन मनस्-कार्यः पुत्रो विवक्षितः । मनस्-कार्यत्वं च वाजसनेयिनः समामनन्ति -
“मनसा वै सम्यक्स्त्रियमभिहार्यते, तस्यां वै प्रतिरूपः पुत्रो जायते स आनन्दः”
इति । यस्माद् अत्र पुत्र-विवक्षया हृच्-छब्दः प्रयुक्तस् तस्माल् लोके पुत्रो हृदयं पुत्र-विषयम् एव चित्तं सर्वदा प्रवर्तत इत्य् अर्थः ।
विश्वास-प्रस्तुतिः
त᳓स्माद् अस्मा᳓ल् लोका᳓द्
अमुल्ँ᳓ लोक᳓न् ना᳓भि᳓ कामयन्ते ।
पुत्त्रो᳓ हि᳓ हृ᳓दयम् ॥ 41 ॥
मूलम्
तस्मा॑द॒स्माल्लो॒काद॒मुल्ँ लो॒कन्नाभि का॑मयन्ते । पु॒त्त्रो हि हृद॑यम् ॥ 41 ॥
भट्टभास्कर-टीका
यस्मादेवं तस्माल्लोकादमुं लोकं त्वरिता नाभिकामयन्ते पुत्रानेव तानुत्पादयन्ति सन्तानवृद्ध्यर्थम् । तदिदमाह - पुत्रो हि हृदयमिति । पितैव पुत्र इति केचित् ॥
सायण-टीका
यस्मात् पुत्रासक्त-चित्ता मनुष्यास् तस्मात् तत्-प्राधान्येन पुत्रान् एव कामयमाना अस्मान् मनुष्य-लोकाद् अमुं स्वर्ग-लोकं नात्यन्तं कामयन्ते । यस्मात् पुत्राश् चित्त-स्वरूपास् तस्मान् मनुष्याणां तद् उचितम् । अत एव संतान-विच्छेदो देव-हविर्-विच्छेदश् च न भविष्यति । तथा च तस्मिन् मन्त्र-शेषे समाम्नातम् - “मा दैव्यस् तन्तुश् छेदि मा मनुष्यः " इति ।
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥