मूलम्
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । यद्द॑श॒ममहः॑ । द॒श॒मेऽह॑न्त्सर्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति । य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा । अ॒न्नाद्य॒मव॑ रुन्धते ।
विश्वास-प्रस्तुतिः
अ᳓न्तो वा᳓ एष᳓ यज्ञ᳓स्य
य᳓द् दशम᳓म् अ᳓हः ।
मूलम्
अन्तो॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममहः॑ ।
भट्टभास्कर-टीका
1 अन्तो वा इत्यादि ॥ दशरात्रस्य प्राधान्यादेवमुक्तम् । इदं चतुर्होतृस्तुतिप्रसंगेनोच्यते ।
सायण-टीका
पञ्चमे प्रतिग्रह-मन्त्रा व्याख्याताः । षष्ठे द्वादशाह-भाग-गतस्य दश-रात्रस्य दशमेऽहनि होतृ-मन्त्रान् विधित्सुर्-आदौ तावत् सर्प-राज्ञीभिर्-ऋग्भिः स्तुतिं विधत्ते -
अन्तो वा एष यज्ञस्य। यद्-दशमम्-अहः । दशमेऽहन्त्सर्पराज्ञिया ऋग्भिः स्तुवन्ति । यज्ञस्यैव अन्तं गत्वा। अन्नाद्यम् अवरुन्धते, इति ।
यद्यपि दशमाद्-अह्नः ऊर्ध्व-भावि-उदयनीयाख्यम्-अहः द्वादशाह-यज्ञस्य अन्तः, तथापि उपान्त्यत्वाद्-अन्तत्वोपचारः ।
विश्वास-प्रस्तुतिः
दशमे᳓ऽहन्त् सर्पराज्ञि᳓या ऋग्भि᳓स् स्तुवन्ति ।
यज्ञ᳓स्यैवा᳓न्तङ् गत्वा᳓
ऽन्ना᳓द्यम् अ᳓व रुन्धते ।
मूलम्
द॒श॒मेऽह॑न्त्सर्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॑वन्ति ।
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वान्नाद्य॒मव॑ रुन्धते ।
भट्टभास्कर-टीका
सर्पराज्ञिया ऋचः ‘आयं गौः पृश्निरक्रमीत्’ इत्याद्याः । पौष्कल्येन यज्ञनिर्वृत्या अन्नादनसामर्थ्यमवरुन्धते ।
सायण-टीका
सर्प-राज्ञी भूमिः, तस्याः संबन्धिन्यः ऋचः “भूमिर्भूम्ना" इत्याद्यास्ताभिः स्तुतौ सत्यां द्वादशाह-यज्ञस्यान्तं प्राप्य समीचीनमन्नं प्राप्नोति । तस्यामृचि “अग्निमन्नाद्यायाऽऽदधे” इत्याम्नानात् ।
विश्वास-प्रस्तुतिः
तिसृ᳓भिस् स्तुवन्ति ।
त्र᳓य इमे᳓ लोकाः᳓ ।
एभ्य᳓ एव᳓ लोके᳓भ्यो
ऽन्ना᳓द्यम् अ᳓व रुन्धते ।
पृ᳓श्ञिवतीर् भवन्ति ।
अ᳓न्नव्ँ वै᳓ पृ᳓श्ञि ॥ 34 ॥
अ᳓न्नम् एवा᳓व रुन्धते ।
म᳓नसा प्र᳓स्तौति ।
म᳓नसो᳓द्गायति ।
म᳓नसा प्र᳓तिहरति ।
म᳓न इव हि᳓ प्रजा᳓पतिः ।
प्रजा᳓पतेर् आ᳓प्त्यै ।
मूलम्
ति॒सृभि॑स्स्तुवन्ति ।
त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्यो॒ऽन्नाद्य॒मव॑ रुन्धते ।
पृश्ञि॑वतीर्भवन्ति ।
अन्नव्ँ॒ वै पृश्ञि॑ ॥ 34 ॥
अन्न॑मे॒वाव॑ रुन्धते ।
मन॑सा॒ प्रस्तौ॑ति ।
मन॒सोद्गा॑यति ।
मन॑सा॒ प्रति॑हरति ।
मन॑ इव॒ हि प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।
भट्टभास्कर-टीका
तिसृभिरित्यादि । गतम् । प्रस्तावोद्गीथप्रतिहाराणां मानसत्वादव्यक्तत्वेन मनस्सदृशस्य प्रजापतेराप्त्यै भवति ॥
सायण-टीका
ऋक्-संख्यां विधत्ते-
तिसृभिः स्तुवन्ति ।
त्रय इमे लोकाः ।
एभ्य एव लोकेभ्योऽन्नाद्यम् अवरुन्धते ।
पृश्निमतीर् भवन्ति ।
अन्नं वै पृश्नि॑ (१) ।
अन्नम् एवावरुन्धते, इति ।
पृश्नि-शब्दः आस्व्-ऋक्षु विद्यते इति पृश्नि-वत्यः । अन्नस्य श्वेत-वर्णत्वात् पृश्नि-शब्द-वाच्यत्वम् ।
आस्व्-ऋक्षु गान-वेलायां प्रस्तावोद्गीथ-प्रतिहार-भागेषु मानस-गानं विधत्ते-
मनसा प्रस्तौति ।
मनसा उद्गायति ।
मनसा प्रतिहरति ।
मन इव हि प्रजापतिः ।
प्रजापतेर्-आप्त्यै, इति ।
जगत्-सृष्टेः पूर्वम् अव्यक्त-रूपत्वात् प्रजापतेर्-मनः-साम्यम् ।
मूलम्
दे॒वा वै स॒र्पाः । तेषा॑मि॒यँ राज्ञी॑ । यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॒वन्ति॑ । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ 35 ॥
विश्वास-प्रस्तुतिः
देवा᳓ वै᳓ सर्पा᳓स्
ते᳓षाम् इयँ᳓ रा᳓ज्ञी ।
य᳓त् सर्पराज्ञि᳓या ऋग्भि᳓स् स्तुव᳓न्त्य्
अस्या᳓म् एव᳓ प्र᳓तितिष्ठन्ति ॥ 35 ॥
मूलम्
दे॒वा वै स॒र्पास् तेषा॑मि॒यँ राज्ञी॑ ।
यत्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिस्स्तु॒वन्त्य् अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ 35 ॥
भट्टभास्कर-टीका
2 देवो वा इत्यादि ॥ देववत्पूज्याः सर्पाः । यद्वा - सर्पशीला जङ्गमाः, हे स्थावरेभ्यः पूज्यत्वाद्देवाः । तेषामियं पृथ्वी राज्ञी धारणपोषणादिना स्वामिनी । उक्तं च - ‘यद्वा अस्यां किं चार्चन्ति यदानृचुस्तेनेयं सर्पराज्ञी’ इत्यादि ।
सायण-टीका
ऋचां सर्प-राज्ञी-संवन्धं प्रशंसति -
देवा वै सर्पाः ।
तेषाम् इयं राज्ञी ।
यत् सर्प-राज्ञिया ऋग्भिः स्तुवन्ति ।
अस्यामेव प्रतितिष्ठन्ति (२), इति ।
सर्पन्ति गच्छन्ति इति देवाः सर्पाः, तेषां सर्पाणां देवानां राज्ञी भूमिः । भूमौ हि सर्पणं सु-शकम् । अतः तदीयाभिर्-ऋग्भिः स्तुतौ भूम्यां प्रतिष्ठा भवति ।
विश्वास-प्रस्तुतिः
च᳓तुर्-होतॄन् हो᳓ता व्या᳓चष्टे ।
स्तुत᳓म् अ᳓नुशँसति शा᳓न्त्यै ।
मूलम्
चतु॑र्होतॄ॒न् होता॒ व्याच॑ष्टे ।
स्तु॒तमनु॑शँसति॒ शान्त्यै॑ ।
भट्टभास्कर-टीका
चतुर्होतॄनिति ‘चितिस्स्रुक्’ इत्याद्यान् पञ्चानुवाकान् । स्तुत्यनन्तरं मनसा ‘आयं गौः’ इत्याद्याश्शंसति । शान्त्यर्थं भवति ।
सायण-टीका
यथोक्तस्तुतेरूर्ध्वं होतृ-मन्त्र-पाठं विधत्ते-
चतुर्होतॄन् होता व्याचष्टे । स्तुतम् अनुशंसति शान्त्यै, इति ।
स्तोत्रानुभावि-शंसनेन देवाः शान्ता अनुग्रहकरा भवन्ति ।
विश्वास-प्रस्तुतिः
अ᳓न्तो वा᳓ एष᳓ यज्ञ᳓स्य
य᳓द् दशम᳓म् अ᳓हः ।
एत᳓त् ख᳓लु वै᳓ देवा᳓नाम् परम᳓ङ् गु᳓ह्यम् ब्र᳓ह्म
य᳓च् च᳓तुर्-होतारः ।
दशमे᳓ऽहँश् च᳓तुर्होतॄन् व्या᳓चष्टे ।
यज्ञ᳓स्यैवा᳓न्तङ् गत्वा᳓
परम᳓न् देवा᳓नाङ् गु᳓ह्यम् ब्र᳓ह्मा᳓व रुन्धे ।
त᳓द् एव᳓ प्रकाश᳓ङ् गमयति ॥
त᳓द् एनम् प्रकाश᳓ङ् गत᳓म्
प्रकाश᳓म् प्रजा᳓नाङ् गमयति ।
मूलम्
अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ ।
यद्द॑श॒ममहः॑ ।
ए॒तत्खलु॒ वै दे॒वाना॑म्पर॒मङ्गुह्य॒म्ब्रह्म॑ ।
यच्चतु॑र्होतारः ।
द॒श॒मेऽहँ॒ श्चतु॑र्होतॄ॒न्व्याच॑ष्टे ।
य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा ।
प॒र॒मन्दे॒वाना॒ङ्गुह्य॒म्ब्रह्माव॑ रुन्धे ।
तदे॒व प्र॑का॒शङ्ग॑मयति ॥ 36 ॥
तदे॑नम्प्रका॒शङ्ग॒तम् ।
प्र॒का॒शम्प्र॒जाना॑ङ्गमयति ।
भट्टभास्कर-टीका
अन्तो वा इत्यादि । गतम् ॥
सायण-टीका
अहर्-विशेष-मन्त्र-विशेषयोः संबन्धं प्रशंसति-
अन्तो वा एषः यज्ञस्य । यद्दशममहः । एतत् खलु वै देवानां परमं गुह्यं ब्रह्म । यच्-चतुर्होतारः । द॒शमेऽहंश्चतुर्होतॄन्व्याच॑ष्टे । यज्ञस्यैवान्तं गत्वा परमं देवानां गुह्यं ब्रह्मावरुन्धे । तदेव प्रकाशं गमयति ( ३ ) । तदेनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति, इति ।
प्रथमानुवाकोक्तवत् व्याख्येयम् ।
विश्वास-प्रस्तुतिः
वा᳓चय्ँ यच्छति यज्ञ᳓स्य धृ᳓त्यै ।
मूलम्
वाचय्ँ॑यच्छति । य॒ज्ञस्य॒ धृत्यै॑ ।
भट्टभास्कर-टीका
3 वाचं यच्छतीति ॥ स्तोत्रशस्त्रसमाप्तौ वाचं यच्छति बहिर्वाचो वृत्तिं नियच्छति निवर्तयति । तद्यज्ञस्यैव धृत्यै भवति ॥
सायण-टीका
यदुक्तं सूत्र-कारेण - “औदुम्बरीं परिष्वज्योदरैः उपस्पृशन्तः वाग्यतास्तिष्ठन्ति” इति । तदेतद् विधत्ते-
वाचं यच्छति । यज्ञस्य धृत्यै, इति ।
यद् अप्य्-अन्यत् सूत्र-कारेणोक्तम् - “भूर्भुवः सुवर् इत्यह्ना रात्रिं ध्यात्वाऽधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृजेत्” इति ।
विश्वास-प्रस्तुतिः
यजमानदेवत्यव्ँ᳙ वा᳓ अ᳓हः ।
भ्रातृव्यदेवत्या᳙ रा᳓त्रिः ।
मूलम्
य॒ज॒मा॒न॒दे॒व॒त्यव्ँ॑ वा अहः॑ ।
भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ ।
भट्टभास्कर-टीका
4 यजमानदेवत्यं वा इति ॥ प्रकाशवत्तया तत्सामान्यात् । विपर्ययाद्रात्रिः भ्रातृव्यदेवत्या । छन्नं हि भ्रातृव्या अपकुर्वन्ति ।
सायण-टीका
तत्र ध्यान-वाग्-विसर्जने क्रमेण विधत्ते -
यजमान-देवत्यं वा अहः ।
भ्रातृव्य-देवत्या रात्रिः ।
अह्ना रात्रिं ध्यायेत् ।
भ्रातृव्यस्यैव तल्लोकं वृङ्क्ते ।
यद्दिवा वाचं विसृजेत् ।
अहर्भ्रातृव्यायोच्छिंषेत् ।
यन्नक्तं विसृजेत् ।
रात्रिं भ्रातृव्यायोच्छिंषेत् ।
अधि-वृक्ष-सूर्ये वाचं विसृजति ।
एतावन्तमेवास्मै लोकमुच्छिंषति ।
यावदादित्यो ऽस्तमेति (४), इति ॥
पृश्नि तिष्ठन्ति गमयति शिंषेत्पञ्च च ॥
इति कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मणे द्वितीयाष्टके द्वितीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
अहर्यथा प्रकाशं करोति तथा यजमानो देवताभ्यो हविः प्रकाशयतीति अह्नो यजमानो देवता । “पाप्मा भ्रातृव्यः” इति श्रुत्यन्तरात् पाप्मनश्च देव-हवि-विरोधात् रात्रेश्च प्रकाश-राहित्यात् रात्रेर्भ्रातृव्यो देवता ।
विश्वास-प्रस्तुतिः
अ᳓ह्ना रा᳓त्रिन् ध्यायेद् -
भ्रा᳓तृव्यस्यैव᳓ त᳓ल् लोकव्ँ᳓ वृङ्क्ते ।
मूलम्
अह्ना॒ रात्रि॑न्ध्यायेत् । भ्रातृ॑व्यस्यै॒व तल्लो॒कव्ँ वृ॑ङ्क्ते ।
भट्टभास्कर-टीका
अह्ना अहस्त्वेनाह्नो रूपेण रात्रिं ध्यायेत् । ततो रात्र्यभावात् भ्रातृव्यस्य लोकं स्थानं वृङ्क्ते वर्जयति ।
सायण-टीका
एवं सत्यहोरूपेण रात्रेर्यद्ध्यानं तेन रात्रिस्वरूपं भ्रातृव्यस्य तल्लोकवर्जितं भवति ।
विश्वास-प्रस्तुतिः
य᳓द् दि᳓वा वा᳓चव्ँ विसृजे᳓द्
अ᳓हर् भ्रा᳓तृव्यायो᳓च्छिँषेत् ।
य᳓न् न᳓क्तव्ँ विसृजे᳓द्
रा᳓त्रिम् भ्रा᳓तृव्यायो᳓च्छिँषेत् ।
मूलम्
यद्दिवा॒ वाचव्ँ॑विसृ॒जेत् । अह॒र्भ्रातृ॑व्या॒योच्छिँ॑षेत् । यन्नक्तव्ँ॑विसृ॒जेत् । रात्रि॒म्भ्रातृ॑व्या॒योच्छिँ॑षेत् ।
भट्टभास्कर-टीका
यद्दिवेत्यादि । यद्यह्नि वाचं विसृजेत् वागव्याजेनाहरनेन त्यक्तमिति भ्रातृव्यायाहरुच्छिंषेत् उच्छिष्टमिव त्यजेत् जह्यात्, रात्रौ चेत् रात्रिमुच्छिंषेत् भ्रातृव्याय । द्विविकरणत्वेन श्नंश्च ॥
सायण-टीका
दिवा रात्रौ वा वाग्विसर्गे स कालो भ्रातृव्यायावशेषितः स्यात् ।
विश्वास-प्रस्तुतिः
अधिवृक्षसूर्ये᳓ वा᳓चव्ँ वि᳓सृजति ।
मूलम्
अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचव्ँ॒विसृ॑जति ।
भट्टभास्कर-टीका
5 अधिवृक्षसूर्य इति ॥ सूर्यकार्य आतपस्सूर्यशब्देनोच्यते । वृक्षस्योपर्यातपस्तिष्ठति यस्मिन् काले न भूम्यां सोऽधिवृक्षसूर्यः । तिष्ठद्गुप्रभृतित्वेन अव्ययीभावे समासान्तोदात्तत्वम् ।
सायण-टीका
अतस्तत्परिहारायाधिवृक्षसूर्ये वाचं विसृजेत् । सूर्यशब्देनाऽऽतप उपलक्ष्यते ।
विश्वास-प्रस्तुतिः
एता᳓वन्तम् एवा᳓स्मै लोक᳓म् उ᳓च्छिँषति
या᳓वदादित्यो᳙ऽस्तम् ए᳓ति ॥ 37 ॥
मूलम्
ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिँ॑षति । याव॑दादि॒त्यो॑ऽस्त॒मेति॑ ॥ 37 ॥
भट्टभास्कर-टीका
एतावन्तमिति । ततःप्रभृति यावदादित्योऽस्तमेति एतावन्तमेव लोकं स्थानं एतत्तुल्यमतिसंकुचितं स्थानमुच्छिंषेत् उच्छेषयति अस्यै भ्रातृव्याय सर्वमन्यदपहरतीति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥
सायण-टीका
स च आतपो भूमिं परित्यज्य वृक्षम् अधिरुह्य तद्-अग्र एव यदा दृश्यते तदा वाग्-विसर्गे सति, ततः आरभ्य अस्तमयात् अर्वाग् एतावन्तम् अल्पम् एव कालम् अस्मै भ्रातृव्याय अवशेषयति ॥
इति श्रीमत्-सायणाचार्य-विरचिते माधवीये वेदार्थ-प्रकाशे कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मण-भाष्ये द्वितीय-काण्डे द्वितीय-प्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥