प्रस्तावः
चतुर्थे होतृ-मन्त्र-प्रशंसा कृता । पञ्चमे दक्षिणा-प्रतिग्रह-मन्त्रानुवाक-व्याख्यानं क्रियते । स च अनुवाकः आरण्यक-काण्ड एवम् आम्नातः -
देवस्य त्वा सवितुः प्रसवे । अश्विनोर्-बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् । तेन अमृतत्वम् अश्याम् । वयो दात्रे । मयो मह्यम् अस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । काम समुद्रम् आविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽङ्गीरसः प्रतिगृह्णातु ।
इति । सोऽयं तस्मिन्न्-अनुवाके एको मन्त्रः । हे प्रतिगृह्यमाण द्रव्य, सवितुर्-देवस्य प्रसवे प्रेरणे सति, अश्वि-संबन्धिभ्यां बाहु-दण्डाभ्यां पूष्ण-संबन्धिभ्यां हस्ताभ्यां त्वां प्रतिगृह्णामि । हे दक्षिणे देवि, वरुणो राजा हिरण्य-रूपां त्वाम् अग्नये प्रापयतु । तेन अभि-प्रापणेन प्रतिग्रह-दोषाभावाद् अहम् अमृतत्वम् अश्यां, नरकाभाव-रूपं प्राप्नुयाम् । इयं च दक्षिणा दात्रे वयोऽस्तु, पक्षी भूत्वा दातारं स्वर्गं नयतु इत्यर्थः । प्रतिग्रहीत्रे मह्यं मयः सुख-करम् अस्तु । कः प्रजापतिः इदं द्रव्यं कस्मै प्रजापतये दत्तवान् । अन्तर्यामि-रूपेण दातृ-प्रतिग्रहीत्रोः प्रेरकत्वात् । तथा कामः कामाय दत्तवान् । यथा प्रजापतिर्-अदृष्टः प्रेरकः तथा कामस्यादृष्टप्रेरकत्वात् । तस्मात् काम एव दाता प्रतिग्रहीता च । स्वर्गादि-फल-विषयः कामो दाता । ऐहिक-सुख-विषयः कामः प्रतिग्रहीता । ततो हे दक्षिणे, समुद्र-समानं कामं प्रविश । कामेन निमित्तेन त्वां प्रतिगृह्णामि । हे मद्-हृदय-वर्ति-कामदेव, तत्-द्रव्यं तुभ्यं भवतु । हे काम, ते त्वदर्थम् एव एषा दक्षिणा प्रवृत्ता । अङ्गिरो-गोत्रे समुत्पन्नः उत्तानाख्यः महर्षिस्त्वां प्रतिगृह्णातु ।
अथ वस्त्रादि-द्रव्य-विषयाः षोडश मन्त्राः तस्मिन्न्-अनुवाके एवम् आम्नाताः -
सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् । मनवे तल्पम् । त्वष्ट्रेऽजाम् । पूष्णेऽविम् । निर्ऋत्या अश्वतर-गर्दभौ । हिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रग्-अलंकरणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ब्रह्मण ओदनम् । समुद्रायाऽऽपः । उत्तानायाङ्गिरसायानः । वैश्वानराय रथम् ।
इति ।
एतेषु सर्वेषु मन्त्रेषु “देवि दक्षिणे” इत्यन्तः पूर्वानुषङ्गः । “तेन अमृतत्वम्” इत्यादिः उत्तरानुषङ्गः ।
तत्र च रथ-प्रतिग्रह-मन्त्रस्य उत्तरानुषङ्गात् पूर्वं काचिद् ऋग् एवम् आम्नाता -
वैश्वानरः प्रत्नथा नाकम् आरुहत् ।
दिवः पृष्ठं भन्दमानः सु-मन्मभिः ।
स पूर्ववत् जनयत् जन्तवे धनम् ।
समानम् अज्मा परियाति जागृविः ॥
इति ।
वैश्वानराख्यः देवः प्रत्नथा पुरातन-शरीर-धारी सन् स्वर्गम् आरूढवान् । स च दिवः पृष्ठं द्यु-लोकस्य उपरि-भागं मन्मभिर्-मनन-विशेषैर्-भन्दमानः कल्याणं कुर्वन् वर्तते । अयं यजमान इमां दक्षिणां दत्तवान् इत्येवं देवानाम् अग्रे स्मारयति इत्यर्थः । स वैश्वानरो जन्तवे प्राणि-रूपाय यजमानाय धनं पूर्ववत् जनयत् । यथा यजमानः पुरा दक्षिणां दत्तवान् तथैव तद्-अनुरूपं फलं जनयति । स वैश्वानरो जागृविः सावधानः सन् अज्मा स्वर्गे गमन-शीलः समानं परियाति, यावत् दक्षिणार्थं द्रव्यं दत्तं तेन सदृशं तत्-योग्यं फलं परितः प्रापयति ।
अस्या ऋचः उपर्य्-अनुषङ्गाभ्यां सह पूर्वोक्तः एव रथ-विषयः मन्त्रः तस्मिन्न्-अनुवाके एवम् आम्नातः -
राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेन अमृतत्वम् अश्याम् । वयो दात्रे । मयो मह्यम् अस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामः समुद्रम् आविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽङ्गीरसः प्रतिगृह्णातु ।
इति । अनुषङ्गं योजयित्वा प्रदर्शयितुं पुनः पाठः । सोऽयम् अनुवाकः अत्र व्याख्येयः ।
विश्वास-प्रस्तुतिः
देवा᳓ वै᳓ व᳓रुणम् अयाजयन् ।
मूलम्
दे॒वा वै वरु॑णमयाजयन् ।
मूलम्
स यस्यै॑यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑यत् । ताम॑व्लीनात् ।
विश्वास-प्रस्तुतिः
स᳓ य᳓स्यै-यस्यै देव᳓तायै द᳓क्षिणाम् अ᳓नयत् ता᳓म् अव्लीनात् ।
मूलम्
स यस्यै॑यस्यै दे॒वता॑यै॒ दक्षि॑णा॒मन॑य॒त् ताम॑व्लीनात् ।
भट्टभास्कर-टीका
1 देवा वा इत्यादि ॥ पूर्वं देवा ऋत्विजो भूत्वा वरुणमयाजयन् । वरुणो यस्य देवतायै आर्त्विज्यं कृतवत्यै दक्षिणामनयत् दत्तवान्, तां देवतां या दक्षिणा प्रतिगृहिता सा अव्लीनात् विशीर्णामकरोत् ‘व्ली विशरणे’ ।
सायण-टीका
तत्राऽऽदौ प्रतिग्रह-प्रकारं विधत्ते-
देवा वै वरुणम् अयाजयन् ।
स यस्यै यस्यै देवतायै दक्षिणाम् अनयत् ।
ताम् अव्लीनात् ।
तेऽब्रुवन् ।
व्यावृत्य प्रतिगृह्णाम ।
तथा नो दक्षिणा न वलेष्यतीति ।
ते व्यावृत्य प्रत्यगृह्णन् ।
ततो वै तान् दक्षिणां नाव्लीनात् ।
य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति ।
नैनं दक्षिणा व्लीनाति (१), इति ।
यदा देवाः स्वयम् ऋत्विजो भूत्वा वरुणं याजितवन्तः, तदा वरुण एकैकस्यै देवतायै दक्षिणां दत्त्वा तां देवतां विशीर्णाम् अकरोत् ।
मूलम्
ते॑ऽब्रुवन् । व्या॒वृत्य॒ प्रति॑गृह्णाम । तथा॑ नो॒ दक्षि॑णा॒ न व्ले॑ष्य॒तीति॑ ।
विश्वास-प्रस्तुतिः
ते᳓ऽब्रुवन्न् - “व्यावृ᳓त्य प्र᳓तिगृह्णाम , त᳓था नो द᳓क्षिणा न᳓ व्लेष्यती᳓“ति ।
मूलम्
ते॑ऽब्रुवन्न् - “व्या॒वृत्य॒ प्रति॑गृह्णाम॒ , तथा॑ नो॒ दक्षि॑णा॒ न व्ले॑ष्य॒ती"ति॑ ।
भट्टभास्कर-टीका
अथ ते देवा अब्रुवन् । व्यावृत्य व्यवधाय मध्ये कृत्वा प्रत्यगृह्णन् ।
सायण-टीका
ते च देवाः तत्-परिहारोपायम् अन्य-व्यवधानं निश्चित्य अग्नये हिरण्यं सोमाय वास इत्येवं तत्-तत्-द्रव्येषु देवतान्तर-व्यवधानेन स्वयं व्यावृत्ता भूत्वा प्रत्यगृह्णन् । ततो व्यवधानाद् इयं दक्षिणा तान् देवाञ्शीर्णान् न अकरोत् ।
विश्वास-प्रस्तुतिः
ते᳓ व्यावृ᳓त्य प्र᳓त्यगृह्णन् ।
मूलम्
ते व्या॒वृत्य॒ प्रत्य॑गृह्णन्न् ।
विश्वास-प्रस्तुतिः
त᳓तो वै᳓ ता᳓न् द᳓क्षिणा ना᳓व्लीनात् ।
मूलम्
ततो॒ वै तान्दक्षि॑णा॒ नाव्ली॑नात् ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ विद्वा᳓न्
व्यावृ᳓त्य द᳓क्षिणाम् प्रतिगृह्णा᳓ति
नै᳓नन् द᳓क्षिणा व्लीनाति ॥
“रा᳓जा त्वा व᳓रुणो नयतु
देवि दक्षिणेऽग्न᳓ये हि᳓रण्यम्” इ᳓त्याह ।
आग्नेयव्ँ᳓ वै᳓ हि᳓रण्यम् । स्व᳓यैवै᳓नद् देव᳓तया प्र᳓तिगृह्णाति ।
“सो᳓माय वा᳓स” इ᳓त्याह । सौम्यव्ँ᳓ वै᳓ वा᳓सः । स्व᳓यैवै᳓नद् देव᳓तया प्र᳓तिगृह्णाति ।
“रुद्रा᳓य गा᳓म्” इ᳓त्य् आह । रौद्री᳓ वै᳓ गौः᳓ । स्व᳓यैवै᳓नान् देव᳓तया प्र᳓तिगृह्णाति ।
“व᳓रुणाया᳓श्वम्” इ᳓त्याह ॥ 29 ॥
वारुणो᳓ वा᳓ अ᳓श्वः ।
स्व᳓यैवै᳓नन् देव᳓तया प्र᳓तिगृह्णाति ।
“प्रजा᳓पतये पु᳓रुषम्” इ᳓त्याह । प्राजापत्यो᳓ वै᳓ पु᳓रुषः । स्व᳓यैवै᳓नन् देव᳓तया प्र᳓तिगृह्णाति ।
मूलम्
य ए॒वव्ँ वि॒द्वान्व्या॒वृत्य॒ दक्षि॑णाम्प्रतिगृ॒ह्णाति॑ ।
नैन॒न्दक्षि॑णा व्लीनाति ॥28 ॥
राजा॑ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒ऽग्नये॒ हिर॑ण्य॒मित्या॑ह ।
आ॒ग्ने॒यव्ँ वै हिर॑ण्यम् ।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति ।
सोमा॑य॒ वास॒ इत्या॑ह ।
सौ॒म्यव्ँ वै वासः॑ ।
स्वयै॒वैन॑द्दे॒वत॑या॒ प्रति॑गृह्णाति ।
रु॒द्राय॒ गामित्या॑ह ।
रौ॒द्री वै गौः ।
स्वयै॒वैना॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
वरु॑णा॒याश्व॒मित्या॑ह ॥ 29 ॥
वा॒रु॒णो वा अश्वः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
प्र॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह ।
प्रा॒जा॒प॒त्यो वै पुरु॑षः ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
भट्टभास्कर-टीका
स्वयैव देवतया एनत् प्रतिगृह्णाति प्रतिग्राहयति, न स्वयं गृह्णातीत्यर्थो लक्ष्यते । यद्वा - भावप्रधानो निर्देशः । तत्तद्द्रव्यं देवताभावेन प्रतिगृह्णाति नात्मना । गतमन्यत् ।
सायण-टीका
अत्र अन्योऽप्येतैर्-मन्त्रैर्-देवतान्तर-व्यवधानं कृत्वा प्रतिगृह्णन् विशीर्णो नैव भवेत् ।
अथ मन्त्रेषु द्रव्याधिपतीनां देवानाम् एव प्रतिग्रहीतृत्वेन निर्देशात् तद्-व्यवधानेन प्रतिग्रहो न तु साक्षाद् इत्यमुं मन्त्राणाम् अभिप्रायं दर्शयति-
राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् इत्याह ।
आग्नेयं वै हिरण्यम् ।
स्वयैवैनद् देवतया प्रतिगृह्णाति ।
सोमाय वास इत्याह ।
सौम्यं वै वासः ।
स्वयैवैनद् देवतया प्रतिगृह्णाति ।
रुद्राय गाम् इत्याह ।
रौद्री वै गौः ।
स्वयैवैनां देवतया प्रतिगृह्णाति ।
वरुणायाश्वम् इत्याह ( २ ) ।
वारुणो वा अश्वः ।
स्वयैवैनं देवतया प्रतिगृह्णाति ।
प्रजापतये पुरुषम् इत्याह ।
प्राजापत्यो वै पुरुषः ।
स्वयैवैनं देवतया प्रतिगृह्णाति ।
मनवे तल्पम् इत्याह ।
मानवो वै तल्पः ।
स्वयैवैनं देवतया प्रतिगृह्णाति ।
उत्तानाय आङ्गिरसाय अन इत्याह ।
इयं वा उत्तान आङ्गिरसः (३) ।
अनया एव एनत् प्रतिगृह्णाति, इति ।
हिरण्यस्य अग्नि-रेतो-रूपत्वम् आधान-प्रकरणे श्रुतम् । तस्मात् तद् आग्नेयम् । वस्त्रादीनां सोमादि-संबन्धः शाखान्तरगतार्थ-वादेषु प्रसिद्ध इत्येवं वै-शब्देन सूच्यते । केषुचित् मन्त्रेषु व्याख्यानस्य व्युत्पादितत्वाद् अन्येष्वपि “त्वष्ट्रेऽजाम्” इत्यादिषु व्याख्यानम् उन्नेयम् ।
विश्वास-प्रस्तुतिः
“म᳓नवे त᳓ल्पम्” इ᳓त्याह । मानवो᳓ वै᳓ त᳓ल्पः । स्व᳓यैवै᳓नन् देव᳓तया प्र᳓तिगृह्णाति ।
मूलम्
“मन॑वे॒ तल्प॒"मित्या॑ह । मा॒न॒वो वै तल्पः॑ । स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
भट्टभास्कर-टीका
तल्पं शयनम् ।
विश्वास-प्रस्तुतिः
“उत्ताना᳓याङ्गीरसा᳓या᳓न” इ᳓त्याह ।
इयव्ँ᳓ वा᳓ उत्तान᳓ आङ्गीरसः᳓ ॥ 30 ॥
अन᳓यैवै᳓नत् प्र᳓तिगृह्णाति ।
मूलम्
उ॒त्ता॒नाया॑ङ्गीर॒सायान॒ इत्या॑ह ।
इ॒यव्ँ वा उ॑त्ता॒न आ॑ङ्गीर॒सः ॥ 30 ॥
अ॒नयै॒वैन॒त्प्रति॑गृह्णाति ।
भट्टभास्कर-टीका
इयं पृथिवी ।
उत्तान आङ्गीरसः । तस्मादनयैव एनत् अनः प्रतिगृह्णाति ॥
सायण-टीका
शकटमन्त्रे योऽयमुत्तानाख्यो देवस्तस्य भूमित्वेन प्रशंसनाद्भूम्यैव शकटं परिगृहीतं भवति ।
विश्वास-प्रस्तुतिः
वैश्वानर्य᳓र्चा᳓ र᳓थम् प्र᳓तिगृह्णाति ।
वैश्वानरो᳓ वै᳓ र᳓थः ।
स्व᳓यैवै᳓नन् देव᳓तया प्र᳓तिगृह्णाति ।
मूलम्
वै॒श्वा॒न॒र्यर्चा रथ॒म्प्रति॑गृह्णाति ।
वै॒श्वा॒न॒रो वै रथः॑ ।
स्वयै॒वैन॑न्दे॒वत॑या॒ प्रति॑गृह्णाति ।
विश्वास-प्रस्तुतिः
“ते᳓नामृतत्व᳓म् अश्याम्” इ᳓त्य् आह।
अमृ᳓तम् एवा᳓त्म᳓न् धत्ते ।
मूलम्
तेना॑मृत॒त्वम॑श्या॒मित्या॑ह । अ॒मृत॑मे॒वात्मन्ध॑त्ते ।
भट्टभास्कर-टीका
2 वैश्वानर्येति ॥ ‘वैश्वानरः प्रत्नथा’ इत्यनया । प्रकृतेन सावित्रेण कृताविदमिति केचित् । यदि प्रकृतोरथोऽस्ति न तत्रानया इत्यन्ये ।
सायण-टीका
रथप्रतिग्रहे – “वैश्वानरः प्रत्नथा” इत्येताम् ऋचं विधत्ते-
वैश्वानर्यर्चा रथं प्रतिगृह्णाति ।
वैश्वानरो वै देवतया रथः ।
स्वयैवैनं देवतया प्रतिगृह्णाति, इति ।
अश्याम्-इत्यस्य उत्तम-पुरुषस्य तात्पर्यं दर्शयति-
तेनामृतत्वमश्यामित्याह ।
अ॒मृत॑मे॒वाऽऽत्मन्ध॑त्ते, इति ।
मूलम्
विश्वास-प्रस्तुतिः
“व᳓यो दात्र᳓” इ᳓त्याह ।
व᳓य एवै᳓नङ् कृत्वा᳓
सुवर्गल्ँ᳓ लोक᳓ङ् गमयति ।
मूलम्
वयो॑ दा॒त्र इत्या॑ह । वय॑ ए॒वैन॑ङ्कृ॒त्वा । सु॒व॒र्गल्ँ लो॒कङ्ग॑मयति ।
भट्टभास्कर-टीका
वयो दात्र इति । दातुस्स्वर्गगमनाय वयः पक्षी भवत्वियं दक्षिणेति । तस्माद्वय एवात्मानं कृत्वा एनं दातारं स्वर्गं गमयति । यद्वा - शीघ्रतया वयस्त्वं पक्षित्वं ममास्तु । तस्माच्छीघ्रगामिनमेनं पक्षी कृत्वा पक्षिवच्छीघ्रं वा कृत्वा स्वर्गं प्रापयति । यद्वा - वयः आयुः दीर्घमस्तु, तस्माद्वयस्विनमेनं कृत्वा जीवयित्वा पश्चात्स्वर्गं प्रापयति ।
सायण-टीका
पक्षि-वाचकस्य वयः-शब्दस्य तात्पर्यं दर्शयति-
वयो दात्र इत्याह ।
वय एवैनं कृत्वा ।
सुवर्गं लोकं गमयति, इति ।
पक्षिवद्-उत्पतन-समर्थम् एनं यजमानं कृत्वेत्य्-अर्थः ।
मूलम्
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ॥ 31 ॥
यद्वै शि॒वम् ।
तन्मयः॑ ।
आ॒त्मन॑ ए॒वैषा परी॑त्तिः ।
विश्वास-प्रस्तुतिः
“म᳓यो म᳓ह्यम् अस्तु प्रतिग्रहीत्र᳓” इ᳓त्याह ॥ 31 ॥
य᳓द् वै᳓ शिव᳓म्
त᳓न् म᳓यः ।
आत्म᳓न एवै᳓षा᳓ प᳓रीत्तिः ।
मूलम्
“मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र” इत्या॑ह ॥ 31 ॥
यद्वै शि॒वम् तन्मयः॑ ।
आ॒त्मन॑ ए॒वैषा परी॑त्तिः ।
भट्टभास्कर-टीका
शिवं शान्तं सुखं मयः । आत्मन एषा परीत्तिः परिदानं रक्षा ‘पा रक्षणे’ ‘अच उपसर्गात्तः’ इति तादेशः । ‘दस्ति इति दीर्घत्वम् ।
सायण-टीका
मयः-शब्द-वाच्यस्य मङ्गलस्य सुखस्य स्व-संबन्ध-प्रार्थनया स्वस्य परिरक्षा क्रियते इति एतत्-तात्पर्यं दर्शयति -
मयो मह्यमस्तु प्रतिग्रहीत्र इत्याह (४) ।
यच्छिवम्, तन्मयः ।
आत्मन एवैषा परीत्तिः, इति ।
परीत्तिः परिदानं रक्षा ।
विश्वास-प्रस्तुतिः
“क᳓ इद᳓ङ् क᳓स्मा अदाद्” इ᳓त्याह ।
प्रजा᳓पतिर् वै᳓ क᳓स्,
स᳓ प्रजा᳓पतये ददाति ।
मूलम्
क इ॒दङ्कस्मा॑ अदा॒दित्या॑ह । प्र॒जाप॑ति॒र्वै कः । स प्र॒जाप॑तये ददाति ।
सायण-टीका
क-शब्दस्य प्रजापति-वाचकत्वं दर्शयति-
क इदं कस्मा अदाद् इत्याह ।
प्रजापतिर्वै कः ।
स प्रजापतये ददाति, इति ।
विश्वास-प्रस्तुतिः
“का᳓मᳵ का᳓माये᳓“त्याह । का᳓मेन हि᳓ द᳓दाति का᳓मेन प्रतिगृह्णा᳓ति ।
“का᳓मो दाता᳓, का᳓मᳶ प्रतिग्रहीते᳓“त्य् आह ॥
का᳓मो हि᳓ दाता᳓,
का᳓मᳶ प्रतिग्रहीता᳓ ।
मूलम्
काम॒ᳵ कामा॒येत्या॑ह । कामे॑न॒ हि ददा॑ति । कामे॑न प्रतिगृ॒ह्णाति॑ ।
कामो॑ दा॒ता काम॑ᳶ प्रतिग्रही॒तेत्या॑ह ॥ 32 ॥
कामो॒ हि दा॒ता ।
काम॑ᳶ प्रतिग्रही॒ता ।
भट्टभास्कर-टीका
प्रजापतिः प्रजापतये ददाति न मह्यं, काम एव प्रतिग्रहीता, नाहम् ।
सायण-टीका
दातृ-प्रतिग्रहीत्रोः काम एव प्रेरक इति एतत् प्रसिद्धम् इति दर्शयति-
कामः कामाय इत्याह ।
कामेन हि ददाति ।
कामेन प्रतिगृह्णाति, इति ।
कामस्य प्रेरकत्वे सति अन्वय-व्यतिरेकाभ्यां दातृत्वं प्रतिग्रहीतृत्वं च कामस्यैव पर्यवस्यति इति एतत् दर्शयति-
कामो दाता कामः प्रतिग्रहीतेत्याह ( ५ ) ।
कामो हि दाता ।
कामः प्रतिग्रहीता, इति ।
विश्वास-प्रस्तुतिः
“का᳓मँ समुद्र᳓म् आ᳓विशे᳓“त्य् आह ।
समुद्र᳓ इव हि᳓ का᳓मः ।
ने᳓व हि᳓ का᳓मस्या᳓न्तो᳓ऽस्ति,
न᳓ समुद्र᳓स्य ।
मूलम्
कामँ॑ समु॒द्रमावि॒शेत्या॑ह । स॒मु॒द्र इ॑व॒ हि कामः॑ । नेव॒ हि काम॒स्यान्तोऽस्ति॑ । न स॑मु॒द्रस्य॑ ।
भट्टभास्कर-टीका
समुद्र इव कामः, उभयोरनन्तत्वात् ।
सायण-टीका
अवसान-राहित्येन समुद्र-साम्यं दर्शयति-
कामं समुद्रम् आविश इत्याह ।
समुद्र इव हि कामः ।
नेव हि कामस्य अन्तोऽस्ति, न समुद्रस्य, इति ।
मूलम्
कामे॑न त्वा॒ प्रति॑गृह्णा॒मीत्या॑ह । येन॒ कामे॑न प्रतिगृ॒ह्णाति॑ । स ए॒वैन॑म॒मुष्मिल्ँ॑ लो॒के काम॒ आग॑च्छति ।
विश्वास-प्रस्तुतिः
“का᳓मेन त्वा प्र᳓तिगृह्णामी᳓“त्य् आह ।
ये᳓न का᳓मेन प्रतिगृह्णा᳓ति
स᳓ एवै᳓नम् अमु᳓ष्मिल्ँ लोके᳓
का᳓म आ᳓गच्छति ।
मूलम्
“कामे॑न त्वा॒ प्रति॑गृह्णा॒मी"त्या॑ह । येन॒ कामे॑न प्रतिगृ॒ह्णाति॒ स ए॒वैन॑म॒मुष्मिल्ँ॑ लो॒के काम॒ आग॑च्छति ।
भट्टभास्कर-टीका
अन्ताभावेन दुरुच्छेदत्वं लक्ष्यते, येन कामेन इच्छया प्रतिगृह्णाति अस्मै प्रयोजनाय इदं प्रतिगृह्णामीति गृह्णाति, स कामः काम्यमानोर्थः । परलोके एनमागच्छति उपतिष्ठति ।
सायण-टीका
कामेनेति-निमित्त-निर्देशः पर-लोके काम्यमान-फल-सिद्ध्यर्थम् इत्येतद् दर्शयति-
कामेन त्वा प्रतिगृह्णामीत्याह ।
येन कामेन प्रतिगृह्णाति ।
स एवैनममुष्मिंल्लोके काम आगच्छति, इति ।
विश्वास-प्रस्तुतिः
“का᳓मैत᳓त् त, एषा᳓ ते काम द᳓क्षिणे᳓“त्य् आह ।
का᳓म एव᳓ त᳓द्,
य᳓जमानोऽमु᳓ष्मिल्ँ लोके᳓ द᳓क्षिणाम् इच्छति ।
न᳓ प्रतिग्रहीत᳓रि ।
मूलम्
“कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णे"त्या॑ह । काम॑ ए॒व तद्यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के दक्षि॑णामिच्छति । न प्र॑तिग्रही॒तरि॑ ।
भट्टभास्कर-टीका
काम एवेति । अमुष्मिन् परलोके यः कामः अभिमतभोगः तन्निमित्तमेव दक्षिणादानमिच्छति यजमानः, न प्रतिग्रहीतृनिमित्तम् । तस्मादेनमागच्छति उपतिष्ठति । तत्ते काम एषा ते दक्षिणेति कामार्थत्वेनोच्यत इति । यद्वा - कामे दक्षिणाफलमिच्छति यजमानः परलोकविषयं, कामभोग्यत्वात्, न प्रतिग्रहीतरि कामनिमित्तं दक्षिणाफलममुष्मिन् लोके यजमान इच्छति ॥ न पुनरिदानीमेव प्रतिग्रहीतरि लब्धुमिच्छति । तस्मात्कामदक्षिणा च कामाय परिदीयते परलोके प्रतिदातुम् ॥
सायण-टीका
कामं संबोध्य द्रव्य-समर्पणं दक्षिणा-निर्देशश्च पर-लोके काम-देवतायामेव दक्षिणा-फल-वाञ्छयेत्येतद्दर्शयति-
कामैतत्त, एषा ते काम दक्षिणेत्याह । काम एव तद्यज॑मानोऽमुष्मिंल्लोके दक्षिणामिच्छति । न प्रतिग्रहीतरि, इति ।
न हि यजमानेन सह प्रतिग्रहीता स्वर्गं वाञ्छति । येन यजमानः प्रतिग्रहीतरि फलमिच्छेत् । काम-देवतायास्तु तत्र विद्यमानतया यजमानस्य दक्षिणा-फलेच्छा युक्ता ।
विश्वास-प्रस्तुतिः
य᳓ एवव्ँ᳓ विद्वा᳓न् द᳓क्षिणाम् प्रतिगृह्णा᳓त्य्
अनृणा᳓म् एवै᳓नाम् प्र᳓तिगृह्णाति ॥ 33 ॥
मूलम्
य ए॒वव्ँ वि॒द्वान्दक्षि॑णाम्प्रतिगृ॒ह्णाति॑ । अ॒नृ॒णामे॒वैना॒म्प्रति॑गृह्णाति ॥ 33 ॥
भट्टभास्कर-टीका
3 य एवमित्यादि ॥ एनां दक्षिणामनृणां परलोके दानफलप्रदामेव प्रतिगृह्णाति । यद्वा - यस्य दक्षिणायां प्रतिगृहीतायां ऋणं नास्ति नान्यद्दातव्यमवशिष्यते तादृशमेव कृत्वा प्रतिगृह्णाति । यद्वा - प्रतिग्रहीतुः ऋणाभाव उच्यते । यस्यां प्रतिगृहीतायां प्रतिग्रहीतुः ऋणं नास्ति, अपाकर्तव्यो दोष ऋणं, तद्रहितां निर्दोषामेव दक्षिणां प्रतिगृह्णाति ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयत्रपाठके पञ्चमोऽनुवाकः ॥
सायण-टीका
अत्र प्रतिग्रह-मन्त्र-तात्पर्यं संक्षिप्य दर्शयति-
य एवं विद्वान् दक्षिणां प्रतिगृह्णाति ।
अनृणाम् एवैनां प्रतिगृह्णाति ( ६ ), इति ॥
व्लीनात्यश्वम् इति आह, आङ्गिरसः, प्रतिग्रहीत्र इति आह, प्रतिग्रहीता इति आह, दक्षिणा इति आह, चत्वारि च ॥
इति कृष्ण-यजुर्वेदीय-तैत्तिरीय-ब्राह्मणे द्वितीयाष्टके द्वितीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
य एवम्-उक्त-प्रकारं विद्वान् एतैर्-मन्त्रैर्-देवतान्तर-व्यवधानं कृत्वा यः प्रतिगृह्णाति, स एनां दक्षिणाम् ऋण-रहिताम् एव प्रतिगृह्णाति । अन्यथा पर-द्रव्य-स्वीकाराद् ऋणवती दक्षिणा स्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीय-ब्राह्मणभाष्ये द्वितीयकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥