०४ जगत्सृष्टिकथनमुखेन होतृमन्त्रप्रशंसा

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् अकामयत - “प्र᳓ जायेये᳓“ति ।

मूलम्

प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॑ ।

भट्टभास्कर-टीका

1 प्रजापतिरित्यादि ॥ गतम् ।

सायण-टीका

तृतीये चतुर्होतृ-पञ्चहोतृ-मन्त्र-ग्रह-भागयोः पुरुषार्थ-प्रयोगो विहितः। चतुर्थे जगत्-सृष्टि-कथन-मुखेन होतृ-मन्त्र-प्रशंसा क्रियते। तत्र प्रथमं तावद् दशहोतारं प्रशंसति-

प्र॒जाप॑तिर् अकामयत प्रजायेयेति ।

विश्वास-प्रस्तुतिः

स᳓ एत᳓न् द᳓शहोतारम् अपश्यत् ।

मूलम्

स ए॒तन्दश॑होतारमपश्यत् ।

भट्टभास्कर-टीका

प्रभूतः स्यामिति कामयमानो दशहोतारमात्मन्यपश्यत् ।

विश्वास-प्रस्तुतिः

ते᳓न दशधा᳓ ऽऽत्मा᳓नव्ँ विधा᳓य
द᳓शहोत्राऽतप्यत ।

मूलम्

तेन॑ दश॒धाऽऽत्मानव्ँ॑वि॒धाय॒ दश॑होत्राऽतप्यत ।

भट्टभास्कर-टीका

तेन दशहोत्रा अतप्यत इष्टवानित्यर्थः । कथं कृत्वा? दशधा दशप्रकारं चित्त्यादिरूपेण दशधा विभिन्नमात्मानं विधाय तेनातप्यत प्राचीनेन तपोबलेन दशहोतारं दृष्ट्वा तदपेक्षितचित्त्यादिरूपेण दशधा आत्मानं विभज्य तेन दशहोत्रा साधनेन तपः कृतवानिति ।

सायण-टीका

स एतं दश-होतारम् अपश्यत्। तेन दशधात्मानं विधार्य। दशहोत्रातप्यत । तस्य चित्तिः स्रुग् आसीत्। चित्तम् आज्यम्। तस्यैतावत्येव वाग् आसीत्। एतावान् यज्ञ-क्रतुर् इति।

प्रजापतिः स्रष्टु-कामः तत्-साधनं वेदेषु विचार्य दशहोतृ-मन्त्रं दृष्ट्वा तत्-मन्त्रोक्त-प्रकारेण स्व-स्वरूपम् एव चित्ति-चित्त-वाग्-आद्यवयवैः दशधा दश-प्रकार-जातेन दशहोतृ-मन्त्रेण तपः कृतवान्। तपः-शब्दो ऽयं पर्यालोचन-वाची। पर्यालोचन-रूपं मानसं यज्ञं कृतवान् इति अर्थः।

विश्वास-प्रस्तुतिः

त᳓स्य चि᳓त्तिस् स्रु᳓ग् आ᳓सीत् +++(←“चादिलोपे विभाषा”)+++, चित्त᳓म् आ᳓ज्यम् +++(आसीत् )+++।

मूलम्

तस्य॒ चित्ति॒स्स्रुगासी॑त् । चि॒त्तमाज्य॑म् +++(आसीत् )+++।

भट्टभास्कर-टीका

तस्य तेन तप्यमानस्य चित्तिरेव स्रुगासीत् चित्तमेवाज्यमासीत्, बाह्याभावात् चित्तं मनः चित्तिः विज्ञानमात्मा । उपलक्षणत्वात् वागादयो वेद्यादयोऽभवन्, सर्वे ह्यान्तराः ।

सायण-टीका

तस्य मानस-यज्ञे प्रवृत्तस्य बाह्यसाधनाभावाद्येयं स्वकीया चित्तिर्निर्विकल्पकज्ञानहेतुभूताऽन्तःकरणवृत्तिः|चित्ति-निर्विकल्पक-ज्ञान-हेतु-भूतान्तःकरण-वृत्तिः सैव स्रुग् आसीत्। यत्तु चित्तं सविकल्पक-ज्ञान-साधनम् अन्तःकरणं तदेवाऽऽज्यम् । एवम् उत्तरत्रापि योज्यम्। तदेवं संगृह्य प्रदर्श्यते।

विश्वास-प्रस्तुतिः

त᳓स्यैता᳓वत्य् एव᳓ वा᳓ग् आ᳓सीत् +++(←“चादिलोपे विभाषा”?)+++।

मूलम्

तस्यै॒ताव॑त्ये॒व वागासी॑त् ।

भट्टभास्कर-टीका

तस्य तप्यमानस्य एतावति यावान् दशहोता तावत्येव मन्त्रात्मिका वागासीत् ।

सायण-टीका

तस्य प्रजापतेस् तदानीं दशहोतृ-मन्त्र-रूपा यावत्य् उच्चार्यत एतावत्य् एव वाग् आसीत्। इमम् एव पुनः पुनर् आवर्तयति। तत्र अन्यं वाक्-व्यापारं न करोति इत्य् अर्थः।

विश्वास-प्रस्तुतिः

एता᳓वान् यज्ञक्रतुः᳓ +++(आसीत्)+++।

मूलम्

ए॒तावा॑न् यज्ञक्र॒तुः +++(आसीत्)+++।

भट्टभास्कर-टीका

किंच तस्य एतावानेव यावान् दशहोत्रा होमश्चित्यादिसामग्रीकः तावानेव यज्ञक्रतुरासीत् । यूपवान्महाक्रतुर्यज्ञक्रतुः ।

सायण-टीका

तस्मिन् मन्त्रे यावान् अर्थः प्रतीयत एतावान् एव तदीयो यज्ञ-क्रतुः। न तु बाह्यानुष्ठान-रूपः। यज्ञ-शब्दो हविस्-त्याग-वाची। क्रतु-शब्दो हविस्-त्याग-युक्त-कृत्स्न-प्रयोगं वक्ति। तदेवं प्रजापत्यनुष्ठान-वाचित्वात् प्रशस्तो ऽयं दश-होतृ-मन्त्रः।

विश्वास-प्रस्तुतिः

स᳓ च᳓तुर्-होतारम् असृजत ।

मूलम्

स चतु॑र्होतारमसृजत ।

भट्टभास्कर-टीका

अथ स तथा तप्यमानः प्रजापतिः चतुर्होतारमसृजत ।

सायण-टीका

अथ चतुर्होतृ-मन्त्रं प्रशंसति-

स चतुर्होतारम् असृजत।

स प्रजापतिर् दशहोतृ-मन्त्रानुष्ठानेन सत्य-संकल्पः सन् स्व-संकल्पेन चतुर्होतृ-मन्त्रम् असृजत।

मूलम्

सो॑ऽनन्दत् ॥ 21 ॥
असृ॑क्षि॒ वा इ॒ममिति॑ ।

विश्वास-प्रस्तुतिः

सो᳓ऽनन्दद् - “अ᳓सृक्षि वा᳓ इम᳓म्” इ᳓ति ।

मूलम्

सो॑ऽनन्द॒द् - “असृ॑क्षि॒ वा इ॒म"मिति॑ ।

भट्टभास्कर-टीका

अथ तं दृष्ट्वा अनन्दत् अहृष्यत् असृक्षि सृष्टवानहमिमं महानुभावं व्याहृतीनां लोकानां च कारणं चतुर्होतारमिति । ‘लिङ्सिचावात्मनेपदेषु’ इति कित्त्वम् ।

सायण-टीका

सोऽनन्दत (१)। असृ॑क्षि वा इमम् इति।

स इमं मन्त्रं सृष्टवान् अस्मि इत्येवं हृष्टवान्।

विश्वास-प्रस्तुतिः

त᳓स्य सा᳓मो हवि᳓र् आ᳓सीत् ।

मूलम्

तस्य॒ सामो॑ ह॒विरासी॑त् ।

भट्टभास्कर-टीका

अथ तस्य प्रजापतेः सोमो बाह्यो हविरासीत् ।

सायण-टीका

तस्य सोमो हविरासीत् ।

तस्य संतोषयुक्तस्य प्रजापतेः संकल्पमात्रेण सोमवल्लीरसो हविरासीत् ।

विश्वास-प्रस्तुतिः

स᳓ च᳓तुर्होत्रा ऽतप्यत ।

मूलम्

स चतु॑र्होत्राऽतप्यत ।

भट्टभास्कर-टीका

अथ सोमं हविर्लब्धवान् सौम्यं हविः कृत्वा चतुर्होत्रा अतप्यत होमं कृतवान् ।

सायण-टीका

स चर्तुर्होत्राऽतप्यत ।

स पुनश्चतुर्होतृमत्रेण सोमाख्यं हविः प्रक्षिप्य होमानुष्ठानरूपं तपोऽकुरुत ।

विश्वास-प्रस्तुतिः

सो᳓ ऽताम्यत् ।

मूलम्

सो॑ऽताम्यत् ।

भट्टभास्कर-टीका

स तथा तप्यमानोऽताम्यत् तान्तोऽभवत् ।

सायण-टीका

सोऽताम्यत्। स भूर् इति व्याहरत्। स भूमिम् असृजत । अग्नि-होत्रं दर्श-पूर्णमासी यजूंषि। स द्वितीयम् अतप्यत। सोऽताम्यत्। स भुव इति व्याहरत्। (२) सोऽन्तरिक्षम् असृजत। चातुर्मास्यानि सामानि। स तृतीयम् अतप्यत। सोऽताम्यत्। स सुवर् इति व्याहरत्। स दिवम् असृजत। अग्निष्टोमम् उक्थ्यम् अतिरात्रम् ऋचः। एता वै व्याहृतय इमे लोकाः। इमान् खलु वै लोकान् अनु प्रजाः पशवश् छन्दांसि प्राजायन्त। य एवम् एताः प्रजापतेः प्रथमा व्याहृतीः प्रजाता वेद प्र प्रजया पशुभिर् मिथुनैर् जायते इति।

तेन स्व-व्यापारेण श्रान्तो दीर्घ-श्वासं कृतवान्।

विश्वास-प्रस्तुतिः

स᳓ “भू᳓र्” इ᳓ति व्या᳓हरत् ।

मूलम्

स “भू"रिति॒ व्याह॑रत् ।

भट्टभास्कर-टीका

अथ समं वेदेन भूरिति व्याहरत् अशब्दयत् ।

सायण-टीका

तत्-अनुकरण-रूपो भूरिति-शब्दः। स च प्रजापतिना व्याहृतत्वात् प्रथम-लोक-प्रकाशक-व्याहृति-रूपो मन्त्र इत्य् उच्यते।

विश्वास-प्रस्तुतिः

स᳓ भू᳓मिम् असृजत ।

मूलम्

स भूमि॑मसृजत ।

भट्टभास्कर-टीका

तया व्याहृत्या च भूमिमसृजत । भूरिति व्याहृतिर्भूमित्वेन परिणतोऽभवत् ।

सायण-टीका

तेन मन्त्रेण ज्ञातां तदर्थरूपां भूमिं संकल्प्यासृजत ।

विश्वास-प्रस्तुतिः

अग्निहोत्र᳓न् दर्शपूर्णमासौ᳓ य᳓जूँषि ।

मूलम्

अ॒ग्नि॒हो॒त्रन्द॑र्शपूर्णमा॒सौ यजूँ॑षि ।

भट्टभास्कर-टीका

अग्निहोत्रं दर्शपूर्णमासौ च यज्ञानामसृजत, यजूंषि च वेदानाम् ।

सायण-टीका

ततः संकल्पादेवाग्रिहोत्रादिकमसृजत |

विश्वास-प्रस्तुतिः

स᳓ द्विती᳓यम् अतप्यत ।
सो᳓ऽताम्यत् ।
स᳓ “भु᳓व” इ᳓ति व्या᳓हरत् ॥ 22 ॥
सो᳓ ऽन्त᳓रिक्षम् असृजत ।
चातुर्मास्या᳓नि सा᳓मानि ।

स᳓ तृती᳓यम् अतप्यत ।
सो᳓ऽताम्यत् ।
स᳓ “सु᳓वर्” इ᳓ति व्या᳓हरत् । स᳓ दि᳓वम् असृजत ।
अग्निष्टोम᳓म् उक्थ्य᳙म् अतिरात्र᳓म् ऋ᳓चः ।

मूलम्

स द्वि॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स “भुव॒” इति॒ व्याह॑रत् ॥ 22 ॥
सो॑ऽन्तरि॑क्षमसृजत ।
चा॒तु॒र्मा॒स्यानि॒ सामा॑नि ।

स तृ॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स “सुव॒"रिति॒ व्याह॑रत् । स दिव॑मसृजत ।
अ॒ग्नि॒ष्टो॒ममु॒क्थ्य॑मतिरा॒त्रमृचः॑ ।

भट्टभास्कर-टीका

स द्वितीयमित्यादि । गतम् ॥

सायण-टीका

एवं द्वितीयतृतीयपर्यायौ व्याख्यातव्यौ ।

विश्वास-प्रस्तुतिः

एता᳓ वै᳓ व्या᳓हृतय इमे᳓ लोकाः᳓ । इमा᳓न् ख᳓लु वै᳓ लोका᳓न्
अ᳓नु प्रजाᳶ᳓ पश᳓वश् छ᳓न्दाँसि प्रा᳓जायन्त ।

मूलम्

ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः । इ॒मान्खलु॒ वै लो॒काननु॑ प्र॒जाᳶ प॒शव॒श्छन्दाँ॑सि॒ प्राजा॑यन्त ।

भट्टभास्कर-टीका

2 एता वा इत्यादि ॥ एवमेता व्याहृतयः इमे लोकास्संजाताः लोकात्मना परिणताः । लोक्यन्त इति लोकाः यज्ञा वेदाश्च गृह्यन्ते । इमान् खलु लोकाननु एतल्लोकनिष्पत्त्या हेतुना । ‘अनुर्लक्षणे’ इति हेतावनोः कर्मप्रवचनीयत्वम् । प्रजाश्च पशवश्च छन्दांसि च प्राजायन्त ।

सायण-टीका

एवमुक्तेन प्रकारेणैता भूरादिव्याहृतय एव लोकत्रयरूपेण परिणताः । तानिमाल्लोकाननुसृत्य प्रजादिकमुत्पन्नम् । एतद्वेदनस्य प्रजादिप्राप्तिः फलम् ।

मूलम्

य ए॒वमे॒ताᳶ प्र॒जाप॑तेᳶ प्रथ॒मा व्याहृ॑ती॒ᳶ प्रजा॑ता॒ वेद॑ ॥ 23 ॥
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।

विश्वास-प्रस्तुतिः

य᳓ एव᳓म् एताᳶ᳓ प्रजा᳓पतेᳶ
प्रथमा᳓ व्या᳓हृतीᳶ प्र᳓जाता वे᳓द
प्र᳓ प्रज᳓या पशु᳓भिर् मिथुनै᳓र् जायते ।

मूलम्

य ए॒वमे॒ताᳶ प्र॒जाप॑तेᳶ प्रथ॒मा व्याहृ॑ती॒ᳶ प्रजा॑ता॒ वेद॒
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।

भट्टभास्कर-टीका

य एवमित्यादि । प्रजापतिव्याहरणपरिणामत्वात्सर्वे लोकादयस्तत्प्रजाता इति यो वेद स प्रजया पशुभिश्च मिथुनैः प्रजायते ॥

विश्वास-प्रस्तुतिः

स᳓ प᳓ञ्चहोतारम् असृजत ।
स᳓ हवि᳓र् ना᳓विन्दत ।

मूलम्

स पञ्च॑होतारमसृजत ।
स ह॒विर्नावि॑न्दत ।

मूलम्

तस्मै॒ सोम॑स्त॒नुव॒म्प्राय॑च्छत् ।
ए॒तत्ते॑ ह॒विरिति॑ ।

विश्वास-प्रस्तुतिः

त᳓स्मै सो᳓मस् तनु᳓वम् प्रा᳓यच्छद्
“एत᳓त् ते हवि᳓र्” इ᳓ति ।

स᳓ प᳓ञ्चहोत्रा ऽतप्यत ।

मूलम्

तस्मै॒ सोम॑स्त॒नुव॒म्प्राय॑च्छद् “ए॒तत्ते॑ ह॒वि"रिति॑ ।

स पञ्च॑होत्राऽतप्यत ।

भट्टभास्कर-टीका

3 स पञ्चहोतारमित्यादि ॥ हविः होमद्रव्यः ।

सायण-टीका

अथ पञ्चहोतृ-मन्त्रं प्रशंसति-

स पञ्च-होतारम् असृजत। स हविर् नाविन्दत। तस्मै सोमस् तनुवं प्रायच्छत्। “एतत् ते हविर्” इति। स पञ्च-होत्रातप्यत । सोऽताम्यत्। स प्रत्यङ्ङबाधत। सोऽसुरान् असृजत। तद् अस्याप्रियम् आसीत् (४)। तद् दुर्वर्णं हिरण्यम् अभवत्। तत् दुर्वर्णस्य हिरण्यस्य जन्म। स द्वितीयम् अतप्यत। सोऽताम्यत्। स प्राङ् अबाधत। स देवान् असृजत। तद् अस्य प्रियम् आसीत्। तत् सुवर्णं हिरण्यम् अभवत्। तत् सुवर्णस्य हिरण्यस्य जन्म। य एवं सुवर्णस्य हिरण्यस्य जन्म वेद (५)। सुवर्ण आत्मना भवति। दुर्वर्णोऽस्य भ्रातृव्यः। तस्मात् सुवर्णं हिरण्यं भार्यम्। सुवर्ण एव भवति। एनं प्रियं गच्छति न अप्रियम्, इति।

स प्रजापतिः पञ्चहोतृ-मन्त्रं सृष्ट्वा तेन होतुम् अलब्धे हविषि सोमस्य शरीरं हविष्ट्वेन लब्ध्वा पञ्चहोतृ-मन्त्रेण तं सोमं हुत्वा श्रान्तवान्।

विश्वास-प्रस्तुतिः

सो᳓ऽताम्यत् । स᳓ प्रत्य᳓ङ्ङ् अबाधत । सो᳓ऽसुरान् असृजत ।

मूलम्

सो॑ऽताम्यत् । स प्र॒त्यङ्ङ॑बाधत । सोऽसु॑रानसृजत ।

भट्टभास्कर-टीका

वेगेन प्रत्यग्वृत्तिरेव देहं पीडयन् प्राणवायुः प्रावर्तत । तस्यामवस्थायामसुरानसृजत ।

सायण-टीका

श्रान्तः सन्नसौ प्रत्यङ्ङबाधत निरुद्धमाणवृत्तिः सन् शरीरे एव महतीं पीडां प्राप्तवान् । तस्याम् उपद्रव-वेलायाम् असुरान् असृजत ।

विश्वास-प्रस्तुतिः

त᳓द् अस्या᳓प्रियम् आसीत् ॥ 24 ॥

मूलम्

तद॒स्याप्रि॑यमासीत् ॥ 24 ॥

भट्टभास्कर-टीका

तच्च अपानपीडनेन असुरान् जनयच्छरीरं अस्याप्रियमासीत्, तत् पीडनं वा ।

सायण-टीका

तेषामसुराणां सृष्टिहेतुभूतं तत्पीडायुक्तं शरीरमस्य प्रजापतेरप्रियमासीत् ।

विश्वास-प्रस्तुतिः

त᳓द् दुर्व᳓र्णँ हि᳓रण्यम् अभवत् । त᳓द् दुर्व᳓र्णस्य हि᳓रण्यस्य ज᳓न्म ।

मूलम्

तद्दु॒र्वर्णँ॒ हिर॑ण्यमभवत् । तद्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।

भट्टभास्कर-टीका

तत् दुर्वर्णं दुष्टवर्णं सीसताम्रादिकं हिरण्यमभवत् । सर्वलोहवचनो हिरण्यशब्दः । ‘हर्यगतिकान्त्योः’ ‘हर्यतेः कन्यन् हिरच्’ । तदिदं दुवर्णस्य हिरण्यस्य जन्म उत्पत्तिः ।

सायण-टीका

तच्चाप्रियं शरीरं दुर्वर्ण-हिरण्य-रूपेण निष्पन्नम् । हिरण्य-शब्दः सर्व-लोह-वाच्य्-अत्र । तत्र दुर्वर्ण-विशेषणात् रजत-सीस-ताम्रादि-वाची भवति । तत् एवं रजत-ताम्रादि-रूपस्य लोहस्य लोके जन्म संपन्नम् ।

विश्वास-प्रस्तुतिः

स᳓ द्विती᳓यम् अतप्यत ।
सो᳓ ऽताम्यत् ।
स᳓ प्रा᳓ङ् अबाधत ।
स᳓ देवा᳓न् असृजत ।

मूलम्

स द्वि॒तीय॑मतप्यत ।
सो॑ऽताम्यत् ।
स प्राङ॑बाधत ।
स दे॒वान॑सृजत ।

भट्टभास्कर-टीका

4 द्वितीयमित्यादि ॥ किंच अतप्यत । प्राङ् अनुकूलः प्राणश्च ऊर्ध्ववृत्तिरेव आत्मानमपीडयत् इतरनिरोधेन प्रवर्तनात् स देवान् असृजत सृष्टवान् ।

सायण-टीका

स प्रजापतिर्द्वितीयवारं पञ्चहोतृमत्रेण सोमद्रव्यं होमरूपं तपः कृत्वा श्रान्तः प्राङबाधत प्राङ्वृत्तिप्राणत्वाच्छ्वासनिरोधमन्तरेण तस्मिन्नवसरे देवानसृजत ।

विश्वास-प्रस्तुतिः

त᳓द् अस्य प्रिय᳓म् आसीत् ।

मूलम्

तद॑स्य प्रि॒यमा॑सीत् ।

भट्टभास्कर-टीका

तच्च शरीरमस्य प्रियमासीत् ।

सायण-टीका

श्रममात्रबाधां प्राप्तवान् । तदेव स्रष्टुः शरीरं प्रजापतेः प्रियं भूत्वा सुवर्णहिरण्यरूपेण परिणतम् ।

विश्वास-प्रस्तुतिः

त᳓त् सुव᳓र्णँ हि᳓रण्यम् अभवत् ।

मूलम्

तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।

भट्टभास्कर-टीका

तत्सुवर्णं शोभनवर्णं हिरण्यं जातरूपमभवत् ।

सायण-टीका

रजतादिव्यावृत्तये सुवर्ण विशेषणम् ।

विश्वास-प्रस्तुतिः

त᳓त् सुव᳓र्णस्य हि᳓रण्यस्य ज᳓न्म ।

मूलम्

तत्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ ।

भट्टभास्कर-टीका

तत्सुवर्णस्येत्यादि । गतम् ।

सायण-टीका

तदेवं लोके सुवर्णजन्म प्रवृत्तम् ।

विश्वास-प्रस्तुतिः

य᳓ एवँ᳓ सुव᳓र्णस्य हि᳓रण्यस्य ज᳓न्म वे᳓द ॥ 25 ॥
सुव᳓र्ण आत्म᳓ना भवति । दुर्व᳓र्णो ऽस्य भ्रा᳓तृव्यः ।

त᳓स्मात् सुव᳓र्णँ हि᳓रण्यम् भार्य᳙म् । सुव᳓र्ण एव᳓ भवति । ऐ᳓नम् प्रिय᳓ङ् गच्छति ना᳓प्रियम् ।

मूलम्

य ए॒वँ सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ॥ 25 ॥
सु॒वर्ण॑ आ॒त्मना॑ भवति । दु॒र्वर्णो॑ऽस्य॒ भ्रातृ॑व्यः ।

तस्मा॑त्सु॒वर्णँ॒ हिर॑ण्यम्भा॒र्य॑म् । सु॒वर्ण॑ ए॒व भ॑वति । ऐन॑म्प्रि॒यङ्ग॑च्छति॒ नाप्रि॑यम् ।

भट्टभास्कर-टीका

आत्मनेति । ‘प्रकृत्यादिभ्यः’ इति तृतीया । गतमन्यत् ॥

सायण-टीका

तज्-जन्म वेदिता स्व-शरीर-सौन्दर्येण मणि-मुक्ताद्याभरणेन सुवर्णो भवति । तद्-वैपरीत्येन भ्रातृव्यो दुर्वर्णो भवति । यस्मादेवं सुवर्णं प्रशस्तं, तस्मात् पुरुषेण हस्त-कर्णादौ सुवर्णाभरणं धार्यते । तेन लोक-द्वयेऽपि रमणीयो भवति । एनं सुवर्ण-धारिणं पुरुषं सत्कार-रूपं प्रियमेव प्राप्नोति, न तु कदाचिदपि तिरस्कारादि-रूपम् अप्रियं प्राप्नोति ।

विश्वास-प्रस्तुतिः

स᳓ सप्त᳓होतारम् असृजत ।
स᳓ सप्त᳓होत्रैव᳓ सुवर्गल्ँ᳓ लोक᳓म् ऐत् ।
त्रि-णवे᳓न स्तो᳓मेनैभ्यो᳓ लोके᳓भ्यो᳓ ऽसुरान् प्रा᳓णुदत ।
त्रयस्-त्रिँशे᳓न प्र᳓त्यतिष्ठत् ।
एकविँशे᳓न रु᳓चम् अधत्त ॥ 26 ॥
सप्तदशे᳓न प्रा᳓जायत ।

मूलम्

स स॒प्तहो॑तारमसृजत ।
स स॒प्तहो॑त्रै॒व सु॑व॒र्गल्ँ लो॒कमै॑त् ।
त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दत ।
त्र॒य॒स्त्रिँ॒शेन॒ प्रत्य॑तिष्ठत् ।
ए॒क॒विँ॒शेन॒ रुच॑मधत्त ॥ 26 ॥
स॒प्त॒द॒शेन॒ प्राजा॑यत ।

मूलम्

य ए॒वव्ँ वि॒द्वान्त्सोमे॑न॒ यज॑ते । स॒प्तहो॑त्रै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

विश्वास-प्रस्तुतिः

य᳓ एवव्ँ᳓ विद्वा᳓न्त् सो᳓मेन य᳓जते
सप्त᳓-होत्रैव᳓ सुवर्गल्ँ᳓ लोक᳓म् एति ।

त्रि-णवे᳓न स्तो᳓मेनैभ्यो᳓ लोके᳓भ्यो भ्रा᳓तृव्यान् प्र᳓णुदते ।
त्रयस्-त्रिँशे᳓न प्र᳓तितिष्ठति ।
एक-विँशे᳓न रु᳓चन् धत्ते ।
सप्तदशे᳓न प्र᳓ जायते ।

मूलम्

य ए॒वव्ँ वि॒द्वान्त्सोमे॑न॒ यज॑ते स॒प्तहो॑त्रै॒व सु॑व॒र्गल्ँ लो॒कमे॑ति ।

त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्प्रणु॑दते ।
त्र॒य॒स्त्रिँ॒शेन॒ प्रति॑तिष्ठति ।
ए॒क॒विँ॒शेन॒ रुच॑न्धत्ते ।
स॒प्त॒द॒शेन॒ प्र जा॑यते ।

भट्टभास्कर-टीका

5 स सप्तहोतारमित्यादि ॥ गतम् । सप्तहोतृफलप्रसंगेन स्तोमफलान्युच्यन्ते । एवं सप्तहोतृमाहात्म्यज्ञः सप्तहोतृकेण सोमेन यजते । शिष्टं स्पष्टम् ॥

सायण-टीका

अथ सप्त-होतृ-मन्त्रं प्रशंसति-

स सप्त-होतारम् असृजत । स सप्त-होत्रैव सुवर्गं लोकम् ऐत्, इति ।

स प्रजापतिः सप्त-होतृ-मन्त्रं सृष्ट्वा तेन हुत्वा स्वर्गं प्राप्तवान् । यद्यपि प्रजापतेर्-नैतत्-फलं युक्तं, तथाप्याचार-प्रवर्तकत्वेन स्वर्गं लोकं गतवान् इति नास्ति विरोधः ।

होम-शंसा-प्रसङ्गेन सामवेद-गतान् स्तोमान् प्रशंसति -

त्रिणवेन स्तोमेनैभ्यो लोकेभ्योऽसुरान् प्राणुदत ।
त्रयस्त्रिंशेन प्रत्यतिष्ठत् ।
एकविंशेन रुचम् अधत्त ( ६ ) ।
सप्तदशेन प्रजायत ।
य एवं विद्वान् सोमेन यजते ।
सप्त-होत्रैव सुवर्गं लोकम् एति ।
त्रिणवेन स्तोमेन एभ्यो लोकेभ्यो भ्रातृव्यान् प्रणुदते ।
त्रयस्त्रिंशेन प्रतितिष्ठति ।
एकविंशेन रुचं धत्ते ।
सप्तदशेन प्रजायते ।
तस्मात् सप्तदशः स्तोमो न निर्हृत्यः ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिम् एव मध्यतो धत्ते प्रजात्यै ( ७ ), इति ॥

अनन्दद्भुव इति व्याहरद्वेदाऽऽसीद्वेदाऽऽधत्त प्रजात्यै॥

स प्रजापतिः त्रिणवादि-स्तोमैः असुरान् मरणादि-फलेन एव योजयामास । तस्माद् अन्योऽपि एवं ज्ञात्वा सोमेन यजमानो दीक्षा-कालीन-सप्त-होतृ-होमेन स्वर्गं प्राप्नोति । त्रिणवादि-स्तोमैर्-भ्रातृव्य-निराकरणादि-फलं च प्राप्नोति ।

विश्वास-प्रस्तुतिः

त᳓स्मात् सप्तदश᳓स् स्तो᳓मो न᳓ निर्हृ᳓त्यः । प्रजा᳓पतिर् वै᳓ सप्तदशः᳓ ।

मूलम्

तस्मा॑त्सप्तद॒शस्स्तोमो॒ न नि॒र्हृत्यः॑ । प्र॒जाप॑ति॒र्वै स॑प्तद॒शः ।

भट्टभास्कर-टीका

6 तस्मादित्यादि ॥ यस्मात्सप्तदशेन प्रजायते तस्मादयं सप्तदशस्तोमो न निर्हृत्यः न बहिर्निरसितव्यः, अपितु मध्यत एव स्थाप्यः ।

सायण-टीका

यस्मात्सप्तदशस्तोमः प्रजोत्पत्तिहेतुस्तस्मादयं सोमयागाद्वहिर्न निःसारणीयः । किंतु यागमध्य एव प्रयोक्तव्यः ।

विश्वास-प्रस्तुतिः

प्रजा᳓पतिम् एव᳓ मध्यतो᳓ धत्ते प्र᳓जात्यै ॥ 27 ॥

मूलम्

प्र॒जाप॑तिमे॒व म॑ध्य॒तो ध॑त्ते॒ प्रजा॑त्यै ॥ 27 ॥

भट्टभास्कर-टीका

यस्मादयं सप्तदशः स्वयं प्रजापतिरेव प्रजापतिहोतृत्वात्, तस्मान्मध्ये निधानेन प्रजापतिरेव मध्ये निहितो भवति । तच्च प्रजात्यै भवति । हरतेः छान्दसः क्यप् ॥

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥

सायण-टीका

तस्य च सप्तदशस्तोमस्य सप्तदशाक्षरात्मकप्रजापतिसाम्यात्प्रजापतिमेव मध्ये स्थापयति तच्च प्रजोत्पत्त्यर्थं भवति ।