०२ चतुर्होत्रादिमन्त्राणां क्रत्वर्थप्रयोगः

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् अकामयत
दर्शपूर्णमासौ᳓ सृजेये᳓ति । स᳓ एत᳓ञ् च᳓तुर्होतारम् अपश्यत् ।

मूलम्

प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑ । स ए॒तञ्चतु॑र्होतारमपश्यत् ।

भट्टभास्कर-टीका

1 प्रजापतिरित्यादि ॥ चतुर्होता ‘पृथिवी होता’ इत्यादिः । ‘वाचस्पते वाचः’ इति ग्रहः ।

सायण-टीका

प्रथमे दश-होतृ-मन्त्रस्य क्रत्वर्थ-पुरुषार्थ-प्रयोग-द्वयं दर्शितम् । द्वितीये चतुर्-होत्रादि-मन्त्राणां क्रत्वर्थ-प्रयोगः प्रदर्श्यते । तत्र आदौ चतुर्-होतुः प्रयोगं विधत्ते -

प्रजापतिरकामयत दर्श-पूर्णमासौ सृजेयेति ।
स एतं चतुर्होतारमपश्यत् ।
तं मनसाऽनुद्रुत्य आहवनीयेऽजुहोत् ।
ततो वै स दर्श-पूर्णमासावसृजत ।
तावस्मात्सृष्टावपाक्रामताम् ।
तौ ग्रहेणागृह्णात् ।
तद्-ग्रहस्य ग्रहत्वम् ।
दर्श-पूर्णमासावालभमानः ।
चतुर्-होतारं मनसाऽनुद्रुत्य आहवनीये जुहुयात् ।
दर्श-पूर्णमासावेव सृष्ट्वाऽऽरभ्य प्रतनुते (१) ।
ग्रहो भवति ।
दर्श-पूर्णमासयोः सृष्ट्योर्धृत्यै, इति ।

चतुर्-होतृ-मन्त्र आरण्यकाण्डे समाम्नातः -

पृथिवी होता ।
द्यौरध्वर्युः ।
रुद्रोऽग्नीत् ।
बृहस्पतिरुपवक्ता इति ।

सोऽयं होतृ-भागः । तत्र पृथिव्यादयः प्रसिद्धाः, तथा होत्रादयश्च । उपवक्तृ-शब्देन समीपे स्थितत्वात् तत्-कर्मानुजानानो ब्रह्मा विवक्षितः । ग्रह-भागस्तु एवम् आम्नातः -

वाचस्पते वाचो वीर्येण ।
सम्भृत-तमेनाऽऽयक्ष्यसे ।
यजमानाय वार्यम् ।
आ सुवस्करस्मै ।
वाचस्पतिः सोमं पिबति ।
जजनदिन्द्रमिन्द्रियाय स्वाहा इति ।

हे वाचस्पते, अत्यन्तं सम्पादितेन मन्त्रात्मिकाया वाचः सामर्थ्येन त्वम् आसमन्ताद् यक्ष्यसे । अस्मै यजमानाय वार्यं वरणीयं, सुवः स्वर्गमाकः समन्तात् कुरु । अयं वाचस्पतिरस्मदीयेषु यागेषु सोमं पिबति । इन्द्रं देवम् इन्द्रियाय इन्द्रिय-समृद्ध्यर्थं [[जजनज्जनयन्प्रे(तु प्रे)रयत्वित्यर्थः|जजनत्, (अर्थात्) जनयन् प्रेरयतु इत्यर्थः]] । तदेतदुद्दिश्य जुहुधीति स्वकीया वागाह । होम-काले यथोक्त-ग्रहेण स्वाहा-कारेण च युक्तः चतुर्-होतृ-मन्त्रः प्रयोक्तव्यः ।

विश्वास-प्रस्तुतिः

त᳓म् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये ऽजुहोत् ।
त᳓तो वै᳓ स᳓ दर्शपूर्णमासा᳓व् असृजत ।
ता᳓व् अस्मात् सृष्टा᳓व् अ᳓पाक्रामताम् ।

मूलम्

तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स द॑र्शपूर्णमा॒साव॑सृजत ।
ताव॑स्मात्सृ॒ष्टावपा॑क्रामताम् ।

मूलम्

तौ ग्रहे॑णागृह्णात् ।तद्ग्रह॑स्य ग्रह॒त्वम् ।

द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः । चतु॑र्होतार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।

विश्वास-प्रस्तुतिः

तौ᳓ ग्र᳓हेणागृह्णात्
त᳓द् ग्र᳓हस्य ग्रहत्व᳓म् ।
दर्शपूर्णमासा᳓व् आल᳓भमानश्
च᳓तुर्-होतारम् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये जुहुयात् ।
दर्शपूर्णमासा᳓व् एव᳓ सृष्ट्वा᳓ऽऽर᳓भ्य प्र᳓तनुते ॥ 8 ॥

मूलम्

तौ ग्रहे॑णागृह्णा॒त् तद्ग्रह॑स्य ग्रह॒त्वम् ।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मानः। चतु॑र्होतार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।
द॒र्श॒पू॒र्ण॒मा॒सावे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते ॥ 8 ॥

भट्टभास्कर-टीका

आलभमानः प्राप्नुवन् । आहवनीये होमो विशेषः । समानमन्यत्पूर्वेण ॥

सायण-टीका

आलभमान उपक्रममाणः । अन्यत् सर्वं दश-होतृ-मन्त्रवद् व्याख्येयम् ।

मूलम्

ग्रहो॑ भवति । द॒र्श॒पू॒र्ण॒मा॒सयो॑स्सृ॒ष्टयो॒र्धृत्यै॑ ।

विश्वास-प्रस्तुतिः

ग्र᳓हो भवति
दर्शपूर्णमास᳓योस् सृष्ट᳓योर् धृ᳓त्यै ।

सो᳓ऽकामयत -
चातुर्मास्या᳓नि सृजेये᳓ति ।
स᳓ एत᳓म् प᳓ञ्चहोतारम् अपश्यत् ।
त᳓म् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓येऽजुहोत् ।
त᳓तो वै᳓ स᳓ चातुर्मास्या᳓न्य् असृजत ।
ता᳓न्य् अस्मात् सृष्टा᳓न्य्
अ᳓पाक्रामन् ।
ता᳓नि ग्र᳓हेणागृह्णात् ।
त᳓द् ग्र᳓हस्य ग्रहत्व᳓म् ।

मूलम्

ग्रहो॑ भवति दर्शपूर्णमा॒सयो॑स्सृ॒ष्टयो॒र्धृत्यै॑ ।

सो॑ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ ।
स ए॒तम्पञ्च॑होतारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत ।
तान्य॑स्मात्सृ॒ष्टान्यपा॑क्रामन् ।
तानि॒ ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।

मूलम्

चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ॥ 9 ॥
पञ्च॑होतार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते । ग्रहो॑ भवति । चा॒तु॒र्मा॒स्यानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।

विश्वास-प्रस्तुतिः

चातुर्मास्या᳓न्य् आल᳓भमानᳶ प᳓ञ्चहोतारम् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये जुहुयात् ।

मूलम्

चा॒तु॒र्मा॒स्यान्या॒लभ॑मान॒ᳶ पञ्च॑होतार॒म्मन॑ऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।

भट्टभास्कर-टीका

2 पञ्चहोता ॥ ‘अग्निर्होता’ इत्यादिः । ‘सोमस्सोमस्य'5 इत्यादिः ग्रहः ।

सायण-टीका

अथ पञ्च-होतुः प्रयोगं विधत्ते-

सोऽकामयत चातुर्मास्यानि॑ सृजेयेति ।
स एतं पञ्च॑-होतारमपश्यत् ।
तं मन॑साऽनुद्रुत्यऽऽहवनीयेऽजुहोत् ।
ततो वै स चातुर्मास्यान्य॑सृजत ।
तान्य॑स्मात्सृष्टान्यपाक्रामन् ।
तानि ग्रहेणागृह्णात् ।
तद्-ग्रहस्य ग्रहत्वम् ।
चातुर्मास्यान्यालभमानः (२) ।
पञ्च॑-होतारं मनसाऽनुद्रुत्यऽऽहव॒नीये जुहुयात् ।
चातुर्मास्यान्येव सृष्ट्वाऽऽरभ्य प्रत॑नुते ।
ग्रहो भवति ।
चातुर्मास्यानां सृष्टानां धृत्यै, इति ।

पञ्च-होतृ-मन्त्र आरण्यकाण्ड एवम् आम्नातः -

अग्निर्होता ।
अश्विनाऽध्वर्यू ।
त्वष्टाऽग्नीत् ।
मित्र उपवक्ता इति ।

अग्न्यादयः प्रसिद्धाः । अध्वर्युः प्रति-प्रस्थाता च इत्यध्वर्यु-द्वित्वेन होतृ-पञ्चकं पूरणीयम् । तत्र ग्रह-भाग एवम् आम्नातः -

सोमः सोमस्य पुरो-गाः ।
शुक्रः शुक्रस्य पुरो-गाः ।
श्रातास्त इन्द्रसोमाः ।
वातापेर्-हवन-श्रुतः स्वाहा इति ।

योऽयं देवताात्मकः सोमः, सोऽयं लतात्मकस्य सोमस्य याग-देशं प्रतत्यागमने पुरतो गच्छति । शुक्रो भासको देवतादि-प्रकाशको मन्त्रः शुक्रस्य गृह्यमाणतया भासमानस्य सोमस्य पुरतो गच्छति । आदौ मन्त्रं पठित्वा पश्चात् सोमा गृह्यन्ते । हे इन्द्र, त्वद्-अर्थम् एते सोमाः श्राताः, पक्वा आशिता वा । कीदृशस्य ते? वातापेः (वायुवद् आप्नोति सहसा गच्छति इति वातापिः) । तस्य हवनम् आह्वानं शृणोति इति हवन-श्रुत्, तस्य एतदर्थं जुहुधीति स्वकीया वाग् आह ।

विश्वास-प्रस्तुतिः

चातुर्मास्या᳓न्य् एव᳓ सृष्ट्वा᳓ ऽऽर᳓भ्य प्र᳓तनुते।
ग्र᳓हो भवति -
चातुर्मास्या᳓नाँ सृष्टा᳓नान् धृ᳓त्यै ।

मूलम्

चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्रत॑नुते॒ ग्रहो॑ भवति चातुर्मा॒स्यानाँ॑ सृ॒ष्टाना॒न्धृत्यै॑ ।

भट्टभास्कर-टीका

चतुर्षु चतुर्षु मासेषु भवानि चातुर्मास्यानि, चातुर्मास्याख्यो यज्ञः ‘तत्र भवः’ इति ण्यः ॥

सायण-टीका

अत्र सर्वत्र दर्श-पूर्णमास-चातुर्मास्यादीनाम् उपक्रमणं तद्-अभिमानि-चेतन-विषयं द्रष्टव्यम् । अन्यत् पूर्ववद् व्याख्येयम् ।

विश्वास-प्रस्तुतिः

सो᳓ऽकामयत - पशुबन्धँ᳓ सृजेये᳓ति ।
स᳓ एतँ᳓ ष᳓ड्-ढोतारम् अपश्यत् ।
त᳓म् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये ऽजुहोत् ।
त᳓तो वै᳓ स᳓ पशुबन्ध᳓म् असृजत ।

मूलम्

सो॑ऽकामयत पशुब॒न्धँ सृ॑जे॒येति॑ ।
स ए॒तँ षड्ढो॑तारमपश्यत् ।
तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् ।
ततो॒ वै स प॑शुब॒न्धम॑सृजत ।

विश्वास-प्रस्तुतिः

सो᳓ ऽस्मात् सृष्टो᳓ ऽपाक्रामत् ।
त᳓ङ् ग्र᳓हेणागृह्णात् ॥ 10 ॥
त᳓द् ग्र᳓हस्य ग्रहत्व᳓म् ।

मूलम्

सो॑स्मात्सृ॒ष्टोऽपा॑क्रामत् ।
तङ्ग्रहे॑णागृह्णात् ॥ 10 ॥
तद्ग्रह॑स्य ग्रह॒त्वम् ।

विश्वास-प्रस्तुतिः

पशुबन्धे᳓न यक्ष्य᳓माणश्
ष᳓ड्ढोतारम् म᳓नसाऽनुद्रु᳓त्याहवनी᳓ये जुहुयात् ।
पशु-बन्ध᳓म् एव᳓ सृष्ट्वा᳓ ऽऽर᳓भ्य प्र᳓ तनुते ।
ग्र᳓हो भवति
पशुबन्ध᳓स्य सृष्ट᳓स्य धृ᳓त्यै ।

मूलम्

प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः । षड्ढो॑तार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् । प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै॑ ।

भट्टभास्कर-टीका

3 पशुर्बध्यतेऽस्मिन्निति पशुबन्धः कर्म, अधिकरणे घङ् । थाथादिनोत्तरपदान्तोदात्तत्वम् । षण्ढोता ‘सूर्यं ते चक्षुः’ इति । वाचस्पतेऽच्छिद्रया'6 इति ग्रहः ॥

सायण-टीका

षड्-ढोतृ-मन्त्रस्य प्रयोगं विधत्ते-

सोऽकामयत पशु-बन्धं सृजेयेति ।
स एतं षड्-ढोतारमपश्यत् ।
तं मनसाऽनुद्रुत्याऽऽहवनीयेऽजुहोत् ।
ततो वै स पशु-बन्धमसृजत ।
सोऽस्मात् सृष्टोऽपक्रामत् ।
तं ग्रहेणाग्रह्णात् (३) ।
तद्-ग्रहस्य ग्रहत्वम् ।
पशु-बन्धेन यक्ष्यमाणः ।
षड्-ढोतारं मनसाऽनुद्रुत्याऽऽहवनीये जुहुयात् ।
पशु-बन्धमेव सृष्ट्वाऽऽरभ्य प्रतनुते ।
ग्रहो भवति ।
पशु-बन्धस्य सृष्टस्य धृत्यै, इति ।

षड्-ढोतृ-मन्त्र आरण्यकाण्ड एवम् आम्नातः -

सूर्यं ते चक्षुः ।
वातं प्राणः ।
द्यां पृष्ठम् ।
अन्तरिक्षम् आत्मा ।
अङ्गैर्यज्ञम् ।
पृथिवीं शरीरैः इति ।

हे पशो, योऽयं सूर्यः, स च ते चक्षुः । यो वायुः, स ते प्राणः । तथा च पशु-विषये अध्रिगु-प्रैषे समाम्नायते -

सूर्यं चक्षुर्गमयतात् ।
वातं प्राणमन्ववसृजतात् इति ।

सा द्यौस्ते पृष्ठ-भाग उपरिवर्तित्व-साम्यात् । यद् इदम् अन्तरिक्षं, ते त्वदीयः जीवात्मा मध्यवर्तित्व-साम्यात् । यानि हृदयादीनि अङ्गानि, तैर्यज्ञं सम्पादयेति शेषः । यानि अन्यानि अस्थ्यादीनि शरीर-गतानि, तैः पृथिवीं प्राप्नुहीति शेषः । “सूर्यं ते चक्षुः” इत्यादी अपि त्वदीयं चक्षुः सूर्यं प्राप्नोत्विति वा योजनीयम् । होम-निष्पादकस्य पशोः षड्-अङ्गानि चक्षुरादीनि अत्रोक्तानि इत्यस्य मन्त्रस्य षड्-ढोतृत्वम् । ग्रह-भाग एवम् आम्नातः -

वाचस्पतेऽच्छिद्रया वाचा ।
अच्छिद्रया जुह्वा ।
दिवि देव-वृधं होत्राम् ऐरयस्व स्वाहा इति ।

हे वाचस्पते, अच्छिद्रया वाचा, स्वराक्षर-पूर्णेन मन्त्रेण, अच्छिद्रया जुह्वा, घृत-सम्पूर्णया स्रुचा, देव-वृधं देवानां वर्धयित्रीं होत्रां दिवि द्यु-लोके एरयस्व सर्वतः प्रेरय । एवम्-अर्थम् उद्दिश्य जुहुधीति स्वकीया वाग् आह । अन्यत् पूर्ववद् व्याख्येयम् ।

विश्वास-प्रस्तुतिः

सो᳓ऽकामयत “सौम्य᳓म् अध्वरँ᳓ सृजेये᳓“ति । स᳓ एतँ᳓ सप्त᳓होतारम् अपश्यत् । त᳓म् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये ऽजुहोत् । त᳓तो वै᳓ स᳓ सौम्य᳓म् अध्वर᳓म् असृजत ॥ 11॥

सो᳓ ऽस्मात् सृष्टो᳓ऽपाक्रामत् । त᳓ङ् ग्र᳓हेणागृह्णात् ।
त᳓द्ग्र᳓हस्य ग्रहत्व᳓म् ।

मूलम्

सो॑ऽकामयत सौ॒म्यम॑ध्व॒रँ सृ॑जे॒येति॑ । स ए॒तँ स॒प्तहो॑तारमपश्यत् । तम्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ऽजुहोत् । ततो॒ वै स सौ॒म्यम॑ध्व॒रम॑सृजत ॥ 11॥

सो॑ऽस्मात्सृ॒ष्टोऽपा॑क्रामत् । तङ्ग्रहे॑णागृह्णात् ।
तद्ग्रह॑स्य ग्रह॒त्वम् ।

मूलम्

दी॒क्षि॒ष्यमा॑णः । स॒प्तहो॑तार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।

विश्वास-प्रस्तुतिः

दीक्षिष्य᳓माणस्
सप्त᳓होतारम् म᳓नसा ऽनुद्रु᳓त्याहवनी᳓ये जुहुयात् ।

मूलम्

दी॒क्षि॒ष्यमा॑णस् स॒प्तहो॑तार॒म्मन॑साऽनु॒द्रुत्या॑हव॒नीये॑ जुहुयात् ।

मूलम्

सौ॒म्यमे॒वाध्व॒रँ सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । सौ॒म्यस्या॑ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै॑ ।

विश्वास-प्रस्तुतिः

सौम्य᳓म् एवा᳓ध्वरँ᳓ सृष्ट्वा᳓ऽऽर᳓भ्य प्र᳓ तनुते ।

ग्र᳓हो भवति।
सौम्य᳓स्याध्वर᳓स्य सृष्ट᳓स्य धृ᳓त्यै ।

मूलम्

सौ॒म्यमे॒वाध्व॒रँ सृ॒ष्ट्वाऽऽरभ्य॒ प्र त॑नुते॒ , ग्रहो॑ भवति सौ॒म्यस्या॑ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै॑ ।

भट्टभास्कर-टीका

4 सप्तहोता ‘महाहविर्होता’ इति । ‘वाचस्पते हृद्विधे नामन्'7 इति ग्रहः ॥

सायण-टीका

सप्त-होतृ-मन्त्रस्य प्रयोगं विधत्ते-

सोऽकामयत सौम्यम्-अध्व॒रं सृजेयेति॑ ।
स ए॒तं स॒प्त-हो॑तारमपश्यत् ।
तं मन॑साऽनुद्रुत्य आहवनीयेऽजुहोत् ।
ततो वै स सौम्यम्-अध्व॒रम्-असृजत (४) ।
सोऽस्मात् सृष्टोऽपाक्रामत् ।
तं ग्रहेणागृह्णात् ।
तद्-ग्रहस्य ग्रहत्वम् ।
दीक्षिष्यमाणः ।
स॒प्त-हो॑तारं मन॑साऽनु॒द्रुत्य आहव॒नीये जुहुयात् ।
सौम्यम् एवाध्वरं सृष्ट्वाऽऽरभ्य प्रत॑नु॒ते ।
ग्रहो भवति ।
सौम्य॒स्याध्व॒रस्य॑ सृष्टस्य धृत्यै, इति ।

न विद्यते ध्वरो (हिंसा) यस्य अग्निष्टोमादेः, सोऽयम् अध्वरः । न हि तद्-अनुष्ठायिनः काचिद् हिंसाऽस्ति । तस्य स्वर्ग-कामस्यापि हेतुत्वात् । स च सोम-द्रव्येण निष्पाद्यत्वात् सौम्यः । सप्त-होतृ-मन्त्रश्च आरण्यकाण्ड एवम् आम्नातः -

महा-हविर्-होता ।
सत्य-हविर्-अध्वर्युः ।
अच्युत-पाजा अग्नीत् ।
अच्युत-मना उपवक्ता ।
अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ ।
अयास्य उद्गाता इति ।

महा-हविः, सत्य-हविर्-इत्याद्याः अयास्यान्ताः सप्त-संख्याकाः महर्षयः, तन्-महर्षि-स्वरूपा मन्त्र-गता अत्रत्या होत्रादयो यज्ञस्य सोम-यागस्य अभिगरौ अभित उद्गातुः पुरस्तात्-पश्चात् च गृणीतः प्रस्तार-प्रतिहार-भागौ गायत इति प्रस्तोतृ-प्रतिहर्तारौ अभिगरौ । होता, अध्वर्युः, आग्नीध्रः, ब्रह्मा, प्रस्तोता, प्रतिहर्ता, उद्गाता इति सप्त-संख्याकाः होम-निष्पादका अत्रोक्ता इत्ययं मन्त्रः सप्त-होतेत्युच्यते । अस्य ग्रह-भागस्तु एवम् आम्नातः -

वाचस्पते हृद्-विधे नामन् ।
विधेम ते नाम ।
विधेस्त्वमस्माकं नाम ।
वाचस्पतिः सोममपात् ।
मा दैव्यस्तन्तुश्छेदि मा मनुष्यः ।
नमो दिवे ।
नमः पृथिव्यै स्वाहा इति ।

हे वाचस्पते, हे हृद्-विधे (हृदयस्य विधातः), चित्त-प्रेरक इत्यर्थः । हे नामन् (सर्व-जन-संबन्धि-प्रणाम-युक्त), ते तुभ्यं नाम (नमनं प्रणतिं) विधेम (कुर्मः) । त्वं च अस्माकं नाम विधेः, देवानां मध्ये सम्यग्-इष्टवान् इति प्रसिद्धं नाम-धेयं कुरु । अयं वाचस्पतिः सोमम् अपात् (पीतवान्) । दैव्यस्तन्तुः (मद्-गृहे हविः-स्वीकारार्थम् आगतो देव-संबन्धी संतानः) मा च्छेदि, कदाचिदपि विच्छिन्नो मा भूत् । तथा मम मनुष्य-तन्तुः (ऋत्विक्-प्रवाहः) अपि विच्छिन्नो मा भूत् । द्यावा-पृथिवीभ्यां नमोऽस्तु । तमिमम् अर्थम् उद्दिश्य जुहुधीति स्वकीया वाग् आह ।

तेन अनेन ग्रह-स्वाहाकार-सहितेन सप्त-होत्रा दीक्षार्थी जुहुयात् । सोम-यागस्य दीक्षादित्वेन तद्-आरम्भार्थ एव अयं होमः । दीक्षाद्यङ्गेषु अग्नीषोमीय-पशोः अन्तर्भावात् तस्य यद्यपि पृथग्-उपक्रमो नास्ति, तथापि निरूढ-पशु-बन्ध-वायव्यादीनाम् अनन्तर्भावात् तदर्थः पूर्वो मन्त्र-होमः । अन्यत् पूर्ववद् व्याख्येयम् ।

विश्वास-प्रस्तुतिः

देवे᳓भ्यो वै᳓ यज्ञो᳓ न᳓ प्रा᳓भवत् ।

मूलम्

दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् ।

विश्वास-प्रस्तुतिः

त᳓म् एताव् अच्छ᳓स् स᳓मभरन्न्
य᳓त् सम्भाराः᳓ । त᳓तो वै᳓ ते᳓भ्यो यज्ञᳶ᳓ प्रा᳓भवत् ।

मूलम्

तमे॑ताव॒च्छस्सम॑भरन्न् ॥ 12 ॥
यत्स॑म्भा॒राः । ततो॒ वै तेभ्यो॑ य॒ज्ञᳶ प्राभ॑वत् ।

भट्टभास्कर-टीका

5 देवेभ्यो वा इत्यादि ॥ न प्राभवत् न पर्याप्तोऽभवत् ।

सायण-टीका

तद्-एवं चतुर्-होत्रादि-चतुष्टयस्य क्रत्वर्थः प्रयोग उक्तः । अथ संभार-यजु-मन्त्राणां क्रत्वर्थ-प्रयोगं विधत्ते-

देवेभ्यो वै यज्ञो न प्राभ॑वत् ।
तम् एतावच्छः समभरन् ( ५ ) ।
यत् संभराः ।
ततो वै तेभ्यो यज्ञः प्राभ॑वत् ।
यत् संभाराः भवन्ति ।
यज्ञस्य प्रभूत्यै, इति ।

योऽयम् अग्निष्टोमादिर्-यज्ञः स देवेभ्यः पर्याप्तो नाभूत्, तत्-साधनेषु वैकल्य-सम्भवात् ।

विश्वास-प्रस्तुतिः

य᳓त् सम्भारा᳓ भ᳓वन्ति
यज्ञ᳓स्य प्र᳓भूत्यै ।

मूलम्

यत्स॑म्भा॒रा भव॑न्ति । य॒ज्ञस्य॒ प्रभू॑त्यै ।

भट्टभास्कर-टीका

अथ तं यज्ञं देवा एतावच्छः एतावत्प्रमाणैरवयवैः यावत्प्रमाणास्संभाराः संभारयजूंषि ‘अग्निर्यजुर्भिः’ इत्यादीनि एतावच्छः समभरन् ‘यत्तदेतेभ्यः परिमाणे वतृप्’ । ‘बहुगणवतुडति’ इति संख्यातात् ‘संख्यैकवचनाच्च’ इति शम् ॥

सायण-टीका

तदा देवास्तं यज्ञं संभाराः (संभार-यजुर्-आख्या मन्त्राः) यावन्तः सन्ति, तावद्भिः समभरन्, सम्पूर्तिर्यथा भवति तथा पोषितवन्तः । ततस्तेभ्यो देवेभ्यः स यज्ञः पर्याप्तोऽभवत् । संभार-यजूंषि च आरण्यकाण्ड एवम् आम्नातानि -

अग्निर्यजुभिः ।
सविता स्तोमैः ।
इन्द्र उक्था-मदैः ।
मित्रावरुणावाशिषा ।
अङ्गिरसोऽधिष्णियैरग्निभिः ।
मरुतः सदो-हविर्धानाभ्याम् ।
आपः प्रोक्षणीभिः ।
ओषधयो बर्हिषा ।
अदितिर्वेद्या ।
सोमो दीक्षया ।
त्वष्टेध्मेन ।
विष्णुर्यज्ञेन ।
वसव आज्येन ।
आदित्या दक्षिणाभिः ।
विश्वे देवा ऊर्जा ।
पूषा स्वगा-कारेण ।
बृहस्पतिः पुरोधया ।
प्रजापतिरुद्गीथेन ।
अन्तरिक्षं पवित्रेण ।
वायुः पात्रैः ।
अहं श्रद्धया इति ।

अत्र अग्नि-सवित्रादयो देवा यजुः-स्तोमादीनि यज्ञे संभरणीयानि अङ्गानि । एते देवास्तैः संभरणीयैः सह अस्मिन् कर्मणि आगच्छन्तु इति वाक्यार्थः । उक्था-मद-शब्दः शस्त्र-वाची । यज्ञ-शब्दो हविः-प्रक्षेप-वाची । स्वगा-कारः शंयु-वाक-मन्त्रः । पुरोधा ग्रहण-काले पठनीया पुरो-रुक् । पवित्र-शब्दो दशा-पवित्र-वाची । अहं यजमानः श्रद्धया सह आगच्छामि । त एते संभार-मन्त्राः प्रयोक्तव्याः । तेन यज्ञस्य प्रभूतिः पर्याप्तिर्भवति ।

विश्वास-प्रस्तुतिः

आतिथ्य᳓म् आसा᳓द्य व्या᳓चष्टे - यज्ञ-मुखव्ँ᳓ वा᳓ आतिथ्य᳓म्।
मुखत᳓ एव᳓ यज्ञँ᳓ सम्भृ᳓त्य प्र᳓ तनुते ।

मूलम्

आ॒ति॒थ्यमा॒साद्य॒ व्याच॑ष्टे ।
य॒ज्ञ॒मु॒खव्ँ वा आ॑ति॒थ्यम् ।
मु॒ख॒त ए॒व य॒ज्ञँ स॒म्भृत्य॒ प्र त॑नुते ।

भट्टभास्कर-टीका

6 आतिथ्यमित्यादि ॥ अतिथय इदं आतिथ्यं ‘अतिथेर्ण्यः’ आतिथ्यं द्रव्यमासाद्य अन्तर्वेद्यानीय संभारयजूंषि व्याचष्टे ॥

सायण-टीका

सामान्यतो यज्ञ-सम्बन्धेन विहितानां संभार-यजुषां पुनः स्थान-विशेषं विधत्ते -

आतिथ्यम् आसाद्य व्याचष्टे ।
यज्ञ-मुखं वा आतिथ्यम् ।
मुखत एव यज्ञः संसृत्य प्रत॑नुते, इति ।

आतिथ्येष्टौ “अग्नेरातिथ्यमसि” इत्यादिभिः मन्त्रैर्निरुप्तं यद्धविस्तदेतद्-वेदि-मध्ये आसाद्य पूर्वोक्तानि अग्निर्यजुर्भिरित्यादीनि संभार-यजूंषि पठनीयानि । आतिथ्य-हविषोऽनुष्ठास्यमानस्य सोम-यज्ञ-मुखत्वान्मुखत एव सम्पूर्णावयव-यज्ञं सम्पाद्य विस्तारयति ।

विश्वास-प्रस्तुतिः

अ᳓यज्ञो वा᳓ एष᳓
यो᳓ऽपत्नी᳓कः ।
न᳓ प्रजाᳶ᳓ प्र᳓जायेरन् ।

प᳓त्नीर् व्या᳓चष्टे -
यज्ञ᳓म् एवा᳓कᳶ
प्रजा᳓नाम् प्रज᳓ननाय ।

मूलम्

अय॑ज्ञो॒ वा ए॒षः । यो॑ऽप॒त्नीकः॑ । न प्र॒जाᳶ प्रजा॑येरन् ।

पत्नी॒र्व्याच॑ष्टे । य॒ज्ञमे॒वाकः॑ । प्र॒जाना॑म्प्र॒जन॑नाय ।

भट्टभास्कर-टीका

7 अयज्ञो वा इत्यादि ॥ पत्नीः ‘सेनेन्द्रस्य’ इत्याद्याः पत्नीर्व्याचष्टे । सपत्नकित्वाद्यज्ञमेव करोति, स च प्रजानां प्रजननाय भवति ॥

सायण-टीका

अथ देव-पत्न्याख्यान् मन्त्रान् क्रत्वर्थतया विधत्ते-

अयज्ञो वा एषः, योऽपत्नीकः ।
न प्रजाः प्रजायेरन् ।
पत्नीर्व्याचष्टे ।
यज्ञमेवाकः ।
प्रजानां प्रजननाय, इति ।

यो देव-पत्नी-मन्त्र-रहितः, स तावद् यज्ञ एव न भवति, कुतस्तस्य फल-पर्यन्तता? तस्मात् तादृशानुष्ठाने प्रजा नोत्पद्येरन् । अतः तत्-परिहाराय देव-पत्नी-मन्त्रान् विस्पष्टं पठेत् । ते च मन्त्रा आरण्यकाण्ड एवम् आम्नायन्ते –

सेना इन्द्रस्य ।
धेना बृहस्पतेः ।
पथ्या पूष्णः ।
वाग्वायोः ।
दीक्षा सोमस्य ।
पृथिव्यग्नेः ।
वसूनां गायत्री ।
रुद्राणां त्रिष्टुक् ।
आदित्यानां जगती ।
विष्णोरनुष्टुक् ।
वरुणस्य विराट् ।
यज्ञस्य पङ्क्तिः ।
प्रजापतेरनुमतिः ।
मित्रस्य श्रद्धा ।
सवितुः प्रसूतिः ।
सूर्यस्य मरीचिः ।
चन्द्रमसो रोहिणी ।
ऋषीणामरुन्धती ।
पर्जन्यस्य विद्युत् ।
चतस्रो दिशः ।
चतस्रोऽवान्तर-दिशः ।
अहश्च रात्रिश्च ।
कृषिश्च वृष्टिश्च ।
त्विषिश्चापचितिश्च ।
आपश्चौषधयश्च ।
ऊर्क् च सूनृता च देवानां पत्नयः इति ।

देवता इन्द्रादयः पतयः, सेनादयः पत्न्यः । दिक्-विदिग्-आदयोऽपि केषाञ्चिद् देवानां पत्न्यः । एताः सर्वा आगत्य यज्ञम् अविकलं कुर्वन्तु इति वाक्यार्थः । एतेषां देव-पत्नी-मन्त्राणां पाठेन वैकल्य-कृतम् अयज्ञत्वं परिहृत्य सम्पूर्णम् एव यज्ञं करोति । तत्र पत्नी-सम्बन्धात् प्रजानाम् उत्पत्तिर्भवति ।

विश्वास-प्रस्तुतिः

उपस᳓त्सु व्या᳓चष्ट।
एत᳓द् वै᳓ प᳓त्नीनाम् आय᳓तनम् ।
स्व᳓ एवै᳓ना आय᳓तने᳓ऽवकल्पयति ॥ 13 ॥

मूलम्

उ॒प॒सत्सु॒ व्याच॑ष्टे । ए॒तद्वै पत्नी॑नामा॒यत॑नम् । स्व ए॒वैना॑ आ॒यत॒नेऽव॑कल्पयति ॥ 13 ॥

भट्टभास्कर-टीका

8 उपसत्स्वित्यादि ॥ उपसन्तु देवपत्नीर्व्याचष्टे, एतत् पत्नीनां स्थानं, यदुपसदनस्य उपशयनस्थानीयस्य स्थानम् । तस्मात् स्वस्मिन्नायतने एता अवकॢप्ता भवन्ति ॥

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥

सायण-टीका

देव-पत्नीनां सामान्येन यज्ञ-सम्बन्धं विधाय स्थान-विशेषम् अभिधत्ते -

उपसत्सु व्याचष्टे ।
एतद्वै पत्नीनामायतनम् ।
स्व एवैना आयतनेऽवकल्पयति (६), इति ॥

तनुत आलभमानोऽगृह्णाद् असृजत अभरञ्जायेरन्षट् च ॥

“या ते अग्ने याशया” इत्यादि-मन्त्र-साध्या आहुतय उपसदः, तासां स्त्रीत्व-विवक्षया स्त्री-लिङ्गेन उपसच्छब्देन निर्देशात् सामीप्यं पत्नीनाम् उचितं स्थानम् । अत एता देवपत्नीः स्वोचित एव स्थाने यजमानः स्थापयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥