११ परिषेचनम्

भास्करोक्त-विनियोगः

1 ऋतं त्वेत्यादि ॥ होष्यन् हुत्वा चाग्निं परिषिञ्चति ।

विश्वास-प्रस्तुतिः

“ऋ॒तन्+++(→)+++ त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मी"ति॑ सा॒यम् परि॑षिञ्चति ।
“स॒त्यन्+++(→)+++ त्व॒र्तेन॒ परि॑षिञ्चा॒मी"ति॑ प्रा॒तः ।

अ॒ग्निर् वा ऋ॒तम् । अ॒साव् आ॑दि॒त्यस् स॒त्यम् ।

मूलम्

ऋ॒तन्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒यम्परि॑षिञ्चति ।
स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः ।

अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्यस्स॒त्यम् ।

भट्टभास्कर-टीका

अग्निः ऋतं मानसं तथ्यं, आदित्यः सत्यं वाचिकं तथ्यं, अग्न्यादित्यवल्लोकानां धारकत्वात्ताच्छब्द्यं तयोः । यस्माद् एवम् ऋतात्मानं त्वां सत्येन सत्यात्मना आदित्येन सह परिषिञ्चामि, तथा सत्यात्मानं त्वामृतात्मनाऽग्निना सह परिषिञ्चामि इति सायं प्रातश्च परिषिञ्चति ।

विश्वास-प्रस्तुतिः

अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यम्परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यम्प्रा॒तस्सः ।

मूलम्

अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒यम्परि॑षिञ्चति । अ॒ग्निना॑ऽऽदि॒त्यम्प्रा॒तस्सः ।

भट्टभास्कर-टीका

तत् तस्मान् अग्निमादित्येन आदित्यं चाग्निना सह परिषिञ्चति । तयोश्च सिक्तयोस्सर्वो लोकत्सिक्तो भवति, तन्मयत्वाल्लोकानाम् ।

मूलम्

याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तो॑ऽस्ति ।

विश्वास-प्रस्तुतिः

याव॑दहोरा॒त्रे भव॑त॒स् ताव॑दस्य लो॒कस्य॒ नार्ति॒र्न रिष्टि॒र् नान्तो॒ न प॑र्य॒न्तो॑ऽस्ति ।

मूलम्

याव॑दहोरा॒त्रे भव॑त॒स् ताव॑दस्य लो॒कस्य॒ नार्ति॒र्न रिष्टि॒र् नान्तो॒ न प॑र्य॒न्तो॑ऽस्ति ।

भट्टभास्कर-टीका

ततश्च यावत् यावन्तं कालं अहोरात्रौ भवतः एवं क्रियमाणे सायंप्रातर्होमे शक्तौ भवतः । ‘हेमन्तशिशिरावहोरात्रे च’ इति पूर्ववल्लिङ्गता ।
तावत् तावन्तं कालं अस्य लोकस्य नार्तिः न कृच्छ्रापत्तिः, न रिष्टिः न विनाशः । नान्तः न विषादः । न पर्यन्तः अपरिच्छिन्नविभवः चिरं जीवति

मूलम्

यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑चैनदे॒वव्ँ वेद॑ ॥60॥

विश्वास-प्रस्तुतिः

यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति॒ य उ॑चैनदे॒वव्ँ वेद॑ ॥60॥

मूलम्

यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति॒ य उ॑चैनदे॒वव्ँ वेद॑ ॥60॥

भट्टभास्कर-टीका

2 अथ वेदितुः स्तुतिः - यस्यैवं विदुषो जुह्वति ॥ यश्चैवं वेद अपि

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये तैत्तिरीयब्राह्मणे ज्ञानयज्ञाख्ये द्वितीयेऽष्टके प्रथमप्रश्ने एकादशोऽनुवाकः ॥ समाप्तः प्रथमः प्रश्नः ॥ एष निष्पावके शाके कुशिकान्वयजन्मना । भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रवर्तितः ॥