मूलम्
यद॒ग्निमु॒द्धर॑ति । वस॑व॒स्तर्ह्य॒ग्निः ।
विश्वास-प्रस्तुतिः
यद॒ग्निमु॒द्धर॑ति॒ वस॑व॒स्तर्ह्य॒ग्निः ।
मूलम्
यद॒ग्निमु॒द्धर॑ति॒ वस॑व॒स्तर्ह्य॒ग्निः ।
भट्टभास्कर-टीका
1 यदग्निमित्यादि ॥ यत् यदा अग्निरुद्ध्रियते तर्हि तस्मिन् काले वसवोऽग्निः वसुभिरेकीभूतस्तिष्ठति ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ वसु॑ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ वसु॑ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
भट्टभास्कर-टीका
तस्मिन् तथाविधे तादृक्प्रकारेऽग्नौ यस्य जुह्वति वसुष्वेवास्य हुतं भवति वसवस्तर्पिता अनेन भवन्ति ।
मूलम्
निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रे॒ष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
निहि॑तो धूपा॒यञ्छे॑ते रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ रुद्रेष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
निहि॑तो धूपा॒यञ्छे॑ते रु॒द्रास्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ रुद्रेष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
भट्टभास्कर-टीका
निहितः स्थापितः धूपायन् धूमं कुर्वन् ‘गुपू धूप’ इत्यायप्रत्ययः । तस्मिन् काले रुद्रैरेकीभूतोऽग्निस्तिष्ठति । तस्मिन् हुतेन रुद्रास्तर्पिता भवन्ति ।
मूलम्
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्ह्य॒ग्निः ॥57॥
विश्वास-प्रस्तुतिः
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भत आदि॒त्यास्तर्ह्य॒ग्निः ॥57॥
मूलम्
प्र॒थ॒ममि॒ध्मम॒र्चिरा ल॑भत आदि॒त्यास्तर्ह्य॒ग्निः ॥57॥
भट्टभास्कर-टीका
प्रथममिति । प्रथमक्षिप्तां समिधमर्चिरालभते आश्लिष्य ज्वलयति । यद्वा - इध्मं प्रक्षिप्तं प्रथममालभते अर्चिर्गृह्णाति आदित्यरूपत्वादग्रेः हुतं आदित्यतृप्त्यै भवति ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑त्य् आदि॒त्येष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी॑प्तो भवति ।
विश्वे॑ दे॒वास्तर्ह्य॒ग्निः ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑त्य् आदि॒त्येष्वे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
सर्व॑ ए॒व स॑र्व॒श इ॒ध्म आदी॑प्तो भवति ।
विश्वे॑ दे॒वास्तर्ह्य॒ग्निः ।
भट्टभास्कर-टीका
सर्व इति । सर्वः इध्मः सर्वशः सर्वतः आदीप्तो भवति ज्वलति
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वे॑ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ विश्वे॑ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ विश्वे॑ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति ।
इन्द्र॒स्तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति ।
इन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥58 ॥
विश्वास-प्रस्तुतिः
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भव॒तीन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॒तीन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥58 ॥
मूलम्
नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भव॒तीन्द्र॒स्तर्ह्य॒ग्निः । तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॒तीन्द्र॑ ए॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ॥58 ॥
भट्टभास्कर-टीका
2 नितरामिति ॥ नीचैस्तरामर्चिरुपावैति अतिस्वल्पा भवति । लोहिनीकेव च भवति रक्तेव भवति अतिरक्ता भवति । ‘वर्णादनुदात्तात्’ इति ङीप्, संज्ञायां कन्, प्रत्ययात्पूर्वस्योदात्तत्वं छान्दसम् । तदा अग्नेरिन्द्रेणैक्यात्तत्र हुतमिन्द्रतृप्तये भवति
विश्वास-प्रस्तुतिः
अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः ।
मूलम्
अङ्गा॑रा भवन्ति । तेभ्योऽङ्गा॑रेभ्यो॒ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्ह्य॒ग्निः ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति प्र॒जाप॑तावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति प्र॒जाप॑तावे॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
भट्टभास्कर-टीका
3 अङ्गारा इति ॥ अङ्गारभूतेषु काष्ठेषु या अर्चिरुदेति तत्र हुतं प्रजापतितृप्तये भवति । अग्न्यस्यस्य जिह्वास्थनीया अङ्गारा वह्निरूपाः ।
मूलम्
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते । ब्रह्म॒ तर्ह्य॒ग्निः तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते॒ ब्रह्म॒ तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ ब्रह्म॑न्ने॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
मूलम्
शरोऽङ्गा॑रा॒ अध्यू॑हन्ते॒ ब्रह्म॒ तर्ह्य॒ग्निः ।
तस्मि॒न्यस्य॒ तथा॑विधे॒ जुह्व॑ति॒ ब्रह्म॑न्ने॒वास्या॑ग्निहो॒त्रँ हु॒तम्भ॑वति ।
भट्टभास्कर-टीका
शर इति । शृणोतेरसुनि शरः भस्म, तत् अङ्गारा अध्यूहन्ते उपरि वहन्ति । तस्मिन् कालेऽग्निर्ब्रह्मस्वरूपत्वात्तत्र हुतं ब्रह्मण्येव हुतं भवति ।
मूलम्
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे॑ प्र॒जाप॑तौ॒ ब्रह्म॑न् । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तम्भ॑वति ।
विश्वास-प्रस्तुतिः
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेष्व् इन्द्रे॑ प्र॒जाप॑तौ॒ ब्रह्म॒न्न् अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तम्भ॑वति ।
मूलम्
वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेष्व् इन्द्रे॑ प्र॒जाप॑तौ॒ ब्रह्म॒न्न् अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒तम्भ॑वति ।
मूलम्
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति ।
य उ॑ चैनदे॒वव्ँ वेद॑ ॥59॥
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति॒ य उ॑ चैनदे॒वव्ँ वेद॑ ॥59॥
मूलम्
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति॒ य उ॑ चैनदे॒वव्ँ वेद॑ ॥59॥
भट्टभास्कर-टीका
4 अथ वेदितुः स्तुतिः - वसुष्वित्यादि ॥ अपरिवर्गं काश्रिदपि देवता अपरिवृज्य अवर्जयित्वा एतासु देवतासु हुतं भवत्यग्निहोत्रं यस्यैवं विदुषो जुह्वति, यश्चैनदेवं वेद अग्निहोत्रमाहात्म्यम्
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके दशमोऽनुवाकः ॥