०९ अग्निहोत्रस्य असंसृष्टहोममन्त्रौ

विश्वास-प्रस्तुतिः

त्रयो॒ वै प्रै॑यमे॒धा आ॑सन् । तेषा॒न्त्रिरेको॑ऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ ।

मूलम्

त्रयो॒ वै प्रै॑यमे॒धा आ॑सन् । तेषा॒न्त्रिरेको॑ऽग्निहो॒त्रम॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ ।

भट्टभास्कर-टीका

1 त्रयो वा इत्यादि ॥ प्रियमेधस्यापत्यानि त्रय आसन् । तेषां त्रयाणां मध्ये एकः त्रिः व्यावृतं त्र्याडुतिकमग्निहोत्रमजुहोत् । द्व्याहुतिकमेकः । सकृत् एकाहुतिकमेकः अनावृत्तिकम् ।

मूलम्

तेषाय्ँ॒यस्त्रिरजु॑होत् । स ऋ॒चाऽजु॑होत् ।

विश्वास-प्रस्तुतिः

तेषाय्ँ॒यस्त्रिरजु॑हो॒त् स ऋ॒चाऽजु॑होत् ।

मूलम्

तेषाय्ँ॒यस्त्रिरजु॑हो॒त् स ऋ॒चाऽजु॑होत् ।

भट्टभास्कर-टीका

अथ तेषां यस्त्रिरजुहोत् स ऋचा शाखान्तरसमाम्नातया अजुहोत् ।

मूलम्

यो द्विः । स यजु॑षा ।

विश्वास-प्रस्तुतिः

यो द्विः स यजु॑षा +++(अजुहोत्)+++।

मूलम्

यो द्विः स यजु॑षा +++(अजुहोत्)+++।

भट्टभास्कर-टीका

यो द्विः स यजुषा, अजुहोदित्येव । स यजुषा वक्ष्यमाणेनाजुहोत् ।

मूलम्

यस्स॒कृत् । स तू॒ष्णीम् ॥54॥

विश्वास-प्रस्तुतिः

यस्स॒कृत् स तू॒ष्णीम् ॥54॥

मूलम्

यस्स॒कृत् स तू॒ष्णीम् ॥54॥

भट्टभास्कर-टीका

तूष्णीमजुहोत् ।

मूलम्

यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावा॑र्ध्नुताम् ।

विश्वास-प्रस्तुतिः

यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् तावु॒भावा॑र्ध्नुताम् ।

मूलम्

यश्च॒ यजु॒षाऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् तावु॒भावा॑र्ध्नुताम् ।

भट्टभास्कर-टीका

तेषां यश्च यजुषाऽजुहोत्, यश्च तूष्णीमजुहोत् तावुभावृद्धिमन्तावभूताम् ।

विश्वास-प्रस्तुतिः

तस्मा॒द्यजु॒षाऽऽहु॑ति॒ᳶ पूर्वा॑ होत॒व्या॑ । तू॒ष्णीमुत्त॑रा ।

मूलम्

तस्मा॒द्यजु॒षाऽऽहु॑ति॒ᳶ पूर्वा॑ होत॒व्या॑ । तू॒ष्णीमुत्त॑रा ।

भट्टभास्कर-टीका

तस्मादित्यादि । गतम् ।

विश्वास-प्रस्तुतिः

उ॒भे ए॒वर्धी अव॑रुन्धे । अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ सा॒यञ्जु॑होति । रेत॑ ए॒व तद्द॑धाति ।

सूर्यो॒ ज्योति॒र्ज्योति॒स्सूर्य॒स्स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒तम्प्र ज॑नयति ।

उभे ऋद्धी उभयोस्संबन्धिन्यौ । सायंहोमेन रेतो दधाति, प्रातर्होमेन तत्प्रजनयति ।

मूलम्

रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्रजा॑यते ॥55॥
यस्या॑ग्निहो॒त्रमहु॑तँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।

विश्वास-प्रस्तुतिः

रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्रजा॑यते॒ यस्या॑ग्निहो॒त्रमहु॑तँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।

मूलम्

रेतो॒ वा ए॒तस्य॑ हि॒तन्न प्रजा॑यते॒ यस्या॑ग्निहो॒त्रमहु॑तँ॒ सूर्यो॒ऽभ्यु॑देति॑ ।

भट्टभास्कर-टीका

2 रेतो वा इत्यादि ॥ हितं निहितं रेतोऽस्य न प्रजायते यस्याग्रिहोत्र अहुते सूर्य उदेति तस्य रेतो न प्रजायते । एतस्मादेव च गम्यते - एतौ मन्त्रौ अनुदितहोमविषयाविति ।

मूलम्

यद्यन्ते॒ स्यात् । उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् ।

विश्वास-प्रस्तुतिः

यद्यन्ते॒ स्याद् उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् ।

मूलम्

यद्यन्ते॒ स्याद् उ॒न्नीय॒ प्राङु॒दाद्र॑वेत् ।

भट्टभास्कर-टीका

अथ यद्यन्ते अन्तिके स्यात्सूर्यः यदि संनिहितश्च, तदात्वे होमद्रव्यं स्यात्, शीघ्रं स्रुचि चतुर्गृहीतं गृहीत्वा प्राङुदाद्रवेत् आहवनीयसकाशं गच्छेत् ।

विश्वास-प्रस्तुतिः

स उ॑प॒साद्यातमि॑तोरासीत ।

मूलम्

स उ॑प॒साद्यातमि॑तोरासीत ।

भट्टभास्कर-टीका

प्रागेवोदयात् उपसाद्यातमितोः ओच्छ्वासनिर्गमादासीत । ‘भावलक्षणे स्थ’ इति तोसुन्प्रत्ययः ।

मूलम्

स य॒दा ताम्ये॑त् । अथ॒ भूस्स्वाहेति॑ जुहुयात् ।

विश्वास-प्रस्तुतिः

स य॒दा ताम्ये॒द् अथ॒ भूस्स्वाहेति॑ जुहुयात् ।

मूलम्

स य॒दा ताम्ये॒द् अथ॒ भूस्स्वाहेति॑ जुहुयात् ।

भट्टभास्कर-टीका

स यदा ताम्येत् श्रान्तो भवति, अथ अनन्तरमेव ‘भूस्स्याहा ’ इति जुहुयात् ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् ।

मूलम्

प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वोपा॑सरत् ।

भट्टभास्कर-टीका

प्रजापतिर्वा इत्यादि । गतम् । भूतः प्रभूतः ।

मूलम्

स ए॒वैन॒न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥

विश्वास-प्रस्तुतिः

स ए॒वैन॒न्तत॒ उन्न॑यति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥

मूलम्

स ए॒वैन॒न्तत॒ उन्न॑यति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥

भट्टभास्कर-टीका

तत उन्नयति दोषादुद्धरति निहितं रेतः प्रजनयति, यजमानश्चार्तिं नार्च्छति न प्राप्नोति

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके नवमोऽनुवाकः ।