मूलम्
द॒क्षि॒ण॒त उप॑सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति । प्राची॒माव॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति ।
विश्वास-प्रस्तुतिः
द॒क्षि॒ण॒त उप॑सृजति पितृलो॒कमे॒व तेन॑ जयति ।
मूलम्
द॒क्षि॒ण॒त उप॑सृजति पितृलो॒कमे॒व तेन॑ जयति ।
भट्टभास्कर-टीका
1 दक्षिणत इत्यादि ॥ विहारस्य दक्षिणतः स्थापयित्वा गां वत्समुपसृजति ।
विश्वास-प्रस्तुतिः
प्राची॒माव॑र्तयति देवलो॒कमे॒व तेन॑ जयति ।
मूलम्
प्राची॒माव॑र्तयति देवलो॒कमे॒व तेन॑ जयति ।
भट्टभास्कर-टीका
ततः प्राचीं प्राङ्मुखीं आवर्तयति आगमयति ।
विश्वास-प्रस्तुतिः
उदी॑चीमा॒वृत्य॑ दोग्धि मनुष्य॒लो॒कमे॒व तेन॑ जयति ।
मूलम्
उदी॑चीमा॒वृत्य॑ दोग्धि मनुष्य॒लो॒कमे॒व तेन॑ जयति ।
भट्टभास्कर-टीका
अथोदीचीमुदङ्मुखीं आवृत्य स्थापयित्वा दोग्धि
विश्वास-प्रस्तुतिः
पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ ।
मूलम्
पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ ।
भट्टभास्कर-टीका
2 पूर्वावित्यादि ॥ अग्रिमौ स्तनौ दुह्यात् ज्येष्ठस्य प्रथमजातस्य जैष्ठिनेयस्य ज्येष्ठाया अपत्यस्य च ‘कल्याण्यादीनामिनङ्’ ढक्च । ज्येष्ठाया भगिन्या अपत्यस्य वेत्येके । प्रथमोढाया अपत्यस्येत्यन्ये ।
मूलम्
यो वा॑ ग॒तश्री॒स्स्यात् । अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ ।
विश्वास-प्रस्तुतिः
यो वा॑ ग॒तश्री॒स्स्या॒द् अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ ।
मूलम्
यो वा॑ ग॒तश्री॒स्स्या॒द् अप॑रौ दुह्यात्कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ ।
भट्टभास्कर-टीका
यो वा गतश्रीस्स्यात् तस्यापि पूर्वौ स्तनौ दुह्यात् । शुश्रुवान् ग्रामणी राजन्यश्च त्रयो गतश्रियः अपरौ पश्चिमौ स्तनौ दुह्यात् कनिष्ठस्य पश्चाज्जातस्य । कनिष्ठाया अपत्यस्य । पूर्ववदिनङ् ।
विश्वास-प्रस्तुतिः
यो वा॒ बुभू॑षेत् ॥51॥
मूलम्
यो वा॒ बुभू॑षेत् ॥51॥
भट्टभास्कर-टीका
यो वा बुभूषेत् भवितुमिच्छेत् तस्याप्यपरा स्तनौ दुह्यात्
मूलम्
न सम्मृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै ।
विश्वास-प्रस्तुतिः
न सम्मृ॑शति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै ।
मूलम्
न सम्मृ॑शति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै ।
भट्टभास्कर-टीका
3 न संमृशति हस्ताभ्यां स्तनं न संमृशति प्रस्नवनार्थं पापवस्यसस्य व्यावृत्त्यै । हस्तमर्दनेन प्रस्रावितं यद्याविःक्षरत् पापिष्ठं, संमर्शनं विना वत्सप्रस्नावितं यद्वसीयः पुण्यं तयोस्ससर्गो मा भूदिति दोहमध्ये न संमृशेत् । इतरौ समृशेदित्येके । पूर्वपश्चिमावित्यपरे
विश्वास-प्रस्तुतिः
वा॒य॒व्यव्ँ॑वा ए॒तदुप॑सृष्टम् ।
आ॒श्वि॒नन्दु॒ह्यमा॑नम् ।
मै॒त्रन्दु॒ग्धम् ।
अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् ।
त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् ।
बृह॒स्पते॒रुन्नी॑तम् ।
स॒वि॒तुᳶ प्रक्रा॑न्तम् ।
द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् ॥52॥
ऐ॒न्द्रा॒ग्नमुप॑सादितम् ।
मूलम्
वा॒य॒व्यव्ँ॑वा ए॒तदुप॑सृष्टम् ।
आ॒श्वि॒नन्दु॒ह्यमा॑नम् ।
मै॒त्रन्दु॒ग्धम् ।
अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् ।
त्वा॒ष्ट्रमु॑न्नी॒यमा॑नम् ।
बृह॒स्पते॒रुन्नी॑तम् ।
स॒वि॒तुᳶ प्रक्रा॑न्तम् ।
द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् ॥52॥
ऐ॒न्द्रा॒ग्नमुप॑सादितम् ।
मूलम्
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यो जुहोति । यो॑ऽग्निहो॒त्रञ्जु॒होति॑ ।
विश्वास-प्रस्तुतिः
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यो जुहोति यो॑ऽग्निहो॒त्रञ्जु॒होति॑ ।
मूलम्
सर्वा॑भ्यो॒ वा ए॒ष दे॒वता॑भ्यो जुहोति यो॑ऽग्निहो॒त्रञ्जु॒होति॑ ।
भट्टभास्कर-टीका
4 वायव्यं वा इत्यादि ॥ पुनर्वचनमुपसादनान्तस्य हवीरूपस्य सर्वदेवत्यत्वेन स्तुत्यर्थम् ।
मूलम्
यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति ।
विश्वास-प्रस्तुतिः
यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑त्य् ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गल्ँ लो॒कञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्त्र॑म् ।
मूलम्
यथा॒ खलु॒ वै धे॒नुन्ती॒र्थे त॒र्पय॑त्य् ए॒वम॑ग्निहो॒त्री यज॑मानन्तर्पयति ।
तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्र सु॑व॒र्गल्ँ लो॒कञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्त्र॑म् ।
भट्टभास्कर-टीका
एवमग्निहोत्रं जह्वन् सर्वदेवता होमेन तर्पयति यथेत्यादि । यथा खलु तीर्थे तर्पणावसरे तत्तदपेक्षया कण्डूयनतृणप्रदानपानीयसंनिधापनादिना धेनुं तर्पयति दोग्धा, एवमग्निहोत्री धेनुः तदभिमतसंपादनेन यजमानं तर्पयति । स्वयं च तृप्यति ।
विश्वास-प्रस्तुतिः
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
मूलम्
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ।
भट्टभास्कर-टीका
प्रजया दिर्घायुष्यस्वर्गलोकज्ञानपुत्रदर्शपौत्रदर्शनादिलक्षणया प्रजया पशुभिर्मिथुनैः प्रजायते ।
मूलम्
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्ँ वेद॑ ॥53॥
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्ँ वेद॑ ॥53॥
मूलम्
यस्यै॒वव्ँ वि॒दुषो॑ऽग्निहो॒त्रञ्जुह्व॑ति । य उ॑ चैनदे॒वव्ँ वेद॑ ॥53॥
भट्टभास्कर-टीका
एवंविदुषो यस्याग्निहोत्रं जुह्वति यश्चैवं वेदिता सोपि प्रजादिना जायते
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके अष्टमोऽनुवाकः ॥