विश्वास-प्रस्तुतिः
+++(अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥ अयं मन्त्रभागः पूर्वसञ्चिकातः अध्याहृतः । अस्य अत्रान्वयः अस्तिवेति सन्देहः )+++ बृह॒स्पते॒रुन्नी॑तम् ।
मूलम्
+++(अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥ अयं मन्त्रभागः पूर्वसञ्चिकातः अध्याहृतः । अस्य अत्रान्वयः अस्तिवेति सन्देहः )+++ बृह॒स्पते॒रुन्नी॑तम् ।
भट्टभास्कर-टीका
1 रौद्रं गवीत्यादि ॥ सर्वदेवत्यत्वेन पयस्स्तूयते । तत् दोहात्प्राक् गवि स्थितं रौद्रम् ।
विश्वास-प्रस्तुतिः
बृह॒स्पते॒रुन्नी॑तम् ।
वा॒य॒व्य॑मुप॑सृष्टम् ।
मूलम्
बृह॒स्पते॒रुन्नी॑तम् ।
वा॒य॒व्य॑मुप॑सृष्टम् ।
भट्टभास्कर-टीका
उपसृष्टं ऊधस्स्थं वायुदेवत्यम् ।
विश्वास-प्रस्तुतिः
सौ॒म्यन्दु॒ग्धम् ।
मूलम्
सौ॒म्यन्दु॒ग्धम् ।
भट्टभास्कर-टीका
दुग्धं प्रागधिश्रयणात् ।
विश्वास-प्रस्तुतिः
वा॒रु॒णमधि॑श्रितम् ।
मूलम्
वा॒रु॒णमधि॑श्रितम् ।
भट्टभास्कर-टीका
अधिश्रितं अधिश्रितावस्थम् ।
विश्वास-प्रस्तुतिः
वै॒श्व॒दे॒वा भि॒न्दवः॑ ।
मूलम्
वै॒श्व॒दे॒वा भि॒न्दवः॑ ।
भट्टभास्कर-टीका
भिन्दवो बुद्वुदा वैश्वदेवाः ।
विश्वास-प्रस्तुतिः
पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तव्ँ वि॒ष्यन्द॑मानम् ।
मूलम्
पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तव्ँ वि॒ष्यन्द॑मानम् ।
भट्टभास्कर-टीका
विष्यन्दमानं स्थाल्यां बिलमतिलङ्घितं विविधं स्यन्दनं सारस्वतम् ।
विश्वास-प्रस्तुतिः
पौ॒ष्णमुद॑न्तम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
मूलम्
पौ॒ष्णमुद॑न्तम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
भट्टभास्कर-टीका
उदन्तं स्थाल्यवकाशलङ्घनेनान्यत्र परिवर्तनं पौष्णम् ।
विश्वास-प्रस्तुतिः
मै॒त्रँ शरः॑ ।
मूलम्
मै॒त्रँ शरः॑ ।
भट्टभास्कर-टीका
शरः स्थासकं मैत्रम् ।
विश्वास-प्रस्तुतिः
धा॒तुरुद्वा॑सितम् ।
मूलम्
धा॒तुरुद्वा॑सितम् ।
भट्टभास्कर-टीका
उद्वासितं अवतारितम् ।
विश्वास-प्रस्तुतिः
बृह॒स्पते॒रुन्नी॑तम् ।
मूलम्
बृह॒स्पते॒रुन्नी॑तम् ।
भट्टभास्कर-टीका
उन्नितं स्रुचि गृहीतं बार्हस्पत्यम् ।
विश्वास-प्रस्तुतिः
स॒वि॒तुᳶ प्रक्रा॑न्तम् । द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् ।
मूलम्
स॒वि॒तुᳶ प्रक्रा॑न्तम् । द्या॒वा॒पृ॒थि॒व्यँ॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्नमुप॑सन्नम् ।
भट्टभास्कर-टीका
ह्रियमाणं आहवनीयं प्रति नीयमानं द्यावापृथिव्यम् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रा॒ग्नमुप॑सन्नम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
मूलम्
ऐ॒न्द्रा॒ग्नमुप॑सन्नम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
भट्टभास्कर-टीका
उपसन्नं आहवनीयसकाशे सादितं ऐन्द्राग्नम् ।
विश्वास-प्रस्तुतिः
स॒वि॒तुᳶ प्रक्रा॑न्तम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
मूलम्
स॒वि॒तुᳶ प्रक्रा॑न्तम् +++(अत्र मूले वा भाष्ये वा पूर्वापरीकारः सम्भाव्यते )+++।
भट्टभास्कर-टीका
प्रक्रान्तं होमार्थं नेतुमारब्धं सावित्रम् ।
विश्वास-प्रस्तुतिः
अ॒ग्नेᳶ पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा ।
मूलम्
अ॒ग्नेᳶ पूर्वाऽऽहु॑तिः । प्र॒जाप॑ते॒रुत्त॑रा ।
भट्टभास्कर-टीका
पूर्वाऽऽहुतिः सायमग्नेः, प्रातराहुतिरादित्यस्य, उपलक्षणवात् । उत्तराऽऽडुतिः प्रजापतेः, तूष्णीकत्वात् ‘तूष्णीं वै प्राजापत्यम्’ इति ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रँ हु॒तम् ॥50॥
मूलम्
ऐ॒न्द्रँ हु॒तम् ॥50॥
भट्टभास्कर-टीका
ऐन्द्रं हुतम् ॥
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके सप्तमोऽनुवाकः ॥