०६ अभ्युद्द्रवणं, होमाभावप्रतीकारश्च

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ ।

मूलम्

प्र॒जाप॑तिरकामयतात्म॒न्वन्मे॑ जाये॒तेति॑ ।

भट्टभास्कर-टीका

1 प्रजापतिरित्यादि ॥ सामर्थ्यविशेषवत्त्वमात्मवत्त्वं आत्मवद्विशिष्टं द्रव्यं ममोत्पद्यताम् । ‘अनो नुट्’, ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुबुदात्तत्वम् । केचिदाहुः आत्मवत् यादृशोऽहं ईदृशो मे जायेतेति । तदानीं नलोपाभावश्छान्दसः ।

विश्वास-प्रस्तुतिः

सो॑ऽजुहोत् । तस्मा॑त्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः ।

मूलम्

सो॑ऽजुहोत् । तस्मा॑त्म॒न्वद॑जायत । अ॒ग्निर्वा॒युरा॑दि॒त्यः ।

भट्टभास्कर-टीका

सोऽजुहोदित्यादि गतम् ।

विश्वास-प्रस्तुतिः

ते॑ऽब्रुवन् । “प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒ते"ति॑ ।

तस्य॑ व॒यम॑जनिष्महि । जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः ।

मूलम्

ते॑ऽब्रुवन् । “प्र॒जाप॑तिरहौषीदात्म॒न्वन्मे॑ जाये॒ते"ति॑ ।

तस्य॑ व॒यम॑जनिष्महि । जाय॑तान्न आत्म॒न्वदिति॒ ते॑ऽजुहवुः ।

भट्टभास्कर-टीका

तेऽब्रुवन्नित्यादि । प्रजापतेर्वयमिव अस्माकमात्मन्वत् जायतामित्युक्त्वा अजुहवुः ।

विश्वास-प्रस्तुतिः

प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ॥45 ॥
चक्षु॑ष आदि॒त्यः । तेषाँ॑ हु॒ताद॑जायत॒ गौरे॒व ।

य ए॒वव्ँ वेद॑ ।

मूलम्

प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ॥45 ॥
चक्षु॑ष आदि॒त्यः । तेषाँ॑ हु॒ताद॑जायत॒ गौरे॒व ।

य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

प्राणानां प्राणेभ्योऽग्निर्जुहोति, तनुवै तन्वे विलक्षणायै वायुः चक्षुष आदित्यः ।

विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका

सर्वे इदं मे भूयादिदं ममेति । तेषां सर्वेषामपि हुताद्धोमादेकैव गौरजायत ।

विश्वास-प्रस्तुतिः

तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ ।

मूलम्

तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ ।

भट्टभास्कर-टीका

तस्याः पयसि पयोनिमित्तमग्न्यादयो व्यायच्छन्त विप्रतिपन्ना अभवन् मम हुतादजनि ममेति सर्वेऽवदन् । वीप्सार्थाऽऽवृत्तिः ।

विश्वास-प्रस्तुतिः

ते प्र॒जाप॑तिम्प्र॒श्ञमा॑यन् ।

मूलम्

ते प्र॒जाप॑तिम्प्र॒श्ञमा॑यन् ।

भट्टभास्कर-टीका

अथ ते प्रजापतिं प्रश्नं प्रष्टव्यं कृत्वा आगच्छन् ।

मूलम्

स आ॑दि॒त्यो॑ऽग्निम॑ब्रवीत् । य॒त॒रो नौ॒ जया॑त् । तन्नौ॑ स॒हास॒दिति॑ ।

विश्वास-प्रस्तुतिः

स आ॑दि॒त्यो॑ऽग्निम॑ब्रवीद् “यत॒रो नौ॒ जया॑त् । तन्नौ॑ स॒हास॒"दिति॑ ।

मूलम्

स आ॑दि॒त्यो॑ऽग्निम॑ब्रवीद् “यत॒रो नौ॒ जया॑त् । तन्नौ॑ स॒हास॒"दिति॑ ।

भट्टभास्कर-टीका

अत्रान्तरे आदित्योऽग्निमब्रवीत् नौ आवयोर्मध्ये कश्चिज्जयेत् तत्तदीयमावयोः सहासत् साधारणमस्तु । अस्तेर्लेटि आडागमः ।

विश्वास-प्रस्तुतिः

“कस्यै कोऽहौ॑षी॒"दिति॑ प्र॒जाप॑तिरब्रवी॒त् “कस्यै क॒” इति॑ ।

मूलम्

“कस्यै कोऽहौ॑षी॒"दिति॑ प्र॒जाप॑तिरब्रवी॒त् “कस्यै क॒” इति॑ ।

भट्टभास्कर-टीका

अथ प्रजापतिरब्रवीत् - युष्माकं मध्ये एकः कस्य फलसिद्धये अहौषीत्? एवमेक एकः कस्य कस्याहौषीत्? प्रत्येकं ब्रूतेति यावत् । ‘एकान्याभ्यां’ इत्याख्यातस्य निघाताभावः । एकशब्द आद्युदात्तः । ‘एकादेश उदात्तेनोदात्तः’ इत्येकार उदात्तः ।

विश्वास-प्रस्तुतिः

“प्रा॒णाना॑म॒ह"मित्य॒ग्निः ॥ 46॥
“त॒नुवा॑ अ॒ह"मिति॑ वा॒युः । “चक्षु॑षो॒ऽह"मित्या॑दि॒त्यः ।

मूलम्

“प्रा॒णाना॑म॒ह"मित्य॒ग्निः ॥ 46॥
“त॒नुवा॑ अ॒ह"मिति॑ वा॒युः । “चक्षु॑षो॒ऽह"मित्या॑दि॒त्यः ।

भट्टभास्कर-टीका

अथाग्निरब्रवीत् - प्राणानामहमहौषं, तन्वा अहमिति वायुः, चक्षुष इत्यादित्यः ।

मूलम्

य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ ।

विश्वास-प्रस्तुतिः

य ए॒व प्रा॒णाना॒महौ॑षी॒त् तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्हु॒ताद॑ज॒नीति॑ ।

मूलम्

य ए॒व प्रा॒णाना॒महौ॑षी॒त् तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्हु॒ताद॑ज॒नीति॑ ।

भट्टभास्कर-टीका

अथ प्रजापतिरजवीत् - य एव प्राणानामहोषीत् तस्यैव हुतादियमजनीति युक्तं, प्राणमूलत्वात्सर्वस्य जीवनस्य । तस्मादग्नेर्हुतादजनीत्युक्तं भवतीत्यर्थः ।

विश्वास-प्रस्तुतिः

तद॑ग्निहो॒त्रस्या॑ग्निहोत्र॒त्वम् ।

मूलम्

तद॑ग्निहो॒त्रस्या॑ग्निहोत्र॒त्वम् ।

भट्टभास्कर-टीका

तस्मादग्निहोत्रं गौरग्नेरेव, अग्नेर्होमोत्पन्नत्वात् ।

विश्वास-प्रस्तुतिः

गौर्वा अ॑ग्निहो॒त्रम् ।

मूलम्

गौर्वा अ॑ग्निहो॒त्रम् ।

मूलम्

य ए॒वव्ँ वेद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑मे॒वाग्निँ सम॑र्धयति ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒ गौर॑ग्निहो॒त्रमिति॑ प्राणापा॒नाभ्या॑मे॒वाग्निँ सम॑र्धयति ।

मूलम्

य ए॒वव्ँ वेद॒ गौर॑ग्निहो॒त्रमिति॑ प्राणापा॒नाभ्या॑मे॒वाग्निँ सम॑र्धयति ।

भट्टभास्कर-टीका

एवं गोरग्रिहोत्रत्वं यो वेद स आत्मनः प्राणापानाभ्यामग्निं समर्धयति । ततोऽयं प्राणापानाभ्यां व्यृद्धो न भवति।

विश्वास-प्रस्तुतिः

अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ॥47॥

मूलम्

अव्य॑र्धुकᳶ प्राणापा॒नाभ्या॑म्भवति ॥47॥

भट्टभास्कर-टीका

वृद्धिशीलोऽव्यर्धुकः । छान्दस उकङ् ।

विश्वास-प्रस्तुतिः

तौ वा॒युर॑ब्रवीत् । “अनु॒ मा भ॑जत॒"मिति॑ ।

मूलम्

तौ वा॒युर॑ब्रवीत् । “अनु॒ मा भ॑जत॒"मिति॑ ।

मूलम्

यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवा॑न् । तेन॒ त्वाम्प्री॑णा॒नित्य॑ब्रूताम् ।

विश्वास-प्रस्तुतिः

“यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवा॒न् तेन॒ त्वाम्प्री॑णा॒"नि’त्य॑ब्रूताम् ।

मूलम्

“यदे॒व गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रवा॒न् तेन॒ त्वाम्प्री॑णा॒"नि’त्य॑ब्रूताम् ।

भट्टभास्कर-टीका

2 अथाग्न्यादित्यौ वायुमब्रूतां - यद्गार्हपत्ये होमद्रव्यमधिश्रित्य आहवनीयमभ्युद्द्रवान् अभिवाञ्छन्ति तेन त्वां प्रीणयति । लेट्याडागमः ।

मूलम्

तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति ।

विश्वास-प्रस्तुतिः

तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति वायुमे॒व तेन॑ प्रीणाति ।

मूलम्

तस्मा॒द्यद्गार्ह॑पत्येऽधि॒श्रित्या॑हव॒नीय॑म॒भ्यु॑द्द्रव॑ति वायुमे॒व तेन॑ प्रीणाति ।

भट्टभास्कर-टीका

तस्मादित्यादि गतम् ।

मूलम्

प्र॒जाप॑तिर्दे॒वता॑स्सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑नाम्प्रथ॒मम॑सृजत । सो॑ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा ॥48॥
प्र॒जाप॑तिम॒भिप॒र्याव॑र्तत । स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । तँ हु॒त्वा परा॑ङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्ँ वेद॑ ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिर्दे॒वता॑स्सृ॒जमा॑नो॒ग्निमे॒व दे॒वता॑नाम्प्रथ॒मम॑सृजत ।

सो॑ऽन्यदा॑ल॒म्भ्य॑मवि॑त्वा प्र॒जाप॑तिम॒भिप॒र्याव॑र्तत ।

स मृ॒त्योर॑बिभेत् । सो॑ऽमुमा॑दि॒त्यमा॒त्मनो॒ निर॑मिमीत । तँ हु॒त्वा परा॑ङ्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्ँ वेद॑ ।

3 प्रजापतिरित्यादि ॥ प्रथमसृष्टोऽग्रि: प्रजापतिव्यतिरिक्तं आलम्भ्यं भक्ष्यं अवित्त्वा अलब्ध्वा प्रजापतिमेवात्तुं प्रजापतिमाभिमुख्येन पर्यावर्तत । लभेः ‘पोरदुपधात्’ इति यत् । ‘आङो यि’ इति नुम् ।

भट्टभास्कर-टीका

अथ प्रजापतिः मृत्योः अग्निदाहजन्मनो भीतः आदित्यमात्मन उत्पाद्य तमग्नये आगच्छते हुत्वा भक्ष्यत्वेन दत्वा तस्मादग्नेः पराङ् अपमृत्युनिवृत्तये पर्यावर्तत तस्मादपागच्छत्, ततो मृत्युमुपाजयत् प्रजापतिः ।

मूलम्

अप॑ मृ॒त्युञ्ज॑यति । य ए॒वव्ँ वेद॑ ।

विश्वास-प्रस्तुतिः

अप॑ मृ॒त्युञ्ज॑यति॒ य ए॒वव्ँ वेद॑ ।

एवं वेदिता मृत्युमपजयति । स मृत्युरकालमृत्युः, तत्पार्श्वे अकालमृत्युर्नास्तीत्यर्थः।

मूलम्

अप॑ मृ॒त्युञ्ज॑यति॒ य ए॒वव्ँ वेद॑ ।

एवं वेदिता मृत्युमपजयति । स मृत्युरकालमृत्युः, तत्पार्श्वे अकालमृत्युर्नास्तीत्यर्थः।

मूलम्

तस्मा॒द्यस्यै॒वव्ँ वि॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49

विश्वास-प्रस्तुतिः

तस्मा॒द्यस्यै॒वव्ँ वि॒दुषो॑ उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति हु॒तमे॒वास्य॑ भवति ।

मूलम्

तस्मा॒द्यस्यै॒वव्ँ वि॒दुषो॑ उ॒तैका॒हमु॒त द्व्य॒हन्न जुह्व॑ति हु॒तमे॒वास्य॑ भवति ।

भट्टभास्कर-टीका

तस्मादित्यादि । एवमादित्योऽग्निहोत्रद्वव्यं प्रजापतेरासीदिति यो वेद, उत अप्येकाहं न जुह्वति अस्य तदपि हुतमेव भवति, अविच्छेदेन हुतं भवति ।

विश्वास-प्रस्तुतिः

अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥

मूलम्

अ॒सौ ह्या॑दि॒त्यो॑ऽग्निहो॒त्रम् ॥49 ॥

भट्टभास्कर-टीका

असौ खल्वादित्योऽग्निहोत्रद्रव्यं, स च सायं नित्यमग्निमनुप्रविशति

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके षष्ठोऽऽनुवाकः ॥