विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । “अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किम्प्रा॑यणमग्निहो॒त्र"मिति॑ ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । “अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । किम्प्रा॑यणमग्निहो॒त्र"मिति॑ ।
भट्टभास्कर-टीका
1 ब्रह्मवादिन इत्यादि ॥ अग्निहोत्रप्रायणाः । अग्निहोत्रारम्भाः दर्शपूर्णमासादयो यज्ञाः तत्पूर्वत्वात् । अग्निहोत्रमिदं किंप्रायणं किमारम्भमिति पर्यनुयोगं वदन्ति ब्रह्मवादिनः ।
विश्वास-प्रस्तुतिः
व॒त्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रय्ँ य॒ज्ञाना॑म् ।
मूलम्
व॒त्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रय्ँ य॒ज्ञाना॑म् ।
भट्टभास्कर-टीका
वत्सः वत्सो पावसर्जनमग्निहोत्रस्य प्रायणम् । एतेन पयो नित्यमिति गम्यते । आश्वलायनवचनं च ‘पयसा नित्यहोमः’ इति । अतो यज्ञानामग्निहोत्रं प्रायणम् ।
विश्वास-प्रस्तुतिः
तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नी॑द्ध्रम् । द्यौर्ह॑वि॒र्धान॑म् ।
मूलम्
तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒माग्नी॑द्ध्रम् । द्यौर्ह॑वि॒र्धान॑म् ।
भट्टभास्कर-टीका
2 इदानीमग्निहोत्रं महाक्रतुत्वेन रूपयति - तस्येत्यदि ॥ तस्याग्निहोत्रस्य यज्ञस्य पृथिव्यादयः सदस्स्थानीयाः ।
विश्वास-प्रस्तुतिः
दि॒व्या आप॒ᳶ प्रोक्ष॑णयः ।
ओष॑धयो ब॒र्हिः ॥34॥
वन॒स्पत॑य इ॒ध्मः ।
दिश॑ᳶ परि॒धयः॑ ।
आ॒दि॒त्यो यूपः॑ ।
यज॑मानᳶ प॒शुः ।
स॒मु॒द्रो॑ऽवभृ॒थः ।
मूलम्
दि॒व्या आप॒ᳶ प्रोक्ष॑णयः ।
ओष॑धयो ब॒र्हिः ॥34॥
वन॒स्पत॑य इ॒ध्मः ।
दिश॑ᳶ परि॒धयः॑ ।
आ॒दि॒त्यो यूपः॑ ।
यज॑मानᳶ प॒शुः ।
स॒मु॒द्रो॑ऽवभृ॒थः ।
भट्टभास्कर-टीका
दिव्या आपो वर्ष्याः ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रस्स्व॑गाका॒रः ।
मूलम्
सव्ँ॒व॒त्स॒रस्स्व॑गाका॒रः ।
भट्टभास्कर-टीका
स्वगाकारः समापयिता ।
विश्वास-प्रस्तुतिः
तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑र्हि॒ष्य॑न्द॒त्तम्भ॑वति ।
मूलम्
तस्मा॒दाहि॑ताग्ने॒स्सर्व॑मे॒व ब॑र्हि॒ष्य॑न्द॒त्तम्भ॑वति ।
भट्टभास्कर-टीका
यस्मादाहिताग्नेस्संस्थितोऽयं समस्तभुवनाधारः समस्तभौवनसामग्रीको महाक्रतुरग्निहोत्रं नाम नित्यो वर्तते । तस्मादाहिताग्नेस्संबन्धि यत्किंचिद्दत्तं तत्सर्वमपि बर्हिष्यं बर्हिर्दत्तम् । बर्हिरिति यज्ञनामसु पठ्यते
मूलम्
यत्सा॒यञ्जु॒होति॑ ।
रात्रि॑मे॒व तेन॑ दक्षि॒ण्या॑ङ्कुरुते ।
यत्प्रा॒तः ॥35॥
अह॑रे॒व तेन॑ दक्षि॒ण्य॑ङ्कुरुते ।
यत्ततो॒ ददा॑ति ।
सा दक्षि॑णा ।
विश्वास-प्रस्तुतिः
यत्सा॒यञ्जु॒होति॒ रात्रि॑मे॒व तेन॑ दक्षि॒ण्या॑ङ्कुरुते ।
यत्प्रा॒तर् अह॑रे॒व तेन॑ दक्षि॒ण्य॑ङ्कुरुते ।
मूलम्
यत्सा॒यञ्जु॒होति॒ रात्रि॑मे॒व तेन॑ दक्षि॒ण्या॑ङ्कुरुते ।
यत्प्रा॒तर् अह॑रे॒व तेन॑ दक्षि॒ण्य॑ङ्कुरुते ।
भट्टभास्कर-टीका
3 यत्सायमिति ॥ सायंहोमेन रात्रिं दक्षिण्यां दक्षिणया साध्वीं निर्वर्त्यमानदक्षिणां, प्रातर्होमेन अहः दक्षिण्यं दिवसं कुरुते ।
विश्वास-प्रस्तुतिः
यत्ततो॒ ददा॑ति॒ सा दक्षि॑णा ।
मूलम्
यत्ततो॒ ददा॑ति॒ सा दक्षि॑णा ।
भट्टभास्कर-टीका
तस्मात् यत् ततः तयोः अहोरात्रयोर्ददाति सा दक्षिणा यज्ञदक्षिणैव भवति । सप्तम्यर्थे तसिल् ।
मूलम्
याव॑न्तो॒ वै दे॒वा अहु॑त॒माद॑न् । ते परा॑ऽभवन् ।
त ए॒तद॑ग्निहो॒त्रँ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रव्ँ वै दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒न्निति॑ ।
विश्वास-प्रस्तुतिः
याव॑न्तो॒ वै दे॒वा अहु॑त॒माद॒न्न् ते परा॑ऽभवन् ।
त ए॒तद॑ग्निहो॒त्रँ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः ।
मूलम्
याव॑न्तो॒ वै दे॒वा अहु॑त॒माद॒न्न् ते परा॑ऽभवन् ।
त ए॒तद॑ग्निहो॒त्रँ सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः ।
भट्टभास्कर-टीका
4 यावन्त इत्यादि ॥ ते सर्वेऽपि पराऽभवन् असुरवशं गताः । सर्वस्यान्नस्य एकदेशं समवदाय अग्निहोत्रमजुहवुः ।
विश्वास-प्रस्तुतिः
तस्मा॑दाहुर् “अग्निहो॒त्रव्ँ वै दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒"न्निति॑ ।
मूलम्
तस्मा॑दाहुर् “अग्निहो॒त्रव्ँ वै दे॒वा गृ॒हाणा॒न्निष्कृ॑तिमपश्य॒"न्निति॑ ।
भट्टभास्कर-टीका
तस्मादाहुरित्यादि गृहाणां गृहसंबन्धिनां दोषाणां निर्हरणं अग्निहोत्रं देवा अपश्यन्, ये सर्वस्य समवदाय हुतवन्त इति ब्रह्मवादिन आहुः ।
मूलम्
यत्सा॒यञ्जु॒होति॑ ।
रात्रि॑या ए॒व तद्धु॒ताद्या॑य ॥36॥
यज॑मान॒स्याप॑राभावाय ।
यत्प्रा॒तः ।
अह्न॑ ए॒व तद्धु॒ताद्या॑य ।
यज॑मान॒स्याप॑राभावाय ।
यत्ततो॒ऽश्ञाति॑ ।
हु॒तमे॒व तत् ।
विश्वास-प्रस्तुतिः
यत्सा॒यञ्जु॒होति॒ रात्रि॑या ए॒व तद्धु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।
मूलम्
यत्सा॒यञ्जु॒होति॒ रात्रि॑या ए॒व तद्धु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।
भट्टभास्कर-टीका
यदित्यादि । सायं होमो रात्र्या हुताद्याय भवति । यद्रात्रावद्यते ततसर्वं हुतमेवाद्यते यथा तदर्थं भवति । यद्रात्रावद्यते तत्सर्वं हुतमेवाद्यते यथा तदर्थं भवति । हुतस्यादनं हुताद्यम् । छान्दसो भावे क्यप् ।
विश्वास-प्रस्तुतिः
यत्प्रा॒तर् अह्न॑ ए॒व तद्धु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।
मूलम्
यत्प्रा॒तर् अह्न॑ ए॒व तद्धु॒ताद्या॑य॒ यज॑मान॒स्याप॑राभावाय ।
भट्टभास्कर-टीका
प्रातर्होमश्चाह्नो हुताद्याय भवति, अहस्संबन्धि सर्वं हुतमेव ।
विश्वास-प्रस्तुतिः
यत्ततो॒ऽश्ञाति॑ हु॒तमे॒व तत् ।
मूलम्
यत्ततो॒ऽश्ञाति॑ हु॒तमे॒व तत् ।
भट्टभास्कर-टीका
यस्मादेवं तस्मात् यत्ततः तयोरश्नाति तत्सर्वं हुतमेव भवति ।
विश्वास-प्रस्तुतिः
द्वयो॒ᳶ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रम्मि॑थु॒नम् । य ए॒वव्ँ वेद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥37॥
मूलम्
द्वयो॒ᳶ पय॑सा जुहुयात्प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्रम्मि॑थु॒नम् । य ए॒वव्ँ वेद॑ । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते ॥37॥
भट्टभास्कर-टीका
द्वयोरित्यादि गतम्
मूलम्
इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया ।
विश्वास-प्रस्तुतिः
इ॒मामे॒व पूर्व॑या दु॒हा अ॒मूमुत्त॑रया ।
मूलम्
इ॒मामे॒व पूर्व॑या दु॒हा अ॒मूमुत्त॑रया ।
भट्टभास्कर-टीका
5 इमामेवेत्यादि ॥ प्रथमया गवा दुह्यमानया हेतुना पृथिव्येव दुग्धा भवति, उत्तरया द्यौर्दुग्धा भवति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । ‘चादिलोपः’ इति निघाताभावः ।
विश्वास-प्रस्तुतिः
अ॒धि॒श्रित्योत्त॑र॒मान॑यति ।
मूलम्
अ॒धि॒श्रित्योत्त॑र॒मान॑यति ।
भट्टभास्कर-टीका
प्रथमायाः पयोऽधिश्रित्य तस्मिन् द्वितीयस्याः पय आनयति
विश्वास-प्रस्तुतिः
योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने ।
मूलम्
योना॑वे॒व तद्रेत॑स्सिञ्चति प्र॒जन॑ने ।
भट्टभास्कर-टीका
तद्योनौ रेतस्सेचनतुल्यं भवति । प्रजनननिमित्तं तद्भवति ।
मूलम्
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य । तेजो॒ वा आज्य॑म् । ते॒ज॒स्व्ये॑व भ॑वति ।
विश्वास-प्रस्तुतिः
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑म् ।
ते॒ज॒स्व्ये॑व भ॑वति ।
मूलम्
आज्ये॑न जुहुया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑म् ।
ते॒ज॒स्व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
आज्येनेत्यादि गतम् ।
मूलम्
पय॑सा प॒शुका॑मस्य ।
ए॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥38॥
प॒शु॒माने॒व भ॑वति ।
द॒ध्नेन्द्रि॒यका॑मस्य । इ॒न्द्रि॒यव्ँ वै दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।
विश्वास-प्रस्तुतिः
पय॑सा प॒शुका॑मस्यै॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥38॥
प॒शु॒माने॒व भ॑वति ।
द॒ध्नेन्द्रि॒यका॑मस्ये॒न्द्रि॒यव्ँ वै दधि॑ ।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।
मूलम्
पय॑सा प॒शुका॑मस्यै॒तद्वै प॑शू॒नाँ रू॒पम् ।
रू॒पेणै॒वास्मै॑ प॒शूनव॑रुन्धे ॥38॥
प॒शु॒माने॒व भ॑वति ।
द॒ध्नेन्द्रि॒यका॑मस्ये॒न्द्रि॒यव्ँ वै दधि॑ ।
इ॒न्द्रि॒या॒व्ये॑व भ॑वति ।
भट्टभास्कर-टीका
पयसि नित्य एव कामः । रूपेण द्वारेण । अस्मै यजमानाय । पशून् लभते
मूलम्
य॒वा॒ग्वा॑ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः॑ । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे ।
विश्वास-प्रस्तुतिः
य॒वा॒ग्वा॑ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः॑ भाग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे ।
ग्रा॒म्ये॑व भ॑वति ।
मूलम्
य॒वा॒ग्वा॑ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः॑ भाग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑रुन्धे ।
ग्रा॒म्ये॑व भ॑वति ।
भट्टभास्कर-टीका
6 औषधा इत्यादि ॥ ओषधिप्रभवाः मनुष्याः । अन्नपरिणामत्वात् । तस्मादन्नपरिणामयवागूहोमस्सजातलाभाय भवति । स्वेनैव भागधेयेन हेतुना सजातसमूहात्मकग्रामसिद्धिः
मूलम्
अय॑ज्ञो॒ वा ए॒षः । यो॑ऽसा॒मा ॥ 39॥
विश्वास-प्रस्तुतिः
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ॥ 39॥
च॒तुरुन्न॑यति ।
चतु॑रक्षरँ रथन्त॒रम् ।
र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।
मूलम्
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒मा ॥ 39॥
च॒तुरुन्न॑यति ।
चतु॑रक्षरँ रथन्त॒रम् ।
र॒थ॒न्त॒रस्यै॒ष वर्णः॑ ।
भट्टभास्कर-टीका
7 अयज्ञो वा इत्यादि ॥ उन्नयने चतुष्टयान्वयाच्चतुरक्षररथन्तरलाभः । रथन्तरशब्दस्य चतुरक्षरत्वात् । रथन्तरस्य साम्न एवैतत् स्वरूपमग्निहोत्रे कृतं भवति । स्तोभाक्षराभिप्रायं वा चतुरक्षरत्वम् । तस्मात् ससामत्वान्नायज्ञत्वमिति ।
विश्वास-प्रस्तुतिः
उ॒परी॑व हरति ।
मूलम्
उ॒परी॑व हरति ।
भट्टभास्कर-टीका
उपरीति । उद्यम्यैव हरति नयति ।
विश्वास-प्रस्तुतिः
अ॒न्तरि॑क्षव्ँ वामदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑क्षरम्बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
मूलम्
अ॒न्तरि॑क्षव्ँ वामदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑क्षरम्बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
भट्टभास्कर-टीका
अन्तरिक्षं भवति वामदेव्यम् । तस्माद्वामदेव्यस्यापि रूपमग्निहोत्रे कृतं भवति । द्वित्वान्वयात् द्व्यक्षरबृहत्सामरूपलाभोऽग्निहोत्रेऽपि कृतो भवति ।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
मूलम्
अ॒ग्नि॒हो॒त्रमे॒व तत्साम॑न्वत्करोति ॥ 40॥
भट्टभास्कर-टीका
सामन्वदिति । ‘अनो नुट्’ ।
विश्वास-प्रस्तुतिः
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेदो॒पै॑नमुप॒सदो॑ नमन्ति ।
मूलम्
यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेदो॒पै॑नमुप॒सदो॑ नमन्ति ।
भट्टभास्कर-टीका
8 यो वा इत्यादि ॥ उपसद्यागस्थानीयानि उपसादनानि यो वेद एनमुपसद उपनमन्ति । उपसद्वान् यज्ञोऽस्य वशगो भवति ।
विश्वास-प्रस्तुतिः
वि॒न्दत॑ उपस॒त्तार॑म् ।
मूलम्
वि॒न्दत॑ उपस॒त्तार॑म् ।
भट्टभास्कर-टीका
किं च उपसत्तारं उपासितारं च लभते सर्वसेव्यो भवति
मूलम्
उ॒न्नीयोप॑सादयति ।
पृ॒थि॒वीमे॒व प्री॑णाति ।
हो॒ष्यन्नुप॑सादयति ।
अ॒न्तरि॑क्षमे॒व प्री॑णाति ।
हु॒त्वोप॑सादयति ।
दिव॑मे॒व प्री॑णाति ।
विश्वास-प्रस्तुतिः
उ॒न्नीयोप॑सादयति पृथि॒वीमे॒व प्री॑णाति ।
हो॒ष्यन्नुप॑सादयत्य् अ॒न्तरि॑क्षमे॒व प्री॑णाति ।
हु॒त्वोप॑सादयति॒ दिव॑मे॒व प्री॑णाति ।
मूलम्
उ॒न्नीयोप॑सादयति पृथि॒वीमे॒व प्री॑णाति ।
हो॒ष्यन्नुप॑सादयत्य् अ॒न्तरि॑क्षमे॒व प्री॑णाति ।
हु॒त्वोप॑सादयति॒ दिव॑मे॒व प्री॑णाति ।
भट्टभास्कर-टीका
9 उन्नीयेत्यादि ॥ उन्नयनानन्तरं गार्हपत्यस्य समीपे सादयेत् होष्यन् हुत्वा चाहवनीयस्य । पृथिव्यादयः प्रीता भवन्ति ।
मूलम्
ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ॥41॥
य ए॒वव्ँ वेद॑ ।
उपै॑नमुप॒सदो॑ नमन्ति ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेदो॒पै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार॑म् ।
मूलम्
य ए॒वव्ँ वेदो॒पै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार॑म् ।
भट्टभास्कर-टीका
एता वा इत्यादि गतम् ।
विश्वास-प्रस्तुतिः
यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्प्र॒त्याश्रा॑वितँ॒ होता॑रम्ब्र॒ह्माणव्ँ॑वषट्का॒रव्ँ वेद॑ । तस्य॒ त्वे॑व हु॒तम् ।
मूलम्
यो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम्प्र॒त्याश्रा॑वितँ॒ होता॑रम्ब्र॒ह्माणव्ँ॑वषट्का॒रव्ँ वेद॑ । तस्य॒ त्वे॑व हु॒तम् ।
भट्टभास्कर-टीका
10 यो वा इत्यादि ॥ आश्रावितादिज्ञस्यैवाग्निहोत्रं संभवति । आश्रावितादीनां प्राणादिस्थानीयत्वं शक्तिसंकल्पसामान्यादिना द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् ।
अ॒पा॒नᳶ प्र॒त्याश्रा॑वितम् ।
मनो॒ होता॑ ।
चक्षु॑र्ब्र॒ह्मा ।
नि॒मे॒षो व॑षट्का॒रः ॥42॥
मूलम्
प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् ।
अ॒पा॒नᳶ प्र॒त्याश्रा॑वितम् ।
मनो॒ होता॑ ।
चक्षु॑र्ब्र॒ह्मा ।
नि॒मे॒षो व॑षट्का॒रः ॥42॥
भट्टभास्कर-टीका
प्राण आश्रावितं प्राथम्यात्, अपान प्रत्याश्रावितं तदुत्तरकालभावित्वात्, मनो होता संकल्पयितृत्वात्, चक्षुर्ब्रह्म साक्षी, निमेषो वपट्कारः समाप्तत्वात् ।
मूलम्
य ए॒वव्ँ वेद॑ । तस्य॒ त्वे॑व हु॒तम् ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒ तस्य॒ त्वे॑व हु॒तम् ।
मूलम्
य ए॒वव्ँ वेद॒ तस्य॒ त्वे॑व हु॒तम् ।
भट्टभास्कर-टीका
एवं वेदितुरेव हुतं भवति । अन्येषां तु वृथा प्रयासः ।
मूलम्
सा॒यय्ँ॒यावा॑नश्च॒ वै दे॒वाᳶ प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति ।
तान् यन्न त॒र्पये॑त् ।
प्र॒जया॑ऽस्य प॒शुभि॒र्विति॑ष्ठेरन् ।
यत्त॒र्पये॑त् । तृ॒प्ता ए॑नम्प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः ।
विश्वास-प्रस्तुतिः
सा॒यय्ँ॒यावा॑नश्च॒ वै दे॒वाᳶ प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति ।
मूलम्
सा॒यय्ँ॒यावा॑नश्च॒ वै दे॒वाᳶ प्रा॑त॒र्यावा॑णश्चाग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति ।
भट्टभास्कर-टीका
11 सायंयावान इत्यादि ॥ यातेः ‘आतो मनिन्’ इति वनिप् ।
विश्वास-प्रस्तुतिः
तान् यन्न त॒र्पये॑त् प्र॒जया॑ऽस्य प॒शुभि॒र्विति॑ष्ठेरन् ।
यत्त॒र्पये॑त् तृ॒प्ता ए॑नम्प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः ।
स॒जूर्दे॒वैस्सा॒यय्ँ याव॑भि॒रिति॑ सा॒यँ सम्मृ॑शति ।
स॒जूर्दे॒वैᳶ प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः ।

ये चै॒व दे॒वास्सा॑यय्ँ॒यावा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ॥43॥
ताने॒वोभयाँ॑ स्तर्पयति ।
विश्वास-प्रस्तुतिः
ये चै॒व दे॒वास्सा॑यय्ँ॒यावा॑नो॒ ये च॑ प्रात॒र्यावा॑ण॒स् ताने॒वोभयाँ॑ स्तर्पयति ।
त ए॑नन्तृ॒प्ताᳶ प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति ।
मूलम्
ये चै॒व दे॒वास्सा॑यय्ँ॒यावा॑नो॒ ये च॑ प्रात॒र्यावा॑ण॒स् ताने॒वोभयाँ॑ स्तर्पयति ।
त ए॑नन्तृ॒प्ताᳶ प्र॒जया॑ प॒शुभि॑स्तर्पयन्ति ।
भट्टभास्कर-टीका
अस्य यजमानस्य प्रजया च पशुभिश्च वितिष्ठेरन्, एतानादाय विशिष्य तिष्ठेयुः । ‘समवप्रविभ्यः’ इत्यात्मनेपदम् । गतमन्यत्
विश्वास-प्रस्तुतिः
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
मूलम्
अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः ।
भट्टभास्कर-टीका
12 अरुण इत्यादि ॥ अरुणो नाम उपवेशस्य पुत्रः ।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒हो॒त्र ए॒वाहँ सा॒यम्प्रा॑त॒र्वज्र॒म्भ्रातृ॑व्येभ्य॒ᳶ प्रह॑रामि । तस्मा॒न्मत्पापी॑याँसो॒ भ्रातृ॑व्या॒ इति॑ ।
मूलम्
अ॒ग्नि॒हो॒त्र ए॒वाहँ सा॒यम्प्रा॑त॒र्वज्र॒म्भ्रातृ॑व्येभ्य॒ᳶ प्रह॑रामि । तस्मा॒न्मत्पापी॑याँसो॒ भ्रातृ॑व्या॒ इति॑ ।
भट्टभास्कर-टीका
अग्निहोत्र इत्यादि गतम् । मत्पापीयांसः मत्तो निकृष्टाः । ‘अल्पाच्तरम्’ इतिवत् स्वार्थिकः प्रकर्षप्रत्ययः ।
विश्वास-प्रस्तुतिः
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
स॒मित्स॑प्त॒मी ।
स॒प्तप॑दा॒ शक्व॑री ।
शा॒क्व॒रो वज्रः॑ ।
अ॒ग्नि॒हो॒त्र ए॒व तत्सा॒यम्प्रा॑त॒र्वज्रय्ँ॒यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति ।
मूलम्
च॒तुरुन्न॑यति ।
द्विर्जु॑होति ।
स॒मित्स॑प्त॒मी ।
स॒प्तप॑दा॒ शक्व॑री ।
शा॒क्व॒रो वज्रः॑ ।
अ॒ग्नि॒हो॒त्र ए॒व तत्सा॒यम्प्रा॑त॒र्वज्रय्ँ॒यज॑मानो॒ भ्रातृ॑व्याय॒ प्रह॑रति ।
भट्टभास्कर-टीका
चतुरुन्नयतीत्यादि । सप्तत्वान्वयात् सप्तदशशक्वर्यात्मकं वज्रं वीर्यं सायंप्रातर्भ्रातृव्याय प्रहरति प्रेषयति यजमानः ।
विश्वास-प्रस्तुतिः
भव॑त्या॒त्मना॑ ।
मूलम्
भव॑त्या॒त्मना॑ ।
भट्टभास्कर-टीका
ततस्स्वयं संपद्यते ।
विश्वास-प्रस्तुतिः
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ॥44॥
मूलम्
परा॑ऽस्य॒ भ्रातृ॑व्यो भवति ॥44॥
भट्टभास्कर-टीका
भ्रातृव्यः पराभवति नश्यति ।
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥