०४ उपयुक्तस्य हविषस्संस्कारः

मूलम्

उ॒त्त॒राव॑तीव्ँ॒ वै दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्वँ॑ हु॒त्वा । उत्त॑र॒म्भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ॥25॥
यस्यै॒वञ्जुह्व॑ति । भव॑त्ये॒व ।

विश्वास-प्रस्तुतिः

उ॒त्त॒राव॑तीव्ँ॒ वै दे॒वा आहु॑ति॒मजु॑हवु॒र् अवा॑ची॒मसु॑राः ।

ततो॑ दे॒वा अभ॑व॒न्न् पराऽसु॑राः ।

यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ कनी॑य॒स्तस्य॒ पूर्वँ॑ हु॒त्वोत्त॑र॒म्भूयो॑ जुहुयात् ।

ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः ।
तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ॥25॥

यस्यै॒वञ्जुह्व॑ति॒ भव॑त्ये॒व ।

मूलम्

उ॒त्त॒राव॑तीव्ँ॒ वै दे॒वा आहु॑ति॒मजु॑हवु॒र् अवा॑ची॒मसु॑राः ।

ततो॑ दे॒वा अभ॑व॒न्न् पराऽसु॑राः ।

यङ्का॒मये॑त॒ वसी॑यान्त्स्या॒दिति॒ कनी॑य॒स्तस्य॒ पूर्वँ॑ हु॒त्वोत्त॑र॒म्भूयो॑ जुहुयात् ।

ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः ।
तान्दे॒वा अ॑जुहवुः । तत॒स्ते॑ऽभवन्न् ॥25॥

यस्यै॒वञ्जुह्व॑ति॒ भव॑त्ये॒व ।

भट्टभास्कर-टीका

1 उत्तरावतीमित्यादि ॥ उत्तरं भूयः बहुलं भूयस्तया प्रशस्तं वा यस्यामाहुत्यां सा उत्तरावती । भूम्नि प्रशंसायां वा मतुप्, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । अवागञ्चतीत्यवाची, पूर्वस्मादुत्तरमवाचीनमल्पं यस्यां साऽवाची तां अवाचीनाम् ।

मूलम्

यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्वँ॑ हु॒त्वा । उत्त॑र॒ङ्कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन् । यस्यै॒वञ्जुह्व॑ति । परै॒व भ॑वति ॥26॥

विश्वास-प्रस्तुतिः

मूलम्

विश्वास-प्रस्तुतिः

यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॒ भूय॒स्तस्य॒ पूर्वँ॑ हु॒त्वोत्त॑र॒ङ्कनी॑यो जुहुयात् ।

ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन् ।

यस्यै॒वञ्जुह्व॑ति॒ परै॒व भ॑वति ॥26॥

मूलम्

यङ्का॒मये॑त॒ पापी॑यान्त्स्या॒दिति॒ भूय॒स्तस्य॒ पूर्वँ॑ हु॒त्वोत्त॑र॒ङ्कनी॑यो जुहुयात् ।

ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑ऽभवन् ।

यस्यै॒वञ्जुह्व॑ति॒ परै॒व भ॑वति ॥26॥

भट्टभास्कर-टीका

इदानीमाहुतिद्वयस्य स्वरूपं स्वयमेव दर्शयति - यमित्यादि । वसीयान् वसुमत्तरः कनीयः अल्पतरं ‘युवाल्पयोः कनन्यतरस्याम्’ । भूयो बहुतरं बहुलतरं ‘बहोर्लोपो भू च बहोः’ । पापीयान् पापतरः वसुहीनः ।

मूलम्

हु॒त्वोप॑सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै ।

विश्वास-प्रस्तुतिः

हु॒त्वोप॑सादय॒त्यजा॑मित्वायाथो॒ व्यावृ॑त्त्यै ।
गार्ह॑पत्य॒म्प्रती॑क्षते ।

मूलम्

हु॒त्वोप॑सादय॒त्यजा॑मित्वायाथो॒ व्यावृ॑त्त्यै ।
गार्ह॑पत्य॒म्प्रती॑क्षते ।

भट्टभास्कर-टीका

2 हुत्वेति ॥ सकृद्धुत्वा मध्ये उपसादयति, अजामित्वाय अनालस्याय, अव्यवधानेन ह्यनुष्ठानमालस्यं जनयेत् । अपिच व्यावृत्त्यर्प चाहुत्योरेकाहुतित्वं मा विज्ञायेतेति

विश्वास-प्रस्तुतिः

अन॑नुध्यायिनमे॒वैन॑ङ्करोति ।

मूलम्

अन॑नुध्यायिनमे॒वैन॑ङ्करोति ।

भट्टभास्कर-टीका

3 अननुध्यायिनमिति ॥ निकर्षेऽनुशब्दः । अन्यत्र होमात् क्रुद्धो यजमानं निकृष्टमनुध्यायति, प्रतीक्षणेन शान्तोऽनुध्यायी न भवति गार्हपत्यः

मूलम्

अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति ।

मूलम्

तय्ँय ऋ॒च्छेत् ।
य॒ज्ञ॒स्था॒णुमृ॑च्छेत् ।

ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्पूर्वाऽऽहु॑तिः ।

ताय्ँयदुत्त॑रया॒ऽभिजु॑हु॒यात् ॥27॥
य॒ज्ञ॒स्था॒णुमृ॑च्छेत् ।

अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑वृणक्ति ।

विश्वास-प्रस्तुतिः

अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति ।
तय्ँय ऋ॒च्छेद् यज्ञस्था॒णुमृ॑च्छेत् ।

मूलम्

अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति ।
तय्ँय ऋ॒च्छेद् यज्ञस्था॒णुमृ॑च्छेत् ।

भट्टभास्कर-टीका

4 अग्निहोत्रस्य वा इत्यादि ॥ स्थाणुः स्थितिहेतुः स्तम्भः अग्निहोत्रस्य, यश्च स्थाणुरस्ति, यद्वा - तद्धार्यते, तं य ऋच्छेत् प्राप्नुयात् तेन निरुद्धं स्यात् यज्ञस्यैव स्थाणुमृच्छेत् यज्ञनिरोधमेव प्राप्नुयात् ततःपरं यज्ञ एव नास्तीति । प्रतिबन्धवचनेन षष्ठीसमासः ।

विश्वास-प्रस्तुतिः

ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुर् यत्पूर्वाऽऽहु॑तिः ।

मूलम्

ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुर् यत्पूर्वाऽऽहु॑तिः ।

भट्टभास्कर-टीका

पूर्वाऽऽहुतिरग्निहोत्रस्य स्थाणुस्थानीया, तामुत्तरया आहुत्या यद्यभिजुहोति होमेनाभिक्रामयेत् यज्ञप्रतिबन्धं प्राप्नुयात् ।

विश्वास-प्रस्तुतिः

ताय्ँयदुत्त॑रया॒ऽभिजु॑हु॒याद् यज्ञस्था॒णुमृ॑च्छेत् ।

अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति॒ यज्ञस्था॒णुमे॒व परि॑वृणक्ति ।

मूलम्

ताय्ँयदुत्त॑रया॒ऽभिजु॑हु॒याद् यज्ञस्था॒णुमृ॑च्छेत् ।

अ॒ति॒हाय॒ पूर्वा॒माहु॑तिञ्जुहोति॒ यज्ञस्था॒णुमे॒व परि॑वृणक्ति ।

भट्टभास्कर-टीका

तस्मात्पूर्वाहुतिमतिहाय अतिक्रम्य अन्यत्रावकाशे उत्तरामाहुतिं जुहोति यज्ञस्थाणुमेव परिवृणक्ति परिवर्जयति ।

विश्वास-प्रस्तुतिः

अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑क्रामति ।

मूलम्

अथो॒ भ्रातृ॑व्यमे॒वाप्त्वाऽति॑क्रामति ।

भट्टभास्कर-टीका

अपिच भ्रातृव्यमाप्त्वा यथा लोके कश्चिच्छत्रुमतिक्रम्य गच्छति तथेवेदम् ॥

विश्वास-प्रस्तुतिः

अ॒वा॒चीनँ॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वम्प्रा॒तः । प्रज॑नयत्ये॒व तत् ।

मूलम्

अ॒वा॒चीनँ॑ सा॒यमुप॑मार्ष्टि । रेत॑ ए॒व तद्द॑धाति । ऊ॒र्ध्वम्प्रा॒तः । प्रज॑नयत्ये॒व तत् ।

भट्टभास्कर-टीका

5 अवाचीनमित्यादि ॥ बिलान्तादारभ्य उन्मार्ष्टि निषिक्तस्य रेतसः जननस्थानीयं तत् ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ॥28॥
द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वै॑श्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वै॑श्वान॒रः । यद्ब्रा॑ह्म॒णः । हु॒त्वा द्विᳶ प्राश्ञा॑ति । अ॒ग्नावे॒व वै॑श्वान॒रे द्वे आहु॑ती जुहोति ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
च॒तुरुन्न॑यति॒ द्विर्जु॑होति ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
च॒तुरुन्न॑यति॒ द्विर्जु॑होति ।

भट्टभास्कर-टीका

6 ब्रह्मवादिन इत्यादि ॥ उन्नयनस्याहुत्यर्थत्वात् प्रत्युन्नयनमाहुतिभिर्भाव्यमिति चतुश्चोन्नीयते द्विस्तु हूयतेऽस्मिन्नग्नौ ।

विश्वास-प्रस्तुतिः

अथ॒ “क्व॑ द्वे आहु॑ती भवत॒” इति॑ ।
“अ॒ग्नौ वै॑श्वान॒र” इति॑ ब्रूयात् ।

मूलम्

अथ॒ “क्व॑ द्वे आहु॑ती भवत॒” इति॑ ।
“अ॒ग्नौ वै॑श्वान॒र” इति॑ ब्रूयात् ।

भट्टभास्कर-टीका

अथेतरे द्वे आहुती क्व अग्नौ भवत इति ब्रह्मवादिनः पर्यनुयोगमाहुः । तेभ्योऽग्नो वैश्वानर इत्युत्तरम् ।

विश्वास-प्रस्तुतिः

ए॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।
हु॒त्वा द्विᳶ प्राश्ञा॑ति । अ॒ग्नावे॒व वै॑श्वान॒रे द्वे आहु॑ती जुहोति ।

मूलम्

ए॒ष वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णः ।
हु॒त्वा द्विᳶ प्राश्ञा॑ति । अ॒ग्नावे॒व वै॑श्वान॒रे द्वे आहु॑ती जुहोति ।

भट्टभास्कर-टीका

एष वा इत्यादि । प्राशनविधिर्गतः । न हि प्रतिपत्तिरुन्नयनं प्रयोजयतीत्यभिप्रायेण द्वेद्वे आहुती जुहेतीत्युक्तम् ।

विश्वास-प्रस्तुतिः

द्विर्जु॒होति॑ ।
द्विर्निमा॑र्ष्टि ।
द्विᳶ प्राश्ञा॑ति ॥29॥
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।

मूलम्

द्विर्जु॒होति॑ ।
द्विर्निमा॑र्ष्टि ।
द्विᳶ प्राश्ञा॑ति ॥29॥
षट्त्सम्प॑द्यन्ते ।
षड्वा ऋ॒तवः॑ ।
ऋ॒तूने॒व प्री॑णाति ।

भट्टभास्कर-टीका

द्विर्जुहोतीत्यादि । गतम्

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि॒न्दे॒व॒त्य॑मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् ।

यद्यजु॑षा जु॒होति॑ । तदै॑न्द्रा॒ग्नम् । यत्तू॒ष्णीम् । तत्प्रा॑जाप॒त्यम् ॥30॥
यन्नि॒मार्ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीय॑म् । तत्पि॑तृ॒णाम् । यत्प्राश्ञा॑ति । तद्गर्भा॑णाम् । तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् । उद॑ङ्पर्या॒वृत्याचा॑मति ॥31॥
आ॒त्मनो॑ गोपी॒थाय॑ । निर्णे॑नेक्ति॒ शुद्ध्यै॑ । निष्ट॑पति स्व॒गाकृ॑त्यै । उद्दि॑शति । स॒प्त॒र्षीने॒व प्री॑णाति ।

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “कि॒न्दे॒व॒त्य॑मग्निहो॒त्र"मिति॑ ।
“वै॒श्व॒दे॒व"मिति॑ ब्रूयात् ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति - “कि॒न्दे॒व॒त्य॑मग्निहो॒त्र"मिति॑ ।
“वै॒श्व॒दे॒व"मिति॑ ब्रूयात् ।

भट्टभास्कर-टीका

7 ब्रह्मवादिनो वदन्ति किंदेवत्यमित्यादि ॥ वैश्वदेवमित्युत्तरं ब्रूयात् ।

विश्वास-प्रस्तुतिः

यद्यजु॑षा जु॒होति॒ तदै॑न्द्रा॒ग्नम् ।

मूलम्

यद्यजु॑षा जु॒होति॒ तदै॑न्द्रा॒ग्नम् ।

भट्टभास्कर-टीका

वैश्वदेवत्वं प्रतिपाद्यमित्याह - यद्यजुषस्योदि ।

मन्त्रः

भट्टभास्कर-टीका

ऐन्द्राग्नमिति । इन्द्रः ईश्वरत्वादाहुत्याः ।

विश्वास-प्रस्तुतिः

यत्तू॒ष्णीम् तत्प्रा॑जाप॒त्यम् ॥30॥

मूलम्

यत्तू॒ष्णीम् तत्प्रा॑जाप॒त्यम् ॥30॥

भट्टभास्कर-टीका

प्राजापत्यमिति । अनिरुक्तरूपत्वात्, ओषधीनामिति ।

विश्वास-प्रस्तुतिः

यन्नि॒मार्ष्टि॒ तदोष॑धीनाम् ।

यद्द्वि॒तीय॒म् तत्पि॑तृ॒णाम् ।

मूलम्

यन्नि॒मार्ष्टि॒ तदोष॑धीनाम् ।

यद्द्वि॒तीय॒म् तत्पि॑तृ॒णाम् ।

भट्टभास्कर-टीका

मार्जनयोरोषधिदेवतात्वं मन्त्रलिङ्गात् ।

विश्वास-प्रस्तुतिः

यत्प्राश्ञा॑ति॒ तद्गर्भा॑णाम् ।

तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते ।

मूलम्

यत्प्राश्ञा॑ति॒ तद्गर्भा॑णाम् ।

तस्मा॒द्गर्भा॒ अन॑श्ञन्तो वर्धन्ते ।

भट्टभास्कर-टीका

गर्भाणामिति । तेनाप्यायिता गर्भा अनश्नन्तः अभुञ्जाना वर्धन्त इति ।

विश्वास-प्रस्तुतिः

यदा॒चाम॑ति॒ तन्म॑नु॒ष्या॑णाम् ।

मूलम्

यदा॒चाम॑ति॒ तन्म॑नु॒ष्या॑णाम् ।

भट्टभास्कर-टीका

मनुष्याणामिति । पानीयप्रियत्वात्तेषाम् ।

विश्वास-प्रस्तुतिः

उद॑ङ्पर्या॒वृत्याचा॑मत्य् आ॒त्मनो॑ गोपी॒थाय॑ ।

मूलम्

उद॑ङ्पर्या॒वृत्याचा॑मत्य् आ॒त्मनो॑ गोपी॒थाय॑ ।

भट्टभास्कर-टीका

उदङ्ङित्यादि । गतम् । आत्मनो रक्षणार्थम् ।

विश्वास-प्रस्तुतिः

निर्णे॑नेक्ति॒ शुद्ध्यै॑ । निष्ट॑पति स्व॒गाकृ॑त्यै ।

मूलम्

निर्णे॑नेक्ति॒ शुद्ध्यै॑ । निष्ट॑पति स्व॒गाकृ॑त्यै ।

भट्टभास्कर-टीका

निर्णेजनं स्रुचश्शोधनम् । निष्टपनं तस्या अग्नौ तापनम् । स्वगाकरणं कर्मसमापनम् । आत्मगामि फलं तदेति ।

विश्वास-प्रस्तुतिः

उद्दि॑शति सप्तर्षीने॒व प्री॑णाति ।

मूलम्

उद्दि॑शति सप्तर्षीने॒व प्री॑णाति ।

भट्टभास्कर-टीका

उद्दिशतीति । ‘सप्तर्षिभ्यस्त्वा’ इति स्रुचा उद्दिशति सप्तर्षींस्तेन तर्पयति ।

विश्वास-प्रस्तुतिः

द॒क्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑प॒र्याव॑र्तते । तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑प॒र्याव॑र्तते ।

मूलम्

द॒क्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑प॒र्याव॑र्तते । तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑प॒र्याव॑र्तते ।

भट्टभास्कर-टीका

दक्षिणेत्यादि । व्याख्यातम्

मूलम्

हु॒त्वोप॒समि॑न्धे ॥32॥
ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै । न ब॒र्हिरनु॒ प्रह॑रेत् । असँ॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नुप्र॒हरे॑त् । य॒ज्ञव्ँ विच्छि॑न्द्यात् । तस्मा॒न्नानु॑ प्र॒हृत्य॑म् । य॒ज्ञस्य॒ सन्त॑त्यै ।

विश्वास-प्रस्तुतिः

हु॒त्वोप॒समि॑न्धे ब्रह्मवर्च॒सस्य॒ समि॑द्ध्यै ।

मूलम्

हु॒त्वोप॒समि॑न्धे ब्रह्मवर्च॒सस्य॒ समि॑द्ध्यै ।

भट्टभास्कर-टीका

8 हुत्वेति ॥ होमानन्तरं पुनः अग्निं ज्वलयति ब्रह्मवचसस्य संदीपनाय भाति ।

विश्वास-प्रस्तुतिः

न ब॒र्हिरनु॒ प्रह॑रेत् ।

मूलम्

न ब॒र्हिरनु॒ प्रह॑रेत् ।

भट्टभास्कर-टीका

न बर्हिरित्यादि । बर्हिः परिस्तरणम् ।

विश्वास-प्रस्तुतिः

असँ॑स्थितो॒ वा ए॒ष य॒ज्ञः ।
यद॑ग्निहो॒त्रम् , यद॑नुप्र॒हरे॑द् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।

तस्मा॒न्नानु॑ प्र॒हृत्य॑म् य॒ज्ञस्य॒ सन्त॑त्यै ।

मूलम्

असँ॑स्थितो॒ वा ए॒ष य॒ज्ञः ।
यद॑ग्निहो॒त्रम् , यद॑नुप्र॒हरे॑द् य॒ज्ञव्ँ विच्छि॑न्द्यात् ।

तस्मा॒न्नानु॑ प्र॒हृत्य॑म् य॒ज्ञस्य॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

असंस्थित इत्यादि । यावज्जीववचनात् । दर्शपूर्णमासयोस्तु वचनात्प्रहरणं न्यायसाम्येऽपि ।

विश्वास-प्रस्तुतिः

अ॒पो निन॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥33॥

मूलम्

अ॒पो निन॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥33॥

भट्टभास्कर-टीका

अपो निनयतीत्यादि । अग्निहोत्रस्थालीप्रक्षालनैरपो निनयति, अवभृथस्यैवेदं रूपं करोतीति । पूर्ववल्ल्ट्लिटोरन्यतरः

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥