०३ उपयोक्ष्यमाणस्य हविषस्संस्कारः

मूलम्

रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी॑ स्था॒ली । यन्मध्ये॒ऽग्नेर॑धि॒श्रये॑त् । रु॒द्राय॒ पत्नी॒मपि॑दध्यात् । प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ । व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ॥16॥

विश्वास-प्रस्तुतिः

रु॒द्रो वा ए॒ष यद॒ग्निः ।

पत्नी॑ स्था॒ली ।

मूलम्

रु॒द्रो वा ए॒ष यद॒ग्निः ।

पत्नी॑ स्था॒ली ।

भट्टभास्कर-टीका

1 रुद्रो वा इत्यादि ॥ स्वयं रुद्र एव अग्निः, पत्नीस्थानीया स्थाली, अपत्यानामिव पयस आधारत्वात् ।

विश्वास-प्रस्तुतिः

यन्मध्ये॒ऽग्नेर॑धि॒श्रये॑द् रु॒द्राय॒ पत्नी॒मपि॑दध्यात् ।

मूलम्

यन्मध्ये॒ऽग्नेर॑धि॒श्रये॑द् रु॒द्राय॒ पत्नी॒मपि॑दध्यात् ।

भट्टभास्कर-टीका

तां यदा गार्हपत्यस्य मध्ये अधिश्रयेत् रुद्राय पत्नीमपि दध्यात् उपहारत्वेन दद्यात् ।

विश्वास-प्रस्तुतिः

प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति॒ पत्नि॑यै गोपी॒थाय॑ ।

मूलम्

प्र॒मायु॑का स्यात् । उदी॒चोऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति॒ पत्नि॑यै गोपी॒थाय॑ ।

भट्टभास्कर-टीका

ततश्च सा प्रमायुका मरणशीला स्यात् । छान्दस उकङ् । तस्मात् उदीचोऽङ्गारान्निरूह्य निर्गमय्य तत्र अधिश्रयति स्थालीं पत्न्याः रक्षणार्थम् ।

विश्वास-प्रस्तुतिः

व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ॥16॥

मूलम्

व्य॑न्तान्करोति । तथा॒ पत्न्यप्र॑मायुका भवति ॥16॥

भट्टभास्कर-टीका

व्यन्तान् विगतान्तान् गार्हपत्ये संसृष्टान् अङ्गारान् करोति, तथा हि सति पत्न्यप्रमायुका भवति

मूलम्

घ॒र्मो वा ए॒षोऽशा॑न्तः । अह॑रह॒ᳶ प्रवृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चेत्प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्य॑म् । न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।

विश्वास-प्रस्तुतिः

घ॒र्मो वा ए॒षोऽशा॑न्त॒ अह॑रह॒ᳶ प्रवृ॑ज्यते॒ यद॑ग्निहो॒त्रम् ।

मूलम्

घ॒र्मो वा ए॒षोऽशा॑न्त॒ अह॑रह॒ᳶ प्रवृ॑ज्यते॒ यद॑ग्निहो॒त्रम् ।

भट्टभास्कर-टीका

2 घर्मो वा इत्यादि ॥ घर्मः प्रवर्ग्यः खलु यः अहरहः प्रवृज्यते; अग्निहोत्रं नाम घर्मः अशान्तो भवति ।

विश्वास-प्रस्तुतिः

प्रति॑षिञ्चेत्प॒शुका॑मस्य ।

मूलम्

प्रति॑षिञ्चेत्प॒शुका॑मस्य ।

भट्टभास्कर-टीका

तस्मात् पशुकामस्य प्रतिषिञ्चेत् स्रुवेणापस्तत्र क्षिपेत् ।

विश्वास-प्रस्तुतिः

शा॒न्तमि॑व॒ हि प॑श॒व्य॑म् ।

मूलम्

शा॒न्तमि॑व॒ हि प॑श॒व्य॑म् ।

भट्टभास्कर-टीका

यस्मात् शान्तं पशव्यं पशुभ्यो हितं भवनि, गवादिभ्यो यत् ।

विश्वास-प्रस्तुतिः

न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।

मूलम्

न प्रति॑षिञ्चेद्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।

भट्टभास्कर-टीका

नेत्यादि । गतम्

मूलम्

अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्प्र॑तिषि॒ञ्चति॑ ॥17॥
तत्प॑श॒व्य॑म् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ ।

विश्वास-प्रस्तुतिः

अथो॒ खलु॒ प्रति॒षिच्य॑मे॒व ।

यत्प्र॑तिषि॒ञ्चति॒ तत्प॑श॒व्य॑म् ।

यज्जु॒होति॒ तद्ब्र॑ह्मवर्च॒सि ।

मूलम्

अथो॒ खलु॒ प्रति॒षिच्य॑मे॒व ।

यत्प्र॑तिषि॒ञ्चति॒ तत्प॑श॒व्य॑म् ।

यज्जु॒होति॒ तद्ब्र॑ह्मवर्च॒सि ।

भट्टभास्कर-टीका

3 अथो इत्यादि ॥ सर्वेषां प्रतिषेकविधिः नित्य एव, न काम्यः । तथा न होमतुल्यत्वं प्रतिषेकस्याह ।

विश्वास-प्रस्तुतिः

उ॒भय॑मे॒वाकः॑ ।

मूलम्

उ॒भय॑मे॒वाकः॑ ।

भट्टभास्कर-टीका

तस्मात् उभयं प्रतिषेको होमश्च उभयफलसिद्धये कृतं भवति । सिचेः छान्दसः क्यप्, करोतेश्छान्दसो लुङ्

मूलम्

प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒कात् । अग॑तन्देवलो॒कम् । यच्छृ॒तँ ह॒विरन॑भिघारितम् । अ॒भिद्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑द्गमयति ॥18॥

विश्वास-प्रस्तुतिः

प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒काद् अग॑तन्देवलो॒कम् ।

यच्छृ॒तँ ह॒विरन॑भिघारितम॒भिद्यो॑तयत्य् अ॒भ्ये॑वैन॑द्घारयति ।

मूलम्

प्रच्यु॑तव्ँ॒वा ए॒तद॒स्माल्लो॒काद् अग॑तन्देवलो॒कम् ।

यच्छृ॒तँ ह॒विरन॑भिघारितम॒भिद्यो॑तयत्य् अ॒भ्ये॑वैन॑द्घारयति ।

भट्टभास्कर-टीका

4 प्रच्युतमित्यादि ॥ प्रच्युतमस्माल्लोकात् देवतायै संकल्प्य शृतत्वात्, अगतं देवसकाशं शृतस्यानभिघारितस्यैतदयोग्यत्वात्, तस्मादभिद्योतनं अभिघारणस्थानीयमिदं कुर्यादिति ।

विश्वास-प्रस्तुतिः

अथो॑ देव॒त्रैवैन॑द्गमयति ॥18॥

मूलम्

अथो॑ देव॒त्रैवैन॑द्गमयति ॥18॥

भट्टभास्कर-टीका

अपिचाभिघारणेन एनत् देवान् गमयति देवयोग्यमेव करोति ‘देवमनुष्य’ इत्यादिना त्राप्रत्ययः

मूलम्

पर्य॑ग्नि करोति । रक्ष॑सा॒मप॑हत्यै । त्रिᳶ पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेध्य॒त्वाय॑ ।

विश्वास-प्रस्तुतिः

पर्य॑ग्नि करोति॒ रक्ष॑सा॒मप॑हत्यै ।

त्रिᳶ पर्य॑ग्नि करोति ।

मूलम्

पर्य॑ग्नि करोति॒ रक्ष॑सा॒मप॑हत्यै ।

त्रिᳶ पर्य॑ग्नि करोति ।

भट्टभास्कर-टीका

5 पर्यग्नीत्यादि ॥ अग्रेः परितस्संचरणं पर्यग्निकरणम् ।

विश्वास-प्रस्तुतिः

त्र्या॑वृ॒द्धि य॒ज्ञः ।

मूलम्

त्र्या॑वृ॒द्धि य॒ज्ञः ।

भट्टभास्कर-टीका

त्र्यावृत् व्यावृत्तिकः ।

विश्वास-प्रस्तुतिः

अथो॑ मेध्य॒त्वाय॑ ।

मूलम्

अथो॑ मेध्य॒त्वाय॑ ।

भट्टभास्कर-टीका

अपिच मेध्यत्वाय पर्यग्निकरणं भवति

मूलम्

यत्प्रा॒चीन॑मुद्वा॒सये॑त् । यज॑मानँ शु॒चाऽर्प॑येत् । यद्द॑क्षि॒णा । पि॒तृ॒दे॒व॒त्यँ॑ स्यात् । यत्प्र॒त्यक् ॥19॥
पत्नीँ॑ शु॒चाऽर्प॑येत् । उ॒दी॒चीन॒मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् । तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै॑ । वर्त्म॑ करोति । य॒ज्ञस्य॒ सन्त॑त्यै ।

विश्वास-प्रस्तुतिः

यत्प्रा॒चीन॑मुद्वा॒सये॑द् यज॑मानँ शु॒चाऽर्प॑येत् ।

मूलम्

यत्प्रा॒चीन॑मुद्वा॒सये॑द् यज॑मानँ शु॒चाऽर्प॑येत् ।

भट्टभास्कर-टीका

6 यत्प्राचीनमित्यादि ॥ प्राचीनं प्राङ्मुखगतिकं यद्युद्वासयेत् उदूहेत् यजमानं शोकार्तं कुर्यात् ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः ।

विश्वास-प्रस्तुतिः

यद्द॑क्षि॒णा पितृदेव॒त्यँ॑ स्यात् ।

यत्प्र॒त्यक् पत्नीँ॑ शु॒चाऽर्प॑ये॒दुदी॒चीन॒मुद्वा॑सयति ।

मूलम्

यद्द॑क्षि॒णा पितृदेव॒त्यँ॑ स्यात् ।

यत्प्र॒त्यक् पत्नीँ॑ शु॒चाऽर्प॑ये॒दुदी॒चीन॒मुद्वा॑सयति ।

भट्टभास्कर-टीका

दक्षिणा दक्षिणस्यां, ‘दक्षिणादाच्’ ।

विश्वास-प्रस्तुतिः

ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् ।
तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै॑ ।

मूलम्

ए॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् ।
तामे॒वैन॒दनूद्वा॑सयति॒ शान्त्यै॑ ।

भट्टभास्कर-टीका

उदीचीनं उदग्गतिकम् ।

विश्वास-प्रस्तुतिः

वर्त्म॑ करोति य॒ज्ञस्य॒ सन्त॑त्यै ।

मूलम्

वर्त्म॑ करोति य॒ज्ञस्य॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

वर्त्मेति । भूमौ कृषन्नेवोद्वासयति संतत्यै यज्ञस्य विच्छित्तिर्मा भूदिति

मूलम्

निष्ट॑पति । उपै॒व तत्स्तृ॑णाति । च॒तुरुन्न॑यति । चतु॑ष्पादᳶ प॒शवः॑ ॥20॥
प॒शूने॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

निष्ट॑पत्य् उपै॒व तत्स्तृ॑णाति ।
च॒तुरुन्न॑यति॒ चतु॑ष्पादᳶ प॒शवः॑ ॥ प॒शूने॒वाव॑रुन्धे ।

मूलम्

निष्ट॑पत्य् उपै॒व तत्स्तृ॑णाति ।
च॒तुरुन्न॑यति॒ चतु॑ष्पादᳶ प॒शवः॑ ॥ प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

7 निष्टपति अग्निहोत्रहवणीं गार्हपत्ये आहवनीये वा ॥ ‘निसस्तपतौ’ इत्युपस्तरणस्थानीयं निष्टपनम् । चतुस्संख्यान्वयात् चतुष्पदपशूनामवरोधः ।

विश्वास-प्रस्तुतिः

सर्वा॑न्पू॒र्णानुन्न॑यति ।
सर्वे॒ हि पुण्या॑ रा॒द्धाः ।

मूलम्

सर्वा॑न्पू॒र्णानुन्न॑यति ।
सर्वे॒ हि पुण्या॑ रा॒द्धाः ।

भट्टभास्कर-टीका

सर्वानिति । सर्वान् स्रुवान् पूर्णान् अग्निहोत्रहवण्यां उन्नयति, सर्वे हि घटादयो राद्धास्संसिद्धाः पूर्णाः पुण्या मङ्गळो भवन्ति । यद्वा - पुण्याः मङ्गलाः पूर्णाः, त एव हि राद्धा सिद्धिभाजो भवन्ति

विश्वास-प्रस्तुतिः

अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ ।

मूलम्

अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ ।

भट्टभास्कर-टीका

8 अनूच इति ॥ पक्षान्तरमिदं वैषम्याभ्युपगमे । अनूच उन्नयति उत्तरोत्तरमन्वग्भूतान्, प्रथमं पूर्णमुन्नयति, अथ तत ईषदूनं, अथ ततस्ततरं, अथ ततस्तततरमिति तत्प्रजाया अनूचीनत्वाय भवति, अनुक्रमेण कनीयसी प्रजोत्पद्यते तथाऽनूची सती प्रजासमृद्धिरस्य भवति । ‘चौ’ इति पूर्वपदस्य दीर्घत्वं, अन्तोदात्तत्वं च ।

मूलम्

अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति । सम्मृ॑शति॒ व्यावृ॑त्त्यै ।

विश्वास-प्रस्तुतिः

अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति॒ सम्मृ॑शति॒ व्यावृ॑त्त्यै ।

मूलम्

अ॒नूच्ये॒वास्य॑ प्र॒जाऽर्धु॑का भवति॒ सम्मृ॑शति॒ व्यावृ॑त्त्यै ।

भट्टभास्कर-टीका

संमृशतीति लौकिकेभ्यो व्यावृत्त्यर्थम् ।

मूलम्

नाहो॑ष्य॒न्नुप॑सादयेत् । यदहो॑ष्यन्नुपसा॒दये॑त् । यथा॒ऽन्यस्मा॑ उपनि॒धाय॑ ॥21॥
अ॒न्यस्मै॑ प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आऽस्मै॑ वृश्च्येत ।

विश्वास-प्रस्तुतिः

नाहो॑ष्य॒न्नुप॑सादयेत् । यदहो॑ष्यन्नुपसा॒दये॒द् यथा॒ऽन्यस्मा॑ उपनि॒धाया॒न्यस्मै॑ प्र॒यच्छ॑ति ता॒दृगे॒व तत् ।

मूलम्

नाहो॑ष्य॒न्नुप॑सादयेत् । यदहो॑ष्यन्नुपसा॒दये॒द् यथा॒ऽन्यस्मा॑ उपनि॒धाया॒न्यस्मै॑ प्र॒यच्छ॑ति ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

9 नाहोष्यन्निति ॥ यत्राग्नौ होष्यन् न भवति तत्समीपे न सादयेद्धविः यदि तथा कुर्यात् यथा लोके कश्चित्फलादिकं अन्यस्मा उपनिधाय अग्रे दर्शयित्वा अन्यस्मै यच्छति तत्तुल्यं, ।

विश्वास-प्रस्तुतिः

आऽस्मै॑ वृश्च्येत ।

मूलम्

आऽस्मै॑ वृश्च्येत ।

भट्टभास्कर-टीका

ततश्च अयमस्मै अग्नये आवृश्च्येत, अमुमग्निमुद्दिश्य अस्माच्चात्मा छिन्न एव ।

मूलम्

यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति । तेन॒ गार्ह॑पत्यम्प्रीणाति ।

विश्वास-प्रस्तुतिः

यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति॒ तेन॒ गार्ह॑पत्यम्प्रीणाति ।

मूलम्

यदे॒व गार्ह॑पत्येऽधि॒श्रय॑ति॒ तेन॒ गार्ह॑पत्यम्प्रीणाति ।

भट्टभास्कर-टीका

यद्येवं स यदाऽयमाहवनीये होष्यन् भवति, तदा हविष उपसादनमपि । न चेद्गार्हपत्यो लभते क्रुध्येदित्याह - यदेवेत्यादि । गतम्

मूलम्

अ॒ग्निर॑बिभेत् । आहु॑तयो॒ माऽत्ये॑ष्य॒न्तीति॑ । स ए॒ताँ स॒मिध॑मपश्यत् । तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥22॥
यदे॑नँ स॒मय॑च्छत् । तत्स॒मिध॑स्समि॒त्त्वम् । स॒मिध॒माद॑धाति । समे॒वैनय्ँ॑यच्छति । आहु॑तीना॒न्धृत्यै॑ । अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करोति । आहु॑तीना॒म्प्रति॑ष्ठित्यै ।

विश्वास-प्रस्तुतिः

अ॒ग्निर॑बिभे॒द् - “आहु॑तयो॒ माऽत्ये॑ष्य॒न्ती"ति॑ ।
स ए॒ताँ स॒मिध॑मपश्यत् ।

तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥22॥

मूलम्

अ॒ग्निर॑बिभे॒द् - “आहु॑तयो॒ माऽत्ये॑ष्य॒न्ती"ति॑ ।
स ए॒ताँ स॒मिध॑मपश्यत् ।

तामाऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयोऽध्रियन्त ॥22॥

भट्टभास्कर-टीका

10 अग्निरबिभेदिति ॥ आहुतयो मां अत्येष्यन्ति अतिक्रम्य गमिष्यन्ति, मयि न प्रतिष्ठास्यन्तीति भीतोऽभूदग्निः । एतां समिधं दृष्ट्वा तामात्मन्यधत्त, ततोऽग्नावाहुतयोऽध्रियन्त नैनमत्यगमन् ।

विश्वास-प्रस्तुतिः

यदे॑नँ स॒मय॑च्छ॒त् तत्स॒मिध॑स्समि॒त्त्वम् ।

मूलम्

यदे॑नँ स॒मय॑च्छ॒त् तत्स॒मिध॑स्समि॒त्त्वम् ।

भट्टभास्कर-टीका

यदित्यादि समिधोऽर्थं विवृणोत - यस्मादियमग्निं समयच्छत् नियच्छति संयादाहुतिकं कुर्वाण इन्धे तस्मात्समित् ।

विश्वास-प्रस्तुतिः

स॒मिध॒माद॑धाति ।

समे॒वैनय्ँ॑यच्छ॒त्य् आहु॑तीना॒न्धृत्यै॑ ।

अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करो॒त्य् आहु॑तीना॒म्प्रति॑ष्ठित्यै ।

मूलम्

स॒मिध॒माद॑धाति ।

समे॒वैनय्ँ॑यच्छ॒त्य् आहु॑तीना॒न्धृत्यै॑ ।

अथो॑ अग्निहो॒त्रमे॒वेध्मव॑त्करो॒त्य् आहु॑तीना॒म्प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

समिधमित्यादिविधिः । इध्मस्थानीया समिदियमग्निहोत्रस्य, तच्चाहुतीनां प्रतिष्ठार्थं भवति ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यदेकाँ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्याँ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ॥23॥

विश्वास-प्रस्तुतिः

यदेकाँ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होत्य् अथ॒ कस्याँ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ॥23॥

मूलम्

यदेकाँ॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होत्य् अथ॒ कस्याँ॑ स॒मिधि॑ द्वि॒तीया॒माहु॑तिञ्जुहो॒तीति॑ ॥23॥

मूलम्

यद्द्वे स॒मिधा॑वाद॒ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् ।

विश्वास-प्रस्तुतिः

यद्द्वे स॒मिधा॑वाद॒ध्याद् भ्रातृ॑व्यमस्मै जनयेत् ।

मूलम्

यद्द्वे स॒मिधा॑वाद॒ध्याद् भ्रातृ॑व्यमस्मै जनयेत् ।

भट्टभास्कर-टीका

11 ब्रह्मवादिन इत्यादि ॥ यदा एका समिदाधीयते, द्वे आहुती हूयेत अथेदानीं कस्यां समिधि द्वितीयाऽऽहुतिर्हूयते? यथा प्रतिष्ठिता स्यात् । उक्तं हिं ‘समित्स्वाहुतयः प्रतितिष्ठन्ति’ इति । अथ उभयार्थं द्वे चेत् समिधो आधीयेते भ्रातृव्यं शत्रुमस्य जनयेत्? सप्रतिपक्षत्वात्समिधः । तस्मादेकैव समिदाधेया ।

विश्वास-प्रस्तुतिः

एकाँ॑ स॒मिध॑मा॒धाय॒ यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति ।

मूलम्

एकाँ॑ स॒मिध॑मा॒धाय॒ यजु॑षा॒ऽन्यामाहु॑तिञ्जुहोति ।

भट्टभास्कर-टीका

कथं तर्हि द्वितीयाऽऽहुतिः समिद्वती स्यादिति पर्यनुयोगावसरे समिदैक्येऽप्याहुत्योः समिद्वत्त्वं प्रतिपादयति - एकामित्यादि । एकामाहुतिं समिधमाधायान्यां जुहोति ।

विश्वास-प्रस्तुतिः

उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति ।

मूलम्

उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्यञ्जनयति ।

भट्टभास्कर-टीका

यजुरेव समित्स्थानीयं, तस्मादुभे अपि समिद्वत्यौ भवतः । काष्ठसमित्का यजुस्समित्का चेति । ‘झञः’ इति मतुपो वत्त्वम् । न जनयति च भ्रातृव्यं, समानजातीयद्वयविषयत्वात्प्रतिपक्षभावस्य

मूलम्

आदी॑प्तायाञ्जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे॑ष्टि । ता॒दृगे॒व तत् ।

विश्वास-प्रस्तुतिः

आदी॑प्तायाञ्जुहोति॒ समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।

अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे॑ष्टि ता॒दृगे॒व तत् ।

मूलम्

आदी॑प्तायाञ्जुहोति॒ समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ।

अथो॒ यथाऽति॑थि॒ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे॑ष्टि ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

12 आदीप्तायां सर्वतो दीप्तायां समिधि होतव्यम् ॥ ज्योतिष्कृत्वेति । यथा लोके अतिथिमागतं ज्योतिष्कृत्वा प्रदीपं संनिधाप्य परिवेवेष्टि तत्तुल्यमादीप्तायां हवनमिति ।

विश्वास-प्रस्तुतिः

च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।

मूलम्

च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्मा॑द्द्वि॒पाच्चतु॑ष्पादमत्ति ।

भट्टभास्कर-टीका

13 चतुरित्यादि ॥ उन्नयनहवनयोश्चतुष्टयद्वित्वयोरन्वयात् द्विपात् मनुष्यः चतुष्पादं गवादिकं अत्ति क्षीरादिद्वारेणोपयुङ्क्ते, चतुरुन्नीतोपयोगित्वाद्धोमयोः । अपिच द्विपदि चतुष्पादः प्रतिष्ठिता भवन्ति, होमयोः प्रतिष्ठितत्वात् । चतुरुन्नीतस्य यजमानैकविषयत्वात् द्विपदि यजमाने प्रतिष्ठिता भवन्ति । ‘संख्या सुपूर्वस्य’ इति पादस्य लोपस्समासान्तः, ‘पादः पत् ’ इति पद्भावः ।

विश्वास-प्रस्तुतिः

अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ॥24॥

मूलम्

अथो॑ द्वि॒पद्ये॒व चतु॑ष्पद॒ᳶ प्रति॑ष्ठापयति ॥24॥

भट्टभास्कर-टीका

द्विपदीत्यत्र ‘द्वित्रिभ्यां पद्दन्’ इत्युत्तरपदान्तोदात्तत्वम्

इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः ॥