दक्षिणतः केशोन्मार्गः
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अ॒ग्निम् अ॑सृजत ।
तम् प्र॒जा अन्व॑सृज्यन्त ।
तम् +++(अग्निर्)+++ अ॑-भा॒ग उपा॑स्त ।
मूलम्
प्र॒जाप॑तिर॒ग्निम॑सृजत ।
तम्प्र॒जा अन्व॑सृज्यन्त ।
तम॑भा॒ग उपा॑स्त ।
भट्टभास्कर-टीका
1 प्रजापतिरित्यादि ॥ तमनु प्रजाः असृज्यन्त
तं प्रजापतिं अभाग अलब्धभागोऽग्निः उपास्त भागं मे देहीत्युपासितवान् ।
विश्वास-प्रस्तुतिः
सो॑ ऽस्य +++(प्रजापतेः)+++ प्र॒जाभि॒र् +++(सह)+++ अपा॑क्रामत् ।
मूलम्
सो॑ऽस्य प्र॒जाभि॒रपा॑क्रामत् ।
भट्टभास्कर-टीका
अथाग्निरलब्धभागोऽस्य प्रजापतेस् स्वभूताभिस् सह अपाक्रामत् प्रजा अप्यादाय पलायत ।
विश्वास-प्रस्तुतिः
तम् अ॑व॒रुरु॑त्समा॒नो ऽन्वै॑त् । तम् अ॑व॒रुध॒न् नाश॑क्नोत् ।
मूलम्
तम॑व॒रुरु॑त्समा॒नोऽन्वै॑त् । तम॑व॒रुध॒न्नाश॑क्नोत् ।
भट्टभास्कर-टीका
अथ तमग्निं अवरोद्धुकामोऽन्वैत् अन्वगच्छत्, प्रजापतिरवरोद्धुं च नाशक्रोत् । ‘शकि णमुल्कमुता’ इति कमुल्प्रत्ययः ।
विश्वास-प्रस्तुतिः
स तपो॑ ऽतप्यत ।
मूलम्
स तपो॑ऽतप्यत ।
भट्टभास्कर-टीका
स तपोऽतप्यतेत्यादि । उपारमत गमनान्निवृत्तः ।
विश्वास-प्रस्तुतिः
सो॑ऽग्निर् उपा॑रमत - “+अता॑पि॒ +++(तपसा??)+++ वै स्य प्र॒जाप॑ति॒र्” इति॑ ।
मूलम्
सो॑ऽग्निरुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ ।
भट्टभास्कर-टीका
स एव प्रजापतिः अतापि तपसा अविध्यतेति । स्य ‘स्यश्छन्दसि बहुलम्’ इति सोर्लोपः ।
विश्वास-प्रस्तुतिः
स र॒राटा॒द्+++(=ललाटाद्)+++ +++(स्वेदम्)+++ उद॑मृष्ट ॥4॥
मूलम्
स र॒राटा॒दुद॑मृष्ट ॥4॥
भट्टभास्कर-टीका
सः रराटात् ललाटात् । कपिलकादित्वाल् लत्वविकल्पः । स्वेदं उदमृष्ट उत्सृष्टवान् ।
विश्वास-प्रस्तुतिः
तस्मा॒द् यस्य॑ दक्षिण॒तᳵ केशा॒ उन्मृ॑ष्टाः॒
ताञ् +++(शैलीं)+++ “ज्ये॑ष्ठ-ल॒क्ष्मी प्रा॑जाप॒त्ये"त्य् आ॑हुः ।
मूलम्
तस्मा॒द्यस्य॑ दक्षिण॒तᳵ केशा॒ उन्मृ॑ष्टाः । ताञ्ज्ये॑ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः ।
भट्टभास्कर-टीका
तस्माद्यस्य दक्षिणतः पार्श्वात् केशा उत्सृष्टाः
ऊर्ध्वं उदवमृज्यन्ते
तां ज्येष्ठलक्ष्मीं श्रेष्ठलक्षणां प्राजापत्यामित्याहुः ।
मूलम् (संयुक्तम्)
यद्र॒राटा॑दु॒दमृ॑ष्ट । तस्मा॑द्र॒राटे॒ केशा॒ न स॑न्ति ।
विश्वास-प्रस्तुतिः
यद् र॒राटा॑द् उ॒दमृ॑ष्ट॒ -
तस्मा॑द् र॒राटे॒ केशा॒ न स॑न्ति ।
मूलम्
यद्र॒राटा॑दु॒दमृ॑ष्ट॒ तस्मा॑द्र॒राटे॒ केशा॒ न स॑न्ति ।
विचिकित्सा
विश्वास-प्रस्तुतिः
+++(स्वेदजातं)+++ तद् अ॒ग्नौ प्रागृ॑ह्णात् ।
मूलम्
तद॒ग्नौ प्रागृ॑ह्णात् ।
भट्टभास्कर-टीका
प्रागृह्णात् अग्नेर् उपरि होतुं अग्निना सहितम् अधारयत् ।
विश्वास-प्रस्तुतिः
तद् व्य॑चिकित्सत् -
“जु॒हवा॒नी३
मा हौ॒षा३म्” इति॑ ।
मूलम्
तद्व्य॑चिकित्सत् । “जु॒हवा॒नी३ मा हौ॒षा ३ “मिति॑ ।
भट्टभास्कर-टीका
व्यचिकित्सत् विचारितवान् जुहवानि मा हौषमिति ‘विचार्यमाणानाम्’ इत्युदात्तः प्लुतः ।
विश्वास-प्रस्तुतिः
तद् वि॑चिकि॒त्सायै॒ जन्म॑ ।
मूलम्
तद्वि॑चिकि॒त्सायै॒ जन्म॑ ।
भट्टभास्कर-टीका
ततःप्रभृति विचिकित्सा जाता ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वि॒द्वान् वि॑चि॒कित्स॑ति॒ -
वसी॑य ए॒व चे॑तयते+++(=जानाति)+++ ।
मूलम्
य ए॒वव्ँ वि॒द्वान् वि॑चि॒कित्स॑ति ॥5॥
वसी॑य ए॒व चे॑तयते ।
भट्टभास्कर-टीका
य एवं विद्वान् कार्यारम्भेषु विचिकित्सति । स प्रशस्तमेव कार्यं चेतयते जानाति ।
स्वाहा
विश्वास-प्रस्तुतिः
तव्ँ वाग् अ॒भ्य॑वदज् - “जु॒हुधी"ति॑ ।
सो॑ ऽब्रवीत् -
“कस् त्वम् अ॒सी"ति॑ ।
“स्वैव ते॒ वाग्” इत्य् अ॑ब्रवीत् ।
मूलम्
तव्ँ वाग॒भ्य॑वदज्जु॒हुधीति॑ ।
सो॑ऽब्रवीत् -
“कस्त्वम॒सी"ति॑ ।
स्वैव ते॒ वागित्य॑ब्रवीत् ।
भट्टभास्कर-टीका
2 स्वैवेत्यादि ॥ तवात्मीया वाक् सैवाहमिति वाग् अब्रवीत् ।
विश्वास-प्रस्तुतिः
सो॑ ऽजुहो॒थ् - “स्वाहे"ति॑ । तत् स्वा॑हाका॒रस्य॒ जन्म॑ ।+++(5)+++
मूलम्
सो॑ऽजुहो॒त्स्वाहेति॑ । तत्स्वा॑हाका॒रस्य॒ जन्म॑ ।
भट्टभास्कर-टीका
प्रजापतिश् चाजुहोत् । स्वैव वागहं, किमिदानीं विमृश्यत इति । यद्वा - सुष्ठु मदभिप्रायानुरूपमेव आहेत्यजुहोत् । ततःप्रभृत्याकारान्तो निपातस्स्वाहाकारो जातः ।
मूलम्
य ए॒वँ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य॑म् ।
विश्वास-प्रस्तुतिः
य ए॒वँ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑,
क॒रोति॑ स्वाहा-का॒रेण॑ वी॒र्य॑म् ।
मूलम्
य ए॒वँ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य॑म् ।
भट्टभास्कर-टीका
करोति स्वाहाकारेण वीर्य कर्मफलं स एव साधयति ।
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँ वि॒दुष॑स् स्वाहाका॒रेण॒ जुह्व॑ति॒
भोगा॑यै॒वास्य॑ हु॒तम् भ॑वति ।
मूलम्
यस्यै॒वव्ँवि॒दुष॑स्स्वाहाका॒रेण॒ जुह्व॑ति ॥6॥
भोगा॑यै॒वास्य॑ हु॒तम्भ॑वति ।
भट्टभास्कर-टीका
भोगायैवेति । एवं विदुषो हुतं न वृथा भवति
सृष्टिः
विश्वास-प्रस्तुतिः
तस्या॒ आहु॑त्यै॒ पुरु॑षम् असृजत ।
द्वि॒तीय॑म् अजुहोत् । सोऽश्व॑म् असृजत ।
तृ॒तीय॑म् अजुहोत् । स गाम् अ॑सृजत ।
च॒तु॒र्थम् अ॑जुहोत् । सोऽवि॑म् असृजत ।
प॒ञ्च॒मम् अ॑जुहोत् । सो॑ऽजाम् अ॑सृजत ॥7॥
मूलम्
तस्या॒ आहु॑त्यै॒ पुरु॑षमसृजत ।
द्वि॒तीय॑मजुहोत् । सोऽश्व॑मसृजत ।
तृ॒तीय॑मजुहोत् । स गाम॑सृजत ।
च॒तु॒र्थम॑जुहोत् । सोऽवि॑मसृजत ।
प॒ञ्च॒मम॑जुहोत् । सो॑ऽजाम॑सृजत ॥7॥
मूलम्
सो॑ऽग्निर॑बिभेत् । आहु॑तीभि॒र्वै मा॑ऽऽप्नो॒तीति॑ ।
अग्निहोत्र-देवते
विश्वास-प्रस्तुतिः
सो॑ऽग्निर् अ॑बिभे॒द् -
“आहु॑तीभि॒र् वै मा॑ ऽऽप्नो॒ती"ति॑ ।
स प्र॒जाप॑ति॒म् पुन॒ᳶ प्रावि॑शत् ।
मूलम्
सो॑ऽग्निर॑बिभे॒द् - आहु॑तीभि॒र्वै मा॑ऽऽप्नो॒तीति॑ ।
स प्र॒जाप॑ति॒म्पुन॒ᳶ प्रावि॑शत् ।
भट्टभास्कर-टीका
3 तस्या इत्यादि ॥ पुरुषाश्वगोअव्यजासृष्ट्यनन्तरं अग्निरबिभेत् इत्थमयमाहुतीभिः आहुतिपरंपरया माऽऽप्नोतीति गृह्णाति न विमुञ्चति, न च मम भागमसाधारणं प्रयच्छति तस्मात्तिरोभवामीति मत्वा प्रजापतिमेव पुनः प्राविशत् आत्मसृष्टेः प्रागिव तस्मिन् लीनोऽभवत्
विश्वास-प्रस्तुतिः
तम् प्र॒जा-प॑तिर् अब्रवीत् - “जाय॒स्वे"ति॑ ।
मूलम्
तम्प्र॒जाप॑तिरब्रवीत् । जाय॒स्वेति॑ ।
भट्टभास्कर-टीका
4 तमित्यादि ॥ जायस्व प्रादुर्भव इति ।
विश्वास-प्रस्तुतिः
सो॑ ऽब्रवी॒त्- “किम् भा॑ग॒-धेय॑म् अ॒भिज॑निष्य॒” इति॑ ।
मूलम्
सो॑ऽब्रवीत् । किम्भा॑ग॒धेय॑म॒भिज॑निष्य॒ इति॑ ।
भट्टभास्कर-टीका
किं भागधेयमभिलक्षीकृत्य ‘अभिरभागे’ इत्यभेः कर्मप्रवचनीयत्वं त्वत्र लक्षणे ।
विश्वास-प्रस्तुतिः
“तुभ्य॑म् ए॒वेदँ हू॑याता॒” इत्य् अ॑ब्रवीत् ।
मूलम्
“तुभ्य॑मे॒वेदँ हू॑याता॒” इत्य॑ब्रवीत् ।
भट्टभास्कर-टीका
तुभ्यमेवेत्यादि । हूयाता इत्युपसंवादोपनिपाते लेट् । ‘लेटोऽडाटौ’ इत्याट्, ‘वैतोऽन्यत्र’ इत्यैकारः ।
विश्वास-प्रस्तुतिः
स ए॒तद् भा॑ग॒-धेय॑म् अ॒भ्य॑जायत॒ -
यद् अ॑ग्नि-हो॒त्रम् ॥8॥
तस्मा॑द् अग्नि-हो॒त्रम् उ॑च्यते ।
मूलम्
स ए॒तद्भा॑ग॒धेय॑म॒भ्य॑जायत ।
यद॑ग्निहो॒त्रम् ॥8॥
तस्मा॑दग्निहो॒त्रमु॑च्यते ।
भट्टभास्कर-टीका
ततः प्रभृत्यग्निहोत्रमग्नेरेव भागोऽभवत्, तस्मादेव तस्याग्निहोत्रत्वमिति ।
विश्वास-प्रस्तुतिः
तद् +धू॒यमा॑नम् आदि॒त्यो॑ ऽब्रवीत् -
“मा हौ॑षीर् ,
उ॒भयो॒र् वै ना॑व् " इति॑ ।
सो॑ऽग्निर॑ब्रवीत् -
“क॒थन्नौ॑ होष्य॒न्ती"ति॑ ।
सा॒यम् ए॒व तुभ्य॑ञ् जु॒हुव॑न् । प्रा॒तर् मह्य॒म् \
इत्य् अ॑ब्रवीत् ।
तस्मा॑द् अ॒ग्नये॑ सा॒यँ हू॑यते ,
सूर्या॑य प्रा॒तः ॥9॥
मूलम्
तद्धू॒यमा॑नमादि॒त्यो॑ऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै ना॑वे॒तदिति॑ । सो॑ऽग्निर॑ब्रवीत् । क॒थन्नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्य॑ञ्जु॒हुव॑न् । प्रा॒तर्मह्य॒मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒यँ हू॑यते । सूर्या॑य प्रा॒तः ॥9॥
भट्टभास्कर-टीका
5 तद्धूयमानमित्यादि ॥ नौ आवयोरेवैतत् अग्निहोत्रं स्वं, तस्मादग्नये केवलाय मा हौषीः । गतमन्यत्
उदिते होमः
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रम् अहः॑ ।
मूलम्
आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ ।
विश्वास-प्रस्तुतिः
यद् अनु॑दिते॒ सूर्ये॑ प्रा॒तर् जु॑हु॒याद्
उ॒भय॑म् ए॒वाग्ने॒यँ स्या॑त् ।
उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति ।
मूलम्
यदनु॑दिते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒यँ स्या॑त् । उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति ।
भट्टभास्कर-टीका
6 आग्नेयीत्यादि उदितहोमविधिः ॥ इन्द्र ईश्वरस्सूर्यः ।
मूलम्
तथा॒ग्नये॑ सा॒यँ हू॑यते । सूर्या॑य प्रा॒तः ।
विश्वास-प्रस्तुतिः
तथा॒ग्नये॑ सा॒यँ हू॑यते॒
सूर्या॑य प्रा॒तः ।
मूलम्
तथा॒ग्नये॑ सा॒यँ हू॑यते॒ सूर्या॑य प्रा॒तः ।
भट्टभास्कर-टीका
7 तथेत्यादि सायंप्रातर्होमस्तुतिः ॥ रात्रिमनु रात्र्या हेतुना । ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयत्वम् ।
प्रजनन-प्रतिष्ठे
विश्वास-प्रस्तुतिः
रात्रिव्ँ॒ वा अनु॑ प्र॒जाᳶ प्रजा॑यन्ते ।
मूलम्
रात्रिव्ँ॒ वा अनु॑ प्र॒जाᳶ प्रजा॑यन्ते ।
भट्टभास्कर-टीका
रात्रौ प्रजा निषिच्यते दिवा निषेधात् ।
विश्वास-प्रस्तुतिः
अह्ना॒ प्रति॑तिष्ठन्ति ।
मूलम्
अह्ना॒ प्रति॑तिष्ठन्ति ।
भट्टभास्कर-टीका
अह्ना हेतुना प्रतितिष्ठन्ति, तस्य सर्वव्यापारहेतुत्वात् ।
विश्वास-प्रस्तुतिः
यत् सा॒यञ् जु॒होति॒
प्रैव तेन॑ जायते ।
उदि॑ते॒ सूर्ये॑ प्रा॒तर् जु॑होति॒
प्रत्य् ए॒व तेन॑ तिष्ठति ।
मूलम्
यत्सा॒यञ्जु॒होति॑ ॥10॥
प्रैव तेन॑ जायते ।
उदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑होति ।
प्रत्ये॒व तेन॑ तिष्ठति ।
भट्टभास्कर-टीका
यदित्यादि । गतम्
प्रजनकत्वम्
विश्वास-प्रस्तुतिः
प्र॒जाप॑तिर् अकामयत॒ “प्रजा॑ये॒ये"ति॑ ।
स ए॒तद् अ॑ग्नि-हो॒त्रम् मि॑थु॒न् अम॑पश्यत् ।
मूलम्
प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑ ।
स ए॒तद॑ग्निहो॒त्रम्मि॑थु॒नम॑पश्यत् ।
भट्टभास्कर-टीका
8 प्रजापतिरित्यादि ॥ अग्निहोत्राख्यं होमद्वयं मिथुनमपश्यत् ।
विश्वास-प्रस्तुतिः
तद् उदि॑ते॒ सूर्ये॑ ऽजुहोत् -
यजु॑षा॒ ऽन्यत्
तू॒ष्णीम् अ॒न्यत् ।
ततो॒ वै स प्राजा॑यत ।
मूलम्
तदुदि॑ते॒ सूर्ये॑ऽजुहोत् । यजु॑षा॒ऽन्यत् ।
तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत ।
मूलम्
यस्यै॒वव्ँ वि॒दुष॒ उदि॑ते॒ सूर्ये॑ऽग्निहो॒त्रञ्जुह्व॑ति ॥11॥
विश्वास-प्रस्तुतिः
यस्यै॒वव्ँ वि॒दुष॒ उदि॑ते॒ सूर्ये॑ ऽग्नि-हो॒त्रञ् जुह्व॑ति॒
प्रैव जा॑यते ।
मूलम्
यस्यै॒वव्ँ वि॒दुष॒ उदि॑ते॒ सूर्ये॑ऽग्निहो॒त्रञ्जुह्व॑ति॒ प्रैव जा॑यते ।
भट्टभास्कर-टीका
‘अग्निर्ज्योतिर्ज्योतिः ’ इत्यादिना यजुषा एकं, तूष्णीमेकमजुहोत् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
अथो॒ यथा॒ दिवा॑ प्रजा॒नन्न् एति॑ -
ता॒दृग् ए॒व तत् ।
मूलम्
अथो॒ यथा॒ दिवा॑ प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
अथो इत्यादि । यथा दिवा प्रजानन् पश्यन् गच्छति पान्थादिः तादृगेव यदुदिते पश्यन्, जुहोति
उभय-देवतात्वम्
विश्वास-प्रस्तुतिः
अथो॒ खल्व् आ॑हु॒र् -
“यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तो॒
यस् तयो॑र् अ॒न्यँ रा॒धय॑त्य्, अ॒न्यन् न,
उ॒भौ वाव स ताव् +++(वैमनस्येन)+++ ऋ॑च्छ॒ती“ति॑ ।
मूलम्
अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्यँ रा॒धय॑त्य॒न्यन्न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ ।
भट्टभास्कर-टीका
9 अथो खल्वित्यादि ॥ अपि च खल्वाहुः - यस्य गृहे द्वौ पुण्यौ वसतः पुण्यात्मानौ युगपत्सन्निदधाते, तयोरन्यं राधयति अभिमतदानेन तोषयति अन्यतरं न तोषयति
तावुभावपि स ऋच्छति कृच्छ्रम् आपादयति । ‘ऋच्छ गतीन्द्रियप्रळयमूर्तिभावेषु’ ।
न च द्वावपि तुल्यमाराधयितुं शक्यत इति भावः ।
यस्मात् द्वयोरपि पृथगाराधने कृतेऽपि तुल्यसमाराधने चित्तवैषम्यात्,
अतोऽन्यस्य अभ्यर्हितम् आराधनं मन्यते,
तस्मादुभावपि तस्य नाराधितौ भवतः,
तस्मादा(दना)राधयन्नपि कृच्छ्रम् आपादयति
पृथग्वाऽऽराधयिता,
तस्मात्सायं प्रातश्च उभाभ्यां सहहोतव्यमिति वक्ष्यति ।
विश्वास-प्रस्तुतिः
अ॒ग्निव्ँ वावादि॒त्यस् सा॒यम् प्रवि॑शति ।
तस्मा॑द् अ॒ग्निर् दू॒रान् नक्त॑न् ददृशे ।
उ॒भे हि तेज॑सी स॒म्पद्ये॑ते ॥12॥
उ॒द्यन्तव्ँ॒ वावादि॒त्यम् अ॒ग्निर् अनु॑स॒मारो॑हति ।
तस्मा॑द् धू॒म ए॒वाग्नेर् दिवा॑ ददृशे ।
मूलम्
अ॒ग्निव्ँ वावादि॒त्यस्सा॒यम्प्रवि॑शति ।
तस्मा॑द॒ग्निर्दू॒रान्नक्त॑न्ददृशे ।
उ॒भे हि तेज॑सी स॒म्पद्ये॑ते ॥12॥
उ॒द्यन्तव्ँ॒वावादि॒त्यम॒ग्निरनु॑स॒मारो॑हति ।
तस्मा॑द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे ।
भट्टभास्कर-टीका
तदर्थमिदानीं अग्न्यादित्ययोस्महावस्थानं प्रतिपादयति - अग्निं वावेत्यादि । तेजोद्वयस्य संघातत्वसंपत्त्या दूरादपि रात्रावग्निः दृश्यते । महतः आदित्यतेजसोऽग्नावनुप्रवेशादग्नेरौज्जल्यातिशयो रात्रौ, दिवा तु महत्यादित्यतेजसि अग्नेस्समारूढत्वात् धूम एव अग्नेः दूराद्दृश्यते अभिभूत इवाग्निर्न दृश्यते, अग्निरपि रात्रौ दूराद्दृश्यते ।
विश्वास-प्रस्तुतिः
यद् अ॒ग्नये॑ सा॒यञ् जु॑हु॒याद्
आ सूर्या॑य वृश्च्येत ।
यत् सूर्या॑य प्रा॒तर् जु॑हु॒याद्
आऽग्नये॑ वृश्च्येत ।
मूलम्
यद॒ग्नये॑ सा॒यञ्जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यत्सूर्या॑य प्रा॒तर्जु॑हु॒यात् । आऽग्नये॑ वृश्च्येत ।
भट्टभास्कर-टीका
10 यदग्नय इत्यादि ॥ आवृश्च्येत आच्छिद्येत । केवलहोमस्य निन्दा । पञ्चम्यर्थे चतुर्थी ।
मन्त्रय् उभय-लिङ्गत्वम्
विश्वास-प्रस्तुतिः
+++(अनुभय-लिङ्गक-मन्त्र-प्रयोगेण)+++ दे॒वता॑भ्यस् स॒मद॑न्+++(=कलहं)+++ दध्यात् ।
मूलम्
दे॒वता॑भ्यस्स॒मद॑न्दध्यात् ।
भट्टभास्कर-टीका
देवताभ्यः समदं कलहमुत्पादयेत् ।
अग्निर्ज्योतिरित्यादि मिश्रलिङ्गविधिः । तथा सत्युभयत्र उभाभ्यां सह होमात् न पूर्वोक्तदोषः । आवृत्तेरुभयार्थत्वादुभयोस्तृप्तौ कर्मनिर्वृत्तेः देवताश्च न कलहायिष्यन्ते ।
विश्वास-प्रस्तुतिः
“सूर्यो॒ ज्योति॒र् ज्योति॑र् अ॒ग्निस् स्वाहे"ति॑ प्रा॒तः ।
तथो॒भाभ्याँ॑ सा॒यँ हू॑यते ॥13॥
उ॒भाभ्या॑म्प्रा॒तः ।
न दे॒वता॑भ्यस् स॒मद॑न् दधाति ।
मूलम्
सूर्यो॒ ज्योति॒र्ज्योति॑र॒ग्निस्स्वाहेति॑ प्रा॒तः ।
तथो॒भाभ्याँ॑ सा॒यँ हू॑यते ॥13॥
उ॒भाभ्या॑म्प्रा॒तः ।
न दे॒वता॑भ्यस्स॒मद॑न्दधाति ।
विश्वास-प्रस्तुतिः
अ॒ग्निर्ज्योति॒र् इत्य् आ॑ह । अ॒ग्निर्वै रे॑तो॒-धाः । “प्र॒जा ज्योति॒र्” इत्य् आ॑ह । प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
मूलम्
अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः । प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्रज॑नयति ।
विश्वास-प्रस्तुतिः
“सूर्यो॒ ज्योति॒र्” इत्य् आ॑ह । प्र॒जास्व ए॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
मूलम्
सूर्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति ।
विश्वास-प्रस्तुतिः
“ज्योति॑र् अ॒ग्निस् स्वाहे"त्य् आ॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्याम् प्रति॑ष्ठापयति ॥14॥
मूलम्
ज्योति॑र॒ग्निस्स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्याम्प्रति॑ष्ठापयति ॥14॥
विश्वास-प्रस्तुतिः
तू॒ष्णीम् उत्त॑रा॒म् आहु॑तिञ् जुहोति -
मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
मूलम्
तू॒ष्णीमुत्त॑रा॒माहु॑तिञ्जुहोति । मि॒थु॒न॒त्वाय॒ प्रजा॑त्यै ।
भट्टभास्कर-टीका
11 अग्निर्ज्योतिरित्यादिरवयवस्तुतिर्मन्त्रयोः ॥ अत्र प्रजाज्योतिरिति प्राशनमन्त्रः केषांचितस्यैकवचनं प्रजोत्पत्तिक्रमानुसारेणेति वेदितव्यम् । यथाऽग्निर्ज्योतिरिति निषिच्यते रेतोऽग्निना प्रजाज्योतिरिति तद्रेतः प्रजात्वेन जनयति सूर्यः
अनुदिते होमः
विश्वास-प्रस्तुतिः
यद् उदि॑ते॒ सूर्ये॑ प्रा॒तर् जु॑हु॒यात् -
यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यँ॑ हर॑न्ति
ता॒दृग् ए॒व तत् ।
मूलम्
यदुदि॑ते॒ सूर्ये॑ प्रा॒तर्जु॑हु॒यात् । यथाऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒थाया॑हा॒र्यँ॑ हर॑न्ति । ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
12 उदित-होम-निन्दा अनुदितहोमस्तुत्यर्था,
तस्माद्विकल्प इत्याहुः यथेत्यादि ॥
प्रद्रुताय वैमुख्येन गृहात्प्रस्थिताय अतिथये अतिथिमुद्दिश्य शून्याय असंनिहितातिथिकाय आवसथाय गृहाय । सप्तम्यर्थे चतुर्थी । शून्ये गृहे आहार्ये अतिथये उपाहर्तव्यमातिथ्यभोजनादिकं यथा हरन्ति तादृक् तद्भवति
यदुदिते हूयते, अग्नेस्तदानीं गतत्वात् प्रत्यक्षस्य सूर्यस्यैव स्यात्, मन्त्रे च प्राथम्यात्तेनैव गृहीतत्वात् । अनुदिते तु सूर्याय होमे द्वयोरपि स्यात्, प्राथम्यसंनिधानाभ्यां द्वयोः ।
विश्वास-प्रस्तुतिः
“क्वाह॒ तत॒स् तद् भव॒ती"त्य् आ॑हुः - “यत् स न वेद॒ यस्मै॒ तद् +धर॒न्ती"ति॑ ।
मूलम्
“क्वाह॒ तत॒स्तद्भव॒ती"त्या॑हुः । यत्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ ।
भट्टभास्कर-टीका
एतदेव समर्थयते क्वेत्यादि । कुत्रेदं दृष्टं? किं।
ततस्ततद्भवति तद्भागं प्राप्नोति । द्वितीयार्थे पञ्चमी । किं प्राप्य तदवतिष्ठते? । ‘अहेति विनियोगे च’ इति निघाताभावः ।
किं? यत् स न वेद, सोऽतिथिर् यद्-आतिथ्यं न जानाति ।
कः? यस्मा अतिथये तद् +धरन्ति नयन्ति
यत् न
स वेद प्राप्नोतीत्येव ।
तत् क्व दृष्टं? न कुत्रचिदपि ।
असंभावितमिति किमेवैतदित्याहुः । तस्मादुदितहोमस्तत्तुल्य इति ।
मूलम्
तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॑ । तदे॒व स॑म्प्र॒ति ।
विश्वास-प्रस्तुतिः
तस्मा॒द् यद् औ॑ष॒सञ् जु॒होति॒
तद् ए॒व स॑म्प्र॒ति ।
मूलम्
तस्मा॒द्यदौ॑ष॒सञ्जु॒होति॒ तदे॒व स॑म्प्र॒ति ।
भट्टभास्कर-टीका
यस्मादेवं तस्मात् यत् औषसं उषसि भवं अनुदित एव हुतं तदेव संप्रति साप्रतिकं युक्तं, संनिहितत्वात् गृहीतम् ।
मूलम्
अथो॒ यथा॒ प्रार्थ॑मौष॒सम्प॑रि॒वेवे॑ष्टि । ता॒दृगे॒व तत् ॥15
विश्वास-प्रस्तुतिः
अथो॒ यथा॒ प्रार्थ॑म् +++(पुरुषम्)+++ औष॒सम् प॑रि॒वेवे॑ष्टि
ता॒दृग् ए॒व तत् ॥15॥
मूलम्
अथो॒ यथा॒ प्रार्थ॑मौष॒सम्प॑रि॒वेवे॑ष्टि ता॒दृगे॒व तत् ॥15॥
भट्टभास्कर-टीका
अथो अपिच यथा लोके कश्चित् प्रार्थं प्रस्तुतकार्यं साधयन्तं पुरुषं औषसं उषस्येव परिवेवेष्टि भोजयति जनः तत्तुल्यं भवत्यौषसं हुतमिति।
इति तैत्तिरीयब्राह्मणे द्वितीयाष्टके प्रथमप्रपाठके द्वितीयोऽनुवाकः ।