अग्निहोत्रब्राह्मणम्
पितृ-भागः
विश्वास-प्रस्तुतिः
अङ्गि॑रसो॒ वै स॒त्त्रम् आ॑सत ।
मूलम्
अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत ।
भट्टभास्कर-टीका
1 अतः परमग्निहोत्रब्राह्मणमग्न्यार्षेयम् - अङ्गिरसो वा इत्यादि ॥ आसिरस्मिन् विषये सकर्मक इत्येके । तत्रासनं नाम कर्मविशेषः, तमकुर्वनित्यन्ये । कंसवधमाचष्टे कंसं घातयतीतिवत् ।
विश्वास-प्रस्तुतिः
तेषा॒म् पृश्ञि॑र् घर्म॒-धुग् आ॑सीत् ।
मूलम्
तेषा॒म्पृश्ञि॑र्घर्म॒धुगा॑सीत् ।
भट्टभास्कर-टीका
तेषां पृश्निः शुक्लवर्णा धेनुः घर्मधुक् प्रवर्ग्यार्थस्य पयसो दोग्ध्र्यासीत् ।
विश्वास-प्रस्तुतिः
स +++(सोम-कल्केन=)+++र्जी॒षेणा॑जीवत् ।
मूलम्
सर्जी॒षेणा॑जीवत् ।
भट्टभास्कर-टीका
सा पृश्निस्तदानीमनावृष्ट्या तृणाद्यनिष्पत्तेः ऋजीषेण सोमस्याभिषुतस्य कल्केन अजीवत् प्राणानधारयत् ।
विश्वास-प्रस्तुतिः
ते॑ ऽब्रुवन् । “कस्मै॒ नु स॒त्रम् आ॑स्महे । +++(वयं)+++ ये॑ ऽस्या +++(पृश्न्याः प्रयोजनाय)+++ ओष॑धी॒र् न ज॒नया॑म॒” इति॑ ।
मूलम्
ते॑ऽब्रुवन् । “कस्मै॒ नु स॒त्रमा॑स्महे । ये॑ऽस्या ओष॑धी॒र्न ज॒नया॑म॒” इति॑ ।
भट्टभास्कर-टीका
अथ तां तथा जीवन्तीं पश्यन्तोऽङ्गिरसः अब्रुवन् - कस्मै प्रयोजनाय वयं सत्रमास्महे किमन्यत्फलं साधयितुं वयमीहामहे, ये वयं अस्या अस्माकमेवोपकारिण्याः पृश्नेः प्राणयात्रार्थमोषधीः ओषधिमात्रमपि न जनयामः जनयितुं न शक्नुमः इति ।
विश्वास-प्रस्तुतिः
ते दि॒वो वृष्टि॑म् असृजन्त ।
मूलम्
ते दि॒वो वृष्टि॑मसृजन्त ।
भट्टभास्कर-टीका
अथ ते तथा मन्यमानाः दिवो वृष्टिमसृजन्त उदपादयन् ।
मूलम्
याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त ।
विश्वास-प्रस्तुतिः
याव॑न्तस् +++(तोय-)+++स्तो॒का अ॒वाप॑द्यन्त॒
ताव॑ती॒र् ओष॑धयो ऽजायन्त ।
मूलम्
याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त॒ ताव॑ती॒रोष॑धयोऽजायन्त ।
भट्टभास्कर-टीका
तत्र यावन्तः स्तोकाः उदबिन्दवः पृथिव्यां अवापद्यन्त अवपतन्ति तावत्यः ओषधयोऽजायन्त तज्जलमोषधित्वेन परिणतमभवत् ।
विश्वास-प्रस्तुतिः
ता जा॒ताᳶ +++(भागलिप्सवः)+++ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥
मूलम्
ता जा॒ताᳶ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥
भट्टभास्कर-टीका
पितरोऽग्निहोत्रे भागलिप्सवः ता ओषधीः विषेणालिम्पन् ।
विश्वास-प्रस्तुतिः
तासा॑ञ् ज॒ग्ध्वा रुप्य॒न्त्य्+++(←मोहने)+++ ऐत् ।
मूलम्
तासा॑ञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् ।
भट्टभास्कर-टीका
अथ सा पृश्निः तासां ओषधीनां विषदिग्धानां जग्ध्वा भक्षयित्वा रुप्यन्ती मुह्यन्ती ऐत् आगच्छत्, आङाटोरेकदेश उदात्तः, रुपु विमोहने, दैवादिकं मतम् ।
विश्वास-प्रस्तुतिः
ते॑ ऽब्रुवन् । “क इ॒दम् इ॒त्थम् अ॑क॒र्” इति॑ ।
मूलम्
ते॑ऽब्रुवन् । “क इ॒दमि॒त्थम॑क॒"रिति॑ ।
भट्टभास्कर-टीका
अथ तां तादृशीं पश्यन्तः अङ्गिरसोऽब्रुवन् - कः इदं ओषधीर्विषमकार्षीदिति । करोतेर्लुङि ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक्, वेदोपलक्षणत्वान्मन्त्रग्रहणस्य । लङि वा ‘बहुलं छन्दसि’ इति शपो लुक् ।
विश्वास-प्रस्तुतिः
“व॒यम् भा॑ग॒-धेय॑म् इ॒च्छमा॑ना॒” इति॑ पि॒तरो॑ ऽब्रुवन् ।
मूलम्
“व॒यम्भा॑ग॒धेय॑मि॒च्छमा॑ना॒” इति॑ पि॒तरो॑ऽब्रुवन् ।
भट्टभास्कर-टीका
अथ पितरोऽब्रुवन् - भागधेयमिच्छन्तो वयमकार्ष्मेति ।
विश्वास-प्रस्तुतिः
“किव्ँ वो॑ भाग॒-धेय॒म्” इति॑ ।
मूलम्
“किव्ँ वो॑ भाग॒धेय॒"मिति॑ ।
भट्टभास्कर-टीका
अथाङ्गिरसोऽब्रुवन् - किं वो युष्माकं भागधेयं यत् दद्म इति ।
विश्वास-प्रस्तुतिः
“अ॒ग्नि॒-हो॒त्र ए॒व नोऽप्य् अ॒स्त्व्” इत्य् अ॑ब्रुवन् ।
मूलम्
“अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वि"त्य॑ब्रुवन् ।
भट्टभास्कर-टीका
अथ पितरोऽब्रुवन् - अग्निहोत्रे अस्माकमप्यस्त्विति अग्निहोत्र एव वयमपि भागिनौ भूयास्मेति ।
मूलम्
तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन् । यद्धु॒त्वा नि॒मार्ष्टि॑ ।
विश्वास-प्रस्तुतिः
तेभ्य॑ ए॒तद् भा॑ग॒-धेय॒म् प्राय॑च्छ॒न्न्
यद् धु॒त्वा नि॒मार्ष्टि॑ ।
मूलम्
तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छ॒न्न् यद्धु॒त्वा नि॒मार्ष्टि॑ ।
भट्टभास्कर-टीका
अथाङ्गिरसस्तेभ्यो भागत्वेन एतत्प्रायच्छन् यद्धुत्वा निमार्ष्टि ‘स्वधा पितृभ्यः’ इति, ततः प्रभृति पितृभ्योऽङ्गिरोभिर्दत्तमिति ।
विश्वास-प्रस्तुतिः
ततो॒ वै त ओष॑धीर् अस्वदयन् ।
मूलम्
ततो॒ वै त ओष॑धीरस्वदयन् ।
भट्टभास्कर-टीका
ततस्ते पितर ओषधीरपगतविषभागा अस्वदयन् स्वादूकृतवन्तः । छान्दसः उपधावृद्ध्यभावः ।
मूलम्
य ए॒वव्ँ वेद॑ ॥2॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः ।
विश्वास-प्रस्तुतिः
य ए॒वव्ँ वेद॒
स्वद॑न्ते ऽस्मा॒ ओष॑धयः ।
मूलम्
य ए॒वव्ँ वेद॒ स्वद॑न्तेऽस्मा॒ ओष॑धयः ।
भट्टभास्कर-टीका
एवं वेदित्रे ओषधयस्स्वदन्ते स्वादूभवन्ति । ‘स्वद ष्वद आस्वादने’ भौवादिकः, अनुदात्तेत् ।
वत्स-वरः
विश्वास-प्रस्तुतिः
ते व॒त्सम् उ॒पावा॑सृजन्न् -
“इ॒दन् नो॑ ह॒व्यम् प्रदा॑प॒ये"ति॑ ।
मूलम्
ते व॒त्समु॒पावा॑सृजन् ।
इ॒दन्नो॑ ह॒व्यम्प्रदा॑प॒येति॑ ।
भट्टभास्कर-टीका
2 ते वत्समित्यादि ॥ उपावासृजन् दोहनार्थं मातृसकाशं प्रापयत् वत्सम् । केनाभिप्रायेण? इदमूधस्स्थं दुग्धाख्यं अस्मभ्यं प्रदापय, यथेयं पस्तुतस्तनी अस्मभ्यं भूरि दुग्धं प्रददाति तथा कुर्विति ।
विश्वास-प्रस्तुतिः
सो॑ ऽब्रवी॒द् “वरव्ँ॑ वृणै ।
मूलम्
सो॑ऽब्रवी॒द् “वरव्ँ॑वृणै ।
भट्टभास्कर-टीका
अथ वत्सोऽब्रवीत् - वरं वृणै वरं वरीतुं प्राप्तोऽयं मम कालः, तस्मात् वृणै । प्राप्तकाले लोट् ।
विश्वास-प्रस्तुतिः
दश॑ मा॒ रात्री॑र् जा॒तन् न दो॑हन् ।
मूलम्
दश॑ मा॒ रात्री॑र्जा॒तन्न दो॑हन् ।
भट्टभास्कर-टीका
दशरात्रीः मदर्थं जातं दुग्धं न दोहन् न दुद्युः, मज्जन्मन आरभ्य दशरात्रीरिति प्रतिपादनार्थं जातग्रहणम् । दुहेर्व्यत्ययेन शप् ।
विश्वास-प्रस्तुतिः
आ॒स॒ङ्ग॒वम् मा॒त्रा स॒ह च॑रा॒णी"ति॑ ।
मूलम्
आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रा॒णी"ति॑ ।
भट्टभास्कर-टीका
आसंगवं च मात्रा सह चराणीति । मर्यादायामाकारः । द्वितीयोऽर्धप्रहरस्संगवः ।
विश्वास-प्रस्तुतिः
तस्मा॑द् व॒त्सञ् जा॒तन् दश॒ रात्री॒र् न दु॑हन्ति । आ॒स॒ङ्ग॒वम् मा॒त्रा स॒ह च॑रति ।
मूलम्
तस्मा॑द्व॒त्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रति ।
भट्टभास्कर-टीका
तस्मादित्यादि । गतम् ॥
रुद्राद् अपायः
विश्वास-प्रस्तुतिः
वारे॑-वृतँ॒ ह्य् अ॑स्य +++(रुद्रस्य)+++ । तस्मा॑द् व॒त्सँ +++(होमार्थ-)+++सँ॑सृष्ट+++(-दुग्ध)+++-ध॒यँ रु॒द्रो घातु॑कः ।
मूलम्
वारे॑वृतँ॒ ह्य॑स्य । तस्मा॑द्व॒त्सँ सँ॑सृष्टध॒यँ रु॒द्रो घातु॑कः ।
भट्टभास्कर-टीका
वारे वृतं वरणकाले वृतम् अस्येदं,
तस्मात् वत्सं संसृष्ट-धयं होमार्थेन दुग्धेन संसृष्टं पिबन्तं
दशरात्राद् ऊर्ध्वम् अपि कृत्स्न-पायिनं रुद्रो घातुकः हन्तुकामस्स्यात् । ‘लषपतपद’ इत्युकञ् ।
सायं प्रातश्च होमार्थं दुग्धं पिबन्तं वत्सं
पशूनां पतित्वात् देवः स्वयमेव दण्डयतीति ।
विश्वास-प्रस्तुतिः
+++(यतः-)+++ अति॒ हि स॒न्धान् +++(=समयं)+++ धय॑ति+++(=पिबति)+++ ॥3॥
मूलम्
अति॒ हि स॒न्धान्धय॑ति ॥3॥
भट्टभास्कर-टीका
हेतुं चाह - अति हीत्यादि । अतीत्य संधां संधानं समयं स्वयं पिबति वत्सः, तं तु देवो न सहत इति । ‘आतश्चोपसर्गे’ इत्यङ्, ‘हि च’ इत्याख्यातस्य निघाताभावः
इति तैत्तिरीयब्राह्मणे द्वितीयेऽष्टके प्रथमे प्रथमोऽनुवाकः ।