०१ अग्निहोत्रस्योपोद्घातः

अग्निहोत्रब्राह्मणम्

पितृ-भागः

विश्वास-प्रस्तुतिः

अङ्गि॑रसो॒ वै स॒त्त्रम् आ॑सत

मूलम्

अङ्गि॑रसो॒ वै स॒त्त्रमा॑सत ।

भट्टभास्कर-टीका

1 अतः परमग्निहोत्रब्राह्मणमग्न्यार्षेयम् - अङ्गिरसो वा इत्यादि ॥ आसिरस्मिन् विषये सकर्मक इत्येके । तत्रासनं नाम कर्मविशेषः, तमकुर्वनित्यन्ये । कंसवधमाचष्टे कंसं घातयतीतिवत् ।

विश्वास-प्रस्तुतिः

तेषा॒म् पृश्ञि॑र् घर्म॒-धुग् आ॑सीत् ।

मूलम्

तेषा॒म्पृश्ञि॑र्घर्म॒धुगा॑सीत् ।

भट्टभास्कर-टीका

तेषां पृश्निः शुक्लवर्णा धेनुः घर्मधुक् प्रवर्ग्यार्थस्य पयसो दोग्ध्र्यासीत् ।

विश्वास-प्रस्तुतिः

स +++(सोम-कल्केन=)+++र्जी॒षेणा॑जीवत् ।

मूलम्

सर्जी॒षेणा॑जीवत् ।

भट्टभास्कर-टीका

सा पृश्निस्तदानीमनावृष्ट्या तृणाद्यनिष्पत्तेः ऋजीषेण सोमस्याभिषुतस्य कल्केन अजीवत् प्राणानधारयत् ।

विश्वास-प्रस्तुतिः

ते॑ ऽब्रुवन् । “कस्मै॒ नु स॒त्रम् आ॑स्महे । +++(वयं)+++ ये॑ ऽस्या +++(पृश्न्याः प्रयोजनाय)+++ ओष॑धी॒र् न ज॒नया॑म॒” इति॑ ।

मूलम्

ते॑ऽब्रुवन् । “कस्मै॒ नु स॒त्रमा॑स्महे । ये॑ऽस्या ओष॑धी॒र्न ज॒नया॑म॒” इति॑ ।

भट्टभास्कर-टीका

अथ तां तथा जीवन्तीं पश्यन्तोऽङ्गिरसः अब्रुवन् - कस्मै प्रयोजनाय वयं सत्रमास्महे किमन्यत्फलं साधयितुं वयमीहामहे, ये वयं अस्या अस्माकमेवोपकारिण्याः पृश्नेः प्राणयात्रार्थमोषधीः ओषधिमात्रमपि न जनयामः जनयितुं न शक्नुमः इति ।

विश्वास-प्रस्तुतिः

ते दि॒वो वृष्टि॑म् असृजन्त

मूलम्

ते दि॒वो वृष्टि॑मसृजन्त ।

भट्टभास्कर-टीका

अथ ते तथा मन्यमानाः दिवो वृष्टिमसृजन्त उदपादयन् ।

मूलम्

याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयोऽजायन्त ।

विश्वास-प्रस्तुतिः

याव॑न्तस् +++(तोय-)+++स्तो॒का अ॒वाप॑द्यन्त॒
ताव॑ती॒र् ओष॑धयो ऽजायन्त

मूलम्

याव॑न्तस्स्तो॒का अ॒वाप॑द्यन्त॒ ताव॑ती॒रोष॑धयोऽजायन्त ।

भट्टभास्कर-टीका

तत्र यावन्तः स्तोकाः उदबिन्दवः पृथिव्यां अवापद्यन्त अवपतन्ति तावत्यः ओषधयोऽजायन्त तज्जलमोषधित्वेन परिणतमभवत् ।

विश्वास-प्रस्तुतिः

ता जा॒ताᳶ +++(भागलिप्सवः)+++ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥

मूलम्

ता जा॒ताᳶ पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥1॥

भट्टभास्कर-टीका

पितरोऽग्निहोत्रे भागलिप्सवः ता ओषधीः विषेणालिम्पन् ।

विश्वास-प्रस्तुतिः

तासा॑ञ् ज॒ग्ध्वा रुप्य॒न्त्य्+++(←मोहने)+++ ऐत्

मूलम्

तासा॑ञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् ।

भट्टभास्कर-टीका

अथ सा पृश्निः तासां ओषधीनां विषदिग्धानां जग्ध्वा भक्षयित्वा रुप्यन्ती मुह्यन्ती ऐत् आगच्छत्, आङाटोरेकदेश उदात्तः, रुपु विमोहने, दैवादिकं मतम् ।

विश्वास-प्रस्तुतिः

ते॑ ऽब्रुवन् । “क इ॒दम् इ॒त्थम् अ॑क॒र्” इति॑ ।

मूलम्

ते॑ऽब्रुवन् । “क इ॒दमि॒त्थम॑क॒"रिति॑ ।

भट्टभास्कर-टीका

अथ तां तादृशीं पश्यन्तः अङ्गिरसोऽब्रुवन् - कः इदं ओषधीर्विषमकार्षीदिति । करोतेर्लुङि ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक्, वेदोपलक्षणत्वान्मन्त्रग्रहणस्य । लङि वा ‘बहुलं छन्दसि’ इति शपो लुक् ।

विश्वास-प्रस्तुतिः

“व॒यम् भा॑ग॒-धेय॑म् इ॒च्छमा॑ना॒” इति॑ पि॒तरो॑ ऽब्रुवन्

मूलम्

“व॒यम्भा॑ग॒धेय॑मि॒च्छमा॑ना॒” इति॑ पि॒तरो॑ऽब्रुवन् ।

भट्टभास्कर-टीका

अथ पितरोऽब्रुवन् - भागधेयमिच्छन्तो वयमकार्ष्मेति ।

विश्वास-प्रस्तुतिः

“किव्ँ वो॑ भाग॒-धेय॒म्” इति॑ ।

मूलम्

“किव्ँ वो॑ भाग॒धेय॒"मिति॑ ।

भट्टभास्कर-टीका

अथाङ्गिरसोऽब्रुवन् - किं वो युष्माकं भागधेयं यत् दद्म इति ।

विश्वास-प्रस्तुतिः

“अ॒ग्नि॒-हो॒त्र ए॒व नोऽप्य् अ॒स्त्व्” इत्य् अ॑ब्रुवन्

मूलम्

“अ॒ग्नि॒हो॒त्र ए॒व नोऽप्य॒स्त्वि"त्य॑ब्रुवन् ।

भट्टभास्कर-टीका

अथ पितरोऽब्रुवन् - अग्निहोत्रे अस्माकमप्यस्त्विति अग्निहोत्र एव वयमपि भागिनौ भूयास्मेति ।

मूलम्

तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन् । यद्धु॒त्वा नि॒मार्ष्टि॑ ।

विश्वास-प्रस्तुतिः

तेभ्य॑ ए॒तद् भा॑ग॒-धेय॒म् प्राय॑च्छ॒न्न्
यद् धु॒त्वा नि॒मार्ष्टि॑

मूलम्

तेभ्य॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छ॒न्न् यद्धु॒त्वा नि॒मार्ष्टि॑ ।

भट्टभास्कर-टीका

अथाङ्गिरसस्तेभ्यो भागत्वेन एतत्प्रायच्छन् यद्धुत्वा निमार्ष्टि ‘स्वधा पितृभ्यः’ इति, ततः प्रभृति पितृभ्योऽङ्गिरोभिर्दत्तमिति ।

विश्वास-प्रस्तुतिः

ततो॒ वै त ओष॑धीर् अस्वदयन्

मूलम्

ततो॒ वै त ओष॑धीरस्वदयन् ।

भट्टभास्कर-टीका

ततस्ते पितर ओषधीरपगतविषभागा अस्वदयन् स्वादूकृतवन्तः । छान्दसः उपधावृद्ध्यभावः ।

मूलम्

य ए॒वव्ँ वेद॑ ॥2॥
स्वद॑न्तेऽस्मा॒ ओष॑धयः ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒
स्वद॑न्ते ऽस्मा॒ ओष॑धयः ।

मूलम्

य ए॒वव्ँ वेद॒ स्वद॑न्तेऽस्मा॒ ओष॑धयः ।

भट्टभास्कर-टीका

एवं वेदित्रे ओषधयस्स्वदन्ते स्वादूभवन्ति । ‘स्वद ष्वद आस्वादने’ भौवादिकः, अनुदात्तेत् ।

वत्स-वरः

विश्वास-प्रस्तुतिः

ते व॒त्सम् उ॒पावा॑सृजन्न् -
“इ॒दन् नो॑ ह॒व्यम् प्रदा॑प॒ये"ति॑

मूलम्

ते व॒त्समु॒पावा॑सृजन् ।
इ॒दन्नो॑ ह॒व्यम्प्रदा॑प॒येति॑ ।

भट्टभास्कर-टीका

2 ते वत्समित्यादि ॥ उपावासृजन् दोहनार्थं मातृसकाशं प्रापयत् वत्सम् । केनाभिप्रायेण? इदमूधस्स्थं दुग्धाख्यं अस्मभ्यं प्रदापय, यथेयं पस्तुतस्तनी अस्मभ्यं भूरि दुग्धं प्रददाति तथा कुर्विति ।

विश्वास-प्रस्तुतिः

सो॑ ऽब्रवी॒द् “वरव्ँ॑ वृणै

मूलम्

सो॑ऽब्रवी॒द् “वरव्ँ॑वृणै ।

भट्टभास्कर-टीका

अथ वत्सोऽब्रवीत् - वरं वृणै वरं वरीतुं प्राप्तोऽयं मम कालः, तस्मात् वृणै । प्राप्तकाले लोट् ।

विश्वास-प्रस्तुतिः

दश॑ मा॒ रात्री॑र् जा॒तन् न दो॑हन्

मूलम्

दश॑ मा॒ रात्री॑र्जा॒तन्न दो॑हन् ।

भट्टभास्कर-टीका

दशरात्रीः मदर्थं जातं दुग्धं न दोहन् न दुद्युः, मज्जन्मन आरभ्य दशरात्रीरिति प्रतिपादनार्थं जातग्रहणम् । दुहेर्व्यत्ययेन शप् ।

विश्वास-प्रस्तुतिः

आ॒स॒ङ्ग॒वम् मा॒त्रा स॒ह च॑रा॒णी"ति॑

मूलम्

आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रा॒णी"ति॑ ।

भट्टभास्कर-टीका

आसंगवं च मात्रा सह चराणीति । मर्यादायामाकारः । द्वितीयोऽर्धप्रहरस्संगवः ।

विश्वास-प्रस्तुतिः

तस्मा॑द् व॒त्सञ् जा॒तन् दश॒ रात्री॒र् न दु॑हन्ति । आ॒स॒ङ्ग॒वम् मा॒त्रा स॒ह च॑रति

मूलम्

तस्मा॑द्व॒त्सञ्जा॒तन्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒वम्मा॒त्रा स॒ह च॑रति ।

भट्टभास्कर-टीका

तस्मादित्यादि । गतम् ॥

रुद्राद् अपायः

विश्वास-प्रस्तुतिः

वारे॑-वृतँ॒ ह्य् अ॑स्य +++(रुद्रस्य)+++ । तस्मा॑द् व॒त्सँ +++(होमार्थ-)+++सँ॑सृष्ट+++(-दुग्ध)+++-ध॒यँ रु॒द्रो घातु॑कः

मूलम्

वारे॑वृतँ॒ ह्य॑स्य । तस्मा॑द्व॒त्सँ सँ॑सृष्टध॒यँ रु॒द्रो घातु॑कः ।

भट्टभास्कर-टीका

वारे वृतं वरणकाले वृतम् अस्येदं,
तस्मात् वत्सं संसृष्ट-धयं होमार्थेन दुग्धेन संसृष्टं पिबन्तं
दशरात्राद् ऊर्ध्वम् अपि कृत्स्न-पायिनं रुद्रो घातुकः हन्तुकामस्स्यात् । ‘लषपतपद’ इत्युकञ् ।

सायं प्रातश्च होमार्थं दुग्धं पिबन्तं वत्सं
पशूनां पतित्वात् देवः स्वयमेव दण्डयतीति ।

विश्वास-प्रस्तुतिः

+++(यतः-)+++ अति॒ हि स॒न्धान् +++(=समयं)+++ धय॑ति+++(=पिबति)+++ ॥3॥

मूलम्

अति॒ हि स॒न्धान्धय॑ति ॥3॥

भट्टभास्कर-टीका

हेतुं चाह - अति हीत्यादि । अतीत्य संधां संधानं समयं स्वयं पिबति वत्सः, तं तु देवो न सहत इति । ‘आतश्चोपसर्गे’ इत्यङ्, ‘हि च’ इत्याख्यातस्य निघाताभावः

इति तैत्तिरीयब्राह्मणे द्वितीयेऽष्टके प्रथमे प्रथमोऽनुवाकः ।