१० व्युष्टिद्विरात्रं रायसूयान्ते कर्तव्यम्

मूलम्

अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ सव्ँवत्स॒रमा॑प्नोति । याव॑न्ति सव्ँवत्स॒रस्या॑होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः॑ । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑तिष्ठति । अ॒ग्नि॒ष्टो॒मᳶ पूर्व॒मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् ॥35॥

विश्वास-प्रस्तुतिः

“अप्र॑तिष्ठितो॒ वा ए॒ष” इत्या॑हुर् यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ ।

य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते ।

अथ॑ प्रति॒ष्ठा । अथ॑ सव्ँवत्स॒रमा॑प्नोति । याव॑न्ति सव्ँवत्स॒रस्या॑होरा॒त्राणि॒ ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः॑ । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑तिष्ठति ।

अ॒ग्नि॒ष्टो॒मᳶ पूर्व॒मह॑र्भवत्य् अतिरा॒त्र उत्त॑रम् ॥35॥

भट्टभास्कर-टीका

1 अप्रतिष्ठितो वा इत्यादि ॥ बहुयागकरणात् अप्रतिष्ठितो राजसूययाजो इत्याहुः । तस्य व्युष्टिद्विरात्रेण द्वित्वात् प्रतिष्ठा भवति संवत्सरं चाप्नोति । तत् कुत इत्याह - संवत्सरसंबन्धिनामहोरात्राणामेतत्सम्बन्धिनीनां च स्तोत्रीयाणां तुल्यपरिमाणत्वात् अहोरात्रेषु प्रतिष्ठितो भवति अवयवधर्मेण । द्विरात्रस्य हि द्विरात्रावयवस्य पञ्चषष्ट्यधिकशतत्रयं स्तोत्रीया भवन्ति । यथोक्तमाचार्येण - ‘चतुर्विंशाः पवमानाः, पञ्चदशानि त्रीण्याज्यानि सप्तदशमच्छावाकस्य एरकविंशानि त्रीणि चाच्छावाकस्य त्रयस्त्रिंशोऽग्निष्टोमसाम । एकविंशान्युक्थ्यानि सषोडशिकानि पञ्चदशी रात्रिः । त्रिवृत् सन्धिः’इति ॥

विश्वास-प्रस्तुतिः

नानै॒वाहो॑रा॒त्रयो॒ᳶ प्रति॑तिष्ठति ।

पौ॒र्ण॒मा॒स्याम्पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् ।

मूलम्

नानै॒वाहो॑रा॒त्रयो॒ᳶ प्रति॑तिष्ठति ।

पौ॒र्ण॒मा॒स्याम्पूर्व॒मह॑र्भवति । व्य॑ष्टकाया॒मुत्त॑रम् ।

भट्टभास्कर-टीका

2 नानैवेति ॥ नानास्वभावयोरहोरात्रयोः नानाप्रतिष्ठितो भवति, आश्रयनानात्वात् । व्यष्टका कृष्णप्रतिपत् ।

विश्वास-प्रस्तुतिः

नानै॒वार्ध॑मा॒सयो॒ᳶ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑या॒म्पूर्व॒मह॑र्भवति ।

मूलम्

नानै॒वार्ध॑मा॒सयो॒ᳶ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑या॒म्पूर्व॒मह॑र्भवति ।

भट्टभास्कर-टीका

नानाभूतयोः अर्धमासयोः शुक्लकृष्णयोः नानाप्रतिष्ठितो भवति ।

विश्वास-प्रस्तुतिः

उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑यो॒ᳶ प्रति॑तिष्ठति ।

मूलम्

उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑यो॒ᳶ प्रति॑तिष्ठति ।

भट्टभास्कर-टीका

उद्दृष्टः शुक्लाद्यमहः, यत्र चन्द्रमा उद्दृश्यते नानाभूतयोर्मासयोः पूर्वोत्तरयोः नानाप्रतिष्ठितो भवति । इदमेव लिङ्गं शुक्लादिर्मास इति । यदाह - ‘पौर्णमास्यां नानार्धमासयोः’ इति । यच्चाह - ‘अमावास्यायां नानामासयोः'22इति ।

मूलम्

अथो॒ खलु॑ । ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता॑म् । तयो॑ᳵ का॒र्य॑म्प्रति॑ष्ठित्यै ॥36॥

विश्वास-प्रस्तुतिः

अथो॒ खलु॒ ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता॒म् तयो॑ᳵ का॒र्य॑म्प्रति॑ष्ठित्यै ॥36॥

मूलम्

अथो॒ खलु॒ ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता॒म् तयो॑ᳵ का॒र्य॑म्प्रति॑ष्ठित्यै ॥36॥

भट्टभास्कर-टीका

अथो अपि खलु पक्षान्तरमप्यस्तीत्याह - एकस्मिन्नपि पक्षे निरन्तरे पुण्याहे स्यातां तयोः कार्यं तदपि प्रतिष्ठित्यै भवति शीघ्रसमाप्त्या । ‘उत्तमैकाभ्यां च’इति अह्नादेशाभावः । अर्धर्चादिर्द्रष्टव्यः ॥

विश्वास-प्रस्तुतिः

“अ॒प॒श॒व्यो द्वि॑रा॒त्र” इत्या॑हुः ।

मूलम्

“अ॒प॒श॒व्यो द्वि॑रा॒त्र” इत्या॑हुः ।

भट्टभास्कर-टीका

3 अपशव्यः इति ॥ पशुभ्यो हितो न भवति । ‘उगवादिभ्यो यत्, ययतोश्चातदर्थे’इत्युत्तरपदान्तोदात्तत्वम् ।

मूलम्

द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रञ्च॒ त्रैष्टु॑भञ्च ।

विश्वास-प्रस्तुतिः

द्वे ह्ये॑ते छन्द॑सी गाय॒त्रञ्च॒ त्रैष्टु॑भञ्च ।

मूलम्

द्वे ह्ये॑ते छन्द॑सी गाय॒त्रञ्च॒ त्रैष्टु॑भञ्च ।

भट्टभास्कर-टीका

कथं अपशव्यत्वमित्याह - द्वे हीति । द्वेह्यत्र छन्दसी भवतः ‘गायत्रं पूर्वेऽहन् साम भवति, त्रैष्टुभमुत्तरे'22इति । तत्राज्येषु त्रैष्टुभस्य साम्नो भावात् होतुरभिधानम् । यथोक्तमाचार्येण - ‘होतुराज्य एतानि संपादयेत्’इति छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम्’इति गायत्रीशब्दादञ् । त्रिष्टुप्शब्दादुत्सादित्वादञ् ।

विश्वास-प्रस्तुतिः

जग॑तीम॒न्तर्य॑न्ति ।

मूलम्

जग॑तीम॒न्तर्य॑न्ति ।

भट्टभास्कर-टीका

एवमेते जगतीमन्तर्यन्ति अन्तर्हिता कुर्वन्ति लुम्पन्ति ।

विश्वास-प्रस्तुतिः

“न तेन॒ जग॑ती कृ॒ते"त्या॑हुः ।

मूलम्

“न तेन॒ जग॑ती कृ॒ते"त्या॑हुः ।

भट्टभास्कर-टीका

जागताः पशवः अपशव्यो द्विरात्रः इत्याहुः ।

विश्वास-प्रस्तुतिः

यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ ।

मूलम्

यदे॑नान्तृतीयसव॒ने कु॒र्वन्तीति॑ ।

भट्टभास्कर-टीका

अथ चेत् ब्रूयुः - अथ ये तृतीयसवने जगतीति । अत्राप्येव त आहुः - यदेनां तृतीयसवने कुर्वन्ति सवनच्छन्दस्त्वेन न तावता जगती कृता कृतार्थेति ।

मूलम्

य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ ।

विश्वास-प्रस्तुतिः

य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते सा॒ह्नस्य॑ वा॒ सव॑न॒म् अथै॒व जग॑ती कृ॒ता ।

मूलम्

य॒दा वा ए॒षाऽहीन॒स्याह॒र्भज॑ते सा॒ह्नस्य॑ वा॒ सव॑न॒म् अथै॒व जग॑ती कृ॒ता ।

भट्टभास्कर-टीका

कथंकारमियं जगती कृता भवेदित्याह - यदा खल्वेषा अहीनस्य साह्नस्य क्रतोरवयवमहः कृत्स्नं भजते । साह्नस्य वा एकाहस्यावयवं सवनं भजते, अथानन्तरमेव जगती कृता भवति । न त्वहीने, तृतीयसवनमात्रान्वयात् ।

विश्वास-प्रस्तुतिः

अथ॑ पश॒व्यः॑ । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः ।

अथैवंसत्येव द्विरात्रः पशव्यो भवति जगतीलाभात् । तस्मादस्याहीनत्वात् यथेयमहरेकं कृत्स्नं भजते तथाविधः कश्चित्प्रकारोऽस्तीत्युक्तं भवति । स च द्विरात्रे दर्शितः ‘वैखानसं पूर्वेऽहन् साम भवति तेन जगत्यै नैति’ पृष्ठेषु बार्हतं वैखानसं साम भवति । बृहती च त्रिरभ्यासात् षट्त्रिंशदक्षरा भवन्ति तत्र च तिस्रो जगत्यो भवन्ति इति ॥

य ए॒वव्ँ वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति ।

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते व्ये॑वास्मा॑ उच्छति ।

मूलम्

य ए॒वव्ँ वि॒द्वान्द्वि॑रा॒त्रेण॒ यज॑ते व्ये॑वास्मा॑ उच्छति ।

भट्टभास्कर-टीका

4 व्युष्टिर्वा इत्यादि ॥ एवं विदित्वा यजमानश्च व्युच्छति वस्यसी व्युच्छतीति सामर्थ्यात् ।

विश्वास-प्रस्तुतिः

अथो॒ तम॑ ए॒वाप॑हते ।

मूलम्

अथो॒ तम॑ ए॒वाप॑हते ।

भट्टभास्कर-टीका

अथो अपि खलु तमश्च सर्वं बाह्यमाभ्यन्तरं चापहते । व्यत्ययेनात्मनेपदम् ॥

विश्वास-प्रस्तुतिः

अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑तिष्ठति ॥37॥

मूलम्

अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति । अ॒ग्निस्सर्वा॑ दे॒वताः॑ । दे॒वता॑स्वे॒व प्रति॑तिष्ठति ॥37॥

भट्टभास्कर-टीका

5 अग्निष्टोममिति ॥ अग्निष्टोममुदयनीयमन्ते आहरति । अग्नेस्सर्वदेवतात्वात् तासु प्रतिष्ठितो भवति । सन्तिष्ठते राजसूवः ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये पारक्षुद्रे प्रथमेऽष्टके अष्टमप्रपाठके दशमोऽनुवारकः । समाप्तश्च प्रपाठकः ॥ इति प्रथमाष्टकम् ॥