मूलम्
इ॒यव्ँ वै॒ र॑ज॒ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वै॒ र॑ज॒ता, अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑त आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
मूलम्
इ॒यव्ँ वै॒ र॑ज॒ता, अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑त आ॒भ्यामे॒वैन॑मुभ॒यत॒ᳶ परि॑ गृह्णाति ।
भट्टभास्कर-टीका
1 इयं वा इत्यादि ॥ अभिषेचनीयविषययो रुक्मयोः स्तुतिः क्रियते । पृथिवी रजता द्यौस्सैवर्णी । तस्मान्न उपरि च यद्रजतसौवर्णौ रुक्मौ भवतः तस्मादाभ्यां द्यावापृथिवीभ्यामेव ह्येष परिगृहीतो भवति ॥
विश्वास-प्रस्तुतिः
वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यव्ँ वी॒र्य॑न्निर॑घ्नन् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
मूलम्
वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑ । इ॒न्द्रि॒यव्ँ वी॒र्य॑न्निर॑घ्नन् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् ।
भट्टभास्कर-टीका
2 वरुणस्य वा इत्यादि ॥ गतम् ॥
मूलम्
यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय । श॒तमा॑नो भवति श॒तक्ष॑रः । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
यद्रु॒क्मम॑न्त॒र्दधा॑तीन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय ।
मूलम्
यद्रु॒क्मम॑न्त॒र्दधा॑तीन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय ।
भट्टभास्कर-टीका
3 यद्रुक्ममिति ॥ सौवर्णं रुक्मं अन्तर्मध्ये राज्ञोऽपां च दधाति स्थापयति । तदिन्द्रियादेरनिर्घाताय अविनाशाय भवति । वरुणस्येव नास्यावघातः ।
विश्वास-प्रस्तुतिः
श॒तमा॑नो भवति श॒तक्ष॑रः । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तमा॑नो भवति श॒तक्ष॑रः । श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
शतमान शतमानयवप्रमाणकः शतक्षरः शतच्छिद्रः ॥
विश्वास-प्रस्तुतिः
आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
मूलम्
आयु॒र्वै हिर॑ण्यम् । आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
तेजो॒ वै हिर॑ण्यम् । ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑क्षरन्ति ।
भट्टभास्कर-टीका
4 आयुर्वा इत्यादि ॥ हिरण्यस्य आयुर्हेतुत्वात् आयुष्याः आयुर्वृद्धिहेतुभूता एव सत्यः एनमभ्यतिक्षरन्ति एनमभिलक्ष्य परिक्षरन्ति । ‘नौद्व्यचः’ इति यत्, ‘अभिरभागे’इति लक्षणे अनोः कर्मप्रवचनीयत्वम् ।
विश्वास-प्रस्तुतिः
वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ॥34॥
मूलम्
वर्चो॒ वै हिर॑ण्यम् । व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ क्षरन्ति ॥34॥
भट्टभास्कर-टीका
तेजो दीप्तिः वर्चो बलम् । गतमन्यत् ॥
इति अष्टमे नवमोऽनुवाकः ॥