०८ अभिषेचनीये साममन्त्रविशेषः

विश्वास-प्रस्तुतिः

उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति ।

मूलम्

उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति ।

भट्टभास्कर-टीका

1 उप त्वेत्यादि ॥ प्राथम्यात् बहिष्पवमानस्य प्रथमतः पद्यते स्वीक्रियत इति प्रतिपत् । संपदादित्वात् क्विप् ॥

विश्वास-प्रस्तुतिः

वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः ।

मूलम्

वाग्वै वा॒युः । वा॒च ए॒वैषो॑ऽभिषे॒कः ।

भट्टभास्कर-टीका

2 वाग्वा इत्यादि ॥ वाक् वायुः तन्निमित्तत्वात् वाच एवायमभिषेकः योऽभिषेचनीये क्रियते, वाक्समृद्धिहेतुत्वात् । तस्मात् ‘वायोरनीके अस्थिरन्’ इत्युच्यत इति ।

विश्वास-प्रस्तुतिः

सर्वा॑सामे॒व प्र॒जानाँ॑ सूयते ।

मूलम्

सर्वा॑सामे॒व प्र॒जानाँ॑ सूयते ।

भट्टभास्कर-टीका

तस्मात्सर्वासां प्रजानामेव सूयते ईश्वरीक्रियते ।

विश्वास-प्रस्तुतिः

सर्वा॑ एनम्प्र॒जा राजेति॑ वदन्ति । “ए॒तमु॒ त्यन्दश॒ क्षिप॒” इत्या॑ह ।

मूलम्

सर्वा॑ एनम्प्र॒जा राजेति॑ वदन्ति । “ए॒तमु॒ त्यन्दश॒ क्षिप॒” इत्या॑ह ।

भट्टभास्कर-टीका

सर्वत्र ख्यातत्वात् सर्वाः प्रजाः एनं राजेति वदन्ति वागभिषेकात् ॥

विश्वास-प्रस्तुतिः

आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते ।

मूलम्

आ॒दि॒त्या वै प्र॒जाः । प्र॒जाना॑मे॒वैतेन॑ सूयते ।

भट्टभास्कर-टीका

3 आदित्या वा इत्यादि ॥ उदयप्रकाशवर्षादिना आदित्यस्य स्वभूताः प्रजाः । तस्मात् सर्वासां प्रजानां सूयते ईश्वरो भवति । तस्मात् ‘समादित्येभिरख्यत’ इत्युच्यत इति ॥

मूलम्

यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात् । ये स॑म्भा॒र्या॑ अक्र॑न्न् ॥29॥ यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑ । तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति ।

विश्वास-प्रस्तुतिः

यन्ति॒ वा ए॒ते य॑ज्ञमु॒खाद् ये स॑म्भा॒र्या॑ अक्र॑न् ।

मूलम्

यन्ति॒ वा ए॒ते य॑ज्ञमु॒खाद् ये स॑म्भा॒र्या॑ अक्र॑न् ।

भट्टभास्कर-टीका

4 यन्ति वा इत्यादि ॥ यन्ति अवगच्छन्ति यज्ञमुखात् यज्ञारम्भात् । के ये संभार्याः संभाराख्याभिः ऋग्भिः तृचानामाद्याभिः आद्यानि सामानि अक्रन् अकार्षुः ।

विश्वास-प्रस्तुतिः

यदाह॒ “पव॑स्व वा॒चो अ॑ग्रिय॒” इति॒ तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति ।

मूलम्

यदाह॒ “पव॑स्व वा॒चो अ॑ग्रिय॒” इति॒ तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति ।

भट्टभास्कर-टीका

तस्मात् ‘पवस्व वाचो अग्रियः’ इति वचनात् यज्ञमुखान्नयन्ति नापगच्छन्ति ॥

विश्वास-प्रस्तुतिः

अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति ।

मूलम्

अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति । अ॒नु॒ष्टुगु॑त्त॒मा । वाग्वा अ॑नु॒ष्टुक् । वा॒चैव प्र॒यन्ति॑ । वा॒चोद्य॑न्ति ।

भट्टभास्कर-टीका

5 अनुष्टुगित्यादि ॥ प्रथमोत्तमयोरनुष्टुक्त्वात् वाङ्मयत्वाच्च अनुष्टुभा वाचैव प्रयन्ति प्रारभन्ते । वाचोद्यन्ति समापयन्ति यज्ञम् ॥

विश्वास-प्रस्तुतिः

उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् ।

मूलम्

उद्व॑तीर्भवन्ति । उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम् ।

भट्टभास्कर-टीका

6 कथं गायत्रीणामनुष्टुप्त्वमित्याह - उद्वतीरित्यादि ॥ उच्छब्दवत्य ऋचो भवन्ति । अनुष्टुभा हि रूपमुद्वत् उद्गतत्वात् भवति गायत्र्यपेक्षया ऊर्ध्वं गतत्वात्, तस्मात् अनुष्टुप्त्वम् ।

विश्वास-प्रस्तुतिः

आनु॑ष्टुभो राज॒न्यः॑ ॥30॥
तस्मा॒दुद्व॑तीर्भवन्ति ।

मूलम्

आनु॑ष्टुभो राज॒न्यः॑ ॥30॥
तस्मा॒दुद्व॑तीर्भवन्ति ।

भट्टभास्कर-टीका

राजन्यश्चायमानुष्टुभः तद्वीर्यप्रभवत्वात् । तस्मादुद्वत्य एता भवन्ति ।

मूलम्

सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।

विश्वास-प्रस्तुतिः

सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।

मूलम्

सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।

भट्टभास्कर-टीका

सौर्यनुष्टुगित्यादि । गतम् ॥

मूलम्

यो वै स॒वादेति॑ । नैनँ॑ स॒व उप॑नमति ।

यस्साम॑भ्य॒ एति॑ । पापी॑यान्त्सुषुवा॒णो भ॑वति ।

ए॒तानि॒ खलु॒ वै सामा॑नि । यत्पृ॒ष्ठानि॑ ।

यत्पृ॒ष्ठानि॒ भव॑न्ति ॥31॥
तैरे॒व स॒वान्नैति॑ ।

विश्वास-प्रस्तुतिः

यो वै स॒वादेति॒ नैनँ॑ स॒व उप॑नमति ।

मूलम्

यो वै स॒वादेति॒ नैनँ॑ स॒व उप॑नमति ।

भट्टभास्कर-टीका

7 यो वा इति पृष्ठविधिः ॥ पृष्टान्येव सवः । तस्मात् पृष्ठान्येव सामानि । तस्मात् यः सवात् पृष्ठात्मकादेति अपगच्छति नैनं सवः ऐश्वर्यं सवान्तरं अयमेव वा यज्ञ उपनमति ।

विश्वास-प्रस्तुतिः

यस्साम॑भ्य॒ एति॒ पापी॑यान्त्सुषुवा॒णो भ॑वति ।

ए॒तानि॒ खलु॒ वै सामा॑नि॒ यत्पृ॒ष्ठानि॑ ।

मूलम्

यस्साम॑भ्य॒ एति॒ पापी॑यान्त्सुषुवा॒णो भ॑वति ।

ए॒तानि॒ खलु॒ वै सामा॑नि॒ यत्पृ॒ष्ठानि॑ ।

भट्टभास्कर-टीका

किंच यः सामभ्यः अपगच्छति स सुषुवाणः कृत्वाऽपि सवं पापीयान् पापतरः दरिद्रो भवति ।

विश्वास-प्रस्तुतिः

यत्पृ॒ष्ठानि॒ भव॑न्ति॒ तैरे॒व स॒वान्नैति॑ ।

मूलम्

यत्पृ॒ष्ठानि॒ भव॑न्ति॒ तैरे॒व स॒वान्नैति॑ ।

भट्टभास्कर-टीका

तस्मात् पृष्ठैरेव सवान्नापगमः, तत्पापीयान् न भवति ॥

मूलम्

यानि॑ देवरा॒जानाँ॒ सामा॑नि । तैर॒मुष्मिल्ँ॑ लो॒क ऋ॑ध्नोति ।

यानि॑ मनुष्यरा॒जानाँ॒ सामा॑नि । तैर॒स्मिल्ँ लो॒क ऋ॑ध्नोति ।

उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नोति । दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑ ।

विश्वास-प्रस्तुतिः

यानि॑ देवरा॒जानाँ॒ सामा॑नि॒ तैर॒मुष्मिल्ँ॑ लो॒क ऋ॑ध्नोति ।

मूलम्

यानि॑ देवरा॒जानाँ॒ सामा॑नि॒ तैर॒मुष्मिल्ँ॑ लो॒क ऋ॑ध्नोति ।

भट्टभास्कर-टीका

8 यानीत्यादि ॥ देवीभूता राजानो देवराजानः देवानां राजानः ।

विश्वास-प्रस्तुतिः

यानि॑ मनुष्यरा॒जानाँ॒ सामा॑नि॒ तैर॒स्मिल्ँ लो॒क ऋ॑ध्नोति ।

मूलम्

यानि॑ मनुष्यरा॒जानाँ॒ सामा॑नि॒ तैर॒स्मिल्ँ लो॒क ऋ॑ध्नोति ।

भट्टभास्कर-टीका

एवं मनुष्यराजानः । अन्यतरसम्बन्धिसामपरिग्रहे अन्यतरलोकर्द्धिः ।

विश्वास-प्रस्तुतिः

उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नोति देवलो॒के च॑ मनुष्यलो॒के च॑ ।

मूलम्

उ॒भयो॑रे॒व लो॒कयो॑र् ऋध्नोति देवलो॒के च॑ मनुष्यलो॒के च॑ ।

भट्टभास्कर-टीका

उभयपरिग्रहे उभयोरपि लोकयो ऋद्धिः भवति । सामविशेषाणामियमाख्या ॥

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति ।

मूलम्

ए॒क॒विँ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति ।

भट्टभास्कर-टीका

9 एकविंश इत्यादि ॥ अभिषेचनीयस्योत्तम अन्त्यः स्तोमः एकविंशस्तोत्रीयो भवति, उक्थ्यत्वादभिषेचनीयस्य उक्थ्यानामेकविंशत्वात् ।

विश्वास-प्रस्तुतिः

ए॒क॒विँ॒शᳵ के॑शवप॒नीय॑स्य प्रथ॒मः +++(भवति)+++ ।

मूलम्

ए॒क॒विँ॒शᳵ के॑शवप॒नीय॑स्य प्रथ॒मः +++(भवति)+++ ।

भट्टभास्कर-टीका

केशवपनीयस्य प्रथमः स्तोम एकविंशो भवति । तस्यावृत्ताग्निष्टोमस्तोत्रत्वात् ।

विश्वास-प्रस्तुतिः

स॒प्त॒द॒शो द॑श॒पेयः॑ +++(भवति)+++ ॥32॥
विड्वा ए॑कविँ॒शः +++(भवति)+++ । रा॒ष्ट्रँ स॑प्तद॒शः +++(भवति)+++ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।

मूलम्

स॒प्त॒द॒शो द॑श॒पेयः॑ +++(भवति)+++ ॥32॥
विड्वा ए॑कविँ॒शः +++(भवति)+++ । रा॒ष्ट्रँ स॑प्तद॒शः +++(भवति)+++ । विश॑ ए॒वैतन्म॑ध्य॒तो॑ऽभिषि॑च्यते ।

भट्टभास्कर-टीका

दशपेयः सर्वोपि सप्तदशो भवति तत्र विडात्मकयोरकेविंशयोर्मध्ये राष्ट्रात्मकस्य सप्तदशस्यावस्थानात् विशो मध्यतोऽभिषिक्तो भवति एतत् एतस्मिन्राष्ट्रे । ‘सुपां सुलुक्’इति सप्तम्या लुक् ।

विश्वास-प्रस्तुतिः

तस्मा॒द्वा ए॒ष वि॒शाम्प्रि॒यः +++(भवति)+++ ।

मूलम्

तस्मा॒द्वा ए॒ष वि॒शाम्प्रि॒यः +++(भवति)+++ ।

भट्टभास्कर-टीका

तस्मादेष राजा विशां प्रकृतीनां प्रियः अभीष्टो भवति ।

विश्वास-प्रस्तुतिः

वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।

मूलम्

वि॒शो हि म॑ध्य॒तो॑ऽभिषि॒च्यते॑ ।

भट्टभास्कर-टीका

विश इति जातावेकवचनम् ॥

मूलम्

यद्वा ए॑नम॒दो दिशोऽनु॑व्यास्था॒पय॑न्ति । तत्सु॑व॒र्गल्लो॒कम॒भ्यारो॑हति ।

विश्वास-प्रस्तुतिः

यद्वा ए॑नम॒दो दिशोऽनु॑व्यास्था॒पय॑न्ति॒ तत्सु॑व॒र्गल्लो॒कम॒भ्यारो॑हति ।

मूलम्

यद्वा ए॑नम॒दो दिशोऽनु॑व्यास्था॒पय॑न्ति॒ तत्सु॑व॒र्गल्लो॒कम॒भ्यारो॑हति ।

भट्टभास्कर-टीका

10 यद्वा एनमित्यादि ॥ यत् यदा एनं दिशोऽनु व्यास्थापयन्ति ‘दिशो व्यास्थापयति’ इति पूर्वं कृतं अद इति निर्दिशति ।

मूलम्

यदि॒मल्ँ लो॒कन्न प्र॑त्यव॒रोहे॑त् । अ॒ति॒ज॒नव्ँ वे॒यात् ।

विश्वास-प्रस्तुतिः

यदि॒मल्ँ लो॒कन्न प्र॑त्यव॒रोहे॑द् अतिज॒नव्ँ वे॒यात् ।

मूलम्

यदि॒मल्ँ लो॒कन्न प्र॑त्यव॒रोहे॑द् अतिज॒नव्ँ वे॒यात् ।

भट्टभास्कर-टीका

तत् तदानीमेव अयं सुवर्गं लोकं अभ्यारोहति तत्रायं यदिमं लोकं न प्रत्यवरोहेत् पुनरत्र नावतरेत् । तदा अयं जनमात्मीयं अति वेयात् । यद्वा - जनपदमात्मीयं अतीयाद्वा, अतिक्रम्य पलायेत वा ।

मूलम्

उद्वा॑ माद्येत् । यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ति । इ॒ममे॒व तेन॑ लो॒कम्प्र॒त्यव॑रोहति ।

विश्वास-प्रस्तुतिः

उद्वा॑ माद्ये॒द् यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ती॒ममे॒व तेन॑ लो॒कम्प्र॒त्यव॑रोहति ।
अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठ॒त्यनु॑न्मादाय ॥33॥

मूलम्

उद्वा॑ माद्ये॒द् यदे॒ष प्र॑ती॒चीन॑स्स्तोमो॒ भव॑ती॒ममे॒व तेन॑ लो॒कम्प्र॒त्यव॑रोहति ।
अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठ॒त्यनु॑न्मादाय ॥33॥

भट्टभास्कर-टीका

तत्रैव वा उन्माद्येत्, तस्मादेष केशवपनीयः प्रतीचीनस्तोमः आवृत्तस्तोमोऽतिरात्रो भवति । इममेवेत्यादि । गतम् ॥

इति अष्टमे अष्टमोऽनुवाकः ॥