विश्वास-प्रस्तुतिः
अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खव्ँ वा अ॑ग्निष्टो॒मः ।
मूलम्
अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ॒मु॒खव्ँ वा अ॑ग्निष्टो॒मः ।
भट्टभास्कर-टीका
1 अग्निष्टोममग्र इत्यादि ॥ अग्रे आदौ राजसूयस्य अग्निष्टोमं पवित्राख्यं आहरति ।
विश्वास-प्रस्तुतिः
य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते ।
मूलम्
य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते ।
भट्टभास्कर-टीका
यज्ञामुखं हि अग्निष्टोमः । तस्माद्यज्ञमुखमेवारभ्य राजसूयमाक्रमते अधितिष्ठति मुखमेवाक्रम्य सर्वं करोति ॥
विश्वास-प्रस्तुतिः
अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रिँ॒शप॑वमानो भवति ।
मूलम्
अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रिँ॒शप॑वमानो भवति ।
भट्टभास्कर-टीका
2 अथेत्यादि ॥ अथाभिषेचनीयः उक्थ्याख्यश्चतुस्त्रिंशपवमानो भवति । अथेत्यहरानन्तर्यं द्योतयति । चतुस्त्रिंशस्तोत्रीयस्तोमश्चतुस्त्रिंशः । तादृशपवमान एष इति अवयवद्वारेण अवयवी स्तूयते ।
मूलम्
त्रय॑स्त्रिँश॒द्वै दे॒वताः॑ । ता ए॒वाप्नो॑ति । प्र॒जाप॑तिश्चतुस्त्रिँ॒शः । तमे॒वाप्नो॑ति ।
विश्वास-प्रस्तुतिः
त्रय॑स्त्रिँश॒द्वै दे॒वता॒स् ता ए॒वाप्नो॑ति ।
प्र॒जाप॑तिश्चतुस्त्रिँ॒शस् तमे॒वाप्नो॑ति ।
मूलम्
त्रय॑स्त्रिँश॒द्वै दे॒वता॒स् ता ए॒वाप्नो॑ति ।
प्र॒जाप॑तिश्चतुस्त्रिँ॒शस् तमे॒वाप्नो॑ति ।
भट्टभास्कर-टीका
त्रयस्त्रिंशदित्यादि । गतम् ॥
मूलम्
सँ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्विष॑मा॒स्स्तोमाः॑ ॥27॥
विश्वास-प्रस्तुतिः
सँ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्व॒म् यद्विष॑मा॒स्स्तोमाः॑ ॥
मूलम्
सँ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्व॒म् यद्विष॑मा॒स्स्तोमाः॑ ॥
भट्टभास्कर-टीका
3 संशर इति ॥ संशरणं सशरः । ‘ऋदोरप्’थाथादिना उत्तरपदान्तोदात्तत्वम् । स्तोमानामेष संशरः शीर्णता संभूयविनाशः यत् स्तोमास्सर्वेऽपि अयथापूर्वं भवन्ति । यथा पूर्वस्तोमः तथा उतरे न भवन्ति । किमुक्तं भवतीत्याह - विषमा इति । बहिष्पवमाने चतुस्त्रिंशः, माध्यंदिनादयः पञ्चदशादय एव स्युरिति । यद्वा पूर्वं प्रकृतौ स्तोमानां साम्यं दृष्टं,तदतिक्रमणे यत् स्तोमा विषमाः स्युः एष संशरः स्तोमानामिति ।
मूलम्
ए॒तावा॒न् वै य॒ज्ञः । यावा॒न्पव॑मानाः ।
अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यत् । यत्स॒माᳶ पव॑मानाः ।
विश्वास-प्रस्तुतिः
ए॒तावा॒न् वै य॒ज्ञो यावा॒न्पव॑मानाः ।
अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यद् यत्स॒माᳶ पव॑मानाः ।
मूलम्
ए॒तावा॒न् वै य॒ज्ञो यावा॒न्पव॑मानाः ।
अ॒न्त॒श्श्लेष॑ण॒न्त्वा अ॒न्यद् यत्स॒माᳶ पव॑मानाः ।
भट्टभास्कर-टीका
ननु संशीर्णता संभूय स्तोमानां भवतु, का क्षतिर्यज्ञस्येत्याह - एतावानित्यादि । पवमाना एव यज्ञः, पवमानव्यतिरिक्तं सर्वं तु अन्तश्श्लेषणमेव यद्दार्ढ्यार्थं भित्त्यादावन्तर्निधीयते तदन्तश्लेषणम् ।
मूलम्
तेनाऽसँ॑शरः । तेन॑ यथापू॒र्वम् ।
विश्वास-प्रस्तुतिः
तेनाऽसँ॑शर॒स् तेन॑ यथापू॒र्वम् ।
तस्मात् सर्वपवमानसाम्येन संशराभावः । यथापूर्वमेव च कृतं भवति ॥
मूलम्
तेनाऽसँ॑शर॒स् तेन॑ यथापू॒र्वम् ।
तस्मात् सर्वपवमानसाम्येन संशराभावः । यथापूर्वमेव च कृतं भवति ॥
विश्वास-प्रस्तुतिः
आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ ।
मूलम्
आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्ध्नोति॑ ।
भट्टभास्कर-टीका
4 आत्मनैवेत्यादि ॥ आत्मा अग्निष्टोमसाम तस्मात् तत्संस्थेन यागेन आत्मस्थानीयेन स्वयमृध्नोति ।
विश्वास-प्रस्तुतिः
आ॒त्मना॒ पुण्यो॑ भवति ।
मूलम्
आ॒त्मना॒ पुण्यो॑ भवति ।
भट्टभास्कर-टीका
किंच आत्मस्थानीयेन तेन पुण्यश्च स्वयं भवति । ‘प्रकृत्यादिभ्यः’इति तृतीया ।
विश्वास-प्रस्तुतिः
प्र॒जा वा उ॒क्थानि॑ ।
प॒शव॑ उ॒क्थानि॑ ।
यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ॥28॥
मूलम्
प्र॒जा वा उ॒क्थानि॑ ।
प॒शव॑ उ॒क्थानि॑ ।
यदु॒क्थ्यो॑ भव॒त्यनु॒ सन्त॑त्त्यै ॥28॥
भट्टभास्कर-टीका
अथ प्रजाः पशवश्च उक्थानि शस्त्रविशेषः । तत्संस्थ उक्थ्यः प्रजापशुस्थानीयः यस्मात् द्वितीयमहर्भवति तदनु संतत्यै अनुक्रमेण संतानसमृद्ध्यै भवति ॥
इति अष्टमे सप्तमोऽनुवाकः ॥