मूलम्
यत्त्रि॒षु यूपे॑ष्वा॒लभे॑त । ब॒हि॒र्धाऽस्मा॑दिन्द्रि॒यव्ँ वी॒र्य॑न्दध्यात् ।
विश्वास-प्रस्तुतिः
यत्त्रि॒षु यूपे॑ष्वा॒लभे॑त बहि॒र्धाऽस्मा॑दिन्द्रि॒यव्ँ वी॒र्य॑न्दध्यात् ।
मूलम्
यत्त्रि॒षु यूपे॑ष्वा॒लभे॑त बहि॒र्धाऽस्मा॑दिन्द्रि॒यव्ँ वी॒र्य॑न्दध्यात् ।
भट्टभास्कर-टीका
1 यत्त्रिष्वित्यादि ॥ प्रतिपशु यूपोपादानाद्यदि त्रिषु यूपेषु त्रीन् पशून् आश्विनादीनालभेत नियुञ्ज्यात् । अस्माद्यजमानादिद्रियादि बहिर्धा दध्यात् बहिष्ट्वप्रकारेण स्थापयेत् यूपानां बहुधाभावात् । छान्दसो धाप्रत्ययः ।
विश्वास-प्रस्तुतिः
भ्रातृ॑व्यमस्मै जनयेत् ।
मूलम्
भ्रातृ॑व्यमस्मै जनयेत् ।
भट्टभास्कर-टीका
भ्रातव्यं जनयेत् बहिर्भूतस्वभावात् ।
विश्वास-प्रस्तुतिः
ए॒क॒यू॒प आल॑भते ।
मूलम्
ए॒क॒यू॒प आल॑भते ।
भट्टभास्कर-टीका
तस्मादेकयूपे एकस्मिन्यूपे त्रीनपि पशूनालभते
विश्वास-प्रस्तुतिः
ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्ँ वी॒र्य॑न्दधाति । नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
मूलम्
ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्ँ वी॒र्य॑न्दधाति । नास्मै॒ भ्रातृ॑व्यञ्जनयति ।
भट्टभास्कर-टीका
एकधैव एकप्रकारमेवेन्द्रियादिकमस्मिन् दधातीति । ‘पूर्वकालैक’इत्यादिना समासः । एवमेकादशिनीविकारत्वात् प्रतिपशु यूपप्राप्तौ इदमपोद्यते । इदमेव च लिङ्गं पशुगणा एकादशिनीविकारा इति ॥
मूलम़्
नैतेषा॑म्पशू॒नाम्पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते ।
विश्वास-प्रस्तुतिः
नैतेषा॑म्पशू॒नाम्पु॑रो॒डाशा॑ भवन्ति॒ ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒वँ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
मूलम्
नैतेषा॑म्पशू॒नाम्पु॑रो॒डाशा॑ भवन्ति॒ ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒वँ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः ।
भट्टभास्कर-टीका
2 नैतेषामित्यादि ॥ ग्रहप्रशंसार्थमिति । पशुभिस्तुल्यदेवत्याः - पशुपुरोडाशा भवन्ति ग्रहाश्चैते पशुभिस्तुल्यदेवत्याः तस्मात्पुरोडाशसदृशाः ।
विश्वास-प्रस्तुतिः
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ॥21॥
मूलम्
सर्वा॑ ए॒व दे॒वता॑ᳶ प्रीणाति ॥21॥
भट्टभास्कर-टीका
वक्ष्येते चात्रैव ‘युवं सुरामम्’ इति ग्रहाणां याज्यानुवाक्ये । सर्वदेवत्यत्वमाश्विनादित्रयवत्त्वात् ॥
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णम्परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार॑म् ।
मूलम्
ब्रा॒ह्म॒णम्परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार॑म् ।
भट्टभास्कर-टीका
3 परिक्रयणं कार्यार्थं स्वीकरणम् ।
विश्वास-प्रस्तुतिः
ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता ।
मूलम्
ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता ।
भट्टभास्कर-टीका
उच्छेषणं ग्रहशेषः । ब्राह्मणः खलु होमातिरिक्तस्य पातृत्वेन दृष्टः ।
मूलम्
यदि॑ ब्राह्म॒णन्न वि॒न्देत् । व॒ल्मी॒क॒व॒पाया॒मव॑नयेत् ।
विश्वास-प्रस्तुतिः
यदि॑ ब्राह्म॒णन्न वि॒न्देद् व॑ल्मीकव॒पाया॒मव॑नयेत् ।
मूलम्
यदि॑ ब्राह्म॒णन्न वि॒न्देद् व॑ल्मीकव॒पाया॒मव॑नयेत् ।
भट्टभास्कर-टीका
यदीत्यादि कंचित् ब्राह्मणं पातारं यदि न लभेत वल्मीकच्छिद्रे अवनयेत् ।
विश्वास-प्रस्तुतिः
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
मूलम्
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
भट्टभास्कर-टीका
सा ततो दोषात् प्रायश्चित्तिः । प्रायणं प्रायः दोषनिर्घातः तदर्था चित्तिर्ज्ञानं प्रायश्चित्तिः ॥
मूलम्
यद्वै सौ॑त्राम॒ण्यै व्यृ॑द्धम् । तद॑स्यै॒ समृ॑द्धम् ।
विश्वास-प्रस्तुतिः
यद्वै सौ॑त्राम॒ण्यै व्यृ॑द्ध॒म् तद॑स्यै॒ समृ॑द्धम् ।
मूलम्
यद्वै सौ॑त्राम॒ण्यै व्यृ॑द्ध॒म् तद॑स्यै॒ समृ॑द्धम् ।
भट्टभास्कर-टीका
4 यद्वा इत्यादि ॥ अस्या सौत्रामण्याः यत् संबन्धि व्यृद्धं अन्यत्र कर्मणि वृद्धिहीनं यत्क्रियते पशुपुरोडाशानां भिन्नदेवत्यत्वं तदस्यां क्रियमाणं समृद्धं समृद्धिहेतुर्भवति
विश्वास-प्रस्तुतिः
ना॒ना॒दे॒व॒त्या॑ᳶ प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै ।
मूलम्
ना॒ना॒दे॒व॒त्या॑ᳶ प॒शव॑श्च पुरो॒डाशा॑श्च भवन्ति॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
अस्यास्समृद्धिः दैवतेन भवति ॥
विश्वास-प्रस्तुतिः
ऐ॒न्द्रᳶ प॑शू॒नामु॑त्त॒मो भ॑वति ।
ऐ॒न्द्रᳶ पु॑रो॒डाशा॑नाम्प्रथ॒मः ॥22॥
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पु॒रस्ता॑दनूया॒जाना॑म्पुरो॒डाशै॒ᳶ प्रच॑रति ।
मूलम्
ऐ॒न्द्रᳶ प॑शू॒नामु॑त्त॒मो भ॑वति ।
ऐ॒न्द्रᳶ पु॑रो॒डाशा॑नाम्प्रथ॒मः ॥22॥
इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति ।
पु॒रस्ता॑दनूया॒जाना॑म्पुरो॒डाशै॒ᳶ प्रच॑रति ।
मूलम्
प॒शवो॒ वै पु॑रो॒डाशाः॑ । प॒शूने॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
प॒शवो॒ वै पु॑रो॒डाशाःᳶ प॒शूने॒वाव॑रुन्धे ।
मूलम्
प॒शवो॒ वै पु॑रो॒डाशाःᳶ प॒शूने॒वाव॑रुन्धे ।
मूलम्
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पतीन्द्रि॒यमे॒वाव॑रुन्धे ।
सा॒वि॒त्रन्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
वा॒रु॒णन्दश॑कपालम् ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।
वड॑बा॒ दक्षि॑णा ॥23॥
मूलम्
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पतीन्द्रि॒यमे॒वाव॑रुन्धे ।
सा॒वि॒त्रन्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
वा॒रु॒णन्दश॑कपालम् ।
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ।
वड॑बा॒ दक्षि॑णा ॥23॥
मूलम्
उ॒त वा ए॒षाऽश्वँ॑ सू॒ते । उ॒ताऽश्व॑त॒रम् । उ॒त सोम॑ उ॒त सुरा॑ । यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
उ॒त वा ए॒षाऽश्वँ॑ सू॒त, उ॒ताऽश्व॑त॒रम् , उ॒त सोम॑ उ॒त सुरा॒ यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।
मूलम्
उ॒त वा ए॒षाऽश्वँ॑ सू॒त, उ॒ताऽश्व॑त॒रम् , उ॒त सोम॑ उ॒त सुरा॒ यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।
भट्टभास्कर-टीका
5 ऐन्द्र इत्यादि ॥ एषा खल्वपि सूते अश्वम् अप्यश्वतरं सूते । अश्वायां गर्दभेन उत्पादितोऽश्वतरः । ‘वत्सोक्षाश्व’इति ष्टरच् प्रत्ययः । सौत्रामणी च अपि सोमः यागसाधनत्वात्, अपि च सुरा उत्पत्त्या । पयोग्रहापेक्षया वा सोमोपीत्युक्तम् ॥
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्यम्प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्याल॑भते ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति ।
मूलम्
बा॒र्ह॒स्प॒त्यम्प॒शुञ्च॑तु॒र्थम॑तिपवि॒तस्याल॑भते ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पतिः॑ ।
ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति ।
भट्टभास्कर-टीका
6 बार्हस्पत्यमित्यादि ॥ उक्तोऽतिपवितः । अपिवपतीति यद्व्यृद्धं तत्पूरयति ॥
विश्वास-प्रस्तुतिः
पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति ।
न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ ।
मूलम्
पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति ।
न ह्ये॑तस्य॒ ग्रह॑ङ्गृ॒ह्णन्ति॑ ।
भट्टभास्कर-टीका
7 पुरोडाशवानित्यादि ॥ पशुना समानदेवत्यः पुरोडाश एव एष भवतीति तादृशस्य ग्रहस्याभावात् ॥
विश्वास-प्रस्तुतिः
सोम॑प्रतीकाᳶ पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णायाँ॑ स॒मव॑नयति ॥24॥
मूलम्
सोम॑प्रतीकाᳶ पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णायाँ॑ स॒मव॑नयति ॥24॥
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
8 ते सोमप्रतीका इति ॥ शतातृण्णायां शतच्छिद्रायां स्थाल्यां सुराशेषं समवनयति ॥
मूलम्
दक्षि॑णे॒ऽग्नौ जु॑होति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै । हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैना॑ञ्जुहोति ।
विश्वास-प्रस्तुतिः
दक्षि॑णे॒ऽग्नौ जु॑होति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै ।
मूलम्
दक्षि॑णे॒ऽग्नौ जु॑होति पापवस्य॒सस्य॒ व्यावृ॑त्त्यै ।
भट्टभास्कर-टीका
9 दक्षिणेऽग्नौ जुहोति नाहवनीये पापेन वसीयस्त्वं यत् पापधनवत्तरत्वं तस्य व्यावृत्त्यर्थं पृथक् स्थापनार्थम् । यद्वा - पापवस्यसस्य शुभस्य च व्यावृत्त्यर्थं विभागार्थम् । ‘विन्मतोर्लुक्’ईयसुन ईकारलोपः ।
मूलम्
हिर॑ण्यमन्त॒रा धा॑रयति । पू॒तामे॒वैना॑ञ्जुहोति ।
विश्वास-प्रस्तुतिः
हिर॑ण्यमन्त॒रा धा॑रयति पू॒तामे॒वैना॑ञ्जुहोति ।
मूलम्
हिर॑ण्यमन्त॒रा धा॑रयति पू॒तामे॒वैना॑ञ्जुहोति ।
भट्टभास्कर-टीका
हिरण्यमन्तरा अग्नेश्शतातृण्णायाश्च मध्ये धारयति । हिरण्येन सुरां जुहोति ।
मूलम्
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
शतमानमित्यादि । गतम् ॥
मूलम्
यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति ॥25॥
तन्निद॑धाति॒ प्रति॑ष्ठित्यै ।
विश्वास-प्रस्तुतिः
यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति॒ तन्निद॑धाति॒ प्रति॑ष्ठित्यै ।
मूलम्
यत्रै॒व श॑तातृ॒ण्णान्धा॒रय॑ति॒ तन्निद॑धाति॒ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
10 यत्रेत्यादि ॥ यत्राग्नौ यस्यग्नेरुपरि शतातृण्णां धारयति शतातृण्णां समवनयति तत्रैव शतातृण्णां निदधाति प्रतिष्ठार्थम् । तेन गम्यते - दक्षिणाग्नेरुपरि शतातृण्णां समवनयति तत्रैव चैनां निदधातीति ॥
मूलम्
पि॒तॄन् वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छति । यँ सोमो॑ऽति॒पव॑ते ।
विश्वास-प्रस्तुतिः
पि॒तॄन् वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छति॒ यँ सोमो॑ऽति॒पव॑ते ।
पि॒तृ॒णाय्ँ या॑ज्यानुवा॒क्या॑भि॒रुप॑तिष्ठते ।
मूलम्
पि॒तॄन् वा ए॒तस्ये॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छति॒ यँ सोमो॑ऽति॒पव॑ते ।
पि॒तृ॒णाय्ँ या॑ज्यानुवा॒क्या॑भि॒रुप॑तिष्ठते ।
मूलम्
यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छ॑ति । तदे॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छ॑ति॒ तदे॒वाव॑रुन्धे ।
ति॒सृभि॒रुप॑तिष्ठते ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
मूलम्
यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्ँ वी॒र्य॑ङ्गच्छ॑ति॒ तदे॒वाव॑रुन्धे ।
ति॒सृभि॒रुप॑तिष्ठते ।
तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑ ।
ताने॒व प्री॑णाति ।
भट्टभास्कर-टीका
11 पितॄनित्यादि ॥ पितृणां याज्याः ‘उदीरताम्’ इत्यादयः ॥
मूलम्
अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याणि॑ । अ॒ध्व॒र्युर् होता॑ ब्र॒ह्मा ।
विश्वास-प्रस्तुतिः
अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याण्य् अध्व॒र्युर् होता॑ ब्र॒ह्मा ।
मूलम्
अथो॒ त्रीणि॒ वै य॒ज्ञस्ये॑न्द्रि॒याण्य् अध्व॒र्युर् होता॑ ब्र॒ह्मा ।
भट्टभास्कर-टीका
12अथो त्रीणीत्यादि ॥ यज्ञस्येन्द्रियाणि वीर्यहेतवः अध्वर्य्वादयस्त्रयः सन्ति न यजमान एव केवलः ।
विश्वास-प्रस्तुतिः
त उप॑तिष्ठन्ते ।
मूलम्
त उप॑तिष्ठन्ते ।
भट्टभास्कर-टीका
तस्मात्तेऽध्वर्य्वादय उपतिष्ठन्ते ।
मूलम्
यान्ये॒व य॒ज्ञस्ये॑न्द्रि॒याणि॑ । तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ॥26॥
भट्टभास्कर-टीका
यान्ये॒व य॒ज्ञस्ये॑न्द्रि॒याणि॒ तैरे॒वास्मै॑ भेष॒जङ्क॑रोति ॥26॥
तैः यज्ञस्यापि वीर्यभूतैः अस्मै अतिपविताय भेषजं करोति ॥
इति अष्टमे षष्ठोऽनुवाकः ॥