०५ सौत्रामणिः , पशवः हवींषि च

विश्वास-प्रस्तुतिः

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।

मूलम्

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।

मूलम्

इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
स यत्प्र॑थ॒मन्नि॒रष्ठी॑वत् । तत्क्व॑लमभवत् ।

यद्द्वि॒तीय॑म् । तद्बद॑रम् ।

यत्तृ॒तीय॑म् । तत्क॒र्कन्धु॑ ।

विश्वास-प्रस्तुतिः

स यत्प्र॑थ॒मन्नि॒रष्ठी॑व॒त् तत्क्व॑लमभवत् ।
यद्द्वि॒तीय॒म् तद्बद॑रम् +++(अभवत्)+++।
यत्तृ॒तीय॒म् तत्क॒र्कन्धु॑ +++(अभवत्)+++।

मूलम्

स यत्प्र॑थ॒मन्नि॒रष्ठी॑व॒त् तत्क्व॑लमभवत् ।
यद्द्वि॒तीय॒म् तद्बद॑रम् +++(अभवत्)+++।
यत्तृ॒तीय॒म् तत्क॒र्कन्धु॑ +++(अभवत्)+++।

भट्टभास्कर-टीका

1 अथ राजसूयेनेष्ट्वा सौत्रामण्या यजते, तामधिकृत्योच्यते - इन्द्रस्येत्यादि ॥ गतम् । वैश्वदेवमेव काण्डम् । प्रथमं निष्ठ्यूतं वान्तमास्यात् क्वलं कुवलयं बालखर्जूरं, द्वितीयं निष्ठ्यूतं बदरं, तृतीयं निष्ठ्यूतं कर्कन्धु ।

मूलम्

यन्न॒स्तः । स सिँ॒हः ।

विश्वास-प्रस्तुतिः

यन्न॒स्तस् स सिँ॒हः ।

मूलम्

यन्न॒स्तस् स सिँ॒हः ।

भट्टभास्कर-टीका

नासिकाया निष्ठ्यूतं सिंहोऽभवत् ।

मूलम्

यदक्ष्योः॑ ॥15॥
स शा॑र्दू॒लः ।

विश्वास-प्रस्तुतिः

यदक्ष्यो॒स् स शा॑र्दू॒लः ।

मूलम्

यदक्ष्यो॒स् स शा॑र्दू॒लः ।

भट्टभास्कर-टीका

अक्ष्योरिति । ‘ई च द्विवचने’इतीकारः ।
शार्दूलः ।

मूलम्

यत्कर्ण॑योः ।
स वृकः॑ ।

विश्वास-प्रस्तुतिः

यत्कर्ण॑यो॒स् स वृकः॑ ।

मूलम्

यत्कर्ण॑यो॒स् स वृकः॑ ।

भट्टभास्कर-टीका

यत् कर्णयोः निष्ठ्यूतं स वृकः ।

मूलम्

य ऊ॒र्ध्वः ।
स सोमः॑ ।

विश्वास-प्रस्तुतिः

य ऊ॒र्ध्वस् स सोमः॑ ।

मूलम्

य ऊ॒र्ध्वस् स सोमः॑ ।

भट्टभास्कर-टीका

ऊर्ध्वः आस्य ऊर्ध्वः सोमः ।

विश्वास-प्रस्तुतिः

याऽवा॑ची॒ सा सुरा॑ ।

मूलम्

याऽवा॑ची॒ सा सुरा॑ ।

भट्टभास्कर-टीका

अवाची अधोद्वारनिर्गता सुरा । एवं क्वलादीन्यष्टौ आस्यादीनि नव । तस्माद्दशधाशब्दो बहुत्ववचनः बहुधा पराऽपतदिति । यद्वा - ऊर्ध्वः शिरोमध्यान्निर्गतः । यद्वा - निष्यन्दोद्गीर्णभेदेन द्वे आस्ये, नासिकादयष्षट्, पायुप्रजननेत्येताभ्यां सह दश भवन्ति ॥

मूलम्

त्र॒यास्सक्त॑वो भवन्ती॒न्द्रि॒यस्याव॑रुद्ध्यै ।

विश्वास-प्रस्तुतिः

त्र॒यास्सक्त॑वो भवन्ति ।
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ।

मूलम्

त्र॒यास्सक्त॑वो भवन्ति ।
इ॒न्द्रि॒यस्याव॑रुद्ध्यै ।

भट्टभास्कर-टीका

2 त्रया इत्यादि ॥ त्रयोऽवयवा येषां ते त्रयाः त्रिप्रकाराः सक्तवो भवन्ति त्रयाणां क्वलबदरकर्कन्धूनां विकाराः ।

विश्वास-प्रस्तुतिः

त्र॒याणि॒ लोमा॑नि ॥16॥

मूलम्

त्र॒याणि॒ लोमा॑नि ॥16॥

भट्टभास्कर-टीका

त्रयाणि त्रिप्रकाराणि लोमानि भवन्ति, सिंहशार्दूलवृकाणाम् ।

विश्वास-प्रस्तुतिः

त्विषि॑मे॒वाव॑रुन्धे ।
त्रयो॒ ग्रहाः॑ ।
वी॒र्य॑मे॒वाव॑रुन्धे ।

मूलम्

त्विषि॑मे॒वाव॑रुन्धे ।
त्रयो॒ ग्रहाः॑ ।
वी॒र्य॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

त्विषिर्दीप्तिः । त्रयो ग्रहाः अश्विसरस्वतिसुत्राम्णाम् ।

विश्वास-प्रस्तुतिः

नाम्ना॑ दश॒मी ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी ।

मूलम्

नाम्ना॑ दश॒मी ।
नव॒ वै पुरु॑षे प्रा॒णाः ।
नाभि॑र्दश॒मी ।

भट्टभास्कर-टीका

नाम्नेति । सौत्रामणीति यन्नाम तेनेत्थंभूता न तु ग्रहादिनाम्नी, अवयविनी सौत्रामणी दशमी दशानां पूरणी । सक्त्वादयोऽवयवाः प्राणस्थानीया नव । नाभिस्थानीयाऽवयविनी सौत्रामणीति ।

विश्वास-प्रस्तुतिः

प्रा॒णा इ॑न्द्रि॒यव्ँ वी॒र्य॑म् ।
प्रा॒णाने॒वेन्द्रि॒यव्ँ वी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते ।

मूलम्

प्रा॒णा इ॑न्द्रि॒यव्ँ वी॒र्य॑म् ।
प्रा॒णाने॒वेन्द्रि॒यव्ँ वी॒र्यय्ँ॑यज॑मान आ॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

प्राणस्थानीयमिन्द्रियं वीर्यं च । तस्मादेवं कुर्वन् प्राणस्थानीयमिन्द्रियं वीर्यं चात्मनि धत्ते यजमानः ॥

विश्वास-प्रस्तुतिः

सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति ।

मूलम्

सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति ।

भट्टभास्कर-टीका

3 सीसेनेत्यादि ॥ शष्पाणि यवाङ्कुराः ।

मूलम्

न वा ए॒तदयो॒ न हिर॑ण्यम् ॥17॥
यत्सीस॑म् ।
न स्त्री न पुमा॑न् ।
यत्क्ली॒बः ।
न सोमो॒ न सुरा॑ ।
यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

न वा ए॒तदयो॒ न हिर॑ण्य॒म् यत्सीस॑म् ।
न स्त्री न पुमा॒न् यत्क्ली॒बः ।
न सोमो॒ न सुरा॒ यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।

मूलम्

न वा ए॒तदयो॒ न हिर॑ण्य॒म् यत्सीस॑म् ।
न स्त्री न पुमा॒न् यत्क्ली॒बः ।
न सोमो॒ न सुरा॒ यत्सौ॑त्राम॒णी समृ॑द्ध्यै ।

भट्टभास्कर-टीका

न वा इत्यादि । अयोहिरण्यविलक्षणं सीसं, स्त्रीपुंसविलक्षणः क्लीबः सोमसुराविलक्षणा सौत्रामणी सुराविशेषः सोमो नेति ज्ञायत एव, सुराऽपि न भवति परिभू(पू)तयागसाधनत्वात् । तस्मात् समानत्रिकयोगः समृद्ध्यै भवति ॥

विश्वास-प्रस्तुतिः

“स्वा॒द्वीन्त्वा॑ स्वा॒दुने"त्या॑ह ।
सोम॑मे॒वैना॑ङ्करोति ।

मूलम्

“स्वा॒द्वीन्त्वा॑ स्वा॒दुने"त्या॑ह ।
सोम॑मे॒वैना॑ङ्करोति ।

भट्टभास्कर-टीका

4 तत्र ‘स्वाद्वीम्’ इति तोक्ममासरेणावोक्षन् सोमं संपदियति सोमवत्पवित्रामेनां करोति ।

विश्वास-प्रस्तुतिः

“सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व॒” “सर॑स्वत्यै पच्य॒स्व” “इन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वे"त्या॑ह ।

मूलम्

“सोमो॑ऽस्य॒श्विभ्या॑म्पच्यस्व॒” “सर॑स्वत्यै पच्य॒स्व” “इन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वे"त्या॑ह ।

भट्टभास्कर-टीका

‘सोमोसि’इति तामभिमृशति । एतदर्थभेषा सुरा पच्यते निष्पाद्यते ।

विश्वास-प्रस्तुतिः

ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्य॒ᳶ पच्य॑ते ।

मूलम्

ए॒ताभ्यो॒ ह्ये॑षा दे॒वता॑भ्य॒ᳶ पच्य॑ते ।

भट्टभास्कर-टीका

तस्मादेताभ्यः पच्यस्वेत्युच्यत इति ।

विश्वास-प्रस्तुतिः

ति॒स्रो हि रात्री॑ᳵ क्री॒तस्सोमो॒ वस॑ति ।

मूलम्

ति॒स्रो हि रात्री॑ᳵ क्री॒तस्सोमो॒ वस॑ति ।

भट्टभास्कर-टीका

तिस्रो रात्रीस्संसृष्टावयवा वसति तस्मात्तिस्रो रात्रीः क्रीतस्सोमो वसतीति ‘स तिस्रो रात्रीः परिमुषितोऽवसत्’ इत्युक्तम् ॥

विश्वास-प्रस्तुतिः

“पु॒नातु॑ ते परि॒स्रुत॒"मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै ।

मूलम्

“पु॒नातु॑ ते परि॒स्रुत॒"मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै ।

भट्टभास्कर-टीका

5 पुनातु इति सुरां पुनाति ॥ यजुश्शब्दो मन्त्रपर्यायः । व्यावृत्त्यर्थं लौकिक्याः सुरायाः ।

विश्वास-प्रस्तुतिः

प॒वित्रे॑ण पुनाति ।
प॒वित्रे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।

मूलम्

प॒वित्रे॑ण पुनाति ।
प॒वित्रे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।

भट्टभास्कर-टीका

पवित्रेण वालमयेन पुनाति सोमसाम्यार्थम् ।

विश्वास-प्रस्तुतिः

“वारे॑ण॒ शश्व॑ता॒ तने"त्या॑ह ।
वारे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।

मूलम्

“वारे॑ण॒ शश्व॑ता॒ तने"त्या॑ह ।
वारे॑ण॒ हि सोम॑म्पु॒नन्ति॑ ।

भट्टभास्कर-टीका

वारेणेति । ऊर्णामयेन वालेन सोमं पुनन्ति तस्मात्सुरामपि वालेन पुनन्ति । तस्मात् वारेण शश्वतातनेति मन्त्रपदमिति । कपिलकादित्त्वाल्लत्वविकल्पः ।

विश्वास-प्रस्तुतिः

“वा॒युᳶ पू॒तᳶ प॒वित्रे॒णे"ति॒ नैतया॑ पुनीयात् ।
व्यृ॑द्धा॒ ह्ये॑षा ।

मूलम्

“वा॒युᳶ पू॒तᳶ प॒वित्रे॒णे"ति॒ नैतया॑ पुनीयात् ।
व्यृ॑द्धा॒ ह्ये॑षा ।

भट्टभास्कर-टीका

‘वायुः पूतः’ इत्येषा व्यृद्धा तृतीयस्य पादस्य ऊनाक्षरत्वात् । तस्मान्नैतया पुनीयात् ।

विश्वास-प्रस्तुतिः

अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् ।

मूलम्

अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् ।

भट्टभास्कर-टीका

अपि तु अतिपवितस्येति सोमातिपवितस्य सोमवामिनो वा एतयैव पुनीयात् । ‘पूङश्च’इति इडागमः । ‘पूङः क्त्वा च’इति क्त्वाभावः । अतिप्रवृत्त(पवित)स्मोमस्सोमातिपवितः । ज्येष्ठे अकृतसोमे कनीयान् सोमेन यजमानः सोमातिपवित इति केचित् ॥

विश्वास-प्रस्तुतिः

“कु॒विद॒ङ्गे"त्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥19॥
अनि॑रुक्तᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

मूलम्

“कु॒विद॒ङ्गे"त्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति ॥19॥
अनि॑रुक्तᳶ प्र॒जाप॑तिः ।
प्र॒जाप॑ते॒राप्त्यै॑ ।

भट्टभास्कर-टीका

6 कुविदङ्गेति सुराग्रहान् गृह्णाति ॥ अनिरुक्ता अव्यक्तदेवताका, अत एव प्राजापत्या, प्रजापतिर्ह्यनिरुक्तस्वभावः ॥

विश्वास-प्रस्तुतिः

एक॑य॒र्चा गृ॑ह्णाति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।

मूलम्

एक॑य॒र्चा गृ॑ह्णाति ।
ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।

भट्टभास्कर-टीका

7 एकयेत्यादि ॥ गतम् । कुविदङ्गेत्यस्या एकत्वस्तुतिः ॥

विश्वास-प्रस्तुतिः

आ॒श्वि॒नन्धू॒म्रमाल॑भते ।
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ ।
ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।

सा॒र॒स्व॒तम्मे॒षम् +++(आलभते)+++।
वाग्वै सर॑स्वती ।
वा॒चैवैन॑म्भिषज्यति ।

ऐ॒न्द्रमृ॑ष॒भँ से॑न्द्र॒त्वाय॑ ॥20॥

मूलम्

आ॒श्वि॒नन्धू॒म्रमाल॑भते ।
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ ।
ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति ।

सा॒र॒स्व॒तम्मे॒षम् +++(आलभते)+++।
वाग्वै सर॑स्वती ।
वा॒चैवैन॑म्भिषज्यति ।

ऐ॒न्द्रमृ॑ष॒भँ से॑न्द्र॒त्वाय॑ ॥20॥

भट्टभास्कर-टीका

8 आश्विनं धूम्रमित्यादि ॥ गतम् ॥

इति अष्टमे पञ्चमोऽनुवाकः ॥