विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पति ।
भट्टभास्कर-टीका
1 आग्नेयमित्यादि ॥ अत्र प्रयुजां हवींषि द्वादश भवन्ति ‘आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम्’ इत्यादीनि । एतानि द्वितीयं शैशिरं समारुह्य ऋतं निरुप्यन्ते । वक्ष्यति च - ‘मासिमास्येतानि हवींषि निरुप्याणीत्याहुः । तेनैवर्तून् प्रयुङ्क्ते’इति । ऋतुधर्माणां यथायथं प्रकॢप्तिः प्रयुक्तिः । तद्धेतवोऽग्न्यादयः प्रयुजः, तेषामेतानि हवींषि । तद्धेतुत्वं तेषामेतैर्हविर्भिः भवतीति । तच्च शैशिरयोः द्वितीये आग्नेयमष्टाकपालं निर्वपति । यस्मादत्र सर्वपाचकोऽग्निः हविषा आराध्यते ‘तस्माद्विस्संवत्सरस्य सस्यं पच्यते’ इति ।
विश्वास-प्रस्तुतिः
तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाᳶ प्राञ्चो॑ यान्ति ।
मूलम्
तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाᳶ प्राञ्चो॑ यान्ति ।
भट्टभास्कर-टीका
तत्परराष्ट्रेभ्योऽपहर्तुं कुरुपञ्चालाः कुरवः पञ्चालाश्च क्षत्रियाः शिशिरे मासि प्राञ्चो यान्ति ते दिशो जेतुं प्रारभन्ते । यद्वा - प्राच्यामेव जेतव्याः तेषामिति गम्यते । यद्वा - कुरुपञ्चालवासिनो जनाः पक्वसस्यग्रहणाय प्राञ्चो यान्ति प्राच्यामेव तेषां केदारसम्भवात् । तत्र कुरुपञ्चालग्रहणं निदर्शनं सर्वक्षत्रियाणाम्, पुष्टत्वात्तु तेषां ग्रहणम् । ऋतुधर्माणां च तत्र विपर्यासात् ॥
विश्वास-प्रस्तुतिः
सौ॒म्यञ्च॒रुम् +++(निर्वपति)+++। तस्मा॑द्वस॒न्तव्ँ व्य॑व॒साया॑दयन्ति ।
मूलम्
सौ॒म्यञ्च॒रुम् +++(निर्वपति)+++। तस्मा॑द्वस॒न्तव्ँ व्य॑व॒साया॑दयन्ति ।
भट्टभास्कर-टीका
2 अथ वासन्तिकयोः प्रथमे सौम्यं चरुं निर्वपति । यस्मादन्नस्य देवता सोमोऽत्र चरुणा इज्यते, तस्माद्वसन्तं वासन्तिकं प्रथममासं व्यवसाय अनुप्राप्तोऽयमिति निश्चित्य आदयन्ति परकीयमन्नमुपहृत्य भुञ्जानाः प्रजा अनुजानन्ति राजानः वसन्तः समुपस्थितो भुञ्जतां काममिति । यद्वा मृष्टं भोजयन्ति सर्वानात्मीयान्, तत्र समृद्धधान्यत्वात् सर्वेषाम् ॥
विश्वास-प्रस्तुतिः
सा॒वि॒त्रन्द्वाद॑शकपालम् +++(निर्वपति)+++।
तस्मा॑त्पु॒रस्ता॒द्यवा॑नाँ सवि॒त्रा विरु॑न्धते ।
मूलम्
सा॒वि॒त्रन्द्वाद॑शकपालम् +++(निर्वपति)+++।
तस्मा॑त्पु॒रस्ता॒द्यवा॑नाँ सवि॒त्रा विरु॑न्धते ।
भट्टभास्कर-टीका
3 अथ द्वितीये वासन्तिके सावित्रं द्वादशकपालं निर्वपति । यस्मादत्र सविता सर्वस्यानुज्ञाताऽऽराध्यते, तस्मात्तेन सवित्रा अनुज्ञात्रा तदनुज्ञां लब्ध्वैव प्रथमं यवानां विरुन्धते शीघ्रपक्वान् पदैर्विरुध्य गृह्णन्ति । कर्मणस्तादर्थ्ये वा - यवार्थं विरून्धत इति । यद्वा - यवादीन् प्रथमं विशेषेण लभन्तेऽत्र क्षेत्रिणः । सवितुरनुज्ञयेति वचनं अमोघत्वाय । इदं प्रथमपक्वधान्योपलक्षणं यवग्रहणम् । प्रथमं यवादीन् पक्वान् गृह्णन्तीति ॥
मूलम्
बा॒र्ह॒स्प॒त्यञ्च॒रुम् ।
स॒वि॒त्रैव वि॒रुध्य॑ ।
ब्रह्म॑णा॒ यवा॒नाद॑धते ।
त्वा॒ष्ट्रम॒ष्टाक॑पालम् ॥12॥
रू॒पाण्ये॒व तेन॑ कुर्वते ।
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्यञ्च॒रुम् +++(निर्वपति)+++।
स॒वि॒त्रैव वि॒रुध्य॒ ब्रह्म॑णा॒ यवा॒नाद॑धते ।
मूलम्
बा॒र्ह॒स्प॒त्यञ्च॒रुम् +++(निर्वपति)+++।
स॒वि॒त्रैव वि॒रुध्य॒ ब्रह्म॑णा॒ यवा॒नाद॑धते ।
भट्टभास्कर-टीका
4 अथ ग्रैष्मयोः प्रथमे बार्हस्पत्यं चरुं निर्वपति ॥ यस्मादत्र बृहस्पतिर्ब्राह्मण आराध्यते तस्मात्पूर्वमेव सवित्रा विरुध्य आत्मीयं कृत्वा इदानीं ब्रह्मणा ब्राह्मणानुज्ञयैव यवानादधते ब्राह्मणाय किंचिद्दत्वैव स्थापयन्ति ॥
विश्वास-प्रस्तुतिः
त्वा॒ष्ट्रम॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
रू॒पाण्ये॒व तेन॑ कुर्वते ।
मूलम्
त्वा॒ष्ट्रम॒ष्टाक॑पालम् +++(निर्वपति)+++ ।
रू॒पाण्ये॒व तेन॑ कुर्वते ।
भट्टभास्कर-टीका
5 अथ द्वितीये ग्रैष्मे त्वाष्ट्रमष्टाकपालं निर्वपति ॥ तत्र रूपाणां विकर्तुः त्वष्टुरिज्यया रूपाणि तण्डुलकुल्माषादीन्यन्नस्य रूपाणि बहुप्रकाराणि कुर्वते उत्पादयन्ति ॥
विश्वास-प्रस्तुतिः
वै॒श्वा॒न॒रन्द्वाद॑शकपालम् +++(निर्वपति)+++।
तस्मा॑ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ᳵ कुरुपञ्चा॒ला या॑न्ति ।
मूलम्
वै॒श्वा॒न॒रन्द्वाद॑शकपालम् +++(निर्वपति)+++।
तस्मा॑ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्च॑ᳵ कुरुपञ्चा॒ला या॑न्ति ।
भट्टभास्कर-टीका
6 अथ प्रथमे वार्षिके वैश्वानरं द्वादशकपालं निर्वपति ॥ यस्मादत्र विश्वेषां नराणां स्वामित्वेन संबन्धी पुष्ट्यादिप्रवृत्तिहेतुरिज्यते । तस्माज्जघन्ये नैदाघे निदाघसमाप्तेः काले वर्षाणामारम्भे प्रत्यञ्चः कुरुपञ्चालाः यान्ति परराष्ट्राणि मृदित्वा अपहृतसर्वस्वाः स्वदेशं गच्छन्ति दिग्विजयान्निवर्तन्ते ॥
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति ।
मूलम्
सा॒र॒स्व॒तञ्च॒रुन्निर्व॑पति । तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति ।
भट्टभास्कर-टीका
7 अथ द्वितीये वार्षिके सारस्वतं चरुं निर्वपति ॥ अत्र सरस्वत्या इज्यथा सर्वाः लौकिकीः वैदिकीश्च वाचो वदन्ति प्रजाः । प्रौष्ठपद्यां पौर्णमास्यां उपाकृत्य वैदिकीर्वदन्ति । प्रजास्सर्वाः पानीयतृप्ताः हाहारवं कुर्वन्ति कर्षकाश्च कृषिवृद्धिमुत्पत्स्यन्तो देवान् स्तुवन्ति ॥
विश्वास-प्रस्तुतिः
पौ॒ष्णेन॒ व्यव॑स्यन्ति ।
मूलम्
पौ॒ष्णेन॒ व्यव॑स्यन्ति ।
भट्टभास्कर-टीका
8 अथ प्रथमे शारदे पौष्णं चरुं निर्वपति ॥ व्यवस्यन्ति तस्य पुष्टिहेतुत्वादेतावतीं भूमिं कृषामीति निश्चयं कुर्वन्ति । अथ द्वितीये शारदे मैत्रं चरुं निर्वपति । तस्य कृषिहेतुत्वात् ।
विश्वास-प्रस्तुतिः
मै॒त्रेण॑ कृषन्ते ।
मूलम्
मै॒त्रेण॑ कृषन्ते ।
भट्टभास्कर-टीका
अस्मिन् मासि कृषन्ते क्षेत्रं विलिखन्ति,
विश्वास-प्रस्तुतिः
वा॒रु॒णेन॒ विधृ॑ता आसते ।
मूलम्
वा॒रु॒णेन॒ विधृ॑ता आसते ।
भट्टभास्कर-टीका
अथ प्रथमे हैमन्तिके वारुणं चरुं निर्वपति । तस्य वारकत्वेन औदसीन्यहेतुत्वादस्मिन्मासि विधृताः निवृत्तव्यापाराः प्रत्युप्तक्षेत्राः प्रजा गृहेष्वासते ।
विश्वास-प्रस्तुतिः
क्षै॒त्र॒प॒त्येन॑ पाचयन्ते ।
मूलम्
क्षै॒त्र॒प॒त्येन॑ पाचयन्ते ।
भट्टभास्कर-टीका
अथ हैमन्ते द्वितीये क्षैत्रपत्यं चरुं निर्वपति ।
विश्वास-प्रस्तुतिः
आ॒दि॒त्येनाद॑धते ॥13॥
मूलम्
आ॒दि॒त्येनाद॑धते ॥13॥
भट्टभास्कर-टीका
अथ प्रथमे शैशिरे आदित्यं चरुं निर्वपति ॥
विश्वास-प्रस्तुतिः
“मा॒सिमा॑स्ये॒तानि॑ ह॒वीँषि॑ नि॒रुप्या॒णी"त्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ ।
मूलम्
“मा॒सिमा॑स्ये॒तानि॑ ह॒वीँषि॑ नि॒रुप्या॒णी"त्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ ।
भट्टभास्कर-टीका
9 मासिमासीत्यादि ॥ एवं प्रतिमासं एकमेकं निरुप्याणि निर्वप्तव्यानि । छान्दसः क्विप् । तेन प्रयोगेण ऋतून् प्रयुङ्के ऋजुधर्मान्यथायथं प्रवर्तयन्ति । तस्मान्मासिमासि निर्वप्तव्यानीत्याहुरेके ॥
मूलम्
अथो॒ खल्वा॑हुः । कस्सव्ँ॑वत्स॒रञ्जी॑विष्य॒तीति॑ ।
विश्वास-प्रस्तुतिः
अथो॒ खल्वा॑हुः॒- “कस्सव्ँ॑वत्स॒रञ्जी॑विष्य॒ती"ति॑ ।
मूलम्
अथो॒ खल्वा॑हुः॒- “कस्सव्ँ॑वत्स॒रञ्जी॑विष्य॒ती"ति॑ ।
भट्टभास्कर-टीका
अथो खलु अन्य आहुः - कस्संवत्सरं जीविष्यतीति एवं संवत्सरं जीविष्यामीति निश्चित्य को जीविष्यति तस्मान्मासिमासि निर्वप्तुमयुक्तमिति ।
विश्वास-प्रस्तुतिः
षडे॒व पू॑र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते ।
मूलम्
षडे॒व पू॑र्वे॒द्युर्नि॒रुप्या॑णि । षडु॑त्तरे॒द्युः । तेनै॒वर्तून्प्रयु॑ङ्क्ते ।
भट्टभास्कर-टीका
कथं तहिं निर्वप्तव्यानीत्याह - षडेवेत्यादि । गतम् । तेन षट्त्वान्वयेनैव ऋतून् प्रयुङ्क्ते ।
विश्वास-प्रस्तुतिः
दक्षि॑णो रथवाहनवा॒हᳶ पूर्वे॑षा॒न्दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् ।
मूलम्
दक्षि॑णो रथवाहनवा॒हᳶ पूर्वे॑षा॒न्दक्षि॑णा । उत्त॑र॒ उत्त॑रेषाम् ।
भट्टभास्कर-टीका
दक्षिण इति । दक्षिणतो युक्तो रथवाहनवाहो बलीवर्दो दक्षिणा देया पूर्वेषां षण्णां षड्ढविष्कस्य यागस्य । रथ एव वाहनं तस्य वोढा रयवाहनवाहः । उत्तरः उत्तरतो युक्त उत्तरेषामुतरेद्युः निर्वप्तव्यानां उत्तरस्य यागस्य ॥
मूलम्
सव्ँ॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥14॥
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥14॥
मूलम्
सव्ँ॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति॒ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥14॥
भट्टभास्कर-टीका
10 संवत्सरस्येति ॥ संवत्सरस्यान्तौ पार्श्वे स्थितौ वोढारौ बलीवर्दौ युनक्ति सुवर्गस्य लोकस्य सम्यक्प्राप्त्यर्थम् । यद्वा - संवत्सरस्याद्यन्तौ दिवसौ बलीवर्दस्थानीयौ युनक्ति । आदिरप्यन्त एव ॥
इति अष्टमे चतुर्थोऽनुवाकः ॥