विश्वास-प्रस्तुतिः
ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः ।
मूलम्
ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः ।
मूलम्
यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति ।
दि॒शामवे॑ष्टयो भवन्ति ।
विश्वास-प्रस्तुतिः
यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति दि॒शामवे॑ष्टयो भवन्ति ।
मूलम्
यन्दिशोऽनु॑ व्यास्था॒पय॑न्ति दि॒शामवे॑ष्टयो भवन्ति ।
भट्टभास्कर-टीका
1 ईश्वरो वा इत्यादि ॥ यं दिशोऽनु दिशो लक्षीकृत्य व्यास्थापयन्ति ‘समिधमातिष्ठ’ इत्यादिभिः पृथक् पृथक् आस्थापयन्ति, स खलु तां दिशमनु उन्मदितोः उन्मत्तो भवितुमीश्वरस्स्यात् । ‘ईश्वरे तोसुन्कसुनौ’। तस्माद्दिशामवेष्टयः कर्तव्या भवन्ति । ‘आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा’ इत्याद्याः अग्नियैन्द्रवैश्वदेवमैत्रावरुणबार्हस्पत्याः ।
विश्वास-प्रस्तुतिः
दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय ।
मूलम्
दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय ।
भट्टभास्कर-टीका
ततो दिक्षु प्रतिष्ठितो भवति नोन्मत्तो भ्रमति । दिशां सम्बन्धिनां उन्मादयितॄणां अवयजनहेतुत्वाद्दिशामवेष्टयः ॥
विश्वास-प्रस्तुतिः
पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ ।
मूलम्
पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ ।
भट्टभास्कर-टीका
2 पञ्च देवता इत्यादि, ॥ गतम् ॥
विश्वास-प्रस्तुतिः
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
मूलम्
दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
दिक्ष्वेवेति । दिक्षु पुरोडाशान् मध्ये च बार्हस्पत्यं निधाय यजमानात् ॥
विश्वास-प्रस्तुतिः
ह॒विषो॑हविष इ॒ष्ट्वा बा॑र्हस्प॒त्यम॒भिघा॑रयति ।
मूलम्
ह॒विषो॑हविष इ॒ष्ट्वा बा॑र्हस्प॒त्यम॒भिघा॑रयति ।
भट्टभास्कर-टीका
3 हविषो हविष इति ॥ सर्वहविर्यागानन्तरं बार्हस्पत्यमभिघारयति ।
मूलम्
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥8॥
विश्वास-प्रस्तुतिः
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पति॒र् यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥8॥
मूलम्
य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पति॒र् यज॑मानमे॒व तेज॑सा॒ सम॑र्धयति ॥8॥
भट्टभास्कर-टीका
यजमानदेवत्य इति । यजमानदेवतायै अयम् । देवतान्तात्तादर्थ्ये यत् । बृहस्पतेः पुरोहितत्वाद्यजमानस्य प्राधान्यं, तस्माद्यजमानमेव प्रधानं तेजसा समृद्धं करोति ॥
विश्वास-प्रस्तुतिः
आ॒दि॒त्याम्म॒ल्हाङ्ग॒र्भिणी॒मा ल॑भते ।
मूलम्
आ॒दि॒त्याम्म॒ल्हाङ्ग॒र्भिणी॒मा ल॑भते ।
भट्टभास्कर-टीका
4 अत्र द्विपशुं पशुबन्धं विदधाति - आदित्यामित्यादि ॥ मल्हां मणिमालां यस्या ग्रीवायां मणिवन्मांसपिण्डद्वयं लम्बते ।
विश्वास-प्रस्तुतिः
मा॒रु॒तीम्पृश्ञि॑म्पष्ठौ॒हीम् +++(आलभते)+++।
मूलम्
मा॒रु॒तीम्पृश्ञि॑म्पष्ठौ॒हीम् +++(आलभते)+++।
भट्टभास्कर-टीका
पृश्निः श्वेतवत्सा । पष्ठौही उक्ता ।
विश्वास-प्रस्तुतिः
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
मूलम्
विश॑ञ्चै॒वास्मै॑ रा॒ष्ट्रञ्च॑ स॒मीची॑ दधाति ।
भट्टभास्कर-टीका
विशं चेत्यादि । राष्ट्रस्य आदित्याः धारयितारः । मरुतो विशः । तस्माद्विशं च राष्ट्रं च राष्ट्रपतिं च सङ्गते स्थापयति । ‘समस्समि’इति सम्यादेशः । ‘चौ’इति दीर्घत्वं, अन्तोदात्तत्वं च ॥
विश्वास-प्रस्तुतिः
आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया +++(प्रचरति)+++।
मूलम्
आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया +++(प्रचरति)+++।
भट्टभास्कर-टीका
5 आदित्ययेत्यादि ॥ गतम् । राष्ट्रं वीर्यवत् करोति ।
विश्वास-प्रस्तुतिः
रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति ।
मूलम्
रा॒ष्ट्र ए॒व विश॒मनु॑बध्नाति ।
भट्टभास्कर-टीका
विशं निरिन्द्रियां निर्वीर्यां अस्वतन्त्रां करोति ।
विश्वास-प्रस्तुतिः
उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पाँ॒शु मा॑रु॒त्यै +++(आश्रावयति)+++। तस्मा॑द्रा॒ष्ट्रव्ँ विश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति ॥9॥
इ॒न्द्रि॒यव्ँ वै गर्भः॑ । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः ।

अत्र ‘विड्वै मरुतः’इति सर्वशेषः ‘विशं चैवास्मै’इत्यादिष्वपि सम्बध्यते ॥
मूलम्
दे॒वा॒सु॒रास्सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॒श्विनो॑ᳶ पू॒षन्वा॒चस्स॒त्यँ स॑न्नि॒धाय॑ । अनृ॑ते॒नासु॑रान॒भ्य॑भवन् ।
विश्वास-प्रस्तुतिः
ते दे॒वा अ॒श्विनो॑ᳶ पू॒षन्वा॒चस्स॒त्यँ स॑न्नि॒धाया॒नृ॑ते॒नासु॑रान॒भ्य॑भवन् ।
ते॑ऽश्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन् ।
ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ॥10॥
मूलम्
ते दे॒वा अ॒श्विनो॑ᳶ पू॒षन्वा॒चस्स॒त्यँ स॑न्नि॒धाया॒नृ॑ते॒नासु॑रान॒भ्य॑भवन् ।
ते॑ऽश्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपाल॒न्निर॑वपन् ।
ततो॒ वै ते वा॒चस्स॒त्यमवा॑रुन्धत ॥10॥
भट्टभास्कर-टीका
6 देवासुरा इत्यादि ॥ अश्विनोः पूष्णि च वाचः सत्यं सत्यत्वं रूपं निधाय अनृतेन छलेन असुरानभिभूय ततोऽश्विभ्यां पूष्णे च द्वादशकपालं निरुप्य वाचः सत्यत्वं लब्धवन्तः ।
विश्वास-प्रस्तुतिः
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चस्स॒त्यमव॑रुन्धे ।
मूलम्
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ । वा॒चस्स॒त्यमव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑त्य् अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ वा॒चस्स॒त्यमव॑रुन्धे ।
मूलम्
यद॒श्विभ्या॑म्पू॒ष्णे पु॑रो॒डाश॒न्द्वाद॑शकपालन्नि॒र्वप॑त्य् अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑ वा॒चस्स॒त्यमव॑रुन्धे ।
भट्टभास्कर-टीका
यदश्विभ्यामित्यादि । गतम् । त्रिहविष्केयमिष्टिः । तत्राश्विनौ पूषा च संभूय एकदेवता । द्वादशकपाल एकं हविः ।़
मूलम्
सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति ।
विश्वास-प्रस्तुतिः
सर॑स्वते सत्य॒वाचे॑ च॒रुम् पूर्व॑मे॒वोदि॒तम् उत्त॑रेणा॒भिगृ॑णाति ।
मूलम्
सर॑स्वते सत्य॒वाचे॑ च॒रुम् पूर्व॑मे॒वोदि॒तम् उत्त॑रेणा॒भिगृ॑णाति ।
भट्टभास्कर-टीका
ततः सरस्वत्यै चरुर्द्वितीयः ।
विश्वास-प्रस्तुतिः
स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
मूलम्
स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाश॒न्द्वाद॑शकपाल॒म्प्रसू॑त्यै ।
भट्टभास्कर-टीका
सवित्रे द्वादशकपालस्तृतीयः ।
पूर्वमेवेति । अश्विभ्यां पूष्णे च यदुक्तं वाचस्सत्यावरोधाख्यं फलं तदेव उत्तरेण ‘सरस्वते सत्यवाचे चरुम्’इत्यनेनापि हविषा सह अभिगृणाति फलत्वेनाभिसंबध्नाति, तस्मात्फलान्तरं न भ्रमितव्यमिति भावः । शब्दान् पूर्वमेव राजसयूब्राह्मणे विहितानां गुणवादार्थवादार्थः इहानुबाह्मणेनानुवादः क्रियते ।
तत्र ‘अश्विभ्यां पूष्णे’इत्यस्यास्ति गुणविधिः ‘वाचस्सत्यमवरुन्धे’इति। ‘सवित्रे सत्यप्रसवाय’इत्यस्यापि ‘प्रसूत्यै’इत्युच्यते । ‘सरस्वते सत्यवाचे’इत्यत्र न कंचिद्गुणविधिं पश्यामः । तत्र पुनर्वचनानर्थक्यमाशङ्क्याह - पूर्वमेव विहितं हविः उत्तरेणानुब्राह्यणेनाप्यभिगृणाति पुनरपि कीर्तयति हविषः क्रमविधानार्थम् । अर्थवादो न वक्तव्य एव, ‘सत्यवाचे चरुम्’इति स्वरूपेणैव गवत्वादिति भावः ।
यद्वा - ‘सरस्वते सत्यवाचे चरुम्’इत्युक्ते को गुणोऽस्येति यद्यनुयोगं कश्चिद्ब्रूयात् तदयुक्तं पूर्वमेव ‘सरस्वते सत्यवाचे चरुम्’इति विधिमात्रेणैव उक्तं स्पष्टं यदि ब्रूयात् सत्यवागवरोध इति । तदनेनाप्युत्तरेण वचनेन तदेवाभिगृणाति । गतमेव पुनरपि शब्दयति । न कंश्चिद्विशेषः । तस्मात्सारस्वतेन न कंचिद्गुणं ब्रूम इति ॥
विश्वास-प्रस्तुतिः
दू॒तान्प्रहि॑णोति ।
मूलम्
दू॒तान्प्रहि॑णोति ।
भट्टभास्कर-टीका
7 दूतान् प्रहिणोति प्रतिराजभ्यः ।
विश्वास-प्रस्तुतिः
आ॒विद॑ ए॒ता भ॑वन्ति ।
मूलम्
आ॒विद॑ ए॒ता भ॑वन्ति ।
भट्टभास्कर-टीका
आविदः शासनानि एते दूता भवन्ति तत्कारित्वात् । आविद्यन्ते राजसामन्ताः ख्याप्यन्ते आभिरित्याविदः । संपदादित्वात् किम् ।
विश्वास-प्रस्तुतिः
आ॒विद॑मे॒वैन॑ङ्गमयन्ति ।
मूलम्
आ॒विद॑मे॒वैन॑ङ्गमयन्ति ।
भट्टभास्कर-टीका
एनं यजमानमाविदं सवख्यातिं गमयन्ति । प्रकाशं शासनहारिणो दूता आविदः । आविदः नोपबाधन्ते ।
विश्वास-प्रस्तुतिः
अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वँ शु॑ष्कदृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै ॥11॥
मूलम्
अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वँ शु॑ष्कदृ॒तिर्दक्षि॑णा॒ समृ॑द्ध्यै ॥11॥
भट्टभास्कर-टीका
अथो अपि च दूतेभ्यः न कदाचिदपि विच्छिद्यते गमनागमनयोरविच्छेदो भवतीति । यद्वा - दूतनिमित्तैर्दोषैः नायं छिद्यते ततः प्रभृति न बाध्यते, तिसृभिः इषुभिः युक्तं धनुः तिसृधन्वं शुष्का केवला दृतिश्शुष्कदृतिः ॥
इति अष्टमे तृतीयोऽनुवाकः ॥