मूलम्
जा॒मि वा ए॒तत्कु॑र्वन्ति ।
यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ ।
पु॒ण्ड॒रि॒स्र॒जाम्प्रय॑च्छ॒त्यजा॑मित्वाय ।
विश्वास-प्रस्तुतिः
जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ पुण्डरिस्र॒जाम्प्रय॑च्छ॒त्यजा॑मित्वाय ।
मूलम्
जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यस्सोम॑ङ्क्री॒णन्ति॑ पुण्डरिस्र॒जाम्प्रय॑च्छ॒त्यजा॑मित्वाय ।
भट्टभास्कर-टीका
1 जामि वा इत्यादि ॥ दशपेयमधिकृत्योच्यते ।
विश्वास-प्रस्तुतिः
मूलम्
भट्टभास्कर-टीका
यत् सद्यः समान एकस्मिन्नहनि दीक्षयन्ति सोमं च क्रीणन्ति अध्वर्यवः एतज्जामि पुनरुक्तमिव आलस्यजननं कुर्वन्ति । तत्परिहारार्थं मध्ये अपोदीक्षायाः स्थाने पुण्डरिस्रजां पुण्डरीकस्रजं द्वादशपुण्डरीकां यजमानाय प्रयच्छति यजमानशरीरे प्रमुञ्चति । तेनास्य जामित्वं निवर्तते ।
मूलम्
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँ यन्तः॑ ।
अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् ।
विश्वास-प्रस्तुतिः
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँ यन्तो॑ ,अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् ।
तत्पु॒ण्डरी॑कमभवत् ।
मूलम्
अङ्गि॑रसस्सुव॒र्गल्ँ लो॒कय्ँ यन्तो॑ ,अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन् ।
तत्पु॒ण्डरी॑कमभवत् ।
मूलम्
यत्पु॑ण्डरिस्र॒जाम्प्र॒यच्छ॑ति । सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यत्पु॑ण्डरिस्र॒जाम्प्र॒यच्छ॑ति सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑रुन्धे ।
मूलम्
यत्पु॑ण्डरिस्र॒जाम्प्र॒यच्छ॑ति सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑रुन्धे ।
भट्टभास्कर-टीका
अङ्गिरस इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
द॒शभि॑र्वत्सत॒रैस्सोम॑ङ्क्रीणाति ।
दशा॑क्षरा वि॒राट् ॥3॥
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
मूलम्
द॒शभि॑र्वत्सत॒रैस्सोम॑ङ्क्रीणाति ।
दशा॑क्षरा वि॒राट् ॥3॥
अन्नव्ँ॑वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ।
भट्टभास्कर-टीका
2 दशभिरित्यादि ॥ पूर्वमेव क्रीतं पुरोहितगृहे निहितं सोमं विक्रयिणे प्रदाय दशभिर्वत्सतरैः क्रीणाति ।
द्वितीयं वयः प्राप्ताः वत्सा वत्सतराः । ‘वत्सोक्षाश्व’इति ष्टरच् । गतमन्यत् ।
विश्वास-प्रस्तुतिः
मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ ।
मूलम्
मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑ ।
भट्टभास्कर-टीका
मुष्करा इति । मुष्कवन्तः वृषणवन्तो महावीर्याः एकहायनाः ॥
मूलम्
द॒श॒पेयो॑ भवति ।
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
द॒श॒पेयो॑ भवत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
मूलम्
द॒श॒पेयो॑ भवत्य् अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
3 दशपेय इति ॥ एकैकस्मिन् चमसे दशदश ब्राह्मणा यस्मिन् सोमं पिबन्ति स दशपेयः । अधिकरणे यत् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सप्तपर्णादिवत् वीप्सानिवृत्त्वर्थविशेषलाभः । विराट्संङ्ख्यान्वयादन्नाद्यलाभः ॥ श॒तम्ब्रा॑ह्म॒णाᳶ पि॑बन्ति ।
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
4 शतमिति ॥ ब्राह्मणग्रहणमवशिष्टपरिग्रहार्थं षोडशभिः ऋत्विग्भिः सहान्ये चतुरशीतिः ॥
विश्वास-प्रस्तुतिः
स॒प्त॒द॒शँ स्तो॒त्रम्भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥4॥
प्र॒जाप॑ते॒राप्त्यै॑ ।
मूलम्
स॒प्त॒द॒शँ स्तो॒त्रम्भ॑वति ।
स॒प्त॒द॒शᳶ प्र॒जाप॑तिः ॥4॥
प्र॒जाप॑ते॒राप्त्यै॑ ।
भट्टभास्कर-टीका
5 सप्तदशमिति ॥ सप्तदशस्तोत्रीयः सर्वस्तोमो भवति । सप्तदशः प्रजापतिः (षोडशभिर्विकारैः सदस्यश्च) सप्तदशाक्षरत्वात् ॥
विश्वास-प्रस्तुतिः
प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति ।
प्र॒का॒शमे॒वैन॑ङ्गमयति ।
मूलम्
प्रा॒का॒शाव॑ध्व॒र्यवे॑ ददाति ।
प्र॒का॒शमे॒वैन॑ङ्गमयति ।
भट्टभास्कर-टीका
6 प्राकाशौ आदर्शौ आदर्शेन प्रकाशं गमयत्येनम् ॥ आदर्शं हि प्राप्यं सर्वं प्रकाशयति इति ।
विश्वास-प्रस्तुतिः
स्रज॑मुद्गा॒त्रे +++(ददाति)+++।
मूलम्
स्रज॑मुद्गा॒त्रे +++(ददाति)+++।
भट्टभास्कर-टीका
स्रजं हिरण्यमालाम् ।
विश्वास-प्रस्तुतिः
व्ये॑वास्मै॑ वासयति ।
मूलम्
व्ये॑वास्मै॑ वासयति ।
भट्टभास्कर-टीका
इयमस्मै विवासयति व्युष्टिं करोति । यद्वा - सामर्थ्यादस्य श्रीर्व्युच्छति हिरण्यलाभात् । रुक्मं रुचकं, हिरण्यमिति केचित् ।
विश्वास-प्रस्तुतिः
रु॒क्मँ होत्रे॑ +++(ददाति)+++।
आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति ।
मूलम्
रु॒क्मँ होत्रे॑ +++(ददाति)+++।
आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति ।
भट्टभास्कर-टीका
अस्मै आदित्यमुन्नयति उत्कृष्टोदयं करोति । अवितथोदयमभीष्टसंपत्त्या करोति ।
विश्वास-प्रस्तुतिः
अश्व॑म्प्रस्तोतृप्रतिह॒र्तृभ्या॑म् +++(ददाति)+++।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥5॥
मूलम्
अश्व॑म्प्रस्तोतृप्रतिह॒र्तृभ्या॑म् +++(ददाति)+++।
प्रा॒जा॒प॒त्यो वा अश्वः॑ ।
प्र॒जाप॑ते॒राप्त्यै॑ ॥5॥
भट्टभास्कर-टीका
गतं परम् ।
विश्वास-प्रस्तुतिः
द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ +++(ददाति)+++। आयु॑रे॒वाव॑रुन्धे ।
मूलम्
द्वाद॑श पष्ठौ॒हीर्ब्र॒ह्मणे॑ +++(ददाति)+++। आयु॑रे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
पष्ठौही चतुर्वर्षा स्त्रीगवी । ‘वहश्च’इति ण्विः । ‘वाहः’इति ङीष् ऊठ्च । ‘एत्येधत्यूठ्सु’इति वृद्धिः । तासां तरुणत्वादायुर्लाभः ।
विश्वास-प्रस्तुतिः
व॒शाम्मै॑त्रावरु॒णाय॑ +++(ददाति)+++। । रा॒ष्ट्रमे॒व व॒श्य॑कः ।
मूलम्
व॒शाम्मै॑त्रावरु॒णाय॑ +++(ददाति)+++। । रा॒ष्ट्रमे॒व व॒श्य॑कः ।
भट्टभास्कर-टीका
वशा वन्ध्या राष्ट्रं वशि वश्यं करोति । वशाया वश्यत्वात् ।
विश्वास-प्रस्तुतिः
ऋ॒ष॒भम्ब्रा॑ह्मणाच्छँ॒सिने॑ +++(ददाति)+++। रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
मूलम्
ऋ॒ष॒भम्ब्रा॑ह्मणाच्छँ॒सिने॑ +++(ददाति)+++। रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।
भट्टभास्कर-टीका
ऋषभः । खेलनगतिस्सेक्ता । राष्ट्रमिन्द्रियवत्करोति ।
विश्वास-प्रस्तुतिः
वास॑सी नेष्टापो॒तृभ्या॑म् +++(ददाति)+++। प॒वित्रे॑ ए॒वास्यै॒ते ।
मूलम्
वास॑सी नेष्टापो॒तृभ्या॑म् +++(ददाति)+++। प॒वित्रे॑ ए॒वास्यै॒ते ।
भट्टभास्कर-टीका
पवित्रे इति । अस्यैव यजमानस्य एते पवित्रे सोमदशापवित्रस्थानीये भवतः ।
विश्वास-प्रस्तुतिः
स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ +++(ददाति)+++।
मूलम्
स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑ +++(ददाति)+++।
भट्टभास्कर-टीका
स्थूरि यवाचितमिति । स्थूरिः पृष्ठवाहकः तत्साधर्म्यादेकगोयुक्तं शकटमुच्यते । तत् यवाचितं यवभारसहितम् ।
विश्वास-प्रस्तुतिः
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ॥6॥
मूलम्
अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते ॥6॥
भट्टभास्कर-टीका
वरुणमन्ततः अवयजते । निवर्तयति । यवसम्बन्धित्वान् वरुणस्य ‘अनड्वान् अनोवहनसमर्थः, व्रीह्यादेर्वोढा ।
विश्वास-प्रस्तुतिः
अ॒न॒ड्वाह॑म॒ग्नीधे॑ +++(ददाति)+++। वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे ।
मूलम्
अ॒न॒ड्वाह॑म॒ग्नीधे॑ +++(ददाति)+++। वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑र॒ग्नीत् । वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे ।
भट्टभास्कर-टीका
अग्नीत् यज्ञस्य । ततश्च(वोढ्रा) वोढुर्योगाद्यज्ञस्य लाभाद्यर्थं भवति ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
भृगु॒स्तृती॑यमभवत् ।
श्रा॒य॒न्तीय॒न्तृती॑यम् ।
सर॑स्वती॒ तृती॑यम् ।
भा॒र्ग॒वो होता॑ भवति ।
मूलम्
इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
भृगु॒स्तृती॑यमभवत् ।
श्रा॒य॒न्तीय॒न्तृती॑यम् ।
सर॑स्वती॒ तृती॑यम् ।
भा॒र्ग॒वो होता॑ भवति ।
भट्टभास्कर-टीका
7 इन्द्रस्येत्यादि ॥ अनेनेष्ट्वा ईश्वरसंपन्नस्येन्द्रस्य इन्द्रियं वीर्यं च त्रेधा पराऽपतत् भृगुः ।
विश्वास-प्रस्तुतिः
श्रा॒य॒न्तीय॑म् ब्रह्मसा॒मम्भ॑वति ।
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् +++(भवति)+++।
मूलम्
श्रा॒य॒न्तीय॑म् ब्रह्मसा॒मम्भ॑वति ।
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् +++(भवति)+++।
मूलम्
सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति ।
इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तीर॒पो गृ॑ह्णातीन्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
मूलम्
सा॒र॒स्व॒तीर॒पो गृ॑ह्णातीन्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
श्रायन्तिशब्दोऽस्मिन्नस्तीति श्रायन्तीयं साम । ‘मतौच्छस्सूक्तसाम्नोः’इति छः । सः श्रयति न पतति ।
विश्वास-प्रस्तुतिः
श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रयति ।
मूलम्
श्रा॒य॒न्तीय॑म्ब्रह्मसा॒मम्भ॑वति ।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यँ॑ श्रयति ।
भट्टभास्कर-टीका
वारवन्तीयं ‘अश्वं नत्वा वा वारवन्तम्’ इत्यस्यामृचि कर्तव्यम् । पूर्ववच्छः ।
विश्वास-प्रस्तुतिः
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् +++(भवति)+++।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यव्ँ॑वारयति ॥7॥
मूलम्
वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम् +++(भवति)+++।
इ॒न्द्रि॒यमे॒वास्मि॑न्वी॒र्यव्ँ॑वारयति ॥7॥
भट्टभास्कर-टीका
अग्निष्टोमसामम् । पूर्ववदम् समासान्तः । दशपेयोऽयं अग्निष्टोमसंस्थः । येन सन्तिष्ठते तदग्निष्टोमः । इन्द्रियादिकमस्मिन् वारयति यथा न परापतति तथा ततो निवार्य अस्मिन् स्थापयति ॥
इति अष्टमे द्वितोयोऽनुवाकः ॥