प्रथमेऽष्टकेअष्टमः प्रश्नः ।
विश्वास-प्रस्तुतिः
वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
मूलम्
वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँ वी॒र्य॑म्परा॑ऽपतत् ।
भट्टभास्कर-टीका
1 वरुणस्येत्यादि ॥ वरुणस्य सुषुवाणस्य सवने ईश्वरीभूतस्य इन्द्रियं वीर्यं च दशधा भूत्वा पराऽपतत् अस्मादपाक्रान्तमभूत् ।
विश्वास-प्रस्तुतिः
तत्सँ॒सृद्भि॒रनु॒ सम॑सर्पत् ।
तत्सँ॒सृपाँ॑ सँसृ॒त्त्वम् ।
मूलम्
तत्सँ॒सृद्भि॒रनु॒ सम॑सर्पत् ।
तत्सँ॒सृपाँ॑ सँसृ॒त्त्वम् ।
भट्टभास्कर-टीका
अथ तत् इन्द्रियादि संसृद्भिः हविर्विशेषैः ‘आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणा’ इत्यादिभिः वरुणः अनुसमसर्पत् अनुसृत्य संप्राप्तवान् तस्मादेषां संसृपां संसृत्त्वं संप्राप्तिहेतुत्वात् । सर्पतेः क्विप् । अन्त्यविकारः छान्दसः ॥
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त ।
मूलम्
अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त ।
भट्टभास्कर-टीका
2 अग्निनेत्यादि ॥ प्रथमे अहन् अह्नि अग्निना हेतुना अनुप्रायुङ्क्त वरुणः यागानन्तरमात्मानं प्रायुङ्क प्रकर्षेणायोजयत् । तेन देवेन देवयित्रा प्रकर्षेण देववन्तमात्मानमकरोत् ।
विश्वास-प्रस्तुतिः
सर॑स्वत्या वा॒चा द्वि॒तीये॑ +++(प्रायुङ्क्त)+++।
मूलम्
सर॑स्वत्या वा॒चा द्वि॒तीये॑ +++(प्रायुङ्क्त)+++।
भट्टभास्कर-टीका
द्वितीयेऽह्नि सरस्वत्या हेतुना वाचाऽऽत्मानं समयोजयत् ।
विश्वास-प्रस्तुतिः
स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये॑ +++(प्रायुङ्क्त)+++।।
मूलम्
स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये॑ +++(प्रायुङ्क्त)+++।।
भट्टभास्कर-टीका
तृतीये सवित्रा हेतुना प्रसवेन आत्मानं प्रायुङ्क्त । एवं सर्वत्र ।
विश्वास-प्रस्तुतिः
पू॒ष्णा प॒शुभि॑श्चतु॒र्थे +++(प्रायुङ्क्त)+++।।
मूलम्
पू॒ष्णा प॒शुभि॑श्चतु॒र्थे +++(प्रायुङ्क्त)+++।।
भट्टभास्कर-टीका
चतुर्थे पशुभिः ।
विश्वास-प्रस्तुतिः
बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे +++(प्रायुङ्क्त)+++।।
मूलम्
बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे +++(प्रायुङ्क्त)+++।।
भट्टभास्कर-टीका
पञ्चमे ब्रह्मणा अन्नेन मन्त्रेण वा ।
विश्वास-प्रस्तुतिः
इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे ।+++(प्रायुङ्क्त)+++।
मूलम्
इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे ।+++(प्रायुङ्क्त)+++।
भट्टभास्कर-टीका
षष्ठे देवेन देवनेन इन्द्रेण ।
विश्वास-प्रस्तुतिः
वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे +++(प्रायुङ्क्त)+++।॥1॥
मूलम्
वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे +++(प्रायुङ्क्त)+++।॥1॥
भट्टभास्कर-टीका
सप्तमे स्वया देवतया आत्मानं देवताभावेन योजितवान् ।
विश्वास-प्रस्तुतिः
सोमे॑न॒ राज्ञा॑ऽष्ट॒मे +++(प्रायुङ्क्त)+++।।
मूलम्
सोमे॑न॒ राज्ञा॑ऽष्ट॒मे +++(प्रायुङ्क्त)+++।।
भट्टभास्कर-टीका
अष्टमे राज्ञा राजत्वेन ।
विश्वास-प्रस्तुतिः
त्वष्ट्रा॑ रू॒पेण॑ नव॒मे +++(प्रायुङ्क्त)+++।।
मूलम्
त्वष्ट्रा॑ रू॒पेण॑ नव॒मे +++(प्रायुङ्क्त)+++।।
भट्टभास्कर-टीका
नवमे रूपेण प्रशस्तेन ।
विश्वास-प्रस्तुतिः
विष्णु॑ना य॒ज्ञेना॑प्नोत् ।
मूलम्
विष्णु॑ना य॒ज्ञेना॑प्नोत् ।
भट्टभास्कर-टीका
ततो देवादिमत्तया विष्णुना हेतुना विष्ण्वाप्मना वा यज्ञेन अत्मीयमिन्द्रियं वीर्यं च आप्नोत् ।
मूलम्
यत्सँ॒सृपो॒ भव॑न्ति । इ॒न्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आप्नोति ।
विश्वास-प्रस्तुतिः
यत्सँ॒सृपो॒ भव॑न्तीन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आप्नोति ।
मूलम्
यत्सँ॒सृपो॒ भव॑न्तीन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मान आप्नोति ।
भट्टभास्कर-टीका
यदित्यादि । गतम् ॥
मूलम्
पूर्वा॑पूर्वा॒ वेदि॑र्भवति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
विश्वास-प्रस्तुतिः
पूर्वा॑पूर्वा॒ वेदि॑र्भवती॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
मूलम्
पूर्वा॑पूर्वा॒ वेदि॑र्भवती॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै ।
भट्टभास्कर-टीका
3 पूर्वापूर्वेति ॥ पूर्वस्या वेदेः पुरस्तादुत्तरोत्तरा वेदिः भवति । यत्र पूर्व आहवनीयः तत्रोत्तरो गार्हपत्यः । पुनःपुनरपि संबन्धेन इन्द्रियवीर्यलाभः ॥
विश्वास-प्रस्तुतिः
पु॒रस्ता॑दुप॒सदाँ॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति ।
मूलम्
पु॒रस्ता॑दुप॒सदाँ॑ सौ॒म्येन॒ प्रच॑रति । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व तद्द॑धाति । अ॒न्त॒रा त्वा॒ष्ट्रेण॑ । रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ विक॑रोति ।
भट्टभास्कर-टीका
4 पुरस्तादिति ॥ दशपेये प्रक्रान्ते आतिथ्यया प्रचर्य सुब्रह्मण्यान्ते त्वाष्ट्रेण अष्टाकपालेन प्रचरति आपराह्निकीभ्यां प्राक् ।
विश्वास-प्रस्तुतिः
उ॒परि॑ष्टाद्वैष्ण॒वेन॑ +++(प्रचरति)+++। य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति ॥2 ।।
मूलम्
उ॒परि॑ष्टाद्वैष्ण॒वेन॑ +++(प्रचरति)+++। य॒ज्ञो वै विष्णुः॑ । य॒ज्ञ ए॒वान्त॒तᳶ प्रति॑ तिष्ठति ॥2 ।।
भट्टभास्कर-टीका
उपरिष्टादिति । श्वोभूत उपसदामुपरिष्टात् प्रवर्ग्योद्वासनात् प्राक् वैष्णवेन त्रिकपालेन प्रचरति ॥ इति अष्टमे प्रथमोऽनुवाकः ॥