०९ रथारोहणम्, विजयः

विश्वास-प्रस्तुतिः

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ।
“मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युन॒ज्मी"त्या॑ह ।

ब्रह्म॑णै॒वैन॑न्दे॒वता॑भ्याय्ँ युनक्ति ।

मूलम्

इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै ।
“मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोᳶ प्र॒शिषा॑ युन॒ज्मी"त्या॑ह ।

ब्रह्म॑णै॒वैन॑न्दे॒वता॑भ्याय्ँ युनक्ति ।

भट्टभास्कर-टीका

1 इन्द्रस्येत्यादि ॥ उपावहरति रथं वाहनादवतारयति । मित्रावरुणयोरिति प्रष्टिवाहिनं रथं युनक्ति ब्रह्मणा मन्त्रेणानेन देवताभ्यां मित्रावरुणभ्यामिति अश्वैरेव ।

विश्वास-प्रस्तुतिः

प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति ।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः ।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ।

मूलम्

प्र॒ष्टि॒वा॒हिनय्ँ॑युनक्ति ।
प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः ।
दे॒व॒र॒थमे॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

प्रष्टिवाहिनमिति । प्रष्टिवाहिभिरश्वैर्युक्तत्वात् प्रष्टिवद्यो वहति रथः स प्रष्टिवाही । ‘कर्तर्युपमाने’इति णिनिः । गतमन्यत् ॥

मूलम्

त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्त्सम्प॑द्यन्ते ॥ 53 ॥

विश्वास-प्रस्तुतिः

त्रयोऽश्वा॑ भवन्ति॒, रथ॑श्चतु॒र्थो, द्वौ स॑व्येष्ठसार॒थी , षट्त् सम्प॑द्यन्ते ॥
षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनय्ँ॑युनक्ति ।

मूलम्

त्रयोऽश्वा॑ भवन्ति॒, रथ॑श्चतु॒र्थो, द्वौ स॑व्येष्ठसार॒थी , षट्त् सम्प॑द्यन्ते ॥
षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनय्ँ॑युनक्ति ।

भट्टभास्कर-टीका

2 त्रयोऽश्वा इति ॥ सव्ये पार्श्वे स्थित्वा आयुधानि रथिने समर्पयति स सव्येष्ठः । ‘सुपि स्थः’इति कः । ‘तत्पुरुषे कृति बहुलम्’इत्यलुक् ॥

विश्वास-प्रस्तुतिः

वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।

मूलम्

वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ।

भट्टभास्कर-टीका

3 विष्णुक्रमानित्यादि ॥ ‘विष्णोः क्रमोसि’ इत्यादि ॥

मूलम्

यः क्ष॒त्रिय॒ᳶ प्रति॑हितः । सो॑ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति ।

विश्वास-प्रस्तुतिः

यः क्ष॒त्रिय॒ᳶ प्रति॑हि॒तस् सो॑ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति ।

मूलम्

यः क्ष॒त्रिय॒ᳶ प्रति॑हि॒तस् सो॑ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति ।

भट्टभास्कर-टीका

4 यः क्षत्रिय इत्यादि ॥ प्रतिहितो राज्ञोऽनन्तरः यः वरुणजाति (अवरजादि?)ऽस्सोऽन्वारभते यजमानं राष्ट्रमेवभवति राष्ट्रमेव प्राप्नोति ॥

विश्वास-प्रस्तुतिः

त्रि॒ष्टुभा॒ऽन्वार॑भते ।

इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥

मूलम्

त्रि॒ष्टुभा॒ऽन्वार॑भते ।

इ॒न्द्रि॒यव्ँ वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥

भट्टभास्कर-टीका

5 त्रिष्टुभेति ॥ ‘प्रससाहिषे’ इत्येतयेत्याहुः ।

विश्वास-प्रस्तुतिः

“म॒रुता॑म्प्रस॒वे जे॑ष॒"मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति ।

मूलम्

“म॒रुता॑म्प्रस॒वे जे॑ष॒"मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति ।

भट्टभास्कर-टीका

‘मरुतां प्रसवे’ इति रथमातिष्ठति ।

विश्वास-प्रस्तुतिः

“आ॒प्तम्मन॒” इत्या॑ह ।

मूलम्

“आ॒प्तम्मन॒” इत्या॑ह ।

भट्टभास्कर-टीका

‘आप्तम्'38इति कूबरमभिश्रयते ।

मूलम्

यदे॒व मन॒सैप्सी॑त् । तदा॑पत् ।

विश्वास-प्रस्तुतिः

यदे॒व मन॒सैप्सी॒त् तदा॑पत् ।

मूलम्

यदे॒व मन॒सैप्सी॒त् तदा॑पत् ।

भट्टभास्कर-टीका

यदेव मनसा ईप्सते आप्तुमिच्छति तदापत् आप्नोति पुरुष इति । यद्धि मनसा इच्छति आप्तमेव तत्फलं तस्मान्मन एवाप्तव्यमिति आप्तं मन इत्युच्यते इति भावः ॥

विश्वास-प्रस्तुतिः

रा॒ज॒न्य॑ञ्जिनाति ।

मूलम्

रा॒ज॒न्य॑ञ्जिनाति ।

भट्टभास्कर-टीका

6 राजन्यमिति ॥ राजपूरुषं जयति । व्यत्ययेन श्ना । यद्वा - ज्या वयोहानौ । राजन्यमिषुभिर्विध्यति ।

विश्वास-प्रस्तुतिः

अना॑क्रान्त ए॒वाक्र॑मते ।

मूलम्

अना॑क्रान्त ए॒वाक्र॑मते ।

भट्टभास्कर-टीका

केन चिदनाक्रान्त एव पृथिवीमाक्रमते ।

विश्वास-प्रस्तुतिः

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।

मूलम्

वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते ।

मूलम्

यो रा॑ज॒न्य॑ञ्जि॒नाति॑ । “सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णे"त्या॑ह ॥ 55 ॥

विश्वास-प्रस्तुतिः

यो रा॑ज॒न्य॑ञ्जि॒नाति॒ “सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णे"त्या॑हेन्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते ।

मूलम्

यो रा॑ज॒न्य॑ञ्जि॒नाति॒ “सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णे"त्या॑हेन्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

विवा एष इत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

प॒शू॒नाम्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते ।

मूलम्

प॒शू॒नाम्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते ।

भट्टभास्कर-टीका

7 पशूनामित्यादि ॥ वाराही वराहचर्मनिर्मिते - विकारे ‘प्राणभृज्जाति’इत्यादिनाऽञ्प्रत्ययः । ‘वा छन्दसि’इति पूर्वसवर्णदीर्घत्वम् ।

मूलम्

प॒शू॒नाव्ँ वा ए॒ष म॒न्युः । यद्व॑रा॒हः ।

विश्वास-प्रस्तुतिः

प॒शू॒नाव्ँ वा ए॒ष म॒न्युर् यद्व॑रा॒हः । तेनै॒व प॑शू॒नाम्म॒न्युमा॒त्मन्ध॑त्ते ।

मूलम्

प॒शू॒नाव्ँ वा ए॒ष म॒न्युर् यद्व॑रा॒हः । तेनै॒व प॑शू॒नाम्म॒न्युमा॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

मन्युः दीप्तिः ॥

मूलम्

अ॒भि वा इ॒यँ सु॑षुवा॒णङ्का॑मयते । तस्ये॑श्व॒रेन्द्रि॒यव्ँ वी॒र्य॑मादा॑तोः ।

विश्वास-प्रस्तुतिः

अ॒भि वा इ॒यँ सु॑षुवा॒णङ्का॑मयते॒ तस्ये॑श्व॒रेन्द्रि॒यव्ँ वी॒र्य॑मादा॑तोः ।

मूलम्

अ॒भि वा इ॒यँ सु॑षुवा॒णङ्का॑मयते॒ तस्ये॑श्व॒रेन्द्रि॒यव्ँ वी॒र्य॑मादा॑तोः ।

भट्टभास्कर-टीका

8 अभि वा इत्यादि ॥ इयं पृथिवी सुषुवाणं राजसूयाख्येन सवेन इष्टं ईश्वरभूतमभिकामयते अभिवाञ्छति तस्येन्द्रियादिहानिम् । यद्वा - अभिमन्यते नाशयितुं चिन्तयति असहमानेव ततश्च तस्य सुषुवाणस्य इन्द्रियं च वीर्यं च आदातुमीश्वरा स्यात् पृथिवी । ‘ईश्वरे तोसुन्कसुनौ’इति तोसुन् ।

विश्वास-प्रस्तुतिः

वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै ॥ 56 ॥

मूलम्

वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै ॥ 56 ॥

भट्टभास्कर-टीका

तस्माद्वाराहीभ्यामुपानद्भ्यां छादितपादः पृथिव्या एवान्तर्हितो भवति । ततश्च तदन्तर्धानमिन्द्रियवीर्ययोरनादानाय भवति । ‘अच उपसर्गातः’।

विश्वास-प्रस्तुतिः

“नमो॑ मा॒त्रे पृ॑थि॒व्या” इत्या॒हाहिँ॑सायै ।

मूलम्

“नमो॑ मा॒त्रे पृ॑थि॒व्या” इत्या॒हाहिँ॑सायै ।

भट्टभास्कर-टीका

नमो मात्रे इति । इमामभिमृशति ॥

मूलम्

इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयु॑रे॒वात्मन्ध॑त्ते ।

विश्वास-प्रस्तुतिः

“इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ही"त्या॒हायु॑रे॒वात्मन् ध॑त्ते ।

मूलम्

“इय॑द॒स्यायु॑र॒स्यायु॑र्मे धे॒ही"त्या॒हायु॑रे॒वात्मन् ध॑त्ते ।

भट्टभास्कर-टीका

9 सव्येंसे राजतं मणिं प्रतिमुञ्चते - इयदिति ॥

मूलम्

ऊर्ग॒स्यूर्ज॑म्मे धे॒हीत्या॑ह । ऊर्ज॑मे॒वात्मन्ध॑त्ते ।

विश्वास-प्रस्तुतिः

“ऊर्ग॒स्यूर्ज॑म्मे धे॒ही"त्या॒होर्ज॑मे॒वात्मन्ध॑त्ते ।

मूलम्

“ऊर्ग॒स्यूर्ज॑म्मे धे॒ही"त्या॒होर्ज॑मे॒वात्मन्ध॑त्ते ।

भट्टभास्कर-टीका

‘ऊर्गसि'38इति दक्षिणेंस औदुम्बरम् ।

मूलम्

युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह वर्च॑ ए॒वात्मन्ध॑त्ते ।

विश्वास-प्रस्तुतिः

“युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒ही"त्या॑ह॒ वर्च॑ ए॒वात्मन्ध॑त्ते ।

मूलम्

“युङ्ङ॑सि॒ वर्चो॑सि॒ वर्चो॒ मयि॑ धे॒ही"त्या॑ह॒ वर्च॑ ए॒वात्मन्ध॑त्ते ।

भट्टभास्कर-टीका

‘युङ्ङसि'38इति दक्षिण एवांसे सौवर्णम् ॥

विश्वास-प्रस्तुतिः

ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जव्ँ॒वर्चो॑ दधाति ।

मूलम्

ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जव्ँ॒वर्चो॑ दधाति ।

भट्टभास्कर-टीका

एकधेति ॥ मणित्रयं तदेकधा युगपदेव ब्रह्मणे ददाति मणित्रयफलान्यायुरादीनि युगपदेव ॥

विश्वास-प्रस्तुतिः

र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥
त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा॑च्च॒तुर्जु॑होति ।

मूलम्

र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥
त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा॑च्च॒तुर्जु॑होति ।

भट्टभास्कर-टीका

10 रथविमोचिनीया इति ॥ ‘अग्नये गृहपतये'38इत्याद्याश्चतस्रः अश्वस्य रथविमोचनीयाः । अश्वानां रथस्य च चतुष्ट्वात् चतस्रः आहूतयो हूयन्ते ॥

मूलम्

यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नल्ँ लो॒कमि॑याताम् ।

विश्वास-प्रस्तुतिः

यदु॒भौ स॒हाव॒तिष्ठे॑ताम् समा॒नल्ँ लो॒कमि॑याताम् ।

मूलम्

यदु॒भौ स॒हाव॒तिष्ठे॑ताम् समा॒नल्ँ लो॒कमि॑याताम् ।

भट्टभास्कर-टीका

11 यदुभावित्यादि ॥ यदुभौ यजमानः सारथिश्च रथादन्यत्र सहावतिष्ठेतां सहावस्थानवन्तो स्यातां समानं स्वर्गं लोकं गच्छेतां, तस्माद्वरूथे रश्मिसंग्रहीत्रा सह तत्सहितमेवाध्वर्युः रथवाहने रथमादधाति ।

विश्वास-प्रस्तुतिः

स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति ।

मूलम्

स॒ह स॑ङ्ग्रही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति ।

भट्टभास्कर-टीका

तत आहिते संग्रहीता नारोहति राज्ञा सह ।

विश्वास-प्रस्तुतिः

सु॒व॒र्गादे॒वैनल्ँ॑ लो॒काद॒न्तर्द॑धाति ।

मूलम्

सु॒व॒र्गादे॒वैनल्ँ॑ लो॒काद॒न्तर्द॑धाति ।

भट्टभास्कर-टीका

तत एनं सारथिं स्वर्गात् अन्तदधाति यजमानेन समानलोकत्वं निवर्तयति । हंसश्शुचिषदित्यादिनाऽऽदधाति ।

विश्वास-प्रस्तुतिः

हँ॒सश्शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति ।

मूलम्

हँ॒सश्शु॑चि॒षदित्याद॑धाति । ब्रह्म॑णै॒वैन॑मुपाव॒हर॑ति । ब्रह्म॒णाऽऽद॑धाति ।

भट्टभास्कर-टीका

पूर्वं ब्रह्मणा ‘इन्द्रस्य वज्रोसि'38इत्यनेनोपावहरति रथं वाहनादवतारयति, इदानीमपि ‘हंसः'38इति ब्रह्मणाऽऽदधाति ॥

विश्वास-प्रस्तुतिः

अति॑च्छन्द॒साऽऽद॑धाति ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति ।

मूलम्

अति॑च्छन्द॒साऽऽद॑धाति ।
अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाँ॑सि ।
सर्वे॑भिरे॒वैन॒ञ्छन्दो॑भि॒राद॑धाति ।

मूलम्

वर्ष्म॒ वा ए॒षा छन्द॑साम् ।
यदति॑च्छन्दाः ।

विश्वास-प्रस्तुतिः

वर्ष्म॒ वा ए॒षा छन्द॑सा॒म् यदति॑च्छन्दाः ।

मूलम्

वर्ष्म॒ वा ए॒षा छन्द॑सा॒म् यदति॑च्छन्दाः ।

मूलम्

यदति॑च्छन्दसा॒ दधा॑ति ।
वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ॥ 58 ॥

विश्वास-प्रस्तुतिः

यदति॑च्छन्दसा॒ दधा॑ति॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ॥ 58 ॥

मूलम्

यदति॑च्छन्दसा॒ दधा॑ति॒ वर्ष्मै॒वैनँ॑ समा॒नाना॑ङ्करोति ॥ 58 ॥

भट्टभास्कर-टीका

12 अतिच्छन्दसेत्यादि ॥ ‘हंसः शुचिषत्'38इत्यनया । चतुर्थस्य पादस्य चतुर्दशाक्षरत्वात् अतीत्य वर्तते सर्वाणि छन्दासि । वर्ष्मवा इत्यादि सर्वच्छन्दसां तत्रान्तर्भावात् । गतमन्यत् ॥

इति सप्तमे नवमः ॥