विश्वास-प्रस्तुतिः
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति ।
मूलम्
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति ।
मूलम्
यैव सोमे॒ त्विषिः॑ । या शा॑र्दू॒ले । तामे॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
यैव सोमे॒ त्विषि॒र् या शा॑र्दू॒ले तामे॒वाव॑रुन्धे ।
मूलम्
यैव सोमे॒ त्विषि॒र् या शा॑र्दू॒ले तामे॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
1 सोमस्येत्यादि यजमानायतने शार्दूलचर्मोपस्तृणाति ॥ त्विषिः दीप्तिः ।
मूलम्
मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छा॑र्दू॒लः ।
विश्वास-प्रस्तुतिः
मृ॒त्योर्वा ए॒ष वर्णो॒ यच्छा॑र्दू॒लः ।
अ॒मृतँ॒ हिर॑ण्यम् ।
मूलम्
मृ॒त्योर्वा ए॒ष वर्णो॒ यच्छा॑र्दू॒लः ।
अ॒मृतँ॒ हिर॑ण्यम् ।
भट्टभास्कर-टीका
मृत्योरिति । अमृतमसीति । चर्मणोऽधस्ताद्रजतमुपास्यति । हिरण्यमिति रजतस्वर्णयोर्नाम ।
विश्वास-प्रस्तुतिः
अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा॑स्यति ।
मूलम्
अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒मुपा॑स्यति ।
भट्टभास्कर-टीका
उपास्यति अधस्तान्न्यस्यति ।
विश्वास-प्रस्तुतिः
अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते ।
मूलम्
अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्ध॑त्ते ।
भट्टभास्कर-टीका
स्वयं मृत्योरन्तर्हितं यजमानं करोति ।
मूलम्
श॒तमा॑नम्भवति ॥46॥
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः ।
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
विश्वास-प्रस्तुतिः
श॒तमा॑नम्भवति , श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
मूलम्
श॒तमा॑नम्भवति , श॒तायु॒ᳶ पुरु॑षश् श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
भट्टभास्कर-टीका
शतमानमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
“दि॒द्योन्मा॑ पा॒ही"त्यु॒परि॑ष्टा॒द् अधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति ।
मूलम्
“दि॒द्योन्मा॑ पा॒ही"त्यु॒परि॑ष्टा॒द् अधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति ।
भट्टभास्कर-टीका
उपरिष्टादिति । चर्मण उपरि सुवर्णं निदधाति ।
विश्वास-प्रस्तुतिः
अवे॑ष्टा दन्द॒शूका॒ इति॑ क्ली॒बँ सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बन् द॑न्द॒शूका॒ दँशु॑काः ।
मूलम्
अवे॑ष्टा दन्द॒शूका॒ इति॑ क्ली॒बँ सीसे॑न विध्यति । द॒न्द॒शूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बन् द॑न्द॒शूका॒ दँशु॑काः ।
भट्टभास्कर-टीका
दन्दशूकाः सर्पाः दंशुकाः । ‘न लोकाव्यय’इति षष्ठीप्रतिषेधः ।
विश्वास-प्रस्तुतिः
निर॑स्त॒न् नमु॑चे॒श् शिर॒ इति॑ लोहिताय॒सन् निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते ।
मूलम्
निर॑स्त॒न् नमु॑चे॒श् शिर॒ इति॑ लोहिताय॒सन् निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिन्नि॒रव॑दयते ।
भट्टभास्कर-टीका
लेहितायसं पादेन निरस्यति । ‘अनसन्तान्नपुंसकात्’इति टच् समासान्तः । नमुचेरिति । न मुञ्चतीति नमुचिः तादृशं पाप्मानं निरवदयते निर्वासयति ॥
विश्वास-प्रस्तुतिः
“प्रा॒णा आ॒त्मन॒ᳶ पूर्वे॑ऽभि॒षिच्या॒” इत्या॑हुः ॥ 47 ॥
मूलम्
“प्रा॒णा आ॒त्मन॒ᳶ पूर्वे॑ऽभि॒षिच्या॒” इत्या॑हुः ॥ 47 ॥
मूलम्
सोमो॒ राजा॒ वरु॑णः । दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒मित्या॑ह ।
विश्वास-प्रस्तुतिः
“सोमो॒ राजा॒ वरु॑णो दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒"मित्या॑ह । प्रा॒णाने॒वात्मन॒ᳶ पूर्वा॑न॒भिषि॑ञ्चति ।
मूलम्
“सोमो॒ राजा॒ वरु॑णो दै॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्ता॒न्ते ते॑ प्रा॒णँ सु॑वन्ता॒"मित्या॑ह । प्रा॒णाने॒वात्मन॒ᳶ पूर्वा॑न॒भिषि॑ञ्चति ।
भट्टभास्कर-टीका
2 प्राणा इत्यादि ॥ ‘सोमो राजा’ इति मन्त्रेण अभिषेकद्रव्यावेक्षणमेव प्राणानामभिषेकः ॥
मूलम्
यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या॑त् ।
विश्वास-प्रस्तुतिः
यद्ब्रू॒याद् अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॒ तेज॒स्व्ये॑व स्या॑त् । दु॒श्चर्मा॒ तु भ॑वेत् ।
मूलम्
यद्ब्रू॒याद् अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चा॒मीति॒ तेज॒स्व्ये॑व स्या॑त् । दु॒श्चर्मा॒ तु भ॑वेत् ।
विश्वास-प्रस्तुतिः
“सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मी"त्या॑ह ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥48॥
स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति ।
मूलम्
“सोम॑स्य त्वा द्यु॒म्नेना॒भिषि॑ञ्चा॒मी"त्या॑ह ।
सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥48॥
स्वयै॒वैन॑न्दे॒वत॑या॒ऽभिषि॑ञ्चति ।
भट्टभास्कर-टीका
3 यत् ब्रूयादित्यादि ॥ गतम् । सोमस्येत्यभिषेकमन्त्रः । ‘अग्नेस्त्वा तेजसा’इति शाखान्तरीयः पाठो निरस्यते । देवतासंबन्धेन सौम्यः पुरुषः ।
मूलम्
अ॒ग्नेस्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति ।
विश्वास-प्रस्तुतिः
“अ॒ग्नेस्तेज॒से"त्या॑ह॒ तेज॑ ए॒वास्मि॑न्दधाति ।
मूलम्
“अ॒ग्नेस्तेज॒से"त्या॑ह॒ तेज॑ ए॒वास्मि॑न्दधाति ।
मूलम्
सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति ।
विश्वास-प्रस्तुतिः
“सूर्य॑स्य॒ वर्च॒से"त्या॑ह॒ वर्च॑ ए॒वास्मि॑न्दधाति ।
मूलम्
“सूर्य॑स्य॒ वर्च॒से"त्या॑ह॒ वर्च॑ ए॒वास्मि॑न्दधाति ।
मूलम्
इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति ।
विश्वास-प्रस्तुतिः
“इन्द्र॑स्येन्द्रि॒येणेत्या॑हे"न्द्रि॒यमे॒वास्मि॑न् दधाति ।
मूलम्
“इन्द्र॑स्येन्द्रि॒येणेत्या॑हे"न्द्रि॒यमे॒वास्मि॑न् दधाति ।
मूलम्
मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥
विश्वास-प्रस्तुतिः
“मि॒त्रावरु॑णयोर्वी॒र्ये॑णे"त्या॑ह वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥
मूलम्
“मि॒त्रावरु॑णयोर्वी॒र्ये॑णे"त्या॑ह वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥
विश्वास-प्रस्तुतिः
अग्नेस्तेजसेत्यादि । गतम् ।
मूलम्
अग्नेस्तेजसेत्यादि । गतम् ।
मूलम्
क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒सीत्या॑ह । क्ष॒त्त्राणा॑मे॒वैन॑ङ्क्ष॒त्त्रप॑तिङ्करोति ।
विश्वास-प्रस्तुतिः
“क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒सी"त्या॑ह क्ष॒त्त्राणा॑मे॒वैन॑ङ्क्ष॒त्त्रप॑तिङ्करोति ।
मूलम्
“क्ष॒त्त्राणा॑ङ्क्ष॒त्त्रप॑तिर॒सी"त्या॑ह क्ष॒त्त्राणा॑मे॒वैन॑ङ्क्ष॒त्त्रप॑तिङ्करोति ।
भट्टभास्कर-टीका
क्षत्राणां सर्वेषां संबन्धी पतिः ।
विश्वास-प्रस्तुतिः
“अति॑ दि॒वस्पा॒ही"त्या॑ह । “अत्य॒न्यान् पा॒ही"ति॒ वावैतदा॑ह ।
मूलम्
“अति॑ दि॒वस्पा॒ही"त्या॑ह । “अत्य॒न्यान् पा॒ही"ति॒ वावैतदा॑ह ।
भट्टभास्कर-टीका
अत्यन्यानिति । अन्यान् सर्वान्राज्ञोऽतिक्रम्य पाहीत्येतदाहायं मन्त्रः ।
विश्वास-प्रस्तुतिः
“स॒माव॑वृत्रन्नध॒रागुदी॑ची॒"रित्या॑ह ।
मूलम्
“स॒माव॑वृत्रन्नध॒रागुदी॑ची॒"रित्या॑ह ।
भट्टभास्कर-टीका
समाववृत्रन्नित्यूर्ध्वां धारां समुन्मार्ष्टि समन्तादावर्ततामिति ।
विश्वास-प्रस्तुतिः
रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः ।
मूलम्
रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः ।
भट्टभास्कर-टीका
ध्रुवमिति । राष्ट्रमस्मिन् ध्रुवमनपायं करोति ॥
विश्वास-प्रस्तुतिः
उ॒च्छेष॑णेन जुहोति ।
उ॒च्छेष॑णभागो॒ वै रु॒द्रः ।
भा॒ग॒धेये॑नै॒व रु॒द्रन्नि॒रव॑दयते ॥ 50 ॥
उद॑ङ्प॒रेत्याग्नी॑द्ध्रे जुहोति ।
ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते ।
“रुद्र॒ यत्ते॒ क्रयी॒ पर॒न्नामे"त्या॑ह ।

4 उच्छेषणेनेति ॥ ‘रुद्र यत्ते'35इत्याग्नीध्रे अभिषेकशेषं जुहोति । हुतशेषभागो हि स्विष्टकृदादिरूपो रुद्रः ।
मूलम्
यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॑ ।
तेन॒ वा ए॒ष हि॑नस्ति ।
यँ हि॒नस्ति॑ ।
तेनै॒वैनँ॑ स॒ह श॑मयति ।
तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह ।
य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥
विश्वास-प्रस्तुतिः
यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॒ तेन॒ वा ए॒ष हि॑नस्ति ।
यँ हि॒नस्ति॒ तेनै॒वैनँ॑ स॒ह श॑मयति ।
मूलम्
यद्वा अ॑स्य॒ क्रयी॒ पर॒न्नाम॒ तेन॒ वा ए॒ष हि॑नस्ति ।
यँ हि॒नस्ति॒ तेनै॒वैनँ॑ स॒ह श॑मयति ।
भट्टभास्कर-टीका
यद्वा इत्यादि ॥ यदस्य क्रयी विश्वमात्मसात्कुर्वन् नाम उत्कृष्टं रुद्रादि तेन खलु केनचिन्नाम्ना इत्थंभूतो देव आगत्य हिंसितव्यं हिनस्ति तस्मात् तत्सहितमेवैनं शमयति । यत्तव परं नाम तस्मै हुतमिति दर्शनात् ।
विश्वास-प्रस्तुतिः
“तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सी"त्या॑ह ।
य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥
मूलम्
“तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सी"त्या॑ह ।
य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥
भट्टभास्कर-टीका
यमेष्टमिति वचनात् यमादेव ततोपि दूरात् तावत् योऽयं मृत्युप्रकारः तमवयजते नाशयति ॥
विश्वास-प्रस्तुतिः
प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् ।
मूलम्
प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् ।
भट्टभास्कर-टीका
5 प्रजापते नेत्यादि ॥ तस्या महिष्या गृहे औपासने जुहुयात् ।
मूलम्
याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति ।
विश्वास-प्रस्तुतिः
याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति ।
मूलम्
याङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति ।
मूलम्
प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्विषि॑न्दधाति ।
विश्वास-प्रस्तुतिः
प॒र्ण॒मये॑नाध्व॒र्युर॒भिषि॑ञ्चति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषि॑न् दधाति ।
औदु॑म्बरेण राज॒न्यः॑ +++(अभिषिञ्चति)+++। ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्य॑न्दधाति ।
आश्व॑त्थेन॒ वैश्यः॑ +++(अभिषिञ्चति)+++।। विश॑मे॒वास्मि॒न्पुष्टि॑न्दधाति ।

यामित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
नैय॑ग्रोधेन॒ जन्यः॑ +++(अभिषिञ्चति)+++।। मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥
मूलम्
नैय॑ग्रोधेन॒ जन्यः॑ +++(अभिषिञ्चति)+++।। मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥
भट्टभास्कर-टीका
जन्यः प्रतिराज इत्येके । मित्रजन इत्यन्ये ॥
इति सप्तमे अष्टमोऽनुवाकः ॥