०७ दिग्व्यवस्थापनम्

विश्वास-प्रस्तुतिः

दिशो॒ व्यास्था॑पयति ।
दि॒शाम॒भिजि॑त्त्यै ।
यद॑नु प्र॒क्रामे॑त् ।
अ॒भि दिशो॑ जयेत् ।
उत्तु मा॑द्येत् ।
मन॒साऽनु॒ प्रक्रा॑मति ।
अ॒भि दिशो॑ जयति ।
नोन्मा॑द्यति ।
स॒मिध॒मा ति॒ष्ठेत्या॑ह ।
तेज॑ ए॒वाव॑रुन्धे ॥41॥

मूलम्

दिशो॒ व्यास्था॑पयति ।
दि॒शाम॒भिजि॑त्त्यै ।
यद॑नु प्र॒क्रामे॑त् ।
अ॒भि दिशो॑ जयेत् ।
उत्तु मा॑द्येत् ।
मन॒साऽनु॒ प्रक्रा॑मति ।
अ॒भि दिशो॑ जयति ।
नोन्मा॑द्यति ।
स॒मिध॒मा ति॒ष्ठेत्या॑ह ।
तेज॑ ए॒वाव॑रुन्धे ॥41॥

भट्टभास्कर-टीका

(TS-SB-1.8.13) 1द्वादशेऽभिषेकार्थजलसंस्कारादिमन्त्रा उक्ताः, त्रयोदशे दिग्व्यास्थापनमन्त्रा उच्यन्ते ॥ कल्पः - अथैनं पञ्चभिर्दिशो व्यास्थापयति समिधमातिष्ठेति मनसा चानुप्रक्रामतीति । व्यास्थापयति विविधदिगभिमुखत्वेन विजयाय प्रस्थापयतीत्यर्थः । तत्र प्रथममन्त्रपाठस्तु - ‘समिधमातिष्ठ गामत्री त्वा छन्दसामवतु त्रिवृत्स्तोमो रथन्तरं सामाग्निर्देवता ब्रह्म द्रविणम्’ इति । समिध्यतेऽस्यामादित्य इति समित् प्राची दिक् तां दिशमातिष्ठ आक्रम्य तिष्ठ । तथा स्थितं त्वां छन्दसां मध्ये गायत्री रक्षतु । स्तोमानां मध्ये त्रिवृत्स्तोमो रक्षतु । साम्नां मध्ये रथन्तरं साम रक्षतु । देवानां मध्येऽग्नि देवो रक्षतु । ब्रह्म ब्राह्मणस्त्वदीयं द्रविणं धनं रक्षतु । त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे समाम्नातं - ‘तिसृभ्यो हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया तिसृभ्यो हिंकरोति स उतमयोद्यती त्रिवृतो विष्टुतिः’ इति ।
अयमर्थः - ‘उपास्मै गायत’ इत्यादीनि तृचात्मकानि त्रीणि सूक्तानि सन्ति, तेषु तिसृभ्यः ऋग्भ्यः हिङ्करोति गायेत् । काभिस्तिसृभिः - प्रथमया त्रिष्वपि सूक्तेषु या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिः गीतं भवति सोऽयं प्रथमः पर्पायः । द्वितीये सूक्तत्रयगतया मध्यमया गायेत् । तृतीये पर्याये सूक्तत्रयगतयोत्तमया गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसम्बन्धिनी विशिष्टा स्तुतिः सम्पद्यते । सेयं स्तुतिरुद्यतीनाम्नाऽभिधीयीत इति । ‘अभि त्वा शूर नो नुमः’ इत्यस्यामृच्युत्पन्नं साम रथन्तरम् ।

मूलम्‌

“उ॒ग्रामा ति॒ष्ठे"त्या॑ह ।
इ॒न्द्रि॒यमे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

उ॒ग्रामा ति॒ष्ठेत्या॑हेन्द्रि॒यमे॒वाव॑रुन्धे ।

मूलम्

उ॒ग्रामा ति॒ष्ठेत्या॑हेन्द्रि॒यमे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

द्वितीयमन्त्रपाठस्तु - ‘उग्रामा तिष्ठ त्रिष्टुप् त्वा छन्दसामवतु पञ्चदशस्स्तोमो बृहत्सामेन्द्रो देवता क्षत्रं द्रविणम्'19 इति । पूर्वन्यायेन योजनीयम् । पापिनां शिक्षकेण यमेनाऽधिष्ठितत्वात दक्षिणा दिगुग्रा ।
पञ्चदशस्स्तोम एवमाम्नातः - ‘पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया ॥ पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः । पञ्चपञ्चिनी पञ्चदशस्य विष्टुतिः’ इति । पूर्वोक्तत्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः अन्ये तु स्तोमाः एकैकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः - प्रथमपर्याय आवृत्तिः पञ्चभि ऋग्भिर्गायेत तद्यथा - प्रथमामृच त्रिर्गायेत् इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये मध्यमां त्रिर्गायेत् । तृतीयपर्याय उत्तमां त्रिर्गायेत् । सेयं पञ्चदशस्तोमस्य सम्बन्धिनी विष्टुतिरिति । तस्याः पञ्चपञ्चिनीति नाम । ‘त्वामिद्धि हवामहे’ इत्येतस्यामृच्युत्पन्नं साम बृहत् ।

विश्वास-प्रस्तुतिः

“वि॒राज॒माति॒ष्ठे"त्या॑ह ।
अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।

मूलम्

“वि॒राज॒माति॒ष्ठे"त्या॑ह ।
अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

तृतीयमन्त्रपाठस्तु ‘विराजमातिष्ठ जगती त्वा छन्दसामवतु सप्तदशस्स्तोमो वैरूपं साम मरुतो देवता विड्द्रविणम्’ इति । जलाधिपेन वरुणेन पालिता सती सम्यक्फलितैः सस्यैर्विशेषेण राजत इति विराट् प्रतीची दिक् । सप्तदशस्तोम एववमाम्नातः - ‘पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया । पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया । सप्तभ्यो हिङ्करोति स एकया स तिसृतिः ग तिसृभिरिति दशसप्ता सप्तदशस्य विष्टुतिः’ इति । प्रथमपर्याये प्रथमामृचं त्रिर्गायेत्, द्वितीयपर्याये मध्यमां त्रिर्गायेत्, तृतीयपर्याये मध्यमानुतमां च त्रिर्गायेत्, सेयं सप्तदशस्तोमसम्बन्धिनी विष्टुतिर्दशसप्तेत्यभिधीयते । ‘यद्यावइन्द्र’ इत्यस्यामृच्युत्पन्नं साम वैरूपम् ।

विश्वास-प्रस्तुतिः

उदी॑ची॒मा ति॒ष्ठे"त्या॑ह ।
प॒शूने॒वाव॑रुन्धे ।

मूलम्

उदी॑ची॒मा ति॒ष्ठे"त्या॑ह ।
प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

चतुर्थमन्त्रपाठस्तु - ‘उदीचीमा तिष्ठानष्टुप् त्वा छन्दसामवत्वेकविंशस्स्तोमो वैराजं साम मित्रावरुणौ देवता बलं द्रविणम्’ इति । एकविंशस्तोम एवमाम्नातः - ‘सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिस्स एकया । सप्तभ्यो हिङ्करोति स एकया स तिसृभिस्स तिसृभिः । सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया स तिसृभिस्सप्तसप्तिन्येकविंशस्य विष्टुतिः’ इति । प्रथमपर्याये उत्तमां सकृद्गायेत् द्वितीयपर्याये प्रथमां तृतीयपर्याये मध्यमां सकृद्गायेत् सेयमेकविंशस्तोमसम्बन्धिनी विष्टुतिरिति सप्तसप्तिनीत्यभिधीयत इत्यर्थः । ‘पिबा सोममिन्द्र मन्दतु त्वा'24 इत्यस्यामृच्युत्पन्नं साम वैराजम् ।

विश्वास-प्रस्तुतिः

ऊ॒र्ध्वामाति॒ष्ठे"त्या॑ह ।
सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति ।

मूलम्

ऊ॒र्ध्वामाति॒ष्ठे"त्या॑ह ।
सु॒व॒र्गमे॒व लो॒कम॒भिज॑यति ।

भट्टभास्कर-टीका

पञ्चममन्त्रपाठस्तु - ऊर्ध्वामा तिष्ठ पङ्क्तिस्त्वा छन्दसामवतु त्रिणवत्रयस्त्रिंशौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर्देवता वर्चो द्रविणम्'25 इति । त्रिणवस्तोम एवमाम्नातः - ‘नवभ्यो हिङ्करोति स तिसृभिस्स पञ्चभिस्स एकया । नवभ्यो हिङ्करोति स एकया स तिसृभिस्स पञ्चभिः । नवभ्यो हिङ्करोति स पञ्चभिस्स एकया स तिसृभिः वज्रो वै त्रिणवः’ इति । प्रथमपर्याये प्रथमां त्रिर्गायेत् । मध्यमां पञ्चकृत्वो गायेत । उत्तमां सकृद्गयेत् । द्वितीयपर्याये प्रथमां सकृद्गायेत् मध्यमां त्रिर्गायेत् उत्तमां पञ्चकृत्वो गायेत् । तृतीयपर्याये प्रथमां पञ्चकृत्वो गायेत् मध्यमां सकृद्गायेत् उत्तमां त्रिर्गायेत् । सोयं त्रिरावृत्तनवसङ्ख्योपेतत्वात्त्रिणवनामको वज्रसमानः ।
त्रयस्त्रिंशस्तोम एवमाम्नातः - ‘एकादशभ्यो हिङ्करोति स तिसृभिस्स सप्तभिस्स एकया, एकादशभ्यो हिङ्करोति स एकया स तिसृभिस्स सप्तभिः, एकादशभ्यो हिङ्करोति स सप्तभिस्स एकया स तिसृभिरन्तो वै त्रयस्त्रिंशः’ इति । प्रथमपर्याये प्रथमां त्रिर्गायेत् मध्यमां सप्तकृत्वः, उत्तमां सकृत् । द्वितीयपर्याये प्रथमां सकृत् द्वितीयां त्रिस्तृतीयां सप्तकृत्वः । तृतीयपर्याये प्रथमं सप्तकृत्वः द्वितीयां सकृत् ततीयां त्रिरिति सोऽयं त्रयस्त्रिंशः स्तोमनामन्तः ।
यत्तुवाजपेय उज्जित्यनुवाके त्रयोदशस्तोमश्चतृर्दशस्तोम इत्यादिकमाम्नातं, तत्सर्वमुन्नेयस्तोमाभिप्रायेणेति द्रष्टव्यम् । उन्नयनप्रकारस्तु - सामसूत्रे द्रष्टव्यः ।
‘प्रोष्वस्मै पुरोरथम्’ इत्यस्यामृच्युत्पन्नं साम शाक्वरं, ‘रेवतीर्नस्सधमादः'25 इत्यस्यामृच्युत्पन्नं साम रैवतम् । त्रिषु मन्त्रेषु - ब्राह्मणक्षत्रियवैश्या द्रव्यरक्षका उक्ताः । चतुर्थे शारीरबलस्य तद्रक्षकत्वम् । पञ्चमे वर्चसः प्रख्यातशूरनामकृतस्य तेजसो धनरक्षकत्वम् । विधत्ते - दिशो व्यास्थापयतीति ॥ यजमानं दिक्षु प्रस्थापितवतोऽध्वर्योर्मानसमनुक्रमणं विधातुं प्रस्तौति - यदनु प्रक्रामेदिति । यद्यध्वर्युर्यजमानमनु पादेन प्रक्रामेत् दिशामभिजयो भवेत्, किन्तु उन्माद्येत् बुद्धिभ्रमं प्राप्नुयात् - विधत्ते - मनसाऽनु प्रक्रामतीति । प्रक्रमणस्य कृतत्वात् दिग्विजयः, पादेन तदकरणात् उन्मादाभावः ॥

मन्त्रः

+++(अत्र मूलं नोपलब्धम्)+++

भट्टभास्कर-टीका

2समिदादीनि दिशां नामानि प्रशंसति - समिधमातिष्ठेत्याहेति ॥ समिच्छब्दस्य दीप्तिप्रतिपादकतया तेजःप्राप्तिः । उग्रशब्द इन्द्रियबलोपेतत्वमाचष्ट इतीन्द्रियप्राप्तिः । ‘अन्नं वै विराट्’ इति श्रुत्यनुसारेणान्नप्रातिः । ‘यर्हि पशुमाप्रीतमुदञ्चं नयन्ति’ इति पशोरुत्तरदिक्सम्बन्धश्रवणात्पशुप्राप्तिः । स्वर्गलोकस्योर्ध्वभावित्वादभिजयः ।

विश्वास-प्रस्तुतिः

अनूज्जि॑हीते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥

मूलम्

अनूज्जि॑हीते ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥

भट्टभास्कर-टीका

विहितं मानसमनुक्रमणं प्रशंसति - अनूज्जिहीत इति ॥

विश्वास-प्रस्तुतिः

मा॒रु॒त ए॒ष भ॑वति ।
अन्नव्ँ॒ वै म॒रुतः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।

मूलम्

मा॒रु॒त ए॒ष भ॑वति ।
अन्नव्ँ॒ वै म॒रुतः॑ ।
अन्न॑मे॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

3कल्पः - मारुतमेकविंशतिकपालं निर्वपति वैश्वदेवीमामिक्षां तस्यारण्येऽनुवाक्यतृतीयैर्गणैः कपालान्युपदधाति ईदृङ्चान्यादृङ्चेत्येताभ्यां मध्येऽरण्येऽनुवाक्येनेति । पाठस्तु - ‘ईदृङ्चान्यादृङ्चैतादृङ्च प्रतिदृङ्च मितश्च सम्मितश्च सभराः । शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च सत्यश्चर्तपाश्चात्यहाः’ इति । ईदृङित्यादीनि मरुद्विशेषाणां नामधेयानि । तद्रूपेण भावितत्वात् कपालानामपि तन्नाम । हे प्रथमकपाल! त्वमीदृङ्चासि एतन्नामकमेवासि । एवमन्यत्रापि योज्यम् । विधत्ते - मारुत एष भवतीति ॥ एष पुरोडाश इत्यर्थः ।

विश्वास-प्रस्तुतिः

एक॑विँशतिकपालो भवति॒ प्रति॑ष्ठित्यै ।

मूलम्

एक॑विँशतिकपालो भवति॒ प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

तस्मिन् गुणं विधत्ते - एकविंशतीति । ‘एकविंशस्स्तोमानां प्रतिष्ठा’ इत्युक्तत्वात् प्रतिष्ठाहेतुत्वम् ।

मूलम्

यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णः ।
तम्म॑ध्य॒त उप॑दधाति ।

विश्वास-प्रस्तुतिः

यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णस् तम् म॑ध्य॒त उप॑दधाति ।

मूलम्

यो॑ऽरण्येऽनुवा॒क्यो॑ ग॒णस् तम् म॑ध्य॒त उप॑दधाति ।

भट्टभास्कर-टीका

कपालोपधानमन्त्राणां शेषं पूरयितुं विधत्ते - योऽरण्य इति । अत्राम्नातः ईदृङ्चेत्यादिः सप्तसङ्ख्यायुक्त एको गणः । शुक्रज्योतिश्चेत्यादि सप्तसङ्ख्यायुक्तोऽपरो गणः । तयोर्गणयोर्मध्ये गणान्तरं प्रक्षेपणीयम् । अरण्ये गत्वाऽध्येतव्यो योऽनुवाकः तस्मिन्ननुवाके स गण आम्नातः । तथा हि - ‘धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयंश्च । निलिम्पश्च विलिम्पश्च विक्षिपः’ इति ।

विश्वास-प्रस्तुतिः

ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति ।
तस्मा॑द्ग्रा॒म्यैᳶ प॒शुभि॑रार॒ण्याᳶ प॒शव॒ᳶ परि॑गृहीताः ।

मूलम्

ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑ गृह्णाति ।
तस्मा॑द्ग्रा॒म्यैᳶ प॒शुभि॑रार॒ण्याᳶ प॒शव॒ᳶ परि॑गृहीताः ।

भट्टभास्कर-टीका

एतस्य गणस्य मध्यत उपधाने सत्युभयतोपस्थितैर्ग्राम्यैः पशुभिः परितोऽवबध्यारण्यान् पशून् गृह्णाति यस्मादत्रारण्यगणो मध्ये प्रक्षिप्तः तस्माल्लोकेऽप्यरण्यवासिनो हरिणादय आनीयमानाः पलायनं वारयितुं ग्रामे परिचयवद्भिर्हरिणादिभिरुभयत एकपाशेन बध्वा परिगृहीता भवन्ति ॥

4कल्पः - अग्नये स्वाहेति षट्पार्थानि पुरस्तादभिषेकस्य जुहोतीति इन्द्राय स्वाहेति षट्पार्थान्युपरिष्टादभिषेकस्य जुहोतीति च, पृथिव्यै स्वाहेति षड्भूतानामवेष्टीरिति च, अद्भ्यस्स्वाहेति षड्भूतानामवेष्टीरिति च । एतस्मिन्नवेष्टिविनियोगेऽप्यभिषेकात्पूर्वं षट्कमेकं तत ऊर्ध्वमपरं षट्कमिति द्रष्टव्यम् ।
पाठस्तु - ‘अग्रये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहांशाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा पृथिव्यै स्वाहाऽन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यस्स्वाहाऽद्भ्यस्स्वाहौषधीभ्यस्स्वाहा वनस्पतिभ्यस्स्वाहा चराचरेभ्यस्स्वाहा परिप्लवेभ्यस्स्वाहा सरीसृपेभ्यस्स्वाहा’ इति । अत्र चतुर्थ्यन्तैरुक्तास्सर्वे देवताविशेषा द्रष्टव्याः ।

विश्वास-प्रस्तुतिः

पृथि॑र्वै॒न्यः ।
अ॒भ्य॑षिच्यत ॥ 43 ॥ स रा॒ष्ट्रन्नाभ॑वत् ।

मूलम्

पृथि॑र्वै॒न्यः ।
अ॒भ्य॑षिच्यत ॥ 43 ॥ स रा॒ष्ट्रन्नाभ॑वत् ।

भट्टभास्कर-टीका

अत्र पार्थानि विधातुं प्रस्तौति - पृथिर्वैन्य इति ॥ वेनस्य पत्र पृथिनामा कश्चिद्राजा राजसूये पार्थहोमं विनैवाभ्यषिञ्चत, ततस्स राज्यं न प्राप्नोत् ।

विश्वास-प्रस्तुतिः

स ए॒तानि॑ पा॒र्थान्य॑पश्यत् ।
तान्य॑जुहोत् ।

मूलम्

स ए॒तानि॑ पा॒र्थान्य॑पश्यत् ।
तान्य॑जुहोत् ।

भट्टभास्कर-टीका

अतः राष्ट्रप्राप्तये पार्थसंज्ञकानि ‘अग्नये स्वाहा'32 इत्यादीनि मन्त्रवाक्यानि अपश्यत् ।

विश्वास-प्रस्तुतिः

तैर्वै स रा॒ष्ट्रम॑भवत् ।

मूलम्

तैर्वै स रा॒ष्ट्रम॑भवत् ।

भट्टभास्कर-टीका

तैर्हुत्वा राष्ट्रं प्राप्नोत् ।

विश्वास-प्रस्तुतिः

यत्पा॒र्थानि॑ जु॒होति॑ ।
रा॒ष्ट्रमे॒व भ॑वति ।

मूलम्

यत्पा॒र्थानि॑ जु॒होति॑ ।
रा॒ष्ट्रमे॒व भ॑वति ।

भट्टभास्कर-टीका

विधत्ते - यत्पार्थानीति । भवत्येव प्राप्नोत्येव ।

विश्वास-प्रस्तुतिः

बा॒र्ह॒स्प॒त्यम्पूर्वे॑षामुत्त॒मम्भ॑वति ।
ऐ॒न्द्रमुत्त॑रेषाम्प्रथ॒मम् ।
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति ।

मूलम्

बा॒र्ह॒स्प॒त्यम्पूर्वे॑षामुत्त॒मम्भ॑वति ।
ऐ॒न्द्रमुत्त॑रेषाम्प्रथ॒मम् ।
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्त्रञ्च॑ स॒मीची॑ दधाति ।

भट्टभास्कर-टीका

षष्ठसप्तममन्त्रौ प्रशंसति - बार्हस्पत्यमिति । ‘बृहस्पतये स्वाहा'32 इत्येतन्मन्त्रवाक्यं पूर्वेषां षण्णां प्रथमं, तथा सति बृहस्पतेरिन्द्रस्य च ब्राह्मणक्षत्रियाभिमानिदेवत्वादस्मै यजमानाय तज्जातिद्वयं समीची दधाति परस्परस्नेहयुक्तं करोतीत्यर्थः ।

विश्वास-प्रस्तुतिः

अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम्प्रति॑ष्ठापयति ॥44॥

मूलम्

अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्त्रम्प्रति॑ष्ठापयति ॥44॥

भट्टभास्कर-टीका

किञ्च - तयोर्मन्त्रयोः पर्वोत्तरभावेन ब्राह्मणे क्षत्रियं प्रतिष्ठापयति ब्राह्मणानुकूलं करोतीत्यर्थः ॥

विश्वास-प्रस्तुतिः

षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति ।
षडु॒परि॑ष्टात् ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रᳵ खलु॒ वै दै॒वाना॒म्पूः ।
दे॒वाना॑मे॒व पुर॑म्मध्य॒तो व्यव॑सर्पति ।
तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।

मूलम्

षट्पु॒रस्ता॑दभिषे॒कस्य॑ जुहोति ।
षडु॒परि॑ष्टात् ।
द्वाद॑श॒ सम्प॑द्यन्ते ।
द्वाद॑श॒ मासा॑स्सव्ँवत्स॒रः । सव्ँ॒व॒त्स॒रᳵ खलु॒ वै दै॒वाना॒म्पूः ।
दे॒वाना॑मे॒व पुर॑म्मध्य॒तो व्यव॑सर्पति ।
तस्य॒ न कुत॑श्च॒नोपा॑व्या॒धो भ॑वति ।

भट्टभास्कर-टीका

5विधत्ते - षट्पुरस्तादिति ॥ वसन्ते देवैस्सोमस्य पीयमानत्वात् भोगस्थानत्वेन संवत्सरो देवानां पुरमिव भवति यथा पुरे पण्यवीधी व्यवस्थिताभ्यामुभयतो वाटिकाभ्यां युक्ता भवति तस्यां गच्छन् पुरुषः चोरैरविद्धो भवति तद्वत्पार्थयोः षट्कयोर्मध्ये अभिषेकाय यजमानो देवपुरमध्ये प्रविशति । तस्य कुतोऽप्यन्यस्माद्बाधो न भवति ॥

विश्वास-प्रस्तुतिः

भू॒ताना॒मवे॑ष्टीर्जुहोति ।
अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते ।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते ।
तत॑ ए॒वैन॒मव॑यजते ।

मूलम्

भू॒ताना॒मवे॑ष्टीर्जुहोति ।
अत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते ।
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते ।
तत॑ ए॒वैन॒मव॑यजते ।

भट्टभास्कर-टीका

6विधत्ते - भूतानामिति ॥ भूतानां यक्षराक्षसपिशाचादीनां मृत्युहेतूनां अवयजनस्य विनाशस्य हेतव आहुतयः ‘पृथिव्यै स्वाहा'32 इत्यादिद्वादशमन्त्रसाध्या आहुतयः भूतानामवेष्टयः ताः जुहुयात् अत्रात्र सन्ध्याकाले मध्यरात्रे निर्जनदेशे उच्छिष्टदेशे बाल्याद्यवस्थायां च भूतोपद्रवरूपो मूत्युरुत्पद्यते, अनेन तु होमेन तत एव देशात् कालात् अवस्थाविशेषाच्चैनं मृत्युमवयजते नाशयति, यस्मात् मृत्युर्नाशितः तस्माद्राजसूयेनेष्टवतो यजमानस्यापमृत्युपरिहारेण कृत्स्नायुःप्राप्तिर्भवति । यस्माद्वैरिभिरापादितो भूताद्युपद्रवो राजसूययाजिनं न प्राप्नोति ।

विश्वास-प्रस्तुतिः

तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै ।
प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥

मूलम्

तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै ।
प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥

भट्टभास्कर-टीका

तस्मादयं नाभिचरितवै नाभिचरणीयः स च परैः कृतोऽभिचारः प्रत्यक् कर्तुरेवाभिमुखो भूत्वा तमेनमभिचारकर्तारं स्तृणुते हिनस्ति ॥

इति सायणीये वेदार्थप्रकाशे तैत्तिरीयसंहिताभाष्येऽष्टमप्रपाठके त्रयोदशोऽनुवाकः ॥

विश्वास-प्रस्तुतिः

तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै ।
प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥ ?????

मूलम्

तस्मा॑द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै ।
प्र॒त्यगे॑नमभिचा॒रस्स्तृ॑णुते ॥ 45 ॥ ?????

भट्टभास्कर-टीका

+++(भट्टभास्करभाष्यम्)+++ तस्माद्यत्रयत्र मृत्युर्जायते ततस्संवत्सरादेनमवयजते नाशयति । भूतानां पृथिव्यादीनां मृत्युरूपस्यावयजनत्वात् भूतानामवेष्टय इति । तस्मादित्यादि ॥ गतम् । नाभिचरितवै नाभिचरितव्यो राजसूयेनेष्टवान् । अभिचरणं मारणम् । अथ यद्यभिचरेत् एनमभिचरितारमेव अभिचारः प्रत्यक् स्तृणुते प्रत्यगावृत्य हिनस्ति अभिचरितुरयजनत्वात् अभिचारस्य लक्ष्याकांक्षायां राजसूयायाज्येवाभिचरिता हिंस्यो भवति ॥

इति सप्तमे सप्तमोऽनुवाकः ॥