०६ अभिषेकार्थजलसंस्कारः

विश्वास-प्रस्तुतिः

“देवी॑राप॒स्सम्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒"मित्या॑ह । ब्रह्म॑णै॒वैना॒स्सँ सृ॑जति ।

मूलम्

“देवी॑राप॒स्सम्मधु॑मती॒र्मधु॑मतीभिस्सृज्यध्व॒"मित्या॑ह । ब्रह्म॑णै॒वैना॒स्सँ सृ॑जति ।

सायण-टीका

1देवीराप इत्यादि ॥ एवं गृहीतानपांग्रहान्वैतसे द्रोणकलशे अनेन समवनयति । ब्रह्मणा परिबृढेन परेण एना अपस्संसृजति मधुमत्त्वलिङ्गात् ।

विश्वास-प्रस्तुतिः

“अना॑धृष्टास्सीद॒ते"त्या॑ह । ब्रह्म॑णै॒वैना॑स्सादयति ।

मूलम्

“अना॑धृष्टास्सीद॒ते"त्या॑ह । ब्रह्म॑णै॒वैना॑स्सादयति ।

सायण-टीका

अनाधृष्टाः इति होतृब्राह्मणाच्छंसिनोः धिष्ण्यावन्तरेण सादयति ।

विश्वास-प्रस्तुतिः

अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यम्ब्राह्मणाच्छँ॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ । ऐ॒न्द्रो ब्रा॑ह्मणाच्छँ॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति ।

मूलम्

अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यम्ब्राह्मणाच्छँ॒सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ । ऐ॒न्द्रो ब्रा॑ह्मणाच्छँ॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रम्परि॑गृह्णाति ।

सायण-टीका

ब्रह्मणैव साक्षादेनाः सादयति अनाधृष्टत्वलिङ्गात् । सादयतीत्युक्तं, क्वेत्याह - अन्तरेति । गतम् ॥

विश्वास-प्रस्तुतिः

हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा॑भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥33॥

मूलम्

हिर॑ण्ये॒नोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा॑भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥33॥

सायण-टीका

2हिरण्येनेति ॥ ननु पवित्राभ्यां सर्वत्रोत्पवनं क्रियते, तत्राह - आहुत्यर्थं यत्तदेव पवित्राभ्यामुत्पुनन्ति, तस्मादनाहुत्यर्थत्वादिदं हिरण्येनोत्पूयते व्यावृत्त्यै विभागाख्यापनाय ।

विश्वास-प्रस्तुतिः

श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।

मूलम्

श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।

सायण-टीका

शतमानमित्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

“अनि॑भृष्टम॒सी"त्या॑ह । अनि॑भृष्टँ॒ ह्ये॑तत् ।

“वा॒चो बन्धु॒"रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ ।

मूलम्

“अनि॑भृष्टम॒सी"त्या॑ह । अनि॑भृष्टँ॒ ह्ये॑तत् ।

“वा॒चो बन्धु॒"रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ ।

सायण-टीका

3अनिभृष्टमसीति ॥ शतमानं हिरण्यं प्रगृह्णाति । अनिभृष्टं खल्वेतद्धिरण्यं दाहयन्ति चैतन्न नश्यति तादृशं हिरण्यं, वाचो बन्धनं हिरण्यं, हिरण्यवतो हि वाक् श्रोत्रेषु बद्ध्यते, अन्येषां तु न श्रूयते । यद्वा - हिरण्यवतां वाक्प्रतितिष्ठति ।

विश्वास-प्रस्तुतिः

“त॒पो॒जा” इत्या॑ह । त॒पो॒जा ह्ये॑तत् ।

मूलम्

“त॒पो॒जा” इत्या॑ह । त॒पो॒जा ह्ये॑तत् ।

सायण-टीका

तपसोऽग्नेर्जातं हिरण्यम् ।

विश्वास-प्रस्तुतिः

“सोम॑स्य दा॒त्रम॒सी"त्या॑ह ॥34॥
सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् ।

मूलम्

“सोम॑स्य दा॒त्रम॒सी"त्या॑ह ॥34॥
सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् ।

सायण-टीका

सोमस्येति तद्वैतसेऽवदधाति । सोमस्य खल्वेतद्धिरण्यं दात्रं मूल्यत्वेन देयं ‘हिरण्येन क्रीणाति’ इति ॥

विश्वास-प्रस्तुतिः

“शु॒क्रा व॑श्शु॒क्रेणोत्पु॑ना॒मी"त्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रँ हिर॑ण्यम् ।

“च॒न्द्राश्च॒न्द्रेणे"त्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रँ हिर॑ण्यम् ।

“अ॒मृता॑ अ॒मृते॒नेत"्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृतँ॒ हिर॑ण्यम् ॥35 ॥

“स्वाहा॑ राज॒सूया॒ये"त्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ ।

4शुक्रा व इत्यादिभिरुत्पुनाति, शुक्राः निर्मलाः चन्द्राः आह्लादिन्यः अमृता अमृतत्वहेतवः राजसूयाय राज्ञे ऐश्वर्याभिषेकाय तस्माद्राजसूयायेत्युच्यते । राजा सूयते अभिषेकेण ईश्वरोऽनुज्ञायते अस्मिन्निति राजसूयः । ‘राजसूयसूर्य’ इति निपात्यते ॥

विश्वास-प्रस्तुतिः

स॒ध॒मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।

मूलम्

स॒ध॒मादो॑ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।

सायण-टीका

5सधमाद इति त्रिष्टुभा पालाशादिषु गात्रेषु गृह्णाति । वरुणसवः वरुणैश्वर्यम् ।

विश्वास-प्रस्तुतिः

एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।

मूलम्

एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑न्दधाति ।

सायण-टीका

एकयेत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ ।

मूलम्

क्ष॒त्त्रस्योल्ब॑मसि क्ष॒त्त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यञ्चो॒ष्णीष॑ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ ।

सायण-टीका

6क्षत्रस्येति ॥ तार्प्यमुष्णीषं च यजमानं परिधापयति । सयोनित्वाय क्षत्रस्य योनिमत्त्वं कारणवत्त्वं यथा स्यादिति । घृताक्तं वासः तार्प्यं, त्रपनाम्नो वृक्षस्य वृकारस्त्वगित्येके । उष्णीषः पाण्डुरं वासः ॥

विश्वास-प्रस्तुतिः

एक॑शतेन दर्भपुञ्जी॒लैᳶ प॑वयति । श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।

मूलम्

एक॑शतेन दर्भपुञ्जी॒लैᳶ प॑वयति । श॒तायु॒र्वै पुरु॑षश्श॒तवी॑र्यः ।

सायण-टीका

7एकशतेनेत्यादि ॥ एकं च शतं च एकशतम् । ‘सङ्ख्या’ इति पूर्वपदप्रकृतिस्वरत्वम् । गतमन्यत् ।

विश्वास-प्रस्तुतिः

आ॒त्मैक॑श॒तः ॥36॥
यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति ।

मूलम्

आ॒त्मैक॑श॒तः ॥36॥
यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति ।

सायण-टीका

एकशत इति । एकस्य शतस्य पूरण इति डट्,‘षष्ठ्यादेः’ इति पर्युदासात् मडभावः ॥

विश्वास-प्रस्तुतिः

दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे ।

उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।

मूलम्

दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे ।

उ॒दु॒म्बर॑माशयति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।

सायण-टीका

8दधीत्यादि ॥ उदुम्बरफलमूलमुदुम्बरम् । शष्पाणि यवाङ्कुरान् खादयति ।

विश्वास-प्रस्तुतिः

शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैन॑ङ्करोति ।

मूलम्

शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैन॑ङ्करोति ।

सायण-टीका

सुराबलिमिति । सुराबलिरुपहारोऽस्येति । यद्वा - सुरया कुतं बलमस्येति तादृशमेनं यजमानं करोति । वर्णविकारश्छान्दसः । ‘आविन्नो अग्निः’ इत्याद्या आविदो यजमानं वाचयन् बर्हिरुदानयति गृहपतित्वादिलाभहेतवोऽग्न्यादयो देवता आभवन्ति । एते वा मन्त्राः ।

विश्वास-प्रस्तुतिः

आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति ॥ 37॥

मूलम्

आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑ङ्गमयन्ति ॥ 37॥

सायण-टीका

ता एता एनं यजमानं आविदं आभिमुख्येन वेत्तव्यं लब्धव्य गृहपतित्वादिकं गमयन्ति ।

विश्वास-प्रस्तुतिः

अ॒ग्निरे॒वैन॒ङ्गार्ह॑पत्येनावति ।

इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् ।

मूलम्

अ॒ग्निरे॒वैन॒ङ्गार्ह॑पत्येनावति ।

इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् ।

सायण-टीका

एकैकश्येनाप्याह - अग्निरेवेत्यादि । गतम् ॥

विश्वास-प्रस्तुतिः

इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् ।

मूलम्

इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् ।

सायण-टीका

9इन्द्रो वृत्रायेत्यादि ॥ उद्धृतस्स वज्ज्रो दिवमलिखत् अपाटयन् योऽर्यकाय अवकाशं न विदधे दैत्यः ।

विश्वास-प्रस्तुतिः

सो॑ऽर्य॒म्णᳶ पन्था॑ अभवत् । स “आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒” इति॒ द्यावा॑पृथि॒वी उपा॑धावत् ।

मूलम्

सो॑ऽर्य॒म्णᳶ पन्था॑ अभवत् । स “आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒” इति॒ द्यावा॑पृथि॒वी उपा॑धावत् ।

सायण-टीका

सा द्यौरन्तरिक्षं अर्यम्णः पन्था अभवत् ।

विश्वास-प्रस्तुतिः

स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑रत् ।

मूलम्

स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒म्प्राह॑रत् ।

मूलम्

आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥38॥
आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒म्भ्रातृ॑व्याय॒ प्रह॑रति ।

विश्वास-प्रस्तुतिः

“आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒” इति॒ यदाहा॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒म्भ्रातृ॑व्याय॒ प्रह॑रति ।

मूलम्

“आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒” इति॒ यदाहा॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒म्भ्रातृ॑व्याय॒ प्रह॑रति ।

सायण-टीका

अथेन्द्रो वर्ज्रेणैव द्यावापृथिव्यादिषु जायते।
एवं यजमानोपि अनेन मन्त्रेण वैरिणे वज्रं प्रहरति ॥

  • (अत्र - आभ्यामेव प्रसूतो यजमानो वज्रं भ्रातृव्याय प्रहरति’ इति वाक्यमारभ्य सप्तमानुवाकं ‘भूतानामवेष्टीर्जुहोति’ इति वाक्यपर्यन्तस्य भागस्य भट्टभास्करीयं भाष्यं सर्वत्रादर्शतपुस्तकेषु नोपलब्धमिति तस्य भागस्य सायणीयमेव भाष्यं संहिताप्रथमकाण्डेऽष्टमप्रश्ने द्वादशत्रयोदशानुवाकगतं प्रकाश्यते ॥)
विश्वास-प्रस्तुतिः

“आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पी"त्या॑ह । इ॒यव्ँ वै दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति ।

मूलम्

“आवि॑न्ना दे॒व्यदि॑तिर्विश्वरू॒पी"त्या॑ह । इ॒यव्ँ वै दे॒व्यदि॑तिर्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति ।

सायण-टीका

(TS-SB-1.8.12) 10षष्ठमन्त्रं प्रशंसति - आविन्नेति ॥ भूमिरेव कांचिन्मूर्तिं धृत्वा देवमाता अदितिरित्युच्यते ।

विश्वास-प्रस्तुतिः

“आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्याव्ँ वि॒श्य॑स्मिन्रा॒ष्ट्र” इत्या॑ह । वि॒शैवैनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति ।

मूलम्

“आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो॑ऽस्याव्ँ वि॒श्य॑स्मिन्रा॒ष्ट्र” इत्या॑ह । वि॒शैवैनँ॑ रा॒ष्ट्रेण॒ सम॑र्धयति ।

सायण-टीका

सप्तममन्त्रस्य पूर्वभागं प्रशंसति - आविन्नोऽयमिति । विशा करप्रदायिन्या प्रजया राष्ट्रेण सर्वसस्ययुक्तेन भूमिविशेषेण च यजमानं समर्धयत्येव ॥

मूलम्‌

म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामा शा॑स्ते ।

विश्वास-प्रस्तुतिः

“म॒ह॒ते क्ष॒त्त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒ये"त्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते ।

“ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजे"त्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः ॥39॥

11तस्य मन्त्रस्योत्तरभागमुत्तरौ च मन्त्रौ पूर्ववद्व्याचष्टे - महते क्षत्रायेति ॥

विश्वास-प्रस्तुतिः

“इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒” इति॒ धनु॒ᳶ प्रय॑च्छति॒ विजि॑त्यै ।

मूलम्

“इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒” इति॒ धनु॒ᳶ प्रय॑च्छति॒ विजि॑त्यै ।

सायण-टीका

12कल्पः - इन्द्रस्य वज्रोसि वार्त्रघ्र इति धनुर्यजमानाय प्रयच्छतीति । पाठस्तु - ‘इन्द्रस्य वज्रोसि वार्त्रघ्नस्त्वयाऽयं वृत्रं वध्यात्’ इति । हे धनुः! त्वमिन्द्रस्य वज्रवत् महारसाधनमसि, अतस्त्वयाऽयं यजमानो वैरिणं वध्यात् । विधत्ते - इन्द्रस्य वज्रोसीति ।

विश्वास-प्रस्तुतिः

“श॒त्रु॒बाध॑ना॒स्स्थे"तीषू॑न् +++(प्रयच्छति)+++।
शत्रू॑ने॒वास्य॑ बाधन्ते ।

मूलम्

“श॒त्रु॒बाध॑ना॒स्स्थे"तीषू॑न् +++(प्रयच्छति)+++।
शत्रू॑ने॒वास्य॑ बाधन्ते ।

सायण-टीका

कल्पः - शत्रुबाधनास्स्थेति त्रीन् बाणावत इति । बाणा शल्यं तद्युक्ताग्रानित्यर्थः । त्रीनिषून्प्रयच्छतीति शेषः । हे इषवः! यूयं शत्रूणां बाधका भवथ । विधत्ते - शत्रुबाधना इति । प्रयच्छतीत्यनुवर्तते ॥

विश्वास-प्रस्तुतिः

“पा॒त मा॑ प्र॒त्यञ्च॑म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑म्मा पा॒ते"त्या॑ह । ति॒स्रो वै श॑र॒व्याः॑ । प्र॒तीची॑ ति॒रश्च्य॒नूची॑ । ताभ्य॑ ए॒वैन॑म्पान्ति ।

मूलम्

“पा॒त मा॑ प्र॒त्यञ्च॑म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑म्मा पा॒ते"त्या॑ह । ति॒स्रो वै श॑र॒व्याः॑ । प्र॒तीची॑ ति॒रश्च्य॒नूची॑ । ताभ्य॑ ए॒वैन॑म्पान्ति ।

सायण-टीका

13कल्पः - पात मा प्रत्यञ्चमिति प्रदीयमानाननुमन्त्रयत इति । पाठस्तु - ‘पात मा प्रचञ्चं पात मा तिर्यञ्चमन्वञ्चं मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात'18 इति । यदा वैरी पुरतः स्थित्वा बाणं मुञ्चति तदानीमयं विध्यमानो बाणस्य प्रत्यङ्मुखो भवति । पार्श्वयोस्स्थित्वा बाणमोक्षणेऽयं तिर्यग्भवति । पृष्ठतः स्थित्वा बाणमोक्षणे पलायमानोऽयमन्वग्भवति । हे मदीया बाणाः प्रत्यगादिरूपं मां पात परकीयेभ्यः यथोक्तप्रकारेण मां प्रत्यागच्छद्भ्यो बाणेभ्यो रक्षत । युद्धकुशला हि स्वकीयैर्बाणैः परकीयानपसारयन्ति खण्डयन्ति वा अतो मद्धस्तेऽवस्थिता हे बाणाः! सर्वाभ्यो दिग्भ्यो मां पात न केवलं परकीयबाणेभ्य एव रक्षणं, किन्तु विश्वाभ्यस्सर्वाभ्यो नाष्ट्राभ्यो नाशहेतुभ्यः शत्रुकृतपीडाभ्यो मां पात ।

मन्त्रस्य पूर्वभागं व्याचष्टे - पात मा प्रत्यञ्चमिति ॥ शरव्याः हिंसिकाः परकीयहेतयः, ताश्च पूर्वोक्तरीत्या प्रत्यगादिरूपाः ।

विश्वास-प्रस्तुतिः

“दि॒ग्भ्यो मा॑ पा॒ते"त्या॑ह । दि॒ग्भ्य ए॒वैन॑म्पान्ति ।

मूलम्

“दि॒ग्भ्यो मा॑ पा॒ते"त्या॑ह । दि॒ग्भ्य ए॒वैन॑म्पान्ति ।

सायण-टीका

मध्यमभागं व्याचष्टे - दिग्भ्य इति । दूरदेशवर्तिनीषु दिक्षु स्थित्वा सन्घिविग्रहकारिमनुष्यमुखेन वैरिणो भीषयन्ति ताभ्यो दूरदेशवर्तिनीभ्यो दिग्भ्य एनं यजमानं हस्तस्था बाणाः पान्त्येव ।

विश्वास-प्रस्तुतिः

“विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑ᳶ पा॒ते"त्या॑ह । अप॑रिमितादे॒वैन॑म्पान्ति ।

मूलम्

“विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑ᳶ पा॒ते"त्या॑ह । अप॑रिमितादे॒वैन॑म्पान्ति ।

सायण-टीका

तृतीयभागं व्याचष्टे - विश्वाभ्यो भा नाष्ट्राभ्य इति । अपरिमिताद्बहुविधात् ग्रामापहारादि रूपाद्बाधात् ॥

विश्वास-प्रस्तुतिः

“हिर॑ण्यवर्णावु॒षसाव्ँ॑ विरो॒क” इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ 40 ॥

मूलम्

“हिर॑ण्यवर्णावु॒षसाव्ँ॑ विरो॒क” इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रि॒यव्ँ वै वी॒र्य॑न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥ 40 ॥

सायण-टीका

14कल्पः - हिरण्यवर्णावित्युद्यतावभिमन्त्रयत इति । वेद्धुमुद्यतौ धनुर्बाणयुक्तौ यजमानहस्तौ । पाठस्तु - ‘हिरण्यवर्णावुषसां विरोकेऽयस्थूणावुदितौ सूर्यस्यारोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं च'18 इति । हे वरुण! शत्रुनिवारक! वामहस्त! हे मित्र! शत्रुमारक! दक्षिणहस्त! युवां गर्तमारोहतं वेद्धुमुद्यतौ धनुर्बाणयुक्तौ यजमानहस्तौ रथस्योपरिभागं गर्तसदृशमारोहतं परकीयबाणेभ्यो रक्षतं, परितश्चर्मफलकादिभिराच्छादिते सति रथस्योपरिभागो गर्तसदृशो भवति । आरोहणं कदा कर्तव्यमित्युच्यते - उषसां विरोके सूर्यस्योदितौ प्रतिदिनं यान्युषांसि सूर्योदयात्पूर्वभावीनि तेषां सम्बन्धिनि विशिष्ट आलोके प्रवर्तमाने सति यस्सूर्यस्योदयः तस्मिन्नुत्पन्ने सति । कीदृशौ बाहू - हिरण्यवर्णौ सुवर्णखचितकवचप्रतिमोकेन हिरण्यवद्भासमानौ अयस्स्थूणौ लोहस्तम्भवत् अत्यन्तदृढौ । ततो रथारोहणादूर्ध्वं अदितिं अखण्डितां स्वसेनां दितिं खण्डितां परसेनां च चक्षाथां क्रमेणानुग्रहनिग्रहदृष्ट्या समीक्षेथाम् ।

विधत्ते - हिरण्यवर्णावुषसामिति ॥ उद्ग्रहणमुद्यतयोरभिमन्त्रणम् । बोधायनपक्षे तु - यथा ब्राह्मणं बाहूद्यमनार्थ एव मन्त्रः । इन्द्रियं वीर्यं हस्तपादादिगतसामर्थ्यं तत्सामर्थ्यप्रदत्वात्त्रिष्टुप्छन्दसस्तद्रूपत्वम् ॥ इति सायणीये वेदार्थप्रकाशे तैत्तिरीयसंहिताभाष्ये

प्रथमकाण्डेऽष्टमप्रपाठके द्वादशोऽनुवाकः ॥