०५ अभिषेकार्थमपां ग्रहणम्

विश्वास-प्रस्तुतिः

“अ॒र्थेत॒स्स्थे"ति॑ जुहोति ।

मूलम्

“अ॒र्थेत॒स्स्थे"ति॑ जुहोति ।

भट्टभास्कर-टीका

1 अर्थेतस्स्थेत्यादि ॥ अभिषेकार्थमपां ग्रहान्वायव्यैः गृह्णाति षोडश सप्तदश वा ‘अर्थेतस्स्थ’इत्यादिमन्त्रैः । एतास्वप्सु प्रथमं जुहोति ।

विश्वास-प्रस्तुतिः

आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति ।

मूलम्

आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति ।

भट्टभास्कर-टीका

आहुत्या मूल्यस्थानीयया एना आपो निष्क्रीय स्वीकृत्य गृह्णाति ।

विश्वास-प्रस्तुतिः

अथो॑ ह॒विष्कृ॑तानाम् ए॒वाभिघृ॑तानाङ्गृह्णाति ।

मूलम्

अथो॑ ह॒विष्कृ॑तानाम् ए॒वाभिघृ॑तानाङ्गृह्णाति ।

भट्टभास्कर-टीका

अथो अपि च हविष्कृतानां हविष्ट्वं प्राप्तानां अत एव अभिघृतानां अभिघारितानां अपां गृह्णाति प्रथमाहुतिप्रक्षेपेण हविष्कृत्य अभिघार्य च आपो गृहीता भवन्ति ।

विश्वास-प्रस्तुतिः

वह॑न्तीनाङ्गृह्णाति ।

मूलम्

वह॑न्तीनाङ्गृह्णाति ।

भट्टभास्कर-टीका

‘अर्थेतः स्थ’ इति वहन्तीनां गृह्णाति ।

विश्वास-प्रस्तुतिः

ए॒ता वा अ॒पाँ रा॒ष्ट्रम् । रा॒ष्ट्रम् ए॒वास्मै॑ गृह्णाति ।

मूलम्

ए॒ता वा अ॒पाँ रा॒ष्ट्रम् । रा॒ष्ट्रम् ए॒वास्मै॑ गृह्णाति ।

भट्टभास्कर-टीका

एताः प्रवहन्त्यः आपः अपां राष्ट्रं सारभूतोंशः, राजमानो वा अंशः । तस्मादेतासां ग्रहणेन यजमानाय राष्ट्रं गृह्नाति ।

विश्वास-प्रस्तुतिः

अथो॒ श्रिय॑म् ए॒वैन॑म् अ॒भि-व॑हन्ति ।

मूलम्

अथो॒ श्रिय॑म् ए॒वैन॑म् अ॒भि-व॑हन्ति ।

भट्टभास्कर-टीका

अपि च एनं यजमानं अभि अस्योपरि श्रियं वहन्ति । ‘अभिरभागे’इति लक्षणे अभेः कर्मप्रवचनीयत्वम् । राष्ट्रभूतानामुपरि हुत्वा ग्रहणात् राष्ट्रश्रीरेनमभिलक्ष्य तिष्ठतीति ॥

विश्वास-प्रस्तुतिः

“अ॒पाम् पति॑र् अ॒सी"त्य् आ॑ह । मि॒थु॒नम् ए॒वाकः॑ ।

मूलम्

“अ॒पाम् पति॑र् अ॒सी"त्य् आ॑ह । मि॒थु॒नम् ए॒वाकः॑ ।

भट्टभास्कर-टीका

2 अपां पतिरसीति ॥ समुद्रात्पून्नदाद्वा शोणादेर्गृह्णाति । मिथुनमेवाकः करोति, पुंस्त्वादेषां स्त्रीत्वाच्चेतरासाम् । ‘मन्त्रे घस’इति च्लेर्लुक् ।

मूलम्

वृषा॑ऽस्यू॒र्मिरित्या॑ह ॥28॥
ऊ॒र्मि॒मन्त॑मे॒वैन॑ङ्करोति ।

विश्वास-प्रस्तुतिः

“वृषा॑ ऽस्य् ऊ॒र्मिरि"त्य् आ॑होर्मि॒मन्त॑म् ए॒वैन॑ङ् करोति ।

मूलम्

“वृषा॑ ऽस्य् ऊ॒र्मिरि"त्य् आ॑होर्मि॒मन्त॑म् ए॒वैन॑ङ् करोति ।

भट्टभास्कर-टीका

वृषाऽसीति प्रतिस्रोतसमूर्मिं गृह्णाति । ऊर्मिमन्तं गवादिसंघातवन्तं यजमानं करोति ।

विश्वास-प्रस्तुतिः

“वृ॒ष॒से॒नो॑ ऽसी"त्य् आ॑ह ।
सेना॑म् ए॒वास्य॒ सँश्य॑ति ।

मूलम्

“वृ॒ष॒से॒नो॑ ऽसी"त्य् आ॑ह ।
सेना॑म् ए॒वास्य॒ सँश्य॑ति ।

भट्टभास्कर-टीका

वृषसेनोसि इत्यनुस्रोतसं गृह्णाति । संश्यतीति । संशितत्वं सेनाया वर्षितृत्वात् ।

विश्वास-प्रस्तुतिः

“व्र॒ज॒क्षित॒स् स्थे"त्य् आ॑ह ।

मूलम्

“व्र॒ज॒क्षित॒स् स्थे"त्य् आ॑ह ।

भट्टभास्कर-टीका

व्रजक्षितः इति कूप्या गृह्णाति ।

मूलम्

ए॒ता वा अ॒पाव्ँ विशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति ।

विश्वास-प्रस्तुतिः

ए॒ता वा अ॒पाव्ँ विशो॒ विश॑म् ए॒वास्मै॒ पर्यू॑हति ।

मूलम्

ए॒ता वा अ॒पाव्ँ विशो॒ विश॑म् ए॒वास्मै॒ पर्यू॑हति ।

भट्टभास्कर-टीका

एता अपां मध्ये विशो ध्रुवाः व्रजे निवसन्तीति । तस्माद्विशं पर्यूहति परित आनयति यजमानाय ।

विश्वास-प्रस्तुतिः

“म॒रुता॒मोज॒स् स्थे"त्य् आ॑ह ।

मूलम्

“म॒रुता॒मोज॒स् स्थे"त्य् आ॑ह ।

मूलम्

अन्नव्ँ॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

अन्नव्ँ॒ वै म॒रुतो॒ +अन्न॑म् ए॒वाव॑रुन्धे ।

मूलम्

अन्नव्ँ॒ वै म॒रुतो॒ +अन्न॑म् ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

मरुतामित्यादि आवर्तजलं गृह्णाति । अन्न हेतवो मरुतः ।

मूलम्

सूर्य॑वर्चस॒स्स्थेत्या॑ह ॥29॥
रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः ।

विश्वास-प्रस्तुतिः

“सूर्य॑-वर्चस॒स् स्थे"त्य् आ॑ह रा॒ष्ट्रम् ए॒व व॑र्च॒स्व्य॑कः ।

मूलम्

“सूर्य॑-वर्चस॒स् स्थे"त्य् आ॑ह रा॒ष्ट्रम् ए॒व व॑र्च॒स्व्य॑कः ।

विश्वास-प्रस्तुतिः

“सूर्य॑-त्वचस॒स् स्थे"त्य् आ॑ह ।

मूलम्

“सूर्य॑-त्वचस॒स् स्थे"त्य् आ॑ह ।

मूलम्

स॒त्यव्ँ वा ए॒तत् । यद्वर्ष॑ति । अनृ॑तय्ँ॒ यदा॒तप॑ति॒ वर्ष॑ति ।

स॒त्यव्ँ वा ए॒तद् , यद् वर्ष॑त्य्॒ अनृ॑तय्ँ॒ यदा॒तप॑ति॒ वर्ष॑ति ।

भट्टभास्कर-टीका

सूर्यवर्चस इत्यातपति वर्ष्या गृह्णाति ।

सत्यं खल्वेतत् अमोघफलं भवति प्रभूतत्वात् । यदातपति दुर्दिनायमाने यत् वर्षति तदनृतं अल्पत्वेनासधकत्वात् ।

विश्वास-प्रस्तुतिः

स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ।

मूलम्

स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

तस्मात् सत्यानृते अवरुन्धे विधेयीकर्तुं शक्नोत्येवंवेदितारम् ।

विश्वास-प्रस्तुतिः

नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हिँ॑स्तः ।
य ए॒वव्ँ वेद॑ ।

मूलम्

नैनँ॑ सत्यानृ॒ते उ॑दि॒ते हिँ॑स्तः ।
य ए॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

सत्यानृते उदिते उज्ज्वले नियन्तुमशक्ये मृत्वा न हिंस्तः एवंवेदितारमपि न हिंस्तः किं पुरनरातपति वर्ष्या गृह्णत इति ।

विश्वास-प्रस्तुतिः

“मान्दा॒स् स्थे"त्य् आ॑ह ।
रा॒ष्ट्रम् ए॒व ब्र॑ह्मवर्च॒स्य॑कः ॥30॥

मूलम्

“मान्दा॒स् स्थे"त्य् आ॑ह ।
रा॒ष्ट्रम् ए॒व ब्र॑ह्मवर्च॒स्य॑कः ॥30॥

भट्टभास्कर-टीका

मान्दा;, इति स्थावरा ह्रादिनीर्वा गृह्णाति । स्थावराणां तटाकादिजलानां ब्रह्मवर्चसवृद्धिहेतुत्वात् ।

मूलम्

वाशा॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः ।

विश्वास-प्रस्तुतिः

“वाशा॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व व॒श्य॑कः ।

मूलम्

“वाशा॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व व॒श्य॑कः ।

भट्टभास्कर-टीका

वाशा इत्यवश्यायोदकं गृह्णाति । राष्ट्रमेव वशीकरोति । स्वाधीनत्वे वचनात् ।

मूलम्

शक्व॑री॒स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे ।

विश्वास-प्रस्तुतिः

“शक्व॑री॒स् स्थे"त्य् आ॑ह ,
प॒शवो॒ वै शक्व॑रीᳶ प॒शूने॒वाव॑रुन्धे ।

मूलम्

“शक्व॑री॒स् स्थे"त्य् आ॑ह ,
प॒शवो॒ वै शक्व॑रीᳶ प॒शूने॒वाव॑रुन्धे ।

भट्टभास्कर-टीका

शक्वरीरिति गोरुल्ब्या गृह्णाति । ़
पशव इति । उल्ब्यानां पशुरक्षणहेतुत्वात् ताच्छब्द्यम् ।

मूलम्

वि॒श्व॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः ।

विश्वास-प्रस्तुतिः

“वि॒श्व॒भृत॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व प॑य॒स्व्य॑कः ।

मूलम्

“वि॒श्व॒भृत॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व प॑य॒स्व्य॑कः ।

भट्टभास्कर-टीका

विश्वभृत इति पयो गृह्णाति । राष्ट्रं पयस्वि करोति ।

मूलम्

ज॒न॒भृत॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः ।

विश्वास-प्रस्तुतिः

“ज॒न॒भृत॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒वेन्द्रि॑या॒व्य॑कः ।

मूलम्

“ज॒न॒भृत॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒वेन्द्रि॑या॒व्य॑कः ।

भट्टभास्कर-टीका

जनभृत इति दधि गृह्णाति । राष्ट्रमिन्द्रियावि इन्द्रियवत् करोति । दक्ष इन्द्रियहेतुत्वात् ।

मूलम्

अ॒ग्नेस्ते॑ज॒स्या॑स्स्थेत्या॑ह ॥31 ॥
रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः ।

विश्वास-प्रस्तुतिः

“अ॒ग्नेस्ते॑ज॒स्या॑स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व ते॑ज॒स्व्य॑कः ।

मूलम्

“अ॒ग्नेस्ते॑ज॒स्या॑स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व ते॑ज॒स्व्य॑कः ।

भट्टभास्कर-टीका

अग्नेस्तेजस्या इति घृतं गृह्णाति । राष्ट्रं तेजस्वि करोति, ‘तेजो घृतम्’ इति ।

मूलम्

अ॒पामोष॑धीनाँ॒ रस॒स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः ।

विश्वास-प्रस्तुतिः

“अ॒पामोष॑धीनाँ॒ रस॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व म॑ध॒व्य॑मकः ।

मूलम्

“अ॒पामोष॑धीनाँ॒ रस॒स् स्थे"त्य् आ॑ह , रा॒ष्ट्रम् ए॒व म॑ध॒व्य॑मकः ।

भट्टभास्कर-टीका

अपामिति मधु गृह्णाति । राष्ट्रं मधव्यं करोति मधुने हितं मध्विव सर्वस्य प्रियं भवति । ‘उगवादिभ्यो यत्’।

विश्वास-प्रस्तुतिः

सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति ।

मूलम्

सा॒र॒स्व॒तङ्ग्रह॑ङ्गृह्णाति ।

मूलम्

ए॒षा वा अ॒पाम्पृ॒ष्ठम् । यत्सर॑स्वती ।

विश्वास-प्रस्तुतिः

ए॒षा वा अ॒पाम् पृ॒ष्ठय्ँ यत् सर॑स्वती ।
पृ॒ष्ठम् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।

मूलम्

ए॒षा वा अ॒पाम् पृ॒ष्ठय्ँ यत् सर॑स्वती ।
पृ॒ष्ठम् ए॒वैनँ॑ समा॒नाना॑ङ् करोति ।

भट्टभास्कर-टीका

सारस्वतमित्वादि । स्व उदके । अपां पृष्ठं प्रधानभूता सरस्वती नदी समानानां पृष्ठमुच्छ्रितं तादृशं यजमानं करोति ॥

विश्वास-प्रस्तुतिः

षो॒ड॒शभि॑र् गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः ।

मूलम्

षो॒ड॒शभि॑र् गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः ।

भट्टभास्कर-टीका

3 षोडशभिरिति ॥ ‘अर्थेतः’ इत्यादिभिः । षोडशकलः षोडशावयवः पञ्चभिः भूतैः पञ्चभिः ज्ञानेन्द्रियैः पञ्चभिः कर्मेन्द्रियैः मनसा च । यद्वा - चन्द्रः षोडशकलः तदात्मा जीव इति ।

मूलम्

यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्य॑न्दधाति ।

विश्वास-प्रस्तुतिः

यावा॑ने॒व पुरु॑ष॒स् तस्मि॑न् वी॒र्य॑न् दधाति ।

मूलम्

यावा॑ने॒व पुरु॑ष॒स् तस्मि॑न् वी॒र्य॑न् दधाति ।

भट्टभास्कर-टीका

यावानित्यादि । गतम् ।

मूलम्

षो॒ड॒शभि॑र्जु॒होति॑ षोड॒शभि॑र्गृह्णाति । द्वात्रिँ॑श॒त् सम्प॑द्यन्ते ।

विश्वास-प्रस्तुतिः

षो॒ड॒शभि॑र् जु॒होति॑, षोड॒शभि॑र् गृह्णाति॒ , द्वात्रिँ॑श॒त् सम्प॑द्यन्ते ।

मूलम्

षो॒ड॒शभि॑र् जु॒होति॑, षोड॒शभि॑र् गृह्णाति॒ , द्वात्रिँ॑श॒त् सम्प॑द्यन्ते ।

मूलम्

द्वात्रिँ॑शदक्षराऽनु॒ष्टुक् । वाग॑नु॒ष्टुप्सर्वा॑णि॒ छन्दाँ॑सि ।

विश्वास-प्रस्तुतिः

द्वात्रिँ॑शदक्षरा ऽनु॒ष्टुग् ,वाग॑नु॒ष्टुप् सर्वा॑णि॒ छन्दाँ॑सि ।
वा॒चैवैनँ॒ सर्वे॑भि॒श् छन्दो॑भिर् अ॒भिषि॑ञ्चति ॥32॥

मूलम्

द्वात्रिँ॑शदक्षरा ऽनु॒ष्टुग् ,वाग॑नु॒ष्टुप् सर्वा॑णि॒ छन्दाँ॑सि ।
वा॒चैवैनँ॒ सर्वे॑भि॒श् छन्दो॑भिर् अ॒भिषि॑ञ्चति ॥32॥

भट्टभास्कर-टीका

षोडशभिरिति । एतैरेव जुहोति । एतैरेव गृह्णाति चेति द्वात्रिंशत् भवन्ति । अनुष्टुप्च द्वात्रिंशदक्षरा । सा चानुष्टुप् सर्ववाङ्मयहेतुत्वात् स्वयं वागेव सा च वाक् सर्वाणि छन्दांसि तत्परिणामत्वात् सर्वच्छन्दसाम् । तस्माद्वाचा छन्दोभिश्च यजमानमभिषिञ्चति । द्वात्रिंशत्संख्यान्वयात् वाचो वीर्येण सर्वच्छन्दोवीर्येण चेत्यर्थः ॥

इति सप्तमे पञ्चमोऽनुवाकः ॥