मूलम्
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
विश्वास-प्रस्तुतिः
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्त्य् ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
मूलम्
दे॒व॒सु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्त्य् ए॒ताव॑न्तो॒ वै दे॒वानाँ॑ स॒वाः ।
भट्टभास्कर-टीका
1 देवसुवामित्यादि ॥ एतान्यभिषेचनीयेऽग्नीषोमीयस्य पशुपुरोडाशस्यानुनिर्वाप्याणि अष्टौ हवींषि । देवासुवां ‘अग्नये गृहपतये’ इत्याम्नातानाम् । एतावन्तो हि देवानां मध्ये सवा ऐश्वर्यस्यानुज्ञातारः । सौतेः पचाद्यच् । यद्वा - सववन्तः, मत्वर्थीयो लुप्यते । तद्धेतुत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति ।
मूलम्
त ए॒वास्मै॑ स॒वान्प्रय॑च्छन्ति ।
भट्टभास्कर-टीका
त एवास्मै सवान् ऐश्वर्याणि प्रयच्छन्ति ।
विश्वास-प्रस्तुतिः
त ए॑नँ सुवन्ते ।
मूलम्
त ए॑नँ सुवन्ते ।
भट्टभास्कर-टीका
ते एवैनं सुवन्ते । ‘वा छन्दसि’इत्यन्तोदात्तत्वम् । सुवन्ते ईश्वरमनुजानन्ति ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर् ए॒वैन॑ङ्गृ॒हप॑तीनाँ सुवते ।
सोमो॒ वन॒स्पती॑नाम् +++(सुवते )+++।
रु॒द्रᳶ प॑शू॒नाम् +++(सुवते )+++।
बृह॒स्पति॑र्वा॒चाम् +++(सुवते )+++।
इन्द्रो॑ ज्ये॒ष्ठाना॑म् +++(सुवते )+++।
मि॒त्रस्स॒त्याना॑म्+++(सुवते )+++ ॥24॥
वरु॑णो॒ धर्म॑पतीनाम् +++(सुवते )+++।
मूलम्
अ॒ग्निर् ए॒वैन॑ङ्गृ॒हप॑तीनाँ सुवते ।
सोमो॒ वन॒स्पती॑नाम् +++(सुवते )+++।
रु॒द्रᳶ प॑शू॒नाम् +++(सुवते )+++।
बृह॒स्पति॑र्वा॒चाम् +++(सुवते )+++।
इन्द्रो॑ ज्ये॒ष्ठाना॑म् +++(सुवते )+++।
मि॒त्रस्स॒त्याना॑म्+++(सुवते )+++ ॥24॥
वरु॑णो॒ धर्म॑पतीनाम् +++(सुवते )+++।
भट्टभास्कर-टीका
2 कः कस्येत्याह - अग्निरेवेत्यादि ॥ गृहपतीनामीश्वरमेनमनुजानात्यग्निः । सोमो वनस्पतीनामिति ।
विश्वास-प्रस्तुतिः
ए॒तद् ए॒व सर्व॑म् भवति । “स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवता॒मि"ति॒ हस्त॑ङ् गृह्णाति॒ प्रसू॑त्यै ।
मूलम्
ए॒तद् ए॒व सर्व॑म् भवति । “स॒वि॒ता त्वा॑ प्रस॒वानाँ॑ सुवता॒मि"ति॒ हस्त॑ङ् गृह्णाति॒ प्रसू॑त्यै ।
भट्टभास्कर-टीका
एतदेवेति । एतत्सर्वमवितथं भवत्येव । तत्सर्वमैश्वर्यं यजमानः प्राप्तोत्येव ।
विश्वास-प्रस्तुतिः
“ये दे॑वा देव॒स् सुव॒स्स्थे"त्य् आ॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
मूलम्
“ये दे॑वा देव॒स् सुव॒स्स्थे"त्य् आ॑ह । य॒था॒य॒जुर् ए॒वैतत् ।
भट्टभास्कर-टीका
देवत्वमैश्वर्यविशेषं यजमानस्यानुजानन्तीति देवसुवोऽग्न्यादयः ॥
मूलम्
म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।
ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः ।
प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥25॥
रा॒ज्यमे॒वास्मि॒न्प्रति॑दधाति ।
स्वान्त॒नुवव्ँ॒वरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
“म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒ये"त्य् आ॑ह, + आ॒शिष॑म् ए॒वैतामाशा॑स्ते ।
“ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माक॑म्ब्राह्म॒णानाँ॒ राजे"त्य् आ॑ह॒ , तस्मा॒त् सोम॑राजानो ब्राह्म॒णाः ।
“प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यी"त्य् आ॑ह ,रा॒ज्यम् ए॒वास्मि॒न् प्रति॑दधाति ।
“स्वान्त॒नुवव्ँ॒ वरु॑णो अशिश्रेदि"त्य् आ॑ह, वरुणस॒वम् ए॒वाव॑रुन्धे ।

शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैन॒व्व्ँरत्य॑ङ्करोति ।
विश्वास-प्रस्तुतिः
“शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मे"त्य् आ॑ह शुचि॑म् ए॒वैनव्ँ॒ व्रत्य॑ङ् करोति ।
मूलम्
“शुचे॑र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मे"त्य् आ॑ह शुचि॑म् ए॒वैनव्ँ॒ व्रत्य॑ङ् करोति ।
मूलम्
अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैन॑म् ।
विश्वास-प्रस्तुतिः
“अम॑न्महि मह॒त ऋ॒तस्य॒ नामे"त्य् आ॑ह, मनु॒त ए॒वैन॑म् ।
मूलम्
“अम॑न्महि मह॒त ऋ॒तस्य॒ नामे"त्य् आ॑ह, मनु॒त ए॒वैन॑म् ।
मूलम्
सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑ङ्करोति ।
विश्वास-प्रस्तुतिः
“सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नि"त्य् आ॑ह॒, सर्व॑व्रातम् ए॒वैन॑ङ्करोति ।
मूलम्
“सर्वे॒ व्राता॒ वरु॑णस्याभूव॒न्नि"त्य् आ॑ह॒, सर्व॑व्रातम् ए॒वैन॑ङ्करोति ।
मूलम्
वि मि॒त्र एवै॒ररा॑तिमतारी॒दित्या॑ह ॥26॥
अरा॑तिमै॒वैन॑न्तारयति ।
विश्वास-प्रस्तुतिः
“वि मि॒त्र एवै॒ररा॑तिमता॑रीदि"त्य् आ॑हा॒रा॑तिमै॒वैन॑न्तारयति ।
मूलम्
“वि मि॒त्र एवै॒ररा॑तिमता॑रीदि"त्य् आ॑हा॒रा॑तिमै॒वैन॑न्तारयति ।
मूलम्
असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन॑म् ।
विश्वास-प्रस्तुतिः
“असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेने"त्य् आ॑ह , स्व॒दय॑त्ये॒वैन॑म् ।
मूलम्
“असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेने"त्य् आ॑ह , स्व॒दय॑त्ये॒वैन॑म् ।
मूलम्
व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति ।
विश्वास-प्रस्तुतिः
“व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॑ट्” इत्य् आ॑ह, + आयु॑र् ए॒वास्मि॑न् दधाति ।
द्वाभ्याव्ँ॒ विमृ॑ष्टे । द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
मूलम्
“व्यु॑ त्रि॒तो ज॑रि॒माण॑न्न आन॑ट्” इत्य् आ॑ह, + आयु॑र् ए॒वास्मि॑न् दधाति ।
द्वाभ्याव्ँ॒ विमृ॑ष्टे । द्वि॒पाद् यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
विश्वास-प्रस्तुतिः
अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति ।
दे॒वता॑भिर् ए॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
मूलम्
अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वाञ्च॑ ह॒विषा॑म॒ग्नये॑ स्विष्ट॒कृते॑ स॒मव॑द्यति ।
दे॒वता॑भिर् ए॒वैन॑मुभ॒यत॒ᳶ परि॑गृह्णाति ।
भट्टभास्कर-टीका
3 पशुपुरोडाशस्विष्टकृतः अग्नीषोमीयस्य चेत्यादि समवद्यति अग्नीषोमीयतंत्रत्वमेतेन देवसुवां दर्शयति ॥
मूलम्
वि॒ष्णु॒क्र॒मान्क्र॑मते । विष्णु॑रे॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ॥27॥
विश्वास-प्रस्तुतिः
वि॒ष्णु॒क्र॒मान् क्र॑मते , विष्णु॑र् ए॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ॥27॥
मूलम्
वि॒ष्णु॒क्र॒मान् क्र॑मते , विष्णु॑र् ए॒व भू॒त्वेमाल्ँ लो॒कान॒भिज॑यति ॥27॥
भट्टभास्कर-टीका
4 विष्णुक्रमानिति ॥ ‘विष्णोः क्रमोसि विष्णोः क्रान्तमसि’ इत्यादिना ॥
इति सप्तमे चतुर्थोऽनुवाकः ॥