विश्वास-प्रस्तुतिः
र॒त्निना॑मे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
मूलम्
र॒त्निना॑मे॒तानि॑ ह॒वीँषि॑ भवन्ति ।
भट्टभास्कर-टीका
1 रत्निनामेतानीत्यादि ॥ रत्नवन्तो रत्निनः प्रकृष्टैश्वर्याः प्रकृतिविशेषाः तेषां गृहेषु एतानि वक्ष्यमाणानि हवींषि भवन्ति ।
विश्वास-प्रस्तुतिः
ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ ।
मूलम्
ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ ।
मूलम्
य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रम्प्रय॑च्छन्ति ।
विश्वास-प्रस्तुतिः
य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारो॒ , ये॑ऽपादा॒तार॒स् त ए॒वास्मै॑ रा॒ष्ट्रम् प्रय॑च्छन्ति । रा॒ष्ट्रम् ए॒व भ॑वति ।
मूलम्
य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारो॒ , ये॑ऽपादा॒तार॒स् त ए॒वास्मै॑ रा॒ष्ट्रम् प्रय॑च्छन्ति । रा॒ष्ट्रम् ए॒व भ॑वति ।
भट्टभास्कर-टीका
एते वै राष्ट्रस्य राज्यस्य प्रदातारः एत एव अपादातारः अपहर्तारः । तस्मात्तेषां निर्वापात् त एवास्य राष्ट्रं प्रयच्छन्ति । ततः स्वाधीनसर्वराष्ट्रो भवति ॥
मूलम्
यत्स॑मा॒हृत्य॑ नि॒र्वपे॑त् । अर॑त्निनस्स्युः ।
विश्वास-प्रस्तुतिः
यत् स॑मा॒हृत्य॑ नि॒र्वपे॒द् अर॑त्निनस् स्युः ।
मूलम्
यत् स॑मा॒हृत्य॑ नि॒र्वपे॒द् अर॑त्निनस् स्युः ।
भट्टभास्कर-टीका
2 अथ यदि सर्वान्रत्निनः समाहृत्य सर्वानेकत्र कृत्वा हवींषि निर्वपेत् । अरत्निनस्ते स्युः रत्निनो न स्युः । न हि प्रकृष्टैश्वर्याणामिदमुचितम् ।
विश्वास-प्रस्तुतिः
य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ॥16॥
मूलम्
य॒था॒य॒थन्निर्व॑पति रत्नि॒त्वाय॑ ॥16॥
भट्टभास्कर-टीका
तस्मात् यथायथं स्वेस्वे गृहे निर्वपति, रत्नित्वस्थापनार्थम् ॥
मूलम्
यत्स॒द्यो नि॒र्वपे॑त् । याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मवरु॒न्धे । ताव॑ती॒मव॑रुन्धीत ।
विश्वास-प्रस्तुतिः
यत् स॒द्यो नि॒र्वपे॒द् याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मवरु॒न्धे ताव॑ती॒म् अव॑रुन्धीत ।
मूलम्
यत् स॒द्यो नि॒र्वपे॒द् याव॑ती॒मेके॑न ह॒विषा॒ऽऽशिष॑मवरु॒न्धे ताव॑ती॒म् अव॑रुन्धीत ।
भट्टभास्कर-टीका
3 अथ यदि सद्यः समानेऽह्नि एकस्मिन् दिवसे सर्वाणि निर्ववेत् एकेन हविषा यावद्यज्ञफलं प्राप्नोति तावदेव सर्वैरपि अवरुन्धीत एकस्मिन् काले कृतस्यैकत्वात्, ।
विश्वास-प्रस्तुतिः
अ॒न्व॒हन्निर्व॑पति ।
भूय॑सीम् ए॒वाशिष॒म् अव॑रुन्धे ।
मूलम्
अ॒न्व॒हन्निर्व॑पति ।
भूय॑सीम् ए॒वाशिष॒म् अव॑रुन्धे ।
भट्टभास्कर-टीका
तस्मादन्वहमनुक्रमेण दिनेदिने निर्वपति, भूयसीमाशिषं फलमवरुन्धे ।
विश्वास-प्रस्तुतिः
भूय॑सो यज्ञक्र॒तूनुपै॑ति ।
मूलम्
भूय॑सो यज्ञक्र॒तूनुपै॑ति ।
भट्टभास्कर-टीका
बहुतराश्च यज्ञक्रतव आवृत्ता भवन्ति ॥
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्यञ्च॒रुन् निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे ।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
मूलम्
बा॒र्ह॒स्प॒त्यञ्च॒रुन् निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे ।
मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
मूलम्
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्त्रम॒न्वार॑म्भयति ।
शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥17॥
विश्वास-प्रस्तुतिः
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्त्रम॒न्वार॑म्भयति शितिपृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥17॥
मूलम्
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्त्रम॒न्वार॑म्भयति शितिपृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥17॥
भट्टभास्कर-टीका
4 बार्हस्पत्यमित्यादि ॥ मुखत इति । यज्ञोपक्रम एव ब्रह्म ब्रह्मवर्चसं ब्राह्मणजातिं वा तीक्ष्णीकरोति । अस्मै यजमानार्थमेव ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रमेका॑दशकपालँ +++(निर्वपति)+++राज॒न्य॑स्य गृ॒हे ।
इ॒न्द्रि॒यम् ए॒वाव॑रुन्धे ।
ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒दि॒त्यञ्च॒रुम् +++(निर्वपति)+++ महि॑ष्यै गृ॒हे ।
मूलम्
ऐ॒न्द्रमेका॑दशकपालँ +++(निर्वपति)+++राज॒न्य॑स्य गृ॒हे ।
इ॒न्द्रि॒यम् ए॒वाव॑रुन्धे ।
ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै ।
आ॒दि॒त्यञ्च॒रुम् +++(निर्वपति)+++ महि॑ष्यै गृ॒हे ।
मूलम्
इ॒यव्ँ वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठति ।
धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठति ।
धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
भगा॑य च॒रुव्ँ वावाता॑यै गृ॒हे । भग॑म् ए॒वास्मि॑न्दधाति ।
विश्वास-प्रस्तुतिः
भगा॑य च॒रुव्ँ वावाता॑यै गृ॒हे भग॑म् ए॒वास्मि॑न्दधाति ।
मूलम्
भगा॑य च॒रुव्ँ वावाता॑यै गृ॒हे भग॑म् ए॒वास्मि॑न्दधाति ।
भट्टभास्कर-टीका
वावाता महिष्या अन्या आगन्तुर्वेश्या राज्ञो वल्लभा । भगं सौभाग्यमैश्वर्यं वाऽस्मिन् स्थापयति ।
विश्वास-प्रस्तुतिः
विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18॥
मूलम्
विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18॥
भट्टभास्कर-टीका
विचित्तगर्भा प्रज्ञातगर्भा । ‘श्वीदितो निष्ठायाम्’इतीट्प्रतिषेधः । पष्ठौही चतुर्वर्षा युग्यपार्श्ववहनशक्ता । पष्ठं वहतीति ‘वहश्च’इति क्विपि, ‘वाह ऊठ्’ ‘एत्येधत्यूठ्सु’ इति वृद्धिः ।
विश्वास-प्रस्तुतिः
नै॒र्ऋ॒तञ्च॒रुम् +++(निर्वपति)+++ प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानाव्ँ॑ व्रीही॒णान्न॒खनि॑र्भिन्नम् ।
मूलम्
नै॒र्ऋ॒तञ्च॒रुम् +++(निर्वपति)+++ प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानाव्ँ॑ व्रीही॒णान्न॒खनि॑र्भिन्नम् ।
मूलम्
पा॒प्मान॑मे॒व निर्ऋ॑तिन्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
पा॒प्मान॑म् ए॒व निर्ऋ॑तिन्नि॒रव॑दयते , कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
पा॒प्मान॑म् ए॒व निर्ऋ॑तिन्नि॒रव॑दयते , कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
परिवृक्तिः राज्ञा भोगात् बहिष्कृता दुर्भगा । कूटा भग्नैकशृङ्गी कुटिलशृङ्गीत्येके ।
विश्वास-प्रस्तुतिः
आ॒ग्ने॒यम॒ष्टाक॑पालँ +++(निर्वपति)+++ सेना॒न्यो॑ गृ॒हे ।
मूलम्
आ॒ग्ने॒यम॒ष्टाक॑पालँ +++(निर्वपति)+++ सेना॒न्यो॑ गृ॒हे ।
भट्टभास्कर-टीका
सेनान्यः सेनापतेः । ‘उदात्तयणः’इति विभक्त्युदात्तस्य ‘नञ् धात्वोः’इति प्रतिषिद्धे ‘उदात्तस्वरितयोर्यणः’हति षष्ठी स्वर्यते ।
मूलम्
सेना॑मे॒वास्य॒ सँश्य॑ति । हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
सेना॑म् ए॒वास्य॒ सँश्य॑ति॒ , हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
सेना॑म् ए॒वास्य॒ सँश्य॑ति॒ , हिर॑ण्य॒न्दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
सेनां संश्यति निशितीकरोति ।
विश्वास-प्रस्तुतिः
वा॒रु॒णन्दश॑कपालँ +++(निर्वपति)+++ सू॒तस्य॑ गृ॒हे ।
व॒रु॒ण॒स॒वम् ए॒वाव॑रुन्धे ।
म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
वा॒रु॒णन्दश॑कपालँ +++(निर्वपति)+++ सू॒तस्य॑ गृ॒हे ।
व॒रु॒ण॒स॒वम् ए॒वाव॑रुन्धे ।
म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
सूतः सारथिः । वरुणसवो वरुणानुज्ञा । महानिरष्टः महाकायो निष्कासितवृषणः ।
विश्वास-प्रस्तुतिः
मा॒रु॒तँ स॒प्तक॑पालङ् +++(निर्वपति)+++ ग्राम॒ण्यो॑ गृ॒हे ॥19॥
मूलम्
मा॒रु॒तँ स॒प्तक॑पालङ् +++(निर्वपति)+++ ग्राम॒ण्यो॑ गृ॒हे ॥19॥
मूलम्
अन्नव्ँ॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै म॒रुतो॒ अन्न॑म् ए॒वाव॑रुन्धे , पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
अन्नव्ँ॒ वै म॒रुतो॒ अन्न॑म् ए॒वाव॑रुन्धे , पृश्ञि॒र्दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
ग्रामणीः ग्रामस्याधिपतिः । पूर्ववत् स्वरितत्वम् । पृश्निः शुक्ला, ह्रस्वेत्येके ।
विश्वास-प्रस्तुतिः
सा॒वि॒त्रन्द्वाद॑शकपालङ् +++(निर्वपति)+++ क्ष॒त्तुर्गृ॒हे प्रसू॑त्यै ।
उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
सा॒वि॒त्रन्द्वाद॑शकपालङ् +++(निर्वपति)+++ क्ष॒त्तुर्गृ॒हे प्रसू॑त्यै ।
उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
क्षत्ता वैश्येन शूद्रायां जातः ॥ सर्वकारी राज्ञः प्रतिहार इत्येके । उपध्वस्तः विहतशरीरः ।
विश्वास-प्रस्तुतिः
आ॒श्वि॒नन्द्वि॑कपा॒लँ+++(निर्वपति)+++ स॑ङ्ग्रही॒तुर्गृ॒हे ।
मूलम्
आ॒श्वि॒नन्द्वि॑कपा॒लँ+++(निर्वपति)+++ स॑ङ्ग्रही॒तुर्गृ॒हे ।
भट्टभास्कर-टीका
संग्रहीता भाण्डागारिकः ।
मूलम्
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॑ ।
ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ्क॑रोति ।
स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॒ ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ्क॑रोति ।
स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
अ॒श्विनौ॒ वै दे॒वाना॑म्भि॒षजौ॒ ताभ्या॑म् ए॒वास्मै॑ भेष॒जङ्क॑रोति ।
स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
सवात्यौ वत्सान्तरेण दोह्या मृतवत्सा । अन्यदीयं वत्सं समानं वात इति सवात्यौ । वातेश्शतरि उगितश्च’इति ङीप् ।
विश्वास-प्रस्तुतिः
पौ॒ष्णञ्च॒रुम् +++(निर्वपति)+++भा॑गदु॒घस्य॑ गृ॒हे ॥20॥
मूलम्
पौ॒ष्णञ्च॒रुम् +++(निर्वपति)+++भा॑गदु॒घस्य॑ गृ॒हे ॥20॥
मूलम्
अन्नव्ँ॒ वै पू॒षा ।अन्न॑मे॒वाव॑रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
अन्नव्ँ॒ वै पू॒षा, +अन्न॑म् ए॒वाव॑रुन्धे , श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
अन्नव्ँ॒ वै पू॒षा, +अन्न॑म् ए॒वाव॑रुन्धे , श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
भागदुघः माहानसिकः गोपालाध्यक्ष इत्येके । ‘दुहः कब्धश्च’इति घः ।
विश्वास-प्रस्तुतिः
रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम् +++(निर्वपति)+++अ॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
रौ॒द्रङ्गा॑वीधु॒कञ्च॒रुम् +++(निर्वपति)+++अ॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
अक्षावापः सभाध्यक्षः । शबलो नानावर्णः । उद्वारः ऊर्ध्ववालः ।
विश्वास-प्रस्तुतिः
द्वाद॑शै॒तानि॑ ह॒वीँषि॑ भवन्ति ।
मूलम्
द्वाद॑शै॒तानि॑ ह॒वीँषि॑ भवन्ति ।
मूलम्
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रः ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे ।
विश्वास-प्रस्तुतिः
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रस् सव्ँ॑व॒त्स॒रेणै॒वास्मै॑ रा॒ष्ट्रम् अव॑रुन्धे । रा॒ष्ट्रम् ए॒व भ॑वति ॥21॥
मूलम्
द्वाद॑श॒ मासा॑स् सव्ँवत्स॒रस् सव्ँ॑व॒त्स॒रेणै॒वास्मै॑ रा॒ष्ट्रम् अव॑रुन्धे । रा॒ष्ट्रम् ए॒व भ॑वति ॥21॥
भट्टभास्कर-टीका
द्वादशेत्यादि । गतम् ॥
मूलम्
यन्न प्र॑तिनि॒र्वपे॑त् । र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन् ।
विश्वास-प्रस्तुतिः
यन् न प्र॑तिनि॒र्वपे॑द् र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन् ।
मूलम्
यन् न प्र॑तिनि॒र्वपे॑द् र॒त्निन॑ आ॒शिषोऽव॑रुन्धीरन् ।
भट्टभास्कर-टीका
5 यन्न प्रतिं निर्वपेदिति ॥ यदि प्रत्यागत्य गृहे न निर्वपेत् रत्निन एवाशिषः फलानि अवरुन्धीरन् ।
मूलम्
प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् ।
विश्वास-प्रस्तुतिः
प्रति॒निर्व॑प॒तीन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् ।
मूलम्
प्रति॒निर्व॑प॒तीन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालम् ।
मूलम्
इन्द्रा॑याँहो॒मुचे॑ । आ॒शिष॑ ए॒वाव॑रुन्धे ।
विश्वास-प्रस्तुतिः
इन्द्रा॑याँहो॒मुच॑ आ॒शिष॑ ए॒वाव॑रुन्धे ।
मूलम्
इन्द्रा॑याँहो॒मुच॑ आ॒शिष॑ ए॒वाव॑रुन्धे ।
भट्टभास्कर-टीका
तस्मात्प्रत्यागत्य यजमानस्य गृहे इन्द्राय सुत्राम्णे इन्द्रायांहोमुचे निर्वपेत् । स्वयमेवाशिषोऽवरुन्धे ।
मूलम्
अ॒यन्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्ँव॑ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ।
विश्वास-प्रस्तुतिः
“अ॒यन् नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्ँ् व॑ध्या॒दि"त्य् आ॑ह ,+ आ॒शिष॑म् ए॒वैतामाशा॑स्ते ।
मूलम्
“अ॒यन् नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रव्ँ् व॑ध्या॒दि"त्य् आ॑ह ,+ आ॒शिष॑म् ए॒वैतामाशा॑स्ते ।
भट्टभास्कर-टीका
‘अयं नो राजा’ इति पुरस्तात् स्विष्टकृतोऽध्वर्युर्जपति । वृत्रं वध्यादिति आशिषमनेनाशास्ते ॥
मूलम्
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम्भ॑वति । श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे ॥22॥
विश्वास-प्रस्तुतिः
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम् भ॑वति , श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे ॥22॥
मूलम्
मै॒त्रा॒बा॒र्ह॒स्प॒त्यम् भ॑वति , श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे ॥22॥
भट्टभास्कर-टीका
6 मेत्राबार्हस्पत्यमिति ॥ अभिषेचनीये उक्थ्ये दीक्षणीया द्विहविष्केयमिष्टिः । मैत्रश्च बार्हस्पत्यश्च । श्वेतायाः श्वेतवत्सायाः दुग्धे बार्हस्पत्यः । तत्प्रभवे आज्ये मैत्रः, ‘येऽकर्णास्स आज्ये मैत्रः’ इति दर्शनात् ।
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्ये मै॒त्रमपि॑-दधाति ।
मूलम्
बा॒र्ह॒स्प॒त्ये मै॒त्रमपि॑-दधाति ।
भट्टभास्कर-टीका
बार्हस्पत्ये मैत्रमपिदधाति मैत्राबार्हस्पत्यमपिदधाति ।
विश्वास-प्रस्तुतिः
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रञ् च॑ स॒मीची॑ दधाति ।
मूलम्
ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रञ् च॑ स॒मीची॑ दधाति ।
भट्टभास्कर-टीका
एवं ब्रह्मक्षत्रे समीची सङ्गते स्थापयति ।
विश्वास-प्रस्तुतिः
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्रम् प्रति॑-ष्ठापयति ।
मूलम्
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्रम् प्रति॑-ष्ठापयति ।
भट्टभास्कर-टीका
अपि च बार्हस्पत्ये मैत्रस्य स्थापनात् ब्रह्मणि क्षत्रं प्रतिष्ठापितं भवति ।
मूलम्
बा॒र्ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
विश्वास-प्रस्तुतिः
बा॒र्ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति , मुख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्रम॒न्वार॑म्भयति ।
मूलम्
बा॒र्ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति , मुख॒त ए॒वास्मै॒ ब्रह्म॒ सँश्य॑ति ।
अथो॒ ब्रह्म॑न्न् ए॒व क्ष॒त्रम॒न्वार॑म्भयति ।
भट्टभास्कर-टीका
बार्हस्पत्येनेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
स्व॒य॒ङ्कृ॒ता वेदि॑र् भवति । स्व॒य॒न्दि॒नम्ब॒र्हिः+++(भवति)+++ ।
मूलम्
स्व॒य॒ङ्कृ॒ता वेदि॑र् भवति । स्व॒य॒न्दि॒नम्ब॒र्हिः+++(भवति)+++ ।
भट्टभास्कर-टीका
7 स्वयंकृतेति ॥ ‘देवस्य त्वा’ इति स्फ्यादानादिकं ‘धा असि’ इत्यन्तं न क्रियते । तथा स्वयमेव लूनं बहिर्भवति । असिदादिना न छिनत्ति । स्वयं भग्नान्याहरति । दाप् लवने, इत्यनत्वे छान्दसे ।
मन्त्रः
मूलम्
स्व॒य॒ङ्कृ॒त इ॒ध्मः । अन॑भिजितस्या॒भिजि॑त्यै ।
विश्वास-प्रस्तुतिः
स्व॒य॒ङ्कृ॒त इ॒ध्मः +++(भवति)+++, अन॑भिजितस्या॒भिजि॑त्यै ।
मूलम्
स्व॒य॒ङ्कृ॒त इ॒ध्मः +++(भवति)+++, अन॑भिजितस्या॒भिजि॑त्यै ।
भट्टभास्कर-टीका
तथा स्वयंकृत इध्मः न व्रश्चनीयः । उभयत्र सन्नहनादिकं तु क्रियत एव । अनभिजितस्याप्यभिजयाय भवति ।
विश्वास-प्रस्तुतिः
तस्मा॒द्राज्ञा॒मर॑ण्यम् अ॒भि-जि॑तम् ।
मूलम्
तस्मा॒द्राज्ञा॒मर॑ण्यम् अ॒भि-जि॑तम् ।
भट्टभास्कर-टीका
यदन्यैरभिजेतुमशक्यं तदप्यभिजितं भवति तस्माद्राज्ञामरण्यमप्यभिजितं भवति ।
विश्वास-प्रस्तुतिः
सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥23॥
मूलम्
सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥23॥
भट्टभास्कर-टीका
सैवेति । यस्या दुग्धे आज्ये च चरुकॢप्तिः सैव श्वेता श्वेतवत्सा दक्षिणा ॥
इति सप्तमे तृतीयोऽनुवाकः ॥