विश्वास-प्रस्तुतिः
धा॒त्रे पु॑रो॒डाश॒न् द्वाद॑शकपाल॒न् निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वै धा॒ता ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति ।
मूलम्
धा॒त्रे पु॑रो॒डाश॒न् द्वाद॑शकपाल॒न् निर्व॑पति ।
सव्ँ॒व॒त्स॒रो वै धा॒ता ।
सव्ँ॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाᳶ प्रज॑नयति ।
भट्टभास्कर-टीका
1 धात्रे पुरोडाशमित्यादि ॥ देविकाहविषाम् ।
सायण-टीका
अत्र धात्रादीन्पञ्च देवान्दक्षिणां च प्रजोत्पत्त्युपयोगेन प्रशंसति –
“धात्रे पुरोडाशं द्वादशकपालं निर्वपति। संवत्सरो वै धाता। संवत्सरेणैवास्मै प्रजाः प्रजनयति।
विश्वास-प्रस्तुतिः
अन्वे॒वास्मा॒ अनु॑मतिर् मन्यते ।
मूलम्
अन्वे॒वास्मा॒ अनु॑मतिर् मन्यते ।
भट्टभास्कर-टीका
अनुमतिः प्रजा अनुमन्यते ।
सायण-टीका
अन्वेवास्मा अनुमतिर्मन्यते।
विश्वास-प्रस्तुतिः
रा॒ते रा॒का ।
मूलम्
रा॒ते रा॒का ।
भट्टभास्कर-टीका
राका राते ददाति ।
सायण-टीका
राते राका।
विश्वास-प्रस्तुतिः
प्र सि॑नीवा॒ली ज॑नयति ।
मूलम्
प्र सि॑नीवा॒ली ज॑नयति ।
भट्टभास्कर-टीका
सिनीवाली प्रजनयति ।
विश्वास-प्रस्तुतिः
प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न् दधाति ।
मूलम्
प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न् दधाति ।
भट्टभास्कर-टीका
कुह्वा प्रजासु वाचं दधाति ।
विश्वास-प्रस्तुतिः
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
मिथुनौ स्त्रीपुंसौ गावौ । मिथुनत्वात् सृष्टिसमृद्धिर्भवति ॥
सायण-टीका
संवत्सरकालस्वामी धाता गर्भधारणमारभ्य संवत्सरादर्वागेव प्रजोत्पत्तिं कारयति। अनुमतिदेवता यजमानार्थं प्रजोत्पत्तिमङ्गी करोति। राका तु पुत्रपुष्ट्यादिरूपं राते ददाति। सिनीवाली तद्रुपं गर्भं निःसारयति। कुहूदेवतयाऽर्ध्वयुः प्रजासु वाचमुच्चारयितुं सामर्थ्यं च दधाति।
विश्वास-प्रस्तुतिः
आ॒ग्ना॒वै॒ष्ण॒वम् एका॑दशकपाल॒न् निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वम् एका॑दशकपालम् +++(निर्व॑पति)+++॥ 10॥ वै॒ष्ण॒वन् त्रि॑कपा॒लम् +++(निर्व॑पति)+++ ।
मूलम्
आ॒ग्ना॒वै॒ष्ण॒वम् एका॑दशकपाल॒न् निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वम् एका॑दशकपालम् +++(निर्व॑पति)+++॥ 10॥ वै॒ष्ण॒वन् त्रि॑कपा॒लम् +++(निर्व॑पति)+++ ।
सायण-टीका
अथ त्रिहविष्काणि त्रीणि कर्माण्येकैकहविष्के द्वे कर्मणी च क्रमेण विधत्ते –
आग्नावैष्णवमिति। बभ्रुः कपिलः। प्रथमस्य त्रिहविष्कस्य देवता दक्षिणां च प्रशंसति –
“आग्नावैष्णवमेकादशकपालं निर्वपति। ऐन्द्रावैष्णवमेकादशकपालम् (१)। वैष्णवं त्रिकपालम्।
मूलम्
वी॒र्यव्ँ॑ वा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यव्ँ॑विष्णुः॑ ।
विश्वास-प्रस्तुतिः
वी॒र्यव्ँ॑ वा अ॒ग्निर्, वी॒र्य॑मिन्द्रो॑ वी॒र्यव्ँ॑ विष्णुः॑ ।
मूलम्
वी॒र्यव्ँ॑ वा अ॒ग्निर्, वी॒र्य॑मिन्द्रो॑ वी॒र्यव्ँ॑ विष्णुः॑ ।
भट्टभास्कर-टीका
2 वीर्यं वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् ।
विश्वास-प्रस्तुतिः
प्र॒जा ए॒व प्रजा॑ता वी॒र्ये॑ प्रति॑ष्ठापयति । तस्मा॑त् प्र॒जा वी॒र्या॑वतीः ।
मूलम्
प्र॒जा ए॒व प्रजा॑ता वी॒र्ये॑ प्रति॑ष्ठापयति । तस्मा॑त् प्र॒जा वी॒र्या॑वतीः ।
भट्टभास्कर-टीका
वीर्यावतीरिति । ‘अन्येषामपि’इति दीर्घः. । ‘वा छन्दसि’इति पूर्वसवर्णदीर्घत्वम् ।
सायण-टीका
आग्नेयादीनां वीर्यप्रदत्वात्तद्रूपत्वम्। प्रजानां स्वस्वव्यापारसामर्थ्यं वीर्यम्।
विश्वास-प्रस्तुतिः
वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा ।
मूलम्
वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा ।
मूलम्
यद्व॒ही । तेना॑ग्ने॒यः ।
विश्वास-प्रस्तुतिः
यद्व॒ही तेना॑ग्ने॒यः ।
मूलम्
यद्व॒ही तेना॑ग्ने॒यः ।
सायण-टीका
वहीत्यादीनामग्न्यादिप्रियत्वादाग्नेयादित्वम्।
मूलम्
यदृ॑ष॒भः ॥11॥
तेनै॒न्द्रः ।
विश्वास-प्रस्तुतिः
यदृ॑ष॒भस् तेनै॒न्द्रः ।
मूलम्
यदृ॑ष॒भस् तेनै॒न्द्रः ।
मूलम्
यद्वा॑म॒नः । तेन॑ वैष्ण॒वस्समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
यद्वा॑म॒नस् तेन॑ वैष्ण॒वस् समृ॑द्ध्यै ।
मूलम्
यद्वा॑म॒नस् तेन॑ वैष्ण॒वस् समृ॑द्ध्यै ।
भट्टभास्कर-टीका
वामन इत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपाल॒न् निर्व॑पति ।
मूलम्
अ॒ग्नी॒षो॒मीय॒म् एका॑दशकपाल॒न् निर्व॑पति ।
भट्टभास्कर-टीका
3 अग्नीषोमीयमिति ॥ द्यावापृथिव्यादिना छः ।
सायण-टीका
मध्यमस्य त्रिहविष्कस्य देवता दक्षिणां च प्रशंसति –
“अग्नीषोमीयमेकादशकपालं निर्वपति।
विश्वास-प्रस्तुतिः
इ॒न्द्रा॒सो॒मीय॒म् एका॑दशकपालम् +++(निर्वपति)+++।
सौ॒म्यञ्च॒रुम् +++(निर्वपति)+++।
मूलम्
इ॒न्द्रा॒सो॒मीय॒म् एका॑दशकपालम् +++(निर्वपति)+++।
सौ॒म्यञ्च॒रुम् +++(निर्वपति)+++।
भट्टभास्कर-टीका
इन्द्रासोमीयम् । छान्दसश्छः ।
मूलम्
सोमो॒ वै रे॑तो॒धाः । अ॒ग्निᳶ प्र॒जाना॑म्प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता ।
विश्वास-प्रस्तुतिः
सोमो॒ वै रे॑तो॒धा ,अ॒ग्निᳶ प्र॒जाना॑म् प्रजनयि॒ता , वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥12॥
मूलम्
सोमो॒ वै रे॑तो॒धा ,अ॒ग्निᳶ प्र॒जाना॑म् प्रजनयि॒ता , वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता ।
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥12॥
सायण-टीका
सोमो वै रेतोधाः। अग्निः प्रजानां प्रजनयिता। वृद्धानामिन्द्रः प्रदापयिता। सोम एवास्मै रेतो दधाति (३) ।
गर्भाशये निषिक्तं रेतो यथा बहिर्न निःसरति, यथा च न पूयति, तथा सोमो धारणसामर्थ्यं प्रयच्छति।
मूलम्
अ॒ग्निᳶ प्र॒जाम्प्रज॑नयति । वृ॒द्धामिन्द्र॒ᳶ प्रय॑च्छति । ब॒भ्रुर्दक्षि॑णा॒ समृ॑द्ध्यै ।
विश्वास-प्रस्तुतिः
अ॒ग्निᳶ प्र॒जाम् प्रज॑नयति , वृ॒द्धामिन्द्र॒ᳶ प्रय॑च्छति , ब॒भ्रुर् दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
अ॒ग्निᳶ प्र॒जाम् प्रज॑नयति , वृ॒द्धामिन्द्र॒ᳶ प्रय॑च्छति , ब॒भ्रुर् दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
बभ्रुः ईषत्पिङ्गलः ॥
सायण-टीका
अग्निः प्रजां प्रजनयति। वृद्धामिन्द्रः प्रयच्छति। बभ्रुर्दक्षिणा समृद्ध्यै” [ब्रा० का० १ प्र० ७ अ० २] इति।
धृतस्य च गर्भस्य पतनादिविघ्नं परिहृत्याग्निः प्रजा उत्पादयति। इन्द्रस्तूत्पन्नाः प्रजाः स्वस्वोचितगुणैरभिवृद्धा यथा भवन्ति तथा सामर्थ्यं प्रयच्छति।
विश्वास-प्रस्तुतिः
सो॒मा॒पौ॒ष्णञ् च॒रुन् निर्व॑पति ।
ऐ॒न्द्रा॒पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++।
मूलम्
सो॒मा॒पौ॒ष्णञ् च॒रुन् निर्व॑पति ।
ऐ॒न्द्रा॒पौ॒ष्णञ् च॒रुम् +++(निर्वपति)+++।
सायण-टीका
अन्त्यस्य त्रिहविष्कस्य देवता दक्षिणां च प्रशंसति–
“सोमापौष्णं चरुं निर्वपति। ऐन्द्रापौष्णं चरुम्।
मूलम्
सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
विश्वास-प्रस्तुतिः
सोमो॒ वै रे॑तो॒धाᳶ , पू॒षा प॑शू॒नाम् प्र॑जनयि॒ता , वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता, सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून् प्रज॑नयति ।
वृ॒द्धान् इन्द्र॒ᳶ प्रय॑च्छति ।
मूलम्
सोमो॒ वै रे॑तो॒धाᳶ , पू॒षा प॑शू॒नाम् प्र॑जनयि॒ता , वृ॒द्धाना॒मिन्द्र॑ᳶ प्रदापयि॒ता, सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ।
पू॒षा प॒शून् प्रज॑नयति ।
वृ॒द्धान् इन्द्र॒ᳶ प्रय॑च्छति ।
सायण-टीका
सोमो वै रेतोधाः। पूषा पशूनां प्रजनयिता। वृद्धानामिन्द्रः प्रदापयिता। सोम एवास्मै रेतो दधाति। पूषा पशून्प्रजनयति (४)। वृद्धानिन्द्रः प्रयच्छति।
आद्ये त्रिहविष्के व्यासक्तदेवतान्तःपाती यो विष्णुः स एवैकाकी वैष्णवं त्रिकपालमित्यत्रोच्यते, न त्वन्यः कश्चिदतः सहैव व्याख्यानं कृतम्। इह तु व्यासक्तदेवतान्तःपाती पूषा। कश्चित्पोषकः पुरुषविशेषः। पौष्णचरौ तु भूमिः पूषा। अतो देवताभेदात्पृथग्व्याख्यानम्।
मूलम्
पौ॒ष्णश् च॒रुर् भ॑वति । इ॒यव्ँ वै पू॒षा । अ॒स्यामे॒व प्रति॑-तिष्ठति ।
विश्वास-प्रस्तुतिः
पौ॒ष्णश् च॒रुर् भ॑वती॒यव्ँ वै पू॒षा , अ॒स्याम् ए॒व प्रति॑तिष्ठति ।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
मूलम्
पौ॒ष्णश् च॒रुर् भ॑वती॒यव्ँ वै पू॒षा , अ॒स्याम् ए॒व प्रति॑तिष्ठति ।
श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै ।
भट्टभास्कर-टीका
4 इयं वा इति ॥ पुष्टिहेतुत्वात् पूषा पृथिवी ॥
विश्वास-प्रस्तुतिः
ब॒हु वै पुरु॑षो ऽमे॒ध्यम् उप॑ गच्छति । वै॒श्वा॒न॒रन् द्वाद॑शकपाल॒न् निर्व॑पति ।
मूलम्
ब॒हु वै पुरु॑षो ऽमे॒ध्यम् उप॑ गच्छति । वै॒श्वा॒न॒रन् द्वाद॑शकपाल॒न् निर्व॑पति ।
भट्टभास्कर-टीका
5 बहु वा इत्यादि ॥ अमेध्यं अयज्ञार्हं बहूपगच्छति पुरुषो येन स्वयमभोज्यान्नः स्यात् । ‘ययतोश्चातदर्थे’इत्युत्तरपदान्तोदात्तत्वम् ।
सायण-टीका
एकहविष्के पञ्चमे कर्मणि देवतां दक्षिणां च प्रशंसति–
“बहु वै पुरुषोऽमेध्यमुपगच्छति। वैश्वानरं द्वादशकपालं निर्वपति।
मूलम्
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः । सव्ँ॒वत्स॒रेणै॒वैनँ॑ स्वदयति ।
हिर॑ण्य॒न्दक्षि॑णा ॥14॥ प॒वित्रव्ँ॒ वै हिर॑ण्यम् । पु॒नात्ये॒वैन॑म् ।
विश्वास-प्रस्तुतिः
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर् वै॑श्वान॒रस् सव्ँ॑वत्स॒रेणै॒वैनँ॑ स्वदयति ।
हिर॑ण्य॒न् दक्षि॑णा , प॒वित्रव्ँ॒ वै हिर॑ण्यम् , पु॒नात्ये॒वैन॑म् ।
मूलम्
सव्ँ॒व॒त्स॒रो वा अ॒ग्निर् वै॑श्वान॒रस् सव्ँ॑वत्स॒रेणै॒वैनँ॑ स्वदयति ।
हिर॑ण्य॒न् दक्षि॑णा , प॒वित्रव्ँ॒ वै हिर॑ण्यम् , पु॒नात्ये॒वैन॑म् ।
भट्टभास्कर-टीका
स्वदयतीति । एनं यजमानं भोज्यान्नं करोति । गतमन्यत् ॥
सायण-टीका
संवत्सरो वा अग्निर्वैश्वानरः। संवत्सरेणैवैनँ स्वदयति। हिरण्यं दक्षिणां (५) । पवित्रं वै हिरण्यम्। पुनात्येवैनम्” [ब्रा० का० १ प्र० ७ अ० २] इति।
अमेध्यत्वमशुचित्वं, तच्च बहुविधं भोजनादिकालेषु पुनः पुनः प्रवृत्तत्वात्। तत्र संवत्सरस्वामी वैश्वानरोऽग्निः संवत्सरकालेनैनं यजमानं स्वदयति मेध्यं करोति। तच्चात्रेष्टिमात्रेण लभ्यते। हिरण्यस्योच्छिष्टादिसंस्पर्शेऽपि मृद्भाण्डवत्परित्यागाभावात्पवित्रत्वम्।
विश्वास-प्रस्तुतिः
ब॒हु वै रा॑ज॒न्यो ऽनृ॑तङ् करोति ।
मूलम्
ब॒हु वै रा॑ज॒न्यो ऽनृ॑तङ् करोति ।
भट्टभास्कर-टीका
6 बहु वा इत्यादि ॥ राजन्यः क्षत्रियो बह्वनृतं वाचं करोति । ‘राजश्वशुराद्यत्"राज्ञोऽपत्ये जातिग्रहणम्’ ।
सायण-टीका
एकहविष्के षष्ठे कर्मणि देवतां [ दक्षिणां च ] प्रशंसति —
“बहु वै राजन्योऽनृतं करोति।
राजन्यः क्षत्त्रियो बहुविधमनृतमशास्त्रीयं करोति।
विश्वास-प्रस्तुतिः
उप॑ जा॒म्यै हर॑ते ।
मूलम्
उप॑ जा॒म्यै हर॑ते ।
भट्टभास्कर-टीका
किंकिमित्याह - जाम्यै अहिते उपहरते प्रणयं प्रयच्छति । जामिः भगिनीत्येके । कश्चिदाह - जामिर्जाड्यमालस्यं मरणं कंचिन्मारयितुं कस्मैचिदभिसंधित्सया धनमुपहरति । यद्वा - इदानीमुदासितव्यमिति धनं प्रेषयति । अपर आह - जामिर्जाया । कर्मणि चतुर्थी । भार्यामपि कस्मैचिदुपहरते । यद्वा - परस्य भार्यामुपेत्य अपहरति, किञ्च क्षिपति ।
सायण-टीका
उप जाम्यै हरते।
तद्यथा–जाम्यै जायायै जायात्वं संपादयितुमुपहरते यस्य कस्यचिद्गृहमुपेत्य स्त्रियं हरति।
विश्वास-प्रस्तुतिः
जि॒नाति॑ ब्राह्म॒णम् ।
मूलम्
जि॒नाति॑ ब्राह्म॒णम् ।
भट्टभास्कर-टीका
जिनाति ब्राह्मणं करातिप्रसङ्गान्निर्धनीकरोति ।
सायण-टीका
जिनाति ब्राह्मणम्।
ब्राह्मणं विद्याप्रसङ्गादिना जिनाति जयति न्यक्करोति। स्पष्टमन्यत्।
विश्वास-प्रस्तुतिः
वद॒त्य् अनृ॑तम् ।
मूलम्
वद॒त्य् अनृ॑तम् ।
भट्टभास्कर-टीका
अनृतमसत्यं च परातिसंधित्सया वदति सर्वं चेदमनृतं पापम् ।
विश्वास-प्रस्तुतिः
अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति ।
वा॒रु॒णय्ँ य॑व॒मय॑ञ् च॒रुन् निर्व॑पति ।
मूलम्
अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति ।
वा॒रु॒णय्ँ य॑व॒मय॑ञ् च॒रुन् निर्व॑पति ।
मूलम्
व॒रु॒ण॒पा॒शादे॒वैन॑म्मुञ्चति । अश्वो॒ दक्षि॑णा ।
विश्वास-प्रस्तुतिः
व॒रु॒ण॒पा॒शादे॒वैन॑म् मुञ्चत्य् अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्व॒स् समृ॑द्ध्यै ॥15॥
मूलम्
व॒रु॒ण॒पा॒शादे॒वैन॑म् मुञ्चत्य् अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒याऽश्व॒स् समृ॑द्ध्यै ॥15॥
भट्टभास्कर-टीका
अनृते च क्रियमाणे वरुणो गृह्नाति । वारुणेन वरुणपाशान्मुक्तो भवति ॥
इति सप्तमे द्वितीयोऽनुवाकः ॥
सायण-टीका
वरुणपाशादेवैनं मुञ्चति। अश्वो दक्षिणा। वारुणो हि देवतयाऽश्वः समृद्ध्यै (६)” [ब्रा० का० १ प्र० ७ अ० २] इति।
प्रतिग्रहमन्त्रे वरुणायाश्वमित्याम्नातत्वादश्वस्य वारुणत्वम्।