०१ शुनासीरीयेन्द्रतुरीयपञ्चावत्तीयापामार्गहोमाः

विस्तारः (द्रष्टुं नोद्यम्)

प्रथमेऽष्टके सप्तमः प्रश्नः राजसूयानुब्राह्मणम्‌ वैश्वदेवं काण्डम्

५ हवींषि

विश्वास-प्रस्तुतिः

एत᳓द् ब्राह्मणान्य् एव᳓ प᳓ञ्च हवीँ᳓षि ।

मूलम्

ए॒तद् ब्रा॑ह्मणान्ये॒व पञ्च॑ ह॒वीँषि॑ ।

भट्टभास्कर-टीका

1 अथ शुनासीरीयम् अधिकृत्योच्यते - एतद्ब्राह्मणान्येवेत्यादि ॥ वैश्वदेवब्राह्मणविहितान्येव पञ्च हवींषि प्रथमं भवन्ति ।

सायण-टीका

अत्र वैश्वदेवगतानामाग्नेयादीनां पञ्चानां हविषां ब्राह्मणमनुब्राह्मणं चातिदिशति–

“एतद्ब्राह्मणान्येव पञ्च हवीँषि” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

शुनासीरीयाः १२ कपालाः

विश्वास-प्रस्तुतिः

अ᳓थे᳓न्द्राय शु᳓नासी᳓राय पुरोडा᳓शन् द्वा᳓दशकपालन् नि᳓र्वपति ।

मूलम्

अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒न् द्वाद॑शकपाल॒न् निर्व॑पति ।

भट्टभास्कर-टीका

षष्ठादि विदधाति - अथेन्द्रायेत्यादि । शुनो वायुः सीर आदित्यः ताभ्यां सहित इन्द्रशब्देनोच्यते ।

सायण-टीका

अथोपदिश्यमानेषु पञ्चस्वैन्द्राग्नवैश्वदेवयोः पूर्वमेव प्रशस्तत्वादवशिष्टानि त्रीणि प्रशंसति। अथवा तयोर्विकल्पमभिप्रेत्य तदभावपक्षानुसारेण तावुपेक्ष्यावशिष्ठान्येव प्रशंसति–

“अथेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं निर्वपति।

विश्वास-प्रस्तुतिः

सव्ँवत्सरो᳓ वा᳓ इ᳓न्द्राशु᳓नासी᳓रः ।
सव्ँवत्सरे᳓णैवा᳓स्मा अ᳓न्नम् अ᳓वरुन्धे

मूलम्

सव्ँ॒व॒त्स॒रो वा इन्द्रा॒शुना॒सीरः॑ ।
सव्ँ॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒म् अव॑रुन्धे ।

भट्टभास्कर-टीका

संवत्सरो वा इति । इन्द्रश्च शुनश्च सीरश्चेत्येते संवत्सरस्य प्रवर्तकत्वात् संवत्सरः ‘सुपां सुलुक्’ इति इन्द्रशब्दात् सोराकारः । ‘देवताद्वन्द्वे च’ इति शुनासीरशब्दे आद्युदात्तः ।

वायव्यं पयः

विश्वास-प्रस्तुतिः

वायव्य᳙म् प᳓यो भवति
वायु᳓र् वै᳓ वृ᳓ष्ट्यै प्रदापयिता᳓
स᳓ एवा᳓स्मै वृ᳓ष्टिम् प्र᳓दापयति

मूलम्

वा॒य॒व्य॑म् पयो॑ भवति ।
वा॒युर्वै वृष्ट्यै॑ प्रदापयि॒ता ।
स ए॒वास्मै॒ वृष्टि॒म् प्रदा॑पयति ।

सौर १ कपालः

विश्वास-प्रस्तुतिः

सौर्य᳙ ए᳓ककपालो भवति
सू᳓र्येण वा᳓ अमु᳓ष्मिल्ँ लोके᳓ वृ᳓ष्टिर् धृता᳓ ।

मूलम्

सौ॒र्य॑ एक॑कपालो भवति ।
सूर्ये॑ण॒ वा अ॒मुष्मिल्ँ॑ लो॒के वृष्टि॑र् धृ॒ता ।

विश्वास-प्रस्तुतिः

स᳓ एवा᳓स्मै वृ᳓ष्टिन् नि᳓यच्छति ॥1॥

मूलम्

स ए॒वास्मै॒ वृष्टि॒न् निय॑च्छति ॥1॥

भट्टभास्कर-टीका

नियच्छति न्यक्पातयति ।

दक्षिणा

विश्वास-प्रस्तुतिः

द्वादशगवँ᳓ सी᳓रन् द᳓क्षिणा स᳓मृद्ध्यै ।

मूलम्

द्वा॒द॒श॒ग॒वँ सीर॒न् दक्षि॑णा॒ समृ॑द्ध्यै ।

भट्टभास्कर-टीका

द्वादशगवमिति । द्वादशभिर्गोभिर्युक्तं लाङ्गलं ‘गोरतद्धितलुकि’इत्यच् समासान्तः ॥

ऐन्द्रः

आख्यायिका

विश्वास-प्रस्तुतिः

देवासुरा᳓स् सय्ँ᳓यत्ता आसन् ।
ते᳓ देवा᳓ अग्नि᳓म् अब्रुवन् । “त्व᳓या वीरे᳓णा᳓सुरान् अभि᳓भवामे᳓“ति ।

सो ऽब्रवीत् - “त्रेधा᳓ ऽह᳓म् आत्मा᳓नव्ँ वि᳓करिष्य” इ᳓ति ।

मूलम्

दे॒वा॒सु॒रास् सय्ँय॑त्ता आसन् ।
ते दे॒वा अ॒ग्निम॑ब्रुवन् । “त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मे"ति॑ ।

सो॑ ऽब्रवीत् - “त्रे॒धाऽहमा॒त्मानव्ँ॒विक॑रिष्य॒” इति॑ ।

भट्टभास्कर-टीका

2 देवासुरा इत्यादिरिन्द्रतुरीयस्य विधिः । त्रेधति। त्रिप्रकारमात्मानं विकरिष्ये विभक्ष्ये इति ।

सायण-टीका

इन्द्रतूर्यं (तुरीयं) विधातुं प्रस्तौति–

“देवासुरा संयत्ता आसन् । ते देवा अग्निमब्रुवन्। त्वया वीरेणासुरानभिभवामेति । सोऽब्रवीत्। त्रेधाऽहमात्मानं विकरिष्य इति।

विश्वास-प्रस्तुतिः

स᳓ त्रेधा᳓ ऽऽत्मा᳓नव्ँ व्य᳙कुरुत । अग्नि᳓न् तृ᳓तीयम् ।
रुद्र᳓न् तृ᳓तीयम् ।
व᳓रुणन् तृ᳓तीयम् ॥2॥

मूलम्

स त्रे॒धाऽऽत्मान॒व्व्ँय॑कुरुत । अ॒ग्निन् तृती॑यम् । रु॒द्रन् तृती॑यम् । वरु॑ण॒न् तृती॑यम् ॥2॥

भट्टभास्कर-टीका

अग्न्यादीन्स्त्रीन् स्वात्मनो विभागान् पृथक् स्थापितवान् । ‘पूरणाद्भागे तीयादन्’इति तृतीयशब्दो अन्प्रत्ययान्त आद्युदात्तः ।

सायण-टीका

वीरत्वसिद्धये शरीरत्रयरूपेण विकारः।

विश्वास-प्रस्तुतिः

सोऽब्रवीत् ।
“क᳓ इद᳓न् तुरी᳓यम्” इ᳓ति ।

मूलम्

सो॑ऽब्रवीत् । “क इ॒दन् तु॒रीय॒"मिति॑ ।

भट्टभास्कर-टीका

एवमात्मानं त्रेधा विकृत्य अग्निरब्रवीत् - एवमग्न्यादयस्त्रीणि रूपाणि ममाभवन् । अथ को मे चतुर्थं रूपं स्यात् । ‘चतुरश्छयतौ’इति छः ।

सायण-टीका स त्रेधा विकृतोऽग्निरिन्द्रं प्रति पप्रच्छ– मयेदं रूपत्रयं युद्धसमर्थं संपादितम्। अथ कोऽन्य इदं चतुर्थं रूपं विजयसमर्थं करिष्यतीति।
विश्वास-प्रस्तुतिः

“अह᳓म्” इ᳓ती᳓न्द्रो ऽब्रवीत् ।
“स᳓न्तु᳓ सृजावहा” इ᳓ति ।

मूलम्

“अ॒हम्” इतीन्द्रो॑ ऽब्रवीत् । “सन्तु सृ॑जावहा॒” इति॑ ।

भट्टभास्कर-टीका

अथ इन्द्रोऽब्रवीत् अहं चतुर्थं रूपं तव स्यामिति ।

अथाग्निरब्रवीत् तथा क्रियतामिति । किं तु आवां संसृजावहै एकीभवाव, यथा मम त्वं वयस्यः ।

सायण-टीका

अहमेव करिष्यामीतीन्द्रोऽब्रवीत्तत्त्वया तथा क्रियतां किंत्वावां युद्धविजयक्षमौ संसृष्टौ भवावेति।

विश्वास-प्रस्तुतिः

तौ᳓ स᳓मसृजेताम् । स᳓ इ᳓न्द्रस् तुरी᳓यम् अभवत् ।

मूलम्

तौ सम॑सृजेताम् । स इन्द्र॑स् तु॒रीय॑म् अभवत् ।

विश्वास-प्रस्तुतिः

य᳓द् इ᳓न्द्रस् तुरी᳓यम् अ᳓भवत् । त᳓द् इन्द्र-तुरीय᳓स्येन्द्रतुरीयत्व᳓म् ।

मूलम्

यदिन्द्र॑स् तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरी॒यस्ये॑न्द्रतुरीय॒त्वम् ।

भट्टभास्कर-टीका

अथ तौ तथैव कर्तव्यमिति समसृजेताम् । ततस्स इन्द्रस्तुरीयं रूपमग्नेरभवत् । तस्माच्चतुर्थी देवता इन्द्रोऽभूदिति इन्द्रतुरीयत्वम् । बहुव्रीहौ छान्दसमन्तोदात्तत्वम् ।

सायण-टीका

यदिन्द्रस्तुरीयमभवत् । तदिन्द्रतुरीयस्येन्द्रतुरीयत्वम् ।

इन्द्र एव तुरीयो यस्मिन्कर्मणि तत्कर्मेन्द्रतुरीयम्। अत्रान्यदीयरूपापेक्षया तुरीयत्वमनुष्ठाने तु पाठक्रमेण वरुणस्तुरीयः।

विश्वास-प्रस्तुतिः

त᳓तो वै᳓ देवा᳓ व्यजयन्त ।
य᳓द् इन्द्रतुरीय᳓न् निरुप्य᳓ते वि᳓जित्यै ॥3॥

मूलम्

ततो॒ वै दे॒वा व्य॑जयन्त ।
यदि॑न्द्रतुरी॒यन् नि॑रु॒प्यते॒ विजि॑त्यै ॥3॥

सायण-टीका

ततो वै देवा व्यजयन्त” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

विधत्ते –

“यदिन्द्रतुरीयं निरुप्यते विजित्यै (३) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

दक्षिणा

विश्वास-प्रस्तुतिः

वहि᳓नी धेनु᳓र् द᳓क्षिणा ।

मूलम्

व॒हिनी॑ धे॒नुर् दक्षि॑णा ।

सायण-टीका

चतुर्देवप्रियांशसंपादनेन दक्षिणां प्रशंसति–

“वहिनी धेनुर्दक्षिणा।

मूलम्

यद्व॒हिनी॑ । तेना॑ग्ने॒यी ।
यद्गौः । तेन॑ रौ॒द्री ।
यद्धे॒नुः । तेनै॒न्द्री ।
यत्स्त्री स॒ती दा॒न्ता ।
तेन॑ वारु॒णी समृ॑द्ध्यै ।

विश्वास-प्रस्तुतिः

य᳓द् वहि᳓नी ते᳓नाग्नेयी᳓ ।

य᳓द् गौ᳓स् ते᳓न रौद्री᳓ ।

य᳓द् धेनु᳓स् ते᳓नैन्द्री᳓ ।

य᳓त् स्त्री᳓ सती᳓ दान्ता᳓ ते᳓न वारुणी᳓ स᳓मृद्ध्यै ।

मूलम्

यद् व॒हिनी॒ तेना॑ग्ने॒यी ।

यद् गौस् तेन॑ रौ॒द्री ।

यद् धे॒नुस् तेनै॒न्द्री ।

यत् स्त्री स॒ती दा॒न्ता तेन॑ वारु॒णी समृ॑द्ध्यै ।

भट्टभास्कर-टीका

वहिनी धारयितृत्वसामान्यात् प्रीणयितृत्वाच्च । यस्मादियं स्त्री सती दान्ता विधेया दाम्ना वद्धा भवेति ।
तस्मात् वारुणी पाशेन बद्धत्वात्तस्याः । केचिदाहुः - स्त्री इव सती च साध्वी च दान्ता च दात्रा बद्धा च यस्मात्तस्मात् वारुणी वरुणानुग्राह्या, विपरीता तु वरुणगृहीता नश्यतीति ॥

पञ्चावत्तीयम्

आख्यायिका

विश्वास-प्रस्तुतिः

प्रजा᳓पतिर् यज्ञ᳓म् असृजत ॥4॥
तँ᳓ सृष्टँ᳓ र᳓क्षाँस्य् अजिघाँसन् ।

मूलम्

प्र॒जाप॑तिर् य॒ज्ञम॑सृजत ॥4॥
तँ सृ॒ष्टँ रक्षाँ॑स्यजिघाँसन् ।

भट्टभास्कर-टीका

3 प्रजापतिर्यज्ञमित्यादि ॥ पञ्चावत्तीयविधिः । अजिघांसन् हन्तुमैच्छन् ।

सायण-टीका

तदेतत्पञ्चेध्मीयं विधातुं प्रस्तौति –
“प्रजापतिर्यज्ञमसृजत (४)। तँ सृष्टँ रक्षाँस्यजिघाँसन्।

विश्वास-प्रस्तुतिः

स᳓ एताᳶ᳓ प्रजा᳓पतिर् आत्म᳓नो देव᳓ता नि᳓रमिमीत ।
ता᳓भिर् वै᳓ स᳓ दिग्भ्यो᳓ र᳓क्षाँसि प्रा᳓णुदत ।

मूलम्

स ए॒ताᳶ प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॒ निर॑मिमीत ।
ताभि॒र् वै स दि॒ग्भ्यो रक्षाँ॑सि॒ प्राणु॑दत ।

भट्टभास्कर-टीका

स एता इति । ‘अग्नये रक्षोघ्ने स्वाहा, यमाय, सवित्रे, वरुणाय, बृहस्पतये दुवस्वते रक्षोघ्ने’ इत्येता एकनेत्रकाश्च प्रागदिदिक्स्थिता उत्पादितत्वात् ।

फलम्

विश्वास-प्रस्तुतिः

य᳓त् पञ्चावत्ती᳓यञ् जुहो᳓ति,
दिग्भ्य᳓ एव᳓ त᳓द् य᳓जमानो र᳓क्षाँसि प्र᳓णुदते ।

मूलम्

यत् प॑ञ्चाव॒त्तीय॑ञ् जु॒होति॑ । दि॒ग्भ्य ए॒व तद् यज॑मानो॒ रक्षाँ॑सि॒ प्रणु॑दते ।

भट्टभास्कर-टीका

यत्पञ्चावत्तीयमिति । दिक्षु मध्ये आहवनीयं व्युद्धृत्य पञ्चगृहीतं गृहीत्वा पञ्चाहुतीर्जुहोति - ‘ये देवाः पुरस्सदः'1इत्याद्यैः ।

सायण-टीका

विधत्ते –
“यत्पञ्चावत्तीयं जुहोति। दिग्भ्य एव तद्यजमानो रक्षाँसि प्रणुदते” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।
पञ्चकृत्वोऽवदाय संपादितमाज्यं पञ्चावत्तीयम्।

रक्षोदाहः

विश्वास-प्रस्तुतिः

“स᳓मूढँ र᳓क्षस् स᳓न्दग्धँ र᳓क्ष” इ᳓त्य् आह ,
र᳓क्षाँस्येव᳓ स᳓न्दहति ।

मूलम्

समू॑ढँ॒ रक्ष॒स्सन्द॑ग्धँ॒ रक्ष॒ इत्या॑ह । रक्षाँ॑स्ये॒व सन्द॑हति ।

भट्टभास्कर-टीका

समूढमिति । मध्ये तेषामुपसमूहं संदहति समूहं कृत्वा दहति ‘अग्नये रक्षोघ्ने'1इत्युत्तराः पञ्चाहुतीर्जुहोति ।

सायण-टीका

समूढमित्यादिमन्त्रपाठस्तु– समूढमिति। रक्षोऽस्मत्प्रतिकूलं राक्षसजातं समूढं नाशयितुं सम्यगेकीकृतं संदग्धं च। पुनरपीदमिदानीमहं रक्षोऽभि दग्धस्य रक्षसोऽभितः सर्वतोऽवस्थितांस्तत्तदनुचरान्सम्यग्दहामि। एतन्मन्त्रपाठेन तस्य सिद्धिं दर्शयति–
“समूढँ रक्षः संदग्धँ रक्ष इत्याह। रक्षाँस्येव संदहति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

विश्वास-प्रस्तुतिः

“अग्न᳓ये रक्षोघ्ने᳓ स्वा᳓हे᳓“त्य् आह ।
देव᳓ताभ्य एव᳓ विजिग्याना᳓भ्यो भागधे᳓यङ् करोति ।

मूलम्

“अ॒ग्नये॑ रक्षो॒घ्ने स्वाहे"त्य् आ॑ह । दे॒वता॑भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑ङ् करोति ।

भट्टभास्कर-टीका

विजिग्यानाभ्यः रक्षांसि विजितवतीभ्यः । ‘सन्लिटोर्जेः’इति कुत्वत् ।

सायण-टीका

अग्नये रोक्षोघ्न इति मन्त्रपाठस्तु –
अग्नय इति। यमायेत्यादिषु रक्षोघ्ने स्वाहेत्यनुषज्यते। बृहस्पतेर्दुवस्वत इति विशेषणम्। परिचर्यावदि(त इ)त्यर्थः।
अग्नियमादयो जितवन्त इति युक्तस्तद्धोम इति दर्शयति–

“अग्नये रक्षोघ्ने स्वाहेत्याह। देवताभ्य एव विजिग्यानाभ्यो भागधेयं करोति” (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

विजिग्यानाभ्यो विशेषेण जितवतीभ्यः।

दक्षिणा

विश्वास-प्रस्तुतिः

प्रष्टिवाही᳓ र᳓थो द᳓क्षिणा स᳓मृद्ध्यै ॥5॥

मूलम्

प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥5॥

भट्टभास्कर-टीका

प्रष्टिवाही । व्याख्यातः1 । त्रिभिर्युक्तः वीर्यातिशयात् समृद्धिः । केचित्तु - प्रष्टिवाही विकल्प्यते । यस्मिन्नह्नि इन्द्रतुरीयं कर्म क्रियते तस्यां रात्र्यामिदं पञ्चेध्मीयं कर्म ॥

सायण-टीका

देयं रथं विधत्ते –
प्रष्टिवाहीति। त्रिपादाधारवदश्वत्रयेणोह्यमानः प्रष्टिवाही।
समृद्धिहेतुत्वेन तं प्रशंसति–
“प्रष्टिवाही रथो दक्षिणा समृद्ध्यै (५) " (ब्रा॰ का॰ १ प्र॰ ७ अ॰ १) इति।

अपामार्गः

नमूचौ जयः

युद्धम्

विश्वास-प्रस्तुतिः

इ᳓न्द्रो वृत्रँ᳓ हत्वा᳓ ,
अ᳓सुरान् पराभा᳓व्य
न᳓मुचिम् आसुर᳓न् ना᳓लभत ।

मूलम्

इन्द्रो॑ वृ॒त्रँ ह॒त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चिमासु॒रन्नाल॑भत ।

भट्टभास्कर-टीका

4 इन्द्रो वृत्रं हत्वेत्यादि ॥ अन्यानसुरान् जित्वा नमुचि नामानमसुरपुत्रं नालभत हन्तुं नाशक्नोत् । असुरस्यापत्यं आसुरः, शिवादिर्द्रष्टव्यः ।

सायण-टीका

अपामार्गहोमं विधातुं प्रस्तौति––

“इन्द्रो वृत्रँ हत्वा। असुरान्पराभाव्य। नमुचिमासुरं नालभत।

इन्द्रो वृत्रधादूर्ध्वमन्यानसुरान्परिभूतान्कृत्वा नमुचिनामानमसुरं नालभत न पराभवितवान्।

विश्वास-प्रस्तुतिः

तँ᳓ शच्या᳙ ऽगृह्णात् ।

मूलम्

तँ श॒च्या॑ऽगृह्णात् ।

भट्टभास्कर-टीका

ननु असुरस्य पुत्रोप्यसुर एव तश्च नार्थस्तद्धितवृत्त्या - उच्यते - वर्णविकारेण । तं शच्या शक्तिविशेषेण मल्लवदगृह्णात् ।

सायण-टीका

अपराभूतं तं नमुचिं शच्या स्वशक्त्याऽगृह्णात्। यथा युध्यन्नेको मल्लः सकृदशक्तोऽपि धैर्यैण शक्तिमापाद्य हस्ताभ्यां प्रतिमल्लमालिङ्ग्य गृह्णाति तद्वत्।

विश्वास-प्रस्तुतिः

तौ᳓ स᳓मलभेताम् ।

मूलम्

तौ सम॑लभेताम् ।

भट्टभास्कर-टीका

अथ तौ समलभेतां अन्योन्यं संरब्धावभवताम् । कपिलकादित्वाल्लत्वविकल्पः ।

सायण-टीका

ततस्ताविन्द्रनमुची समलभेतां परस्परोपमर्दनपरौ संरब्धौ हस्ताभ्यां पादाभ्यामन्योन्यं दृढमवष्टभ्य मल्लद्वयवद्भूमौ पतितौ।

विश्वास-प्रस्तुतिः

सो +++(→नमूचिः)+++ ऽस्माद् अभि᳓शुनतरो+++(=वृद्धतरो)+++ ऽभवत् ।

मूलम्

सो॑ ऽस्माद॒भिशु॑नतरो ऽभवत् ।

भट्टभास्कर-टीका

अथ नमुचिः अस्मात् इन्द्रात् अभिशुनतरः बलेन अभिवृद्धतरोऽभवत् । श्वयतेः ‘ओदितश्च’इति निष्ठानत्वम् । संप्रसारणं, दीर्घाभवः छान्दसः ।

सायण-टीका

तदानीं स नमुचिररस्मादिन्द्रादभिशुनतरोऽभितो हस्तयोः पादयोश्च बलवत्तरोऽभूत्।

मूलम्

सो॑ऽब्रवीत् । स॒न्धाँ सन्द॑धावहै । अथ॒ त्वाऽव॑स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥6॥
न दिवा॒ न नक्त॒मिति॑ ।

विश्वास-प्रस्तुतिः

सो᳓ऽब्रवीत् ,

“सन्धाँ᳓ स᳓न्दधावहा ,
अ᳓थ त्वा᳓ ऽवस्रक्ष्यामि ,
न᳓ मा शु᳓ष्केण ना᳓र्द्रे᳓णहनो ,
न᳓ दि᳓वा न᳓ न᳓क्तम्”

इ᳓ति ।

मूलम्

सो॑ऽब्रवीत् , “स॒न्धाँ सन्द॑धावहा॒ , अथ॒ त्वा ऽव॑स्रक्ष्यामि॒ , न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनो॒ ,न दिवा॒ न नक्त॒मि"ति॑ ।

भट्टभास्कर-टीका

अथ स प्रवृद्धबलो नमुचिरिन्द्रमब्रवीत् - सन्धां सन्धिं समयं संदधावहै करिष्यावः । गोपोषं पुष्णातीतिवत् सामान्यवचनो द्वितीयो द्रष्टव्यः । ‘आतश्चोपसर्गे’ इत्यङ् । यदीत्थं करिष्यते अथ त्वाऽवस्रक्ष्यामि विमोक्ष्यामि । कथमिति चेत् - अतः प्रभृति मां न शुष्केण नार्द्रेण हनः हन्याः । तथा न दिवा न च नक्तं मां हन्याः तव विमोचनस्यायं पण इति ।

सायण-टीका

ततो मुमूर्षुमिन्द्रमवलोक्य कृपालुरिदमब्रवीत् – भो इन्द्र विगृह्यमाणराजद्वयवदावां परस्पराङ्गीकारेण संधिं करवाव। अथ त्वा मुमूर्षुमवस्रक्ष्यामि मोक्षयिष्यामीति। ततः प्रहारसाधने काले च समयमेवं कृतवान् – भो इन्द्र शुष्केणाऽऽर्द्रेण वा काष्ठादिना साधनेन मां न हनो मां मा वधीर्दिवा रात्रौ च मा वधीरिति।

विश्वास-प्रस्तुतिः

स᳓ एत᳓म् अपा᳓म् फे᳓नम् असिञ्चत् ।
न᳓ वा᳓ एष᳓ शु᳓ष्को ना᳓र्द्रः᳓।

मूलम्

स ए॒तम॒पाम्फेन॑मसिञ्चत् ।
न वा ए॒ष शुष्को॒ नार्द्रो …

विश्वास-प्रस्तुतिः

व्युष्टा᳓ऽऽसी᳓द् , अ᳓नुदितस्सू᳓र्यः ।
न᳓ वा᳓ एत᳓द् दि᳓वा न᳓ न᳓क्तम् ।

मूलम्

व्यु॑ष्टाऽऽसीत् । अनु॑दित॒स्सूर्यः॑ ।

भट्टभास्कर-टीका

अथ तथेत्यभ्युपगते इन्द्रं मुमोच । अथेन्द्रस्तमभिसन्धित्सुः अपां फेनमसिञ्चत् आयुधत्वेनोत्पादितवान् न ह्येष शुष्को न चार्द्रः ।
अथ यदा रात्रिः व्युष्टाऽऽसीत् सूर्यश्चानुदितः न ह्ययं कालो दिवा अनूदितत्वाच्च सूर्यस्य । न च नक्तं विभातत्वाद्रजन्याः ।

सायण-टीका

इन्द्रश्च तं समयमङ्गीकृत्य तेन मोचितो धैर्येण स्वस्थो भूत्वा समयानुसारेण तं नमुचिं हन्तुमपां फेनमायुधं भावयित्वा तस्मिन्नमुचावसिञ्चत्। न चैवं सति समयलोपः शङ्कनीयः। यत एष फेनो नैव शुष्कः। स्पर्शे सति कठिन्याप्रतीतेः। नाप्यार्द्रस्तेन वस्त्रादेरक्लेदनात्। कालं च समयानुसारेण संपादयामास। यदा रात्रिर्व्युष्टा प्रभाताऽऽसीत्सूर्यश्चानुदितस्तदानीमन्धकाराभावान्न रात्रित्वं सूर्योदयाभावाच्‍च नैतदहः।

विश्वास-प्रस्तुतिः

त᳓स्यैत᳓स्मिल्ँ लोके᳓ ऽपा᳓म् फे᳓नेन शि᳓र उ᳓दवर्तयत् ।

मूलम्

तस्यै॒तस्मिल्ँ॑ लो॒के । अ॒पाम्फेने॑न॒ शिर॒ उद॑वर्तयत् ।

भट्टभास्कर-टीका

अथ एतस्मिन्लोके अनहोरात्रात्मके अवकाशे अपां फेनेनाशुष्कार्द्रस्वरूपेण तस्य नमुचेश्शिर उदवर्तयत् ऊर्ध्वं प्रवर्तयत् । अच्छिनदिति यावन् ।

सायण-टीका एतस्मिल्ँ लोके रात्रेरह्नश्च संधिकाले तस्य नमुचेः शिरोऽपां फेनेनोदवर्तयदुदच्छिनत्।

शिरः

विश्वास-प्रस्तुतिः

त᳓द् एनम् अ᳓न्ववर्तत - “मि᳓त्रद्रुग्” इ᳓ति ॥7॥

मूलम्

तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गिति॑ ॥7॥

भट्टभास्कर-टीका

अथ तत् उद्वर्तितं शिरः एनमिन्द्रमन्ववर्तत अन्वधावत् । किंकिं ब्रुवन् - मित्रद्रुगिति । मित्राय द्र्ह्यतीति मित्रद्रुक् । ‘सत्सूद्विष’इति क्विप्, भषभावः छान्दसः, ‘वा द्रुहमुह’इति घत्वम् । आमन्त्रिताद्युदात्तत्वम् । हे मित्रद्रोहिन्! हनिष्यसीति वदन्नन्ववर्तत ।

सायण-टीका

तच्चोच्छिन्नं शिरो हे मित्रद्रोहिन्निन्द्रेत्युच्‍चारयदेनमिन्द्रमन्ववर्तत सर्वदाऽनुगतमभूत्।

अपामार्गाः

विश्वास-प्रस्तुतिः

स᳓ एता᳓न् अपामार्गा᳓न् अजनयत् ।
ता᳓न् अजुहोत् ।
तै᳓र् वै᳓ स᳓ र᳓क्षाँस्य् अ᳓पाहत ।

मूलम्

स ए॒तान॑पामा॒र्गान॑जनयत् ।
तान॑जुहोत् ।
तैर्वै स रक्षाँ॒स्यपा॑हत ।

भट्टभास्कर-टीका

अथेन्द्रः अपामार्गान् जनयित्वा हुत्वा रक्षांसि हतवान् तेन शिरसा सह सर्वाणि रक्षांसि नाशितवान् ।

सायण-टीका

स एतानपामार्गानजनयत्। तानजुहोत्। तैर्वै स रक्षाँस्यपाहत” [ब्रा० का० १ प्र० ७ अ० १] इति।

ततस्तच्छिरो वारयितुं स इन्द्र एताल्ँ लोकप्रसिद्धानपामार्गानजनयत्। तानुत्पन्नानजुहोत्। तैरेव हुतैः स इन्द्रो नमुचेः शिरःसहितानि सर्वाण्यवशिष्टानि रक्षांसि हतवान्।

मूलम्

यद॑पामार्गहो॒मो भव॑ति । रक्ष॑सा॒मप॑हत्यै ।

विश्वास-प्रस्तुतिः

य᳓दपामार्गहोमो᳓ भ᳓वति र᳓क्षसाम᳓पहत्यै ।

मूलम्

यद॑पामार्गहो॒मो भव॑ति॒ रक्ष॑सा॒मप॑हत्यै ।

भट्टभास्कर-टीका

यदित्यादि । गतम् ॥

उल्मुकः

विश्वास-प्रस्तुतिः

एकोल्मुके᳓न यन्ति त᳓द्धि᳓ र᳓क्षसाम् भागधे᳓यम् ।

मूलम्

ए॒को॒ल्मु॒केन॑ यन्ति । तद्धि रक्ष॑साम्भाग॒धेय॑म् ।

भट्टभास्कर-टीका

5 एकेन उल्मुकेन दक्षिणाग्नेराहृतेन ॥

सायण-टीका

अङ्गविधीन्मन्त्रव्याख्यानं च क्रमेण दर्शयति –

“एकोल्मुल्केन यन्ति। तद्धि रक्षसां भागधेयम्।

विश्वास-प्रस्तुतिः

इमा᳓न् दि᳓शय्ँ यन्ति ।

मूलम्

इ॒मान् दिशय्ँ॑ यन्ति ।

मूलम्

ए॒षा वै रक्ष॑सा॒न्दिक् । स्वाया॑मे॒व दि॒शि रक्षाँ॑सि हन्ति ॥8॥

विश्वास-प्रस्तुतिः

एषा᳓ वै᳓ र᳓क्षसान्दि᳓क् ,
स्वा᳓याम् एव᳓ दिशि᳓ र᳓क्षाँसि हन्ति ॥8॥

मूलम्

ए॒षा वै रक्ष॑सा॒न्दिक् , स्वाया॑म् ए॒व दि॒शि रक्षाँ॑सि हन्ति ॥8॥

भट्टभास्कर-टीका

इमामिति । उत्तरापराम् ॥

सायण-टीका

इमां दिशं वायवीम्।

विश्वास-प्रस्तुतिः

स्व᳓कृत इ᳓रिणे जुहोति प्रदरे᳓ वा ।
एत᳓द् वै᳓ र᳓क्षसाम् आय᳓तनम् ।
स्व᳓ एवा᳓य᳓तने र᳓क्षाँसि हन्ति ।

मूलम्

स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा॑ ।
ए॒तद् वै रक्ष॑सामा॒यत॑नम् ।
स्व ए॒वायत॑ने॒ रक्षाँ॑सि हन्ति ।

भट्टभास्कर-टीका

6 स्वकृत इरिण इत्यादि ॥ व्याख्यातम् ॥

पर्ण-स्रुवः

विश्वास-प्रस्तुतिः

पर्णम᳓येन स्रुवे᳓ण जुहोति ।

मूलम्

प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति ।

मूलम्

ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षाँ॑सि हन्ति ।

विश्वास-प्रस्तुतिः

ब्र᳓ह्म वै᳓ पर्णो᳓ ब्र᳓ह्मणैव᳓ र᳓क्षाँसि हन्ति ।

मूलम्

ब्रह्म॒ वै प॒र्णो ब्रह्म॑णै॒व रक्षाँ॑सि हन्ति ।

भट्टभास्कर-टीका

पर्णमयेन पलाशेन । ‘द्व्यचश्छन्दसि’इति मयट् ।

देवस्य त्वा

विश्वास-प्रस्तुतिः

“देव᳓स्य त्वा सवितुᳶ᳓ प्रसव᳓” इ᳓त्य् आह । सवितृ᳓प्रसूत एव᳓ र᳓क्षाँसि हन्ति ।

मूलम्

“दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒व” इत्य् आ॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षाँ॑सि हन्ति ।

भट्टभास्कर-टीका

‘देवस्य त्वा’ इत्यनुद्रुत्य ‘रक्षसो वधं जुहोमि'4 इत्यपामार्गसक्तून् ।

मूलम्

ह॒तँ रक्षोऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑साँ॒ स्तृत्यै॑ ।

विश्वास-प्रस्तुतिः

“हतँ᳓ र᳓क्षो᳓ ऽवधिष्म र᳓क्ष” इ᳓त्य् आह र᳓क्षसाँ स्तृ᳓त्यै ।

मूलम्

“ह॒तँ रक्षो ऽव॑धिष्म॒ रक्ष॒” इत्य् आ॑ह॒ रक्ष॑साँ॒ स्तृत्यै॑ ।

भट्टभास्कर-टीका

अथ ‘हतं रक्षः'4 इति स्रुवमनुप्रहृत्य ‘अवधिष्म रक्षः'4 इत्युत्तिष्ठति । रक्षसां हिंसाया एव भवति ।

सायण-टीका

स्तृत्यै हननाय।

दक्षिणाः

विश्वास-प्रस्तुतिः

य᳓द् व᳓स्ते त᳓द् द᳓क्षिणा निर᳓वत्यै ।

मूलम्

यद् वस्ते॒ तद् दक्षि॑णा नि॒रव॑त्यै ।

भट्टभास्कर-टीका

तदानीं यद्वस्ते वासस्तद्दक्षिणां ददाति निरवत्त्यै निष्कृष्य रक्षांसि प्रस्थापयितुम् । क्तिन् पूर्वोक्तदिशा ।

सायण-टीका

निरवत्त्यै भागप्रदानेन निःसारणाय। स्पष्टमन्यत्।

विश्वास-प्रस्तुतिः

अ᳓प्रतीक्षमा᳓यन्ति । र᳓क्षसाम् अन्त᳓र्हित्यै ॥9॥

मूलम्

अप्र॑तीक्ष॒माय॑न्ति । रक्ष॑साम॒न्तर्हि॑त्यै ॥9॥

भट्टभास्कर-टीका

अप्रतीक्षमित्वादि । गतम् ॥

इति सप्तमे प्रथमोऽनुवाकः ॥

सायण-टीका

अप्रतीक्षमायन्ति। रक्षसामन्तर्हित्यै (९)” [ब्रा० का० १ प्र० ७ अ० १] इति।

अत्र शुनासीर्येन्द्रतुरीयपञ्चेध्मीयापामार्गहोमानां चतुर्णां कर्मभेदेऽप्येकस्मिन्नेव दिने कर्तव्यत्वादेकेनानुवाकेनोपसंग्रहः।