राजसूयानुब्राह्मणम्
विश्वास-प्रस्तुतिः
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑पति ।
जा॒ता ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते ।
मूलम्
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न् निर्व॑पति ।
जा॒ता ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते ।
भट्टभास्कर-टीका
1 प्रतिपूरुषमित्यादि ॥ यावन्तो यजमानस्य गृह्या जनास्तावत एककपालान्निर्वपति । ‘यथार्थेयदव्ययम्’ इति वीप्सायामव्ययीभावः । निरवदयते रुद्रसकाशान्निष्कृष्यावस्थाप्य रक्षति ।
विश्वास-प्रस्तुतिः
एक॒मति॑रिक्तम् +++(निर्वपति)+++।
मूलम्
एक॒मति॑रिक्तम् +++(निर्वपति)+++।
भट्टभास्कर-टीका
एकमतिरिक्तमिति । निर्वपतीत्येव ।
विश्वास-प्रस्तुतिः
ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते ।
एक॑कपाला भवन्ति ।
ए॒क॒धैव रु॒द्रन् नि॒रव॑दयते ।
नाभिघा॑रयति ।
मूलम्
ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान् नि॒रव॑दयते ।
एक॑कपाला भवन्ति ।
ए॒क॒धैव रु॒द्रन् नि॒रव॑दयते ।
नाभिघा॑रयति ।
भट्टभास्कर-टीका
एकधैवेति । एकेनैव प्रकारेणनपुनरावृत्त्या रुद्रं देवतान्तरसकाशान्निष्कृष्य अवस्थाय तर्पयति ॥
मूलम्
यद॑भिघा॒रये॑त् । अ॒न्त॒र॒व॒चा॒रिणँ॑ रु॒द्रङ्कु॑र्यात् ।
विश्वास-प्रस्तुतिः
यद॑भिघा॒रये॑द् अन्तरवचा॒रिणँ॑ रु॒द्रङ् कु॑र्यात् ।
मूलम्
यद॑भिघा॒रये॑द् अन्तरवचा॒रिणँ॑ रु॒द्रङ् कु॑र्यात् ।
भट्टभास्कर-टीका
2 अन्तरवचारिणमिति ॥ आभ्यन्तरमनुप्रविश्यानिष्टाचरणशीलं कुर्यात् । स्निग्धत्वादेनं नमुञ्चेत्ततश्चप्रजानश्येयुः ॥
विश्वास-प्रस्तुतिः
ए॒को॒ल्मु॒केन॑ यन्ति ॥ 71॥
तद्धि रु॒द्रस्य॑ भाग॒धेय॑म् ।
मूलम्
ए॒को॒ल्मु॒केन॑ यन्ति ॥ 71॥
तद्धि रु॒द्रस्य॑ भाग॒धेय॑म् ।
भट्टभास्कर-टीका
3 एकोल्मुकेनेति ॥ दक्षिणाग्नेरादाय । तद्धि रुद्रस्य भागधेयं भजनीयम् एकत्वसामान्यात् ।
मूलम्
इ॒मान्दिशय्ँ॑यन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् ।
विश्वास-प्रस्तुतिः
इ॒मान्दिशय्ँ॑ यन्त्य् ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑म् ए॒व दि॒शि रु॒द्रन् नि॒रव॑दयते ।
मूलम्
इ॒मान्दिशय्ँ॑ यन्त्य् ए॒षा वै रु॒द्रस्य॒ दिक् ।
स्वाया॑म् ए॒व दि॒शि रु॒द्रन् नि॒रव॑दयते ।
भट्टभास्कर-टीका
इमामिति । उत्तरपूर्वाम् ॥
विश्वास-प्रस्तुतिः
रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत ।
मूलम्
रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत ।
भट्टभास्कर-टीका
4 रुद्रोवा इत्यादि ॥ तादृशाहुत्यर्थं आत्मानं न प्रकाशयति । ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् ।
विश्वास-प्रस्तुतिः
“अ॒सौ ते॑ प॒शु"रिति॒ निर्दि॑शे॒द् यन् द्वि॒ष्यात् ।
मूलम्
“अ॒सौ ते॑ प॒शु"रिति॒ निर्दि॑शे॒द् यन् द्वि॒ष्यात् ।
भट्टभास्कर-टीका
तस्य नाम देवदत्तादिकं द्विषन्तं असौ तव पशुरिति नाम् नानिर्दिशेत् ।
मूलम्
यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुन्निर्दि॑शति ।
विश्वास-प्रस्तुतिः
यम् ए॒व द्वेष्टि॒ तम॑स्मै प॒शुन् निर्दि॑शति ।
मूलम्
यम् ए॒व द्वेष्टि॒ तम॑स्मै प॒शुन् निर्दि॑शति ।
भट्टभास्कर-टीका
सद्वेष्योऽस्मै पशुत्वेन निर्दिष्टो भवति ।
मूलम्
यदि॒ न द्वि॒ष्यात् । आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् ॥ 72॥
विश्वास-प्रस्तुतिः
यदि॒ न द्वि॒ष्याद् “आ॒खुस् ते॑ प॒शु"रिति॑ ब्रूयात् ॥ 72॥
मूलम्
यदि॒ न द्वि॒ष्याद् “आ॒खुस् ते॑ प॒शु"रिति॑ ब्रूयात् ॥ 72॥
भट्टभास्कर-टीका
अथयदिकश्चित्नद्विष्यात्आखुस्तेपशुरिति ब्रूयात् ।
विश्वास-प्रस्तुतिः
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑ ।
नार॒ण्यान् +++(हिनस्ति)+++।
मूलम्
न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑ ।
नार॒ण्यान् +++(हिनस्ति)+++।
भट्टभास्कर-टीका
ततस्तावतातृप्तः किञ्चिदपिपशुं नहिनस्ति ॥
विश्वास-प्रस्तुतिः
च॒तु॒ष्प॒थे जु॑होति ।
मूलम्
च॒तु॒ष्प॒थे जु॑होति ।
भट्टभास्कर-टीका
5 चतुष्पथ इति ॥ चक्षुष्पथेउल्मुकं निधायेत्येके । विकल्पइत्यन्ये ।
मूलम्
ए॒ष वा अ॑ग्नी॒नाम् पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति ।
विश्वास-प्रस्तुतिः
ए॒ष वा अ॑ग्नी॒नाम्पड्बी॑शो॒ नामा॒ग्निवत्ये॒व जु॑होति ।
मूलम्
ए॒ष वा अ॑ग्नी॒नाम्पड्बी॑शो॒ नामा॒ग्निवत्ये॒व जु॑होति ।
भट्टभास्कर-टीका
पड्बीश इति । अग्नीनां पत्सु ह िप्रदेयः यत्र पुनः पुनराधावन्ति । पत्सु प्रविष्टः पड्बीश इति पृषोदरादिः । अश्वानां संदानस्थानं पड्बीश इत्येके । तस्मात् अग्निवत िअग्नियुक्तेहुतं भवति ।
विश्वास-प्रस्तुतिः
म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति ।
स्रुग्घ्ये॑षा ।
मूलम्
म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति ।
स्रुग्घ्ये॑षा ।
मूलम्
अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य॑म् ।
विश्वास-प्रस्तुतिः
अथो॒ खल्व् अन्त॒मेन+ ए॒व हो॑त॒व्य॑म् ।
अ॒न्त॒त ए॒व रु॒द्रन् नि॒रव॑दयते ॥73॥
मूलम्
अथो॒ खल्व् अन्त॒मेन+ ए॒व हो॑त॒व्य॑म् ।
अ॒न्त॒त ए॒व रु॒द्रन् नि॒रव॑दयते ॥73॥
भट्टभास्कर-टीका
मध्यमेनेत्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
“ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒ये"त्य् आ॑ह ।
श॒रद् वा अ॒स्याम्बि॑का॒ स्वसा॑ ।
मूलम्
“ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑क॒ये"त्य् आ॑ह ।
श॒रद् वा अ॒स्याम्बि॑का॒ स्वसा॑ ।
भट्टभास्कर-टीका
6 शरद्वा इत्यादि ॥ अत्रप्रधानहोममन्त्रे- सहस्वस्राऽम्बिकयाभागं जुषस्वेत्युच्यते । शरत्हिंसा । शॄहिं सायां , ‘शॄदृभसोदिः ’ इत्यदिप्रत्ययः । ऋतुविशेषः शरत् ।
विश्वास-प्रस्तुतिः
तया॒ वा ए॒ष हि॑नस्ति ।
मूलम्
तया॒ वा ए॒ष हि॑नस्ति ।
मूलम्
यँ हि॒नस्ति॑ । तयै॒वैनँ॑ स॒ह श॑मयति ।
विश्वास-प्रस्तुतिः
यँ हि॒नस्ति॒ तयै॒वैनँ॑ स॒ह श॑मयति ।
मूलम्
यँ हि॒नस्ति॒ तयै॒वैनँ॑ स॒ह श॑मयति ।
भट्टभास्कर-टीका
सा खलु रोगबहुलत्वात्सर्वप्रजा हिनस्ति । तस्मादस्य देवस्य हिंसितुः सहचारिणी । शरद्रूपिकयावातया सहचारिण्या हिनस्ति प्रजाः । यदाह- ‘तया वा एष हिनस्ति’ इयं दुर्वृत्तादिकं हिनस्ति । तस्मात् ‘सहस्वस्रा’ इति वचनात्तयासहएनं देवं शमयति । प्रदर्शनार्थचेदं शरल्लक्षणसहचारिणीनां शक्तीनाम् । तत्र त्र्यम्बकानां शरत्प्रीत्या तामेव प्रदर्शयति ॥
विश्वास-प्रस्तुतिः
“भे॒ष॒जङ्गव॒” इत्य् आ॑ह ।
मूलम्
“भे॒ष॒जङ्गव॒” इत्य् आ॑ह ।
भट्टभास्कर-टीका
7 भेषजं गवइति ॥ चतुष्पथमग्निं परिषिञ्चति ।
मूलम्
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शवः॑ । तेभ्यो॑ भेष॒जङ्क॑रोति ।
विश्वास-प्रस्तुतिः
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स् तेभ्यो॑ भेष॒जङ् क॑रोति ।
मूलम्
याव॑न्त ए॒व ग्रा॒म्याᳶ प॒शव॒स् तेभ्यो॑ भेष॒जङ् क॑रोति ।
भट्टभास्कर-टीका
यावन्तइति । ‘गवेश्वाय’ इत्यादि यथामन्त्र आहतथासर्वेभ्यः पशुभ्योभेषजं करोतियथाशरन्नहिनस्ति ॥
मूलम्
अवा॑म्ब रु॒द्रम॑दिम॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते ॥ 74॥
विश्वास-प्रस्तुतिः
“अवा॑म्ब रु॒द्रम॑दिम॒ही"त्य् आ॑हा॒शिष॑म् ए॒वैताम् आशा॑स्ते ॥ 74॥
मूलम्
“अवा॑म्ब रु॒द्रम॑दिम॒ही"त्य् आ॑हा॒शिष॑म् ए॒वैताम् आशा॑स्ते ॥ 74॥
भट्टभास्कर-टीका
8 अवाम्बरुद्रमिति यजमानोजपति ॥ आशिषमिति । ‘यथानः श्रेयसस्करत्'33 इत्यादि कामाशिषमनेन आशास्तेलभतेचतथाताम् ॥
विश्वास-प्रस्तुतिः
“त्र्य॑म्बकय्ँ यजामह॒” इत्य् आ॑ह ।
“मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दि"ति॒ वावैतदा॑ह ।
मूलम्
“त्र्य॑म्बकय्ँ यजामह॒” इत्य् आ॑ह ।
“मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दि"ति॒ वावैतदा॑ह ।
भट्टभास्कर-टीका
9 त्र्यम्बकमिति अग्निं परियन्ति ॥ अस्य मन्त्रस्य तात्पर्यमाह- मृत्योरिति । मृत्योर्मुक्षीय मुक्तो भूयासं अमृतात्मा मुक्षीयेत्येतदयं मन्त्रः प्राधान्येन एतदाह इत्यर्थः ॥
विश्वास-प्रस्तुतिः
उत्कि॑रन्ति ।
मूलम्
उत्कि॑रन्ति ।
भट्टभास्कर-टीका
10 उत्किरन्तीति ॥ ऊर्ध्वान्पुरोडाशानुदस्यन्ति ।
विश्वास-प्रस्तुतिः
भग॑स्य लीप्सन्ते ।
मूलम्
भग॑स्य लीप्सन्ते ।
भट्टभास्कर-टीका
भगस्येति चतुर्थ्यर्थे षष्ठी । भगाय ऐश्वर्याय तान्पततोलीप्सन्तेलब्धुमिच्छन्ति गृह्णन्ति । छान्दसं दीर्घत्वम् । तस्मात्भगस्यभगायवालिप्सतिअपादत्ते । केचिदाहुः - उत्किरन्तीत्ययं फलस्तुतिरिति । यउत्किरन्तितत्भगस्यलीप्सन्ते ऐश्वर्यमेवतल्लब्धुमिच्छन्तीति । ऐश्वर्यस्थानीयात्तान्ग्रहीतुमुत्किरन्तीति । तस्माद्भगस्ययोलिप्सेततान्पततोगृह्णातीतिशेषः ॥
विश्वास-प्रस्तुतिः
मूते॑-कृ॒त्वा ऽऽस॑जन्ति ।
मूलम्
मूते॑-कृ॒त्वा ऽऽस॑जन्ति ।
भट्टभास्कर-टीका
11 मूतेकृत्वेति ॥ मूते कृत्वा मूतस्थान्कृत्वा रुद्रार्थं शुष्कस्थाण्वादौ आसजन्ति आबध्नन्ति ।
मूलम्
यथा॒ जनय्ँ॑य॒ते॑ऽव॒सङ्क॒रोति॑ । ता॒दृगे॒व तत् ।
विश्वास-प्रस्तुतिः
यथा॒ जनय्ँ॑ य॒ते॑ ऽव॒सङ् क॒रोति॑ ता॒दृगे॒व तत् ।
मूलम्
यथा॒ जनय्ँ॑ य॒ते॑ ऽव॒सङ् क॒रोति॑ ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
यथाजनं जनपदादिकं यते गन्तुं प्रवृत्ताय अवसं पाथेयान्नं करोति, तादृक्तत्इति जानीयात् । यातेः शतरि’शतुरनुमः ’ इति चतुर्थ्या उदात्तत्वम् । ‘स्वरितोवाऽनुदात्तेपदादौ’ इति तस्यसं हितायां स्वरितत्वम् ॥
विश्वास-प्रस्तुतिः
“ए॒ष ते॑ रुद्र भा॒ग” इत्य् आ॑ह नि॒रव॑त्त्यै ।
मूलम्
“ए॒ष ते॑ रुद्र भा॒ग” इत्य् आ॑ह नि॒रव॑त्त्यै ।
भट्टभास्कर-टीका
12 एष ते रुद्र भाग इत्यासञ्जनमन्त्रः ॥ निरवत्त्यै इति । निष्कृष्यपृथक्त्वेनभागप्रदानार्थम् । निरवपूर्वाद्ददातेः क्तिनि ‘अचउपसर्गात्तः ’ इति तादेशः । ‘तादौच’ इत्यनन्तरस्यगतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
अप्र॑तीक्ष॒माय॑न्ति ।
मूलम्
अप्र॑तीक्ष॒माय॑न्ति ।
मूलम्
अ॒पᳶ परि॑षिञ्चति । रु॒द्रस्या॒न्तर्हि॑त्यै ।
विश्वास-प्रस्तुतिः
अ॒पᳶ परि॑षिञ्चति रु॒द्रस्या॒न्तर्हि॑त्यै ।
मूलम्
अ॒पᳶ परि॑षिञ्चति रु॒द्रस्या॒न्तर्हि॑त्यै ।
भट्टभास्कर-टीका
अप्रतीक्षं अपुनर्निरीक्षणं आयन्ति आगच्छन्ति चतुष्पथात् । अपः परिषिञ्चतिरुद्रस्यान्तर्हित्यै अन्तर्धानं रुद्रः कुर्यादिति ॥
विश्वास-प्रस्तुतिः
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते ।
मूलम्
प्र वा ए॒ते॑ऽस्माल्लो॒काच्च्य॑वन्ते ।
मूलम्
ये त्र्य॑म्बकै॒श्चर॑न्ति । आ॒दि॒त्यञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पति ।
विश्वास-प्रस्तुतिः
ये त्र्य॑म्बकै॒श्चर॑न्त्य् आदि॒त्यञ् च॒रुम् पुन॒रेत्य॒ निर्व॑पति ।
मूलम्
ये त्र्य॑म्बकै॒श्चर॑न्त्य् आदि॒त्यञ् च॒रुम् पुन॒रेत्य॒ निर्व॑पति ।
मूलम्
इ॒यव्ँ वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥75॥
विश्वास-प्रस्तुतिः
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ॥75॥
मूलम्
इ॒यव्ँ वा अदि॑तिर् अ॒स्याम् ए॒व प्रति॑तिष्ठन्ति ॥75॥
भट्टभास्कर-टीका
13 प्रवा इत्यादि ॥ अस्मात्मनुष्यलोकात् एते प्रच्यवन्ते प्रतिष्ठन्ते ये त्र्यम्बकैश्चरन्ति । तस्मात् आदित्यं अदिति देवत्यं चरुं स्वगृहमागत्य निर्वपति । अस्यां पृथिव्यामदिति नाम्न्यां पुनरागत्य प्रतिष्ठिता भवन्ति॥
इति भट्टभास्करमिश्रविरचितेयजुर्वेदभाष्येपारक्षुद्रेप्रथमेऽष्टकेषष्ठप्रपाठकेदशमोऽनुवाकः ॥
षष्ठप्रपाठकस् समाप्तः ॥